०१ प्रथमोऽध्यायः
01 Prathamo'dhyāyaḥ
श्रीश्रीगोविन्दभाष्यम् (Śrī-śrī-govinda-bhāṣyam)
श्रीश्रीगोविन्दभाष्यम्
Śrī-śrī-govinda-bhāṣyam — Commentary on the Brahma-sūtra
by श्री बलदेव विद्याभूषण
श्रीकृष्णो जयति
मङ्गलाचरणम्
सत्यं ज्ञानम् अनन्तं ब्रह्म शिवादि-स्तुतं भजद्-रूपम् ।
गोविन्दं तम् अचिन्त्यं हेतुम् अदोषं नमस्यामः ॥
सूत्रांशुभिस् तमांसि व्युदस्य वस्तूनि यः परीक्ष्यते ।
स जयति सात्यवतेयो हरिर् अनुवृत्तो नत-प्रेष्ठः ॥
अधिकरणम् १ (ब्रह्म-जिज्ञासाधिकरणम्)
प्रथमपादः । [—टीका] ॐ नमः श्रीभगवते गोविन्दाय । वेदास्तथा स्मृतगिरो यमचिन्त्यशक्ति सृष्टिस्थितिप्रलयकरणमामन्ति । तं श्यामसुन्दरमविक्रियमात्ममूर्त्तिं सर्वेश्वरं प्रणतिमात्रवशं भजामः । गजपतिरनुकम्पासम्पदा यस्य सद्यः समजनि निरबद्यः सान्द्रमानन्दमृच्छन् । निवसतु मम तस्मिन् कृष्णचैतन्यरूपे मतिरतिमधुरिम्ना दीप्यमाने मुरारौ ॥ देवाभ्यर्थनमन्दरेण मथिताद्भक्तीन्दिराभूद्यतः श्रीमद्भागवताख्यनिर्जरतरुः सत्सूत्ररन्नोत्करः । दीव्यद्गीतिसुधांशुकामृतरुचिर्ज्ञानञ्च धन्वन्तरिः स श्रीव्यासमहाम्बुधिर्विजयते प्रीत्यै समन्तां सताम् ॥ गोविन्दाभिधमिन्दिराश्रितपदं हस्तस्थरत्नादिवत् तत्त्वं तत्त्वविदुत्तमौ क्षितितले यौ दर्शयाञ्चक्रतुः । मायावादमहान्धकारपटलीसत्पुष्पवन्तौ सदा तौ श्रीरूपसनातनौ विरचिताश्चर्यौ सुवर्यौ स्तुमः ॥ यः साङ्ख्यपङ्केन कुतर्कपांशुना विवर्तगर्त्तेन च लुप्तदीधितिम् । शुद्धं व्यधाद्वाक्सुधया महेश्वरं कृष्णं स जीवः प्रभुरस्तु नो गतिः ॥ यस्य श्रीमन्नामपीयुषवर्षैरासीद्विश्वं धूतपापं किलैतत् । स्वाविर्भावोवाल्लासितानन्दसिन्धुर्जीयात् स श्रीकृष्णचैतन्यचन्द्रः ॥ भक्त्याभासेनापि तोषं दधाने धर्माध्यक्षे विश्वनिस्तारिनाम्नि । नित्यानन्दाद्वैतचैतन्यरूपे तत्त्वे तस्मिन् नित्यमास्तां रतिर्नः । सान्द्रानन्दस्यन्दिगोविन्दभाष्यं जीयादेतत् सिन्धुगाम्भीर्यजातम् । यस्मिन् सद्यः संस्तुते मानवानां मोहच्छेदी जायते तत्त्वबोधः । आनन्दतीर्थनामा सुखमयधामा यतिर्जीयात् । संसारार्णवतरणिं यमिह जनाः कीर्तयन्ति बुधाः ॥ भवति विचिन्त्या विदुषा निरवकरा गुरुपरम्परा नित्यं ॥ एकान्तित्वं सिद्ध्यति ययोदयति येन हरितोषः ॥ तथाचोक्तं— सम्प्रदायविहीना ये मन्त्रास्ते विफला मताः । अतः कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः ॥ श्रीब्रह्मरुद्रसनका वैष्णवाः क्षितिपावनाः । चत्वारस्ते कलौ भाव्या हुय्त्कले पुरुषोत्तमात् ॥ इति ॥ रामानुजं श्रीः स्वीचक्रे याध्वाचार्यं चतुर्मुखः । श्रीविष्णुस्वामिनं रुद्रे निम्बादित्यं चतुःसनः । । तत्र स्वगुरुपरम्परा यथा— श्रीकृष्ण-ब्रह्म-देवर्षि-बादरायण-संज्ञकान् । श्रीमध्व-श्रीपद्मनाभ-श्रीमन्नृहरि-माधवान् ॥ अक्षोभ्य-जयतीर्थ-श्रीज्ञानसिन्धु-दयानिधीन् । श्रीविद्यानिधि-राजेन्द्र-जयधर्मान् क्रमाद्वयम् ॥ पुरुषोत्तम-ब्रह्मण्य-व्यासतीर्थांश्च संस्तुमः । ततो लक्ष्मीपतिं श्रीमन्माधवेन्द्रञ्च भक्तितः ॥ तच्छिष्यान श्रीश्वराद्वैतनित्यानन्दान् जगद्गुरून् । देवमीश्वरशिष्यं श्रीचैतन्यञ्च भजामहे । श्रीकृष्णप्रेमदानेन येन निस्तारितं जगत् ॥ भाष्यमेतद्विरचितं बलदेवेन धीमता । श्रीगोविन्दनिदेशेन गोविन्दाख्यामगात्ततः ॥ अधीत्य सर्वान् वेदान्तान् गुरोर्लक्ष्मीधवप्रियान् । दृष्ट्वा साङ्ख्यादिशास्त्राणि भाष्यं पाठ्यमिदं बुधैः । कृतस्नानादिरासीनो गुरुः शिष्यश्च धीरधीः । पाठयेच्छृणुयाद्भाष्यं शान्तिपूर्वोत्तरं द्विजः ॥ आलस्यादप्रवृत्तिः स्यात् पुंसां यद्ग्रन्थविस्तरे । गोविन्दभाष्ये संक्षिप्ता टिप्पनी क्रियतेऽत्र तत् ৷। भाष्यं यस्य निदेशद्रचितं विद्याभूषणेनेदम् । गोविन्दः स परमात्मा ममापि सूक्ष्मं करोत्वस्मिन् ॥ आम्नायर्मूद्धरसिकाः कृष्णपादाम्भोरुहासक्ताः । सन्तः करुणावस्तो मयि प्रसादं वितन्वतामनिशम् ॥ अथ सर्ववेदेतिहासदिमहार्णवमन्थनोत्थितमीमांसापरनामधेयब्रह्मसूत्राणि वेदव्याससमाधिलब्धतदकृत्रिमभाष्यभूतसर्ववेदान्तसार-श्रीमद्भागवतानुग-श्रीकृष्ण-चैतन्यहरिस्वीकृतमध्वमुनिमतानुसारतः व्याचिख्यासुर्भाष्यकारः श्रीगोविन्दैकान्ती विद्याभूषणापरनामा बलदेवः निर्विघ्नायै तत्पूर्त्तये शिष्टाचारपरिप्राप्तशस्त्र प्रतिपाद्येष्टदेवतानमस्काररूपं मङ्गलमाचरति । सत्यमिति । तं सर्वेश्वरं नमस्यामः वयमिति स्वसतीर्थशिष्याद्यभिप्रायेण बहुवचनम् । तेन केवलाद्वैतवादैकजीववादौ च निरस्तौ । तं विशिनष्टि सत्यमित्यादिना । सत्यं प्रामाणिकं श्रुत्यादिप्रतिपन्नमिति जलाकाशादितः ज्ञानं स्वप्रकाशमिति प्रकृत्यादितः अनन्तं विभुमिति जीवेभ्यश्च व्यावृत्तिः । सेव्यत्वं व्यञ्जयन् विशिनष्टि ब्रह्मेत्यादिना । ब्रह्म सत्यात्वादिभिः सर्वज्ञ्यसार्वैश्वर्यानन्दसौन्दर्यसौहार्दादिभिश्च बृहद्भिर्गुणैर्विशिष्टं । अतएव शिवादिभिर्देवमुख्यैस्तुतं सुखपोपश्लोकितं । भजद्रूपं भजन्तो भक्ता नित्यमुक्तादयो रूपाणि मूर्त्तयो यस्येति तन्नित्यसाहित्यद्योतनाद्विचित्रानन्तलीलमित्यर्थः । भजतां रूपाणि यस्मादिति स्वसङ्कल्पेनैव पार्षदतनुप्रदमिति च । ननु स्वहेतुमेव सर्वः श्रयति न स्वाहेतुमिति चेत् तात्रह हेतुमिति । निखिलनिमित्तोपादानरूपमित्यर्थः । तथा अदोषं श्रमादिदोषरहितं । अचिन्त्यं तर्कागोचरं स्वशक्तिमात्रसहायः सृष्ट्यादि कुर्वन् श्रमादिकृतं कञ्चिदपि विकारं न लभत इति श्रुत्यादिभिः कीर्तनात् न तत्र तर्कावकाशः । सर्वमेतत् यथास्थलं विस्फूटिभावि । गोविन्दं गोपाललीलामिति सुखसेव्यत्वं सूच्यते । यद्यपि गोभूमिवेदविदित्यादिश्रौतनिरुक्तैरर्थान्तरमप्यस्ति तथापि महेन्द्रमदभित् पायान्न इन्द्रो गवामिति श्रीशुकोक्तेस्तथा व्याख्यातम् । परिकरोऽत्रालङ्कारः विशेषणैर्यत् साकूतैरुक्तिः परिकरन्तु स इति तल्लक्षणात् । साभिप्रायैरनेकैर्विशेषणैर्विशेष्यपुष्टिः परिकर इति तदर्थः । अथ सर्वेश्वरा भगवान् नन्दसूनुर्वज्रनाभप्रीत्यार्चावतारतयार्विर्भूतदनन्तरं श्रीरूपेण चाभिषिक्तः श्रीमदवृन्दाटव्यधिदेवतात्वेन यश्चकास्ति तन्निष्ठमना भाष्यकृत् तन्निदेशेनैव ब्रह्मसूत्रार्थान् विवृण्वन् तत्प्रणतिं मङ्गलमाचचार । विद्यारूपभूषणं मे प्रदापयेत्यादिभाष्यपीठकोक्तेरिति वदन्ति । तत्पक्षे त्वेवं व्याख्येयम् । तं श्रीवृन्दावनाधिष्ठातृदेवत्वेन प्रसिद्धं श्रीगोविन्दं वयं नमस्यामः । कीदृशं भजद्रूपं भजत् सेवमानो रूपस्तन्नामा महत्तमो यमिति द्वितीयान्तान्यपदार्थो बहुव्रीहिः । भजन्ति रूपाणि यमिति वा सौन्दर्यसेवितमित्यर्थः । रूपं प्रभावसौन्दर्यो इति विश्वः । अर्चासाधारणं निर्वर्त्य साक्षाद्भगवत्तां वक्तुं विशेषणानि सत्यमित्यादीनि । सत्यादिरूपं यत् परतत्त्वं तदेव भक्तानुग्रहवशादर्चारूपमित्यर्थः । ननु चित्सुखमूर्तेरर्च्यत्वं कथं तत्राह अचिन्त्यमिति । तर्कविषयमित्यर्थः । हेतुमर्चकाद्यविद्यानिवारकम् । वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे । न ते यमपुरं यान्ति शान्ति पुण्यकृतां गतिमिति स्मृतेः । पुण्यकृतां भक्तिमतां । पुण्यन्तु चार्वपीत्यमरः । इह वस्तुनिर्देशादिरूपं मङ्गलं बोध्य । नचेदमप्रमाणमफलञ्चेति वाच्यं शिष्टाचारानुमितश्रुतिप्रामाण्यात् ग्रन्थसमाप्तेः फलत्वाच्च । न च क्वचित् सत्यपि मङ्गले तस्यासमाप्तेरसति च तस्मिन् समाप्तेर्वीक्षणाद्व्यभिचार इति वाच्यं अनुरूपमङ्गलाकरणदेस्तत्करणाच्च । अन्यथा शिष्टान्तन्नाचरेयुः । वेदप्रामाण्याभ्यूपगतत्वं हि शिष्टत्वं । न च अनृतव्याघातपुनरुक्तदोषेभ्यो वेदवचनस्याप्रामाण्यमितिवाच्यं कर्मकर्तृसाधनवैगुण्यात् अभ्युपेत्य कालभेदे दोषवचनात् अनुवादोपपत्तेश्च ॥ अथ प्रत्युहाधिक्यशङ्कया शास्त्रकृत्प्रणतिञ्च मङ्गलमचरति सूत्रांशुभिरिति । स सात्यवतेयः सत्यवत्यां पराशरात् प्रकटः श्रीकृष्णद्वैपायनः स एव हरिः सूर्यश्चन्द्रो वा जयति सोत्कर्षमाविष्करोतु । हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिष्वित्यमरः । यः सूत्रांशुभिर्ब्रह्मसूत्रकिरणैस्तमंस्यज्ञानान्येव तमांसि तिमिराणि व्युदस्य विधूय वस्तूनि तत्त्वानन्येव वस्तूनि घटपटादीनि परीक्षयते प्रदर्शयति । तमः पापे तमोहज्ञाने तमो ध्वान्ते प्रकीर्त्तितमिति हड्डचन्द्रः । वस्तु द्रव्ये तथा तत्त्वे वस्तु ज्ञानेहर्थदर्शने इति त्रिकागुशेषः । स कीदृशः ? अनुवृत्ते व्यापी नतप्रेष्ठो भक्तातिप्रियः । स्वापकर्षबोधककरकपालादिसंयोगरूपव्यापारविशेषो नमधातोरर्थः स्वाधिकोत्कर्षताज्ञापकव्यापारविशेषो वा । भक्तस्य तदुभयवैशिष्ट्यात् न दोषः । समाप्तपुनरात्तत्वमिह वाक्यदोषो न मन्तव्यः तस्य सर्वैरनङ्गीकारात् । जयदेवाद्यैश्चन्द्रालोकादिष्वतएव तष्योद्देशादिकं न कृतम् । अन्यं वा विशेष्यं कल्प्यम् । रूपकमत्रालङ्कारः । तत्र साङ्गरूपकमङ्गी श्लिष्टपरम्परितन्त्वङ्गं विवेचनीयं तमोवस्तुशाब्दाविह श्लिष्टौ । तल्लक्षपञ्चोक्तम् । नियतारोपणोपायः स्यदारोपः परस्य यः । तत् परम्परितं श्लिष्टवाचिके भेदवाचिके इति ॥ यस्य कस्यचिदारोपश्चेत् प्रकृतस्यान्यतादात्म्यतयारोपणे हेतुः । स्यात् तदा परम्परितं रूपकमिति तदर्थः । इह तमःस्वज्ञानेषु श्लिष्टशब्दवाच्येषु तिमिरत्वारोपो वस्तुषु तत्त्वेषु च घटादित्वारोपः । प्रकृत्य सत्यवतेयस्य सूर्यत्वं तत्सूत्रगणस्यांशुत्वञ्चारोपयतीति लक्षणसङ्गतिः । जयतिनात्र सर्वोत्कर्षस्तदाश्रय्त्वात् व्यासस्य सर्वनमस्यत्वाक्षेपः । सर्वान्तःपाताद्ग्रन्थकर्तुश्च तन्नतिर्व्यङ्ग्या ॥ ब्रह्मसूत्राविर्भावे हेतुमाख्यायिकयाह द्वापर इति । अयमर्थः । वेदोत्सादे सति चार्वाकबौद्धकपिलादयः स्वयं विज्ञस्मन्यास्तदा कानिचिद्वेदवाक्यान्युपलभ्य तदर्थैः स्वबुद्ध्युद्भावितैरन्यैश्च दुरर्थैर्मतानि निवबन्ध । यैर्जनाः परमार्थाद्विच्योतेयुः । तथाचोक्तं भाष्यपीठकादौ इह हि सुखप्राप्तिदुःखपरिहारयोर्लोकप्रवृत्तिर्दृश्यते । तौ चोपेयभूतावुपायमन्तर न सम्भवेतामतश्चार्वाकबौद्धमतानुसारिणः कपिलादिमहर्षयश्च तत्रोपायं प्रकीर्त्तयन्ति । तत्र चैतन्यविशिष्टदेह एवात्मा देहातिरिक्त आत्मनि प्रमाणाभावात् प्रत्यक्षैकप्रमाणवादितया अनुमानादेरनङ्गीकारेण प्रामाण्याभावात् । अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । न चास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यं अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव भोक्तव्यत्वादिति चार्वाकाः । सर्वं शून्यमिति माध्यमिकबोद्धाः । बाह्यवस्तुजातमसत्यं क्षणिकविज्ञानमेवात्मा इति योगाचाराः । बाह्यं सत्यमनुमानसिद्धञ्चेति सौत्रान्तिकाः । बाह्यं सत्यं प्रत्यक्षसिद्धञ्चेति वैभाषिकाः । सुगतो देवः जगत् क्षणिकं क्षणिकविज्ञानमात्मा प्रत्यक्षमनुमानञ्च प्रमाणं दुःखायतनसमुदयमार्गाख्यानि चत्वारि तत्त्वानि तत्त्वज्ञानमेव मोक्ष इति सर्वे बौद्धः । प्रकृतिपुरुषाविवेकादस्य त्रिविधदुःखोत्पादस्तद्विवेकात् पुनरनाद्यविवेकनिवृत्तौ पुरुषं प्रति निवृत्ताधिकार प्रकृतिर्भवतीति तस्य त्रिविधस्य दुःखस्य प्रध्वंसः स्यात् । स च कार्योऽपि नित्यः अभावरूपत्वात् । स एवानन्दावाप्तिरित्युपचरितः । भारापगमे सुखी संवृत्त इतिवन्न तु तस्मात् सातिरिच्यत इति कपिलः । प्रकृतिपुरुषविवेकाभ्यासवैराग्यपरिपाकात् यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसम्प्रज्ञातसमाधेरस्य ताविति पतञ्जलिः । देहेन्द्रियादिविलक्षणणो विभुरयमात्मा नवविशेषगुणाश्रयस्तस्य द्रव्यगुणकर्मसामान्यविशेषसमवायानां साधर्म्यवैर्धर्म्याभ्यां तत्त्वज्ञानेन साक्षात्कारादीश्वरोपसनासहितान्नवानां वैशेषिकगुणानां प्रागभावेन सह वृत्तिध्वंसो भवेत् स एवानन्दावाप्तिरिति कणादः । प्रमाणप्रमेयादिषोडशपदार्थानामुद्देशलक्षणपरीक्षाभिरात्मादिद्वादशविधप्रमेयनिष्कर्षेणात्मद्वयसाक्षात्कारात् श्रवणमनननिदिध्यासनपूर्वकात् सवासनमिथ्याज्ञान निवृत्तौ तत्कार्याणां रागद्वेषमोहानां निवृत्तिस्तत्कार्ययोः प्रवृत्ति पूर्वकयोर्धर्माधर्मेयोस्ततः पूर्वार्जितकर्मणां कायवूय्हपूर्वकं भोगेन परीक्षयाद्देहान्तरानारम्भन्ततो वाधनालक्षणस्यैकविंशतिविधस्य दुःखस्यात्यन्तिकी निवृत्तिर्भवेत् सैव सुखवाप्तिरिति गौतमः । वेदोक्तैः शुभकर्मभिर्दुःखहानिः सुखलाभश्चेति जैमिनिः । तदेतदनर्थजालनिवृत्तये देवैर्विज्ञापितो भगवान् हरिर्बादरायणः सन् आविर्भूय वेदान् उद्धृत्य तान् विवभाज । तानि दुर्मतानि निराकर्तुं वास्तवं वेदार्थं निर्णेतुञ्च चतुरध्यायीमुत्तरमीमांसामाविष्चकारेत्यन्ति कथा स्कान्दी । तथाहि नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चिदन्यत् तथा जातं त्रेतायां द्वापरेऽखिलम् । गौतमस्य ऋषेः शापात् ज्ञाने त्वज्ञानतां गते । सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरःसराः । शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैविज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । अवतीर्णो महायोगी । सत्यवत्यां पराशरात् ॥ उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् । चतुर्था व्यभजत् तांश्च चतुर्विंशतिधा पुनः ॥ शतधा चैधा चैव तथैव च सहस्रधा । कृष्णो द्वादश चैव पुनस्तस्यार्थवित्तय्वे ॥ चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा । अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुरित्यादि लक्षणात् ॥ तथाच चार्वाकाद्युक्ता उपायान्तयोरात्यन्तिकयोः सिद्धये नाङ्गीकार्याः परमाचार्येण भगवता श्रीबादरायणेन सूत्रेषु तद्भाष्यभूते । श्रीमद्भागवते च तत्तन्मतानां निराकृतत्वात् । किन्तु निखिलाम्नायवेदस्य सर्वेश्वख्यस्य पुरुषोत्तमस्य स्वरूपतो गुणतश्च परिज्ञानं स्वज्ञानपूर्वकं तस्यै । कल्प्यत इति । दुर्मतानि दर्शयति वेदेष्वित्यादिना । तेषु कर्मणो निखिलपुमर्थहेतुत्वं कावीर्या यजेत वृष्टिकामः पुत्रेष्ट्या यजेत पुत्रकामः ज्योतिष्टोमेन यजेत स्वर्गकामः आचार्यकुलाद्वेदमधीतेत्यादिश्रवणात् । विष्णोस्तु कर्माङ्गत्वं विष्णुरूपाश्च यष्टव्या इत्यादिश्रवणात् । कर्मणो द्वे अङ्गे द्रव्यं देवता चेति । कुशघृतादिवत् विष्णोः कर्माङ्गत्वमाहुः । स्वर्गादेः कर्मफलस्य नित्यत्वं अक्षयं ह वै चातुर्मास्याजिनः सुकृतं भवति । अपामसोममित्यादिश्रुतेः । जीवस्य स्वतः कर्तृत्वं विज्ञानं यज्ञं तनुते एष हि द्रव्यात् प्रेष्ठेत्याश्रुतेः । प्रकृतेः स्वतः कर्तृत्वं अजामेकं लोहित शुक्लकृष्णां बह्वीः प्रजाः सृजमानां स्वरूपा इत्यादिश्रुतेः । परिच्छिन्नस्य ब्रह्मण एव जीवत्वं इन्द्रो मायाभिः पुरुरूप ईयत इत्यादिश्रुतेः । प्रतिबिम्बितस्य तस्य जीवत्वं एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदित्यादिश्रुतेः । भ्रान्तस्य जीवत्वं स एव माय्वापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रीरन्नपानादिविचित्रभोगैः स एव जाग्रत् परितुष्टिमेतीत्यादिश्रुतेः । उपलक्षणमेतत् परमाणुवादासद्वादस्वभाववादानाम् । न्यग्रोधफलमद आहवेति इदं भगवत इति भिन्धीति भिन्नं भगवत इति किमत्र पश्यसीति अत्र व्यद्रवे माधाना भगव इति असदेवेदमग्र आसीन्न तद्वेदं तर्ह्यव्याकृतमासीत् तन्नामरूपभ्यां व्याक्रियतेत्यादिश्रुतिभ्यः । चिन्मात्रेत्यादि । तत्र कः शोकः को मोह एकत्वमनुपश्यत इत्यादि श्रुतिभ्यः ॥ एषां सिद्धान्तार्थास्तु स्वपीठकभाष्याद्बोध्याः । आपातत इति । इदम्पर्यावधारणं विनाभूतात् ज्ञानादित्यर्थः । उभयत्रेति । ईश्वरे जीवे चेत्यर्थः । तत्रेश्वरस्याहमर्थत्वम् । अहमात्मा गुडाकेश इत्यादिष्वस्मदर्थात्मनोरभेदाभिधानात् । ननु महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेवचेत्यादावहमर्थस्य क्षेत्रज्ञत्वोक्तेः कथमीश्वरस्य तत्त्वमिति चेन्नैवं भ्रमितव्यम् तस्य ततोऽन्यत्वात् । अतएव सोऽकामयत बहुस्यामित्यादौ प्रधानमहदादिसर्गात् पूर्वमेव सोऽस्मदर्थ तया श्रूयते । तदात्मानमेवावैदहं ब्रह्मास्मीति श्रुतिः । अहमेवासमेवाग्रे नान्यत् यत् सदसत् परं । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहमित्यादिश्रुतेश्च । शुद्धात्मनो हरेरस्मदर्थत्वमवतारयति । तस्यानिवृत्तिश्चान्ते स्थित्युक्तेः । अत्र जीवात्मनोऽप्यस्मदर्थत्वं विलीनोऽहमिति सुषुप्तौ सुखमऽमस्वाप्सं न किञ्चिदवेदिषमिति तत्त्वेनैव तस्य परामर्शात् । यत् तु तस्यां स्वप्रकाश आत्मा । किन्तु पश्चाज्जातेनान्तःकरणेन सम्बन्धात् तत्त्वेन सोऽनुभूयत इत्याह तन्मन्दम् । अस्वाप्समित्युत्तमपुरुष प्रयोगार्हस्य अस्मदर्थस्यैव तस्यां परामर्शात् न किञ्चिदवेदिषमित्यज्ञानाद्यंशे परामर्शोपपत्तेश्च । न ह्यज्ञानादिकं निराश्रयमन्याश्रयं वा परामृश्यते अपि तु अस्मदर्थाश्रयमेव । इतरथा योऽहं श्रान्तोऽस्मि सोऽहं सुप्त्वा सुखी स्यां इतीच्छया तस्यां प्रवृत्तिः योऽहं सुप्तः सोऽहं जागर्स्मीति प्रत्यभिज्ञा च न स्यात् । किञ्चास्वाप्सीन्न किञ्चिदवेदीदिति विमर्शश्च स्यात् । किञ्च तत्रास्मदर्थापरामर्शे । एतावन्तं कालं सुप्तोऽहं वा अन्यो वेति सन्देहादिः स्यान्न तु निश्चय इति । तम्मादुभयोरहमर्थत्वं सिद्धम् । तत्र ज्ञानस्यापि ज्ञातृत्वं द्वितीये तृतीये च व्यक्तीभावि । अव्यक्तोऽपीति प्रत्यगपि भक्तिग्राह्य इत्यर्थः । प्रकृतिरिति । तस्येश्वरस्येक्षणेन कटाक्षेणवाप्तं बलं महदादिभावेन परिणामे सामर्थ्यं यया सा इत्यर्थः । ईश्वरादयश्चत्वारोऽर्था नित्या इत्यत्र भाल्ववेयश्रुतिश्च अथह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धा भूतानि भौतिकानि इति । यानि ह वा उत्पत्तिमन्ति तान्यनित्यानि । यानि ह वा अनुत्पत्तिमन्ति तानि नित्यानि । न ह्येतानि कदा नोत्पद्यन्ते नो विलीयन्ते पुरुषः प्रकृतिरात्मा काल इत्येषा श्रुतिः । स विश्वकृदिति । विश्वकृतां द्रुहिणदीनामात्मनां जीवानां योनिरुपादानं सशक्तिकात् तस्मात् तेषामुत्पत्तेः । ज्ञः सर्ववित् । गुणी प्रशस्तगुणवृन्दकः । सर्ववित् यो निखिलकलाकुशलः । सदेवेत्यत्र कालस्यापि नित्यत्वं प्रलयेऽपि तस्य प्रतीतेः । भक्तियोगेनेति श्रीभागवते सूतोक्तिः । सम्यक् प्रणिहिते समाधिं लब्धे । तदपाश्रयां ततो दूरतोऽवस्थित्वा तमाश्रयन्तीम् । यया मायया । तत्कृतं मायारचितम् । द्रव्यमुपादानम् । कर्मादिकं निमित्तम् । सन्ति कार्यक्षमा भवन्तीत्यर्थः । अस्येति श्रीभागवतस्य । स्मर्यते गरुडे अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः । गायत्रीभाष्यरूपोऽसौ वेदार्थपरिवृंहितः । पुराणानां सामरूपः साक्षाद्भगवतोदितः । द्वादशस्कन्धयुक्तोऽयं शतविच्छेदसंयुतः । ग्रन्थेऽष्टादशसहस्रः श्रीमद्भागवतभिद इति । श्रोतृप्रवृत्तये सज्जेपतस्तावच्छास्त्रार्थं दर्शयति । तत्रेति तस्यां चतुर्लक्षण्याम् । तदाप्तिर्ब्रह्मलाभः । यत्र यस्यां धर्मे । सत्यादीनि अग्निहोत्रादीनि च ग्राह्याणि । श्रद्धालुस्तदुपदिष्टवेदान्तवाक्यार्थदृढ्विश्वासवान् । शान्त्यादिमानित्यादिपदात् यमोपरतितितिक्षासमाधयः । एतेनानुरक्तस्यापि ज्ञाने अधिकारः कर्म न पङ्ग्वादेरिवेति व्यञ्जिता । वाच्यं ब्रह्म वाचकं शास्त्रं तद्भावः सम्बन्ध इत्यर्थः । विषयः शास्त्रप्रतिपाद्यः । तत्साक्षात्कारस्तत्प्राप्तिः । संशय एकस्मिन् धर्मिणि विरुद्धनानार्थविमर्शः । प्रतिकूलोऽर्थः पूर्वपक्षः । प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः । सङ्गतिः पूर्वोत्तरयोरर्थाविरोधः । सा तावत् शास्त्रसङ्गतिरध्यायसङ्गतिः पादसङ्गतिश्चेति । तत्र निखिले शास्त्रे ब्रह्मैव सपरिकरं विचार्यमिति शास्त्रसङ्गतिः । अध्यायसङ्गतिस्तु तत्र प्रथमे लक्षणे सर्वेषां वेदानामित्यादिना दर्शितास्ति । पादसङ्गतयस्तु प्रतिपादं दर्शिताः सन्ति । पूर्वोत्तराधिकरणयोर्मिथोऽवान्तरसङ्गतयश्च षट् सम्भवन्ति । आक्षेपसङ्गतिः दृष्टान्तसङ्गतिः प्रतिदृष्टान्तसङ्गतिः प्रसङ्गसङ्गतिः उपोद्घातसङ्गतिः अपवादसङ्गतिश्चेति । पूर्वाधिकरणे सिद्धान्तयुक्तिमुत्तराधिकरणे पूर्वपक्षयुक्तिञ्चान्यत्राक्षेपादिकं योज्यम् । वक्ष्यमाणमर्थं मनसि निधाय तदर्थमर्थान्तरवर्णनमुपोद्घातः । तदुक्तं चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधा इति । आश्रयाश्रयिभावादयोऽप्यत्र सङ्गतयो बोध्याः । एत यथास्थलं व्यञ्जयिष्यामः । विषयावगताविति । शास्त्राध्यायपादानामधिकरणानाञ्चार्थप्रतीतौ सत्यामित्यर्थः । विद्योतनात् स्फुरणात् । एकत्रिंशत्सूत्रस्यैकादशाधिकरणस्य प्रथमपादस्य व्याख्यानमारभते यो वै भूमेति । विपुलसुखरूपो हरिर्जिज्ञास्य इत्यर्थः । आत्मा वा इति । आत्मा परेशः अतति व्याप्नोतीत्यादिव्युत्पत्तेः । साङ्गं वेदमधीत्य तस्य फलवदर्थवबोधकत्वं वीक्ष्य तन्निर्णये स्वयं प्रवर्त्तत इति । श्रवणस्य प्राप्त्वादनुवादः । श्रवणप्रतिष्ठार्थर्त्वान्मननस्यापि सः । तस्मान्निदिध्यासनमेव विधीयत इति व्यचक्षते । तदिदं विभाव्यम् । धर्मज्ञस्य निश्चितकर्मतत्फलस्वरूपस्य । अपामेति । सोमरसपानेनामरत्वं वाक्यार्थः । अक्षयमिति । चातुर्मास्येन कर्मण य इष्टवान् तस्य सुकृतमक्षयमविनाशि भवतीत्यर्थः ॥ अथात इति । तदर्थस्य वेदार्थस्य । विमृष्टसत्त्वस्य विशुद्धचित्तस्येत्यर्थः । काम्यकर्मेति । काम्यकर्माणि पुत्त्रादिफलानि पुत्रेष्ट्यादीनि विहाय ब्रह्मज्ञानेच्छा युज्यत इत्यर्थः । अत्र इच्छाया इष्यमानप्रधानं तादृशं ज्ञानं विधित्सितम् । तच्छ वाक्यार्थज्ञानादन्यदेवोपासनाशब्दवाच्यं विज्ञाय प्रज्ञां कुर्वीतेति श्रवणात् । इहात्मानमेव लोकमुपासीत ओमित्येवात्मानं ध्यायत निदिध्यासितव्य इत्यादिवाक्यैकार्थात् विज्ञायेति वाक्यार्थज्ञानमुपकारित्वदनूद्य प्रज्ञां कुर्वीतेत्युपासनलक्षणं ज्ञानं विधीयते । नन्वधीतादिति । तत्तदवगतिः काम्यकर्मणं परिमितानित्यफलत्वप्रतीतिः परस्य हरेर्ज्ञानलभ्याक्षयानन्दत्वादिप्रतीतिश्चेत्यर्थः । तत्प्रहाणे काम्यकर्मपरित्यागे । तदुपासने ब्रह्मोपासने । ताविति संशयविपर्ययौ । अतिवर्त्य उल्लङ्ख्य निरस्येति यावत् । परमार्थे वास्तवे वस्तुनि असौ धीः स्थिरतामेतीत्यर्थः । पूर्वोक्तानर्थान् सप्रमाणान् कर्त्तुं प्रयतते । अयमर्थ इति । तमेतमिति । एतं परमात्मानं । वेदानुवचनेन ब्रह्मचारिणः दानयज्ञाभ्यां गृहिणः तपोऽनशनाभ्यां वनस्थयतयः । अनशनं भोजनसङ्कोचः । अत्र वेदानुवचनादीनि कर्माणि विविदिषूणामनुष्ठेयानि भवन्ति । तेषां ज्ञानाङ्गत्वं प्रतीयते । सत्यतपोजपादीनि चेति ज्ञानाङ्गानि भवन्तीति चशब्देनोक्तं । सत्येनेति सत्यभाषणेनेत्यर्थः । एष परमात्मा परमेश्वरः । जप्येनेति मनुवाक्यं । ब्राह्मणो जप्येन मन्त्रजप्येन संसिध्येत् कृतार्थो भवेत् । अन्यदग्निहोत्रादिकं । मैत्रः सूर्यसदृशः सूर्यदैवतो वेत्यन्ये । नारदादीनामिति भूमाधिकरणे विष्फुर्टीभावि । तद्विद्धीति । तत् परमात्मारूपं । तद्यथेति । कर्मचितो दुर्गादिः । पुण्यचितः स्वर्गादिः । सोपपत्तिकत्वात् वणवदिदं वाक्यं । परीक्ष्येति । कर्मचितान् कर्मनिष्पदितान् लोकान् परीक्षा अनित्यान् वीक्ष्य तेषु कर्मसु ब्राह्मणो वेदाभ्यासरतो निर्वेदं विरागमाद्वां प्राप्नुषात् । ननु परमात्मलोकोऽपि कर्मभिर्लभ्यः स्यादतस्तानि तदर्थमनुयेष्टानीति चेत् तत्राह नास्त्यकृत इति । अकृतो नित्यलोकः कृतेन कर्मण नास्ति न लभ्यते साधनसाध्ययोर्वैरूप्यादित्यर्थः । किन्तु ज्ञानेनैव लभ्यस्तयोः सारूप्यात् । एवमुक्तं मोक्षधर्मे मृगैर्गाणां ग्रहणं पक्षिणां पक्षिभिर्यथा । गजानाञ्च गजैरेवं ज्ञेयं ज्ञानेन गृह्यत इति । ज्ञानञ्च गुरूपसत्तिलभ्यमित्याह तद्विज्ञानार्थमिति । उपायनपाणिः सन् गुरुमुपसर्पेदित्याह समिदिति । समिदग्निहोत्रार्था अन्तःशुद्ध्यर्था वा बोध्या । गुरुं विशिनष्टि श्रोत्रियं ब्रह्मनिष्टमिति । श्रोत्रियं वेदज्ञं । अन्यथा संशयं छेत्तुं न शक्नुयात् । ब्रह्मनिष्टं भगवदनुभाविनं । अन्यथा तदुपदिष्टो हरिः शिष्यहृदि न स्फुरेत् । परास्येति स्वाभाविक स्वरूपानुबन्धिनी । स्वरूपञ्च स्वभावश्च निसर्गश्चेतमरः । अग्न्युष्णतावदस्य नैसर्गिकी शक्तिरस्ति । कीदृशीत्याह ज्ञानेति । सम्वित्सन्धिनीह्लादिनीरूपा क्रमात् सा बोध्या । श्रूयत इति सप्रमाणता दर्शिता । सर्वस्येत्यादि । शरण्यसौहार्दभक्तिवश्यतादयः सेव्यत्वहेतवो धर्माः प्रोक्ताः । अनीडाख्यं विभुमपीत्यर्थः । तमिति । तं कृष्णं पीठस्थं सिंहासने विराजमानं । तथाचेति । साङ्गं शिक्षादिषडङ्गसहितं । सशिरष्कं सोपनिषदम् । नित्यानित्येति । जगद्ब्रह्मणोरनित्यत्वनित्यत्वाभ्यां भेदं विज्ञायानित्ये जगति वितृष्णः सन् नित्यस्य ब्रह्मणो विशेषावगतये चतुरध्यायां निविष्टः स्यदित्यर्थः । विशेषाश्च रूपगुणाभिधानधामपरिकरादयो बोध्याः । अथात इत्यत्र तत्त्ववित्सत्प्रसङ्गानन्तर्यमथशब्दार्थो भाषितः । केचित् कर्मानन्तर्यमेव तदर्थं भाषन्ते । तन्निराकर्त्तुमाह न चाद् कर्मेति । तद्वतां कर्मसम्पत्तिमतां । तच्छून्यानां कर्मसम्पत्तिरहितानां । ननु यत्र कर्मसम्पत्तिविरहिणां सत्सङ्गादिमतां विद्यादयो वर्णते तत्रापि प्राग्भवे कर्मसम्पत्तिरूह्या । तस्याश्चित्तशोधकतया प्रमाणप्रतिपन्नत्वात् । न कर्मणेत्यादिश्रुतिस्तु कर्मणां साक्षान्मुक्तिहेतुत्वः निराकरोति । अतश्च कर्मानन्तर्यं नियतमिति चेन्मैवं । यत्र हरिभक्तिरेव चित्तशोधिका मुक्तिजनिका वोपदिश्यते तत्त्र कर्मानन्तर्यनियमो व्यभिचारीति । तथाहि स्मरन्ति । पिबन्ति ये भगवत आत्मनः सतामित्यादि । न च भक्तिरपि कर्मैवेति वाच्यां योगास्त्रयो मया प्रोक्ता नृणां श्रेयो विवित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कर्हिचिदित्यादिन्मरणात् । केचिन्नित्यानित्यवस्तुविवेकाद्यानन्तर्यं तदर्थः भाषन्ते । तन्निरासायाह न च नित्येति । चतुष्टयेति । नित्यानित्यवस्तुविवेक इहामुत्रफलभोगविरागः शमदमादिषट्सम्पत् मुमुक्षुत्वञ्चेति । तस्याः साधनचतुष्टयः सम्पत्तेस्तत्त्वज्ञसत्प्रसङ्गात् पूर्वं दुर्लभत्वादित्यर्थः । सत्प्रसङ्गेति । सत्प्रसङ्गेन शिक्षायां सत्यां ततः परस्मिन् काले सा सम्पत्तिर्भवितुं युक्तेत्यर्थः । शिक्षा विद्याग्रहणं विद्या च शाब्दी । तदवाप्तेति । सत्प्रसङ्गलब्धविद्या इत्यर्थः । देशिक आचार्यः । ब्रह्मविद्ययैवेति कर्मैव ज्ञानकर्मणी वा मुक्तिहेतुरिति निरस्तं । आत्मानुसन्धिप्रधानत्वादेतच्चोपरि विस्फुर्टीभावि । ईश्वरस्य बादरायणस्य । कृष्णेति श्रीवैष्णवे पराशरवाक्यं । को ह्यन्यो पुण्डरीकाक्षान्महाभारतकृद्भवेदिति वाक्यशेषः । तथापीति । तस्मादथशब्दात् । तत् मङ्गलं । तादृशस्य निष्कामकर्मादिविशुद्धस्य पुंसः । तदनन्तरं सत्सङ्गोत्तरं । अङ्कौ वृत्तिपरौ यौ तौ भाष्ये भाष्यकृता धृतौ । तावेव सूक्ष्म लिखितौ द्वयोः क्रमजिघृक्षया । पूर्वाधिकरणे तादृशस्य पुंसो ब्रह्मज्ञानेच्छा युक्तेत्युक्तं । ब्रह्मसुखन्तु परेश इति भूमात्मब्रह्मशब्दैर्विमृष्टं । ते च शब्दा जीवपक्षे सङ्गच्छेरन्नित्येवंविधाक्षेपसङ्गत्या पराधिकरणं प्रवर्त्तते
अधिकरणम् २ (जन्माद्यधिकरणम्)
जन्माद्य् अस्य यतः
छान्दोग्ये जान-श्रुतिर् ह पौत्रायणः [छा.उ. ४.१.१] इत्य् आदिर् आख्यायिका श्रूयते । तत्र हंसोक्ति-श्रवणानन्तरं सयुग्वानो रैङ्कस्य सन्निधि-गतेन जानश्रुतिना गो-निष्क-रथान् दर्शयित्वा देवतां पृष्ठो रैङ्क आह अहह हारे त्वा शूद्र तवैव सह गोभिर् अस्त्व् [छा.उ. ४.१.३] इति तं शूद्र-शब्देन सम्बोध्य पुनर् अप्य् आहृत-गो-निष्क-रथ-कन्योपहारं तम् आजहारेमाः शूद्रानेनैव मुखेनालपयिष्यथा [छा.उ. ४.२.५] इत्य् उक्त्वा संवर्ग-विद्याम् उपदिष्टवान् इति वर्ण्यते । इह भवति संशयः । वेद-विद्यायां शूद्रोऽधिक्रियते न वेति । तत्र मनुष्याधिकारोक्तिर् अविशेषात् सामर्थ्यादि-सत्त्वात् शूद्रेति श्रौत-लिङ्गात् पुराणादिषु विदुरादीनां ब्रह्मवित्त्व-दर्शनाच् च सोऽधिक्रियत इति प्राप्तौ ।
भागवत-भाष्यम् (हरिदास शास्त्री): १।१।१।
उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।
अर्थ-वादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥
इति यानि शास्त्राणि तात्पर्य-निर्णेतॄणि षड्-विधानि लिङ्गानि स्मृतानि तान्य् अपि द्वैत एव विलोक्यन्ते । तथा हि, श्वेताश्वतराः— द्वा सुपर्णा इत्य् उपक्रमः, अन्यम् ईशम् इत्य् उपसंहारः । तयोर् अन्योऽनश्नन्न् अन्योऽन्यम् ईशम् इत्य् अभ्यासः । ईश्वर-सम्बन्धि-भेदस्य शास्त्रं विना अप्रातेर् अपूर्वता । वीत-शोक इत्य् आदि फलम् । अस्य महिमानम् एति इत्य् आद्य् अर्थ-वादः । अन्योऽनश्नन्न् इत्य् उपत्तिश् चेत्य् एवम् अन्यत्राप्य् एतानि मृग्याणि ।
ननु, फलवत्य् अज्ञातेऽर्थे शास्त्र-तात्पर्यात् तादृशम् अद्वैतं तस्य गोचरः । वैकल्याज् ज्ञातत्वाच् च द्वैतम् न तद्-गोचरः । किन्तु अनूद्यमानम् एव तद् इति चेन् मैवम् । पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टंस् ततस् तेनामृतत्वम् एति इत्य् आदिना श्वेताश्वतरैस् (१.६) तत्र फलस्योक्तेः । विरुद्ध-धर्मावच्छिन्न-प्रतियोगिकतया लोके तस्याज्ञातत्वाच् च । अद्वैतं त्व् अफलम् अस्वीकाराद् अज्ञातं च शश-शृङ्गवद् असत्त्वात् । यानि च तद् अद्वैत-बोधकानि वाक्यानि क्वचिद् वीक्ष्यन्ते तानि तन्-मात्रायत्त-वृत्तिकत्व-तद्-व्याप्यत्वादिभिः शास्त्र-कृतैव सङ्गमयिष्यन्ते । शास्त्र-दृष्ट्या तूपदेशो वामदेववद् इत्य् उपरिष्ठात् ।
अथ जगज्-जन्मादि-हेतुः पुरुषोत्तमोऽविचिन्त्यत्वाद् वेदान्तेनैव बोध्यो न तु तर्कैर् इति वक्तुम् आरम्भः ।
सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे ।
नमो वेदान्त-वेद्याय गुरवे बुद्धि-साक्षिणे ॥ इति गोपाल-तापयाम् ।
तत् त्व् औपनिषदं पुरुषं पृच्छामि इति बृहद्-आरण्यके पठ्यते च ।
इह संशयः । उपास्यो हरिर् अनुमानेनोपनिषदा वा वेद्य इति । गौतमाद्यैर् मन्तव्यः इति श्रुत्या चाभ्युपगमाद् अनुमानेन स वेद्य इति प्राप्तेः ।
ननु पूर्वत्रेति । यो वै भूमेत्यत्र भूमशब्देन आत्मा वा इत्यत्र आत्मशब्देन जीवमभ्यूपेत्य सूत्रकारेण ब्रह्मजिज्ञासेत्यत्र ब्रह्मशब्देनापि तं जीवमेवाह भूमादिवाक्यात् प्राक् प्राणप्रक्रियादिसंसूचनया तत्र तत्र जीवस्यैव बोध्यत्वादित्यर्थः । अथ ब्रह्मशब्दस्य जीवे रूढत्वादपि तथेत्याह बृहदिति । जातिर्ब्राह्मणजातिः । शब्दराशिर्वेदः । रूढिर्योगमपहरतीतिन्यायात् बृहत्वगुणयोगेन भगवत्परता न वाच्येत्याशयः । यतो वा इति । यतः प्रकृतिजीवशक्तिकाद्ब्रह्मणो हेतोः । भूतानि प्राणिनः । जातानि तानि येन ब्रह्मणा स्थितिं विदन्ति । प्रयन्ति प्रलयाभिमुखानि तानि यत् प्रविशन्तीत्यर्थः । विज्ञानमिति । शरीरे विद्यमानं विज्ञानं जीवरूपं ब्रह्म चेद्वेद प्रकृतितो विविच्य जानाति तर्हि पाप्ननो हित्वा । निरवद्यः सन् सर्वान् कामान् अश्नुते प्राप्नोति कृतकृत्या भवतीत्यर्थः । ब्रह्मणो लक्षणमिति । असाधारणधर्मवचनमितरभेदार्नुमापकं वा लक्षणं । न च जगज्जन्मदिकर्तृत्वमेतत् जीवे सम्भवति तस्य तत्रासामर्थ्यादिति निरूपयिष्यति इतरव्यपदेशादिभ्यादिना अतएव जीवाद्भेदश्चानुमीयते । सूत्रे यत इति हेतौ पञ्चमी । जन्मदिषु साधारण्यात् भूमादिशब्दान् ब्रह्मणि हरौ व्युत्पादयति भूमात्मेत्यादिना । तत्रैव भगवत्येव ब्रह्मशब्दो मुख्यो वाचकः । ततोऽन्यत्र भगवतोऽन्यस्मिन् जीवे । राजादिवदिति । राजसेवकोऽपि राजा चोच्यते तद्गुणांशयोगात् । स एव भगवानेव । विप्लुष्यमानैर्दह्यमानैः । निश्रेयसाय मोक्षाय । न चात्रेति । अत्र भगवच्छब्दवाच्ये ब्रह्मणि । वस्तुत इति । बृहद्गुणयोगेन ब्रह्मत्वं श्रुत्या वर्णितं यद्यपि रूढिर्योगात् बलवती तथापि श्रुत्युक्तस्य योगार्थस्य जीवे असम्भवात् न साद्रियते । ज्ञानञ्चेति । परोक्षं शब्दः । अपरोक्षन्तु भक्त्युपासनशब्दव्यपदेश्योऽनुभवः । तत्र प्रमाणं विज्ञायेति । विज्ञाय वेदाद्विदित्वा प्रज्ञामुपासनां कुर्वीतेत्यर्थः । तत्र परमेवेति । परं विज्ञानं । पूर्वं ज्ञानं । तत्र विज्ञाने । इहोपयोगीति । इह ब्रह्मज्ञाने । एवं वक्ष्यते सूत्रकृता अन्यार्थश्च परामर्श इति । इह ब्रह्मण इति । इह जन्मादिसूत्रे । ननु व्यवहारिको भेदः परैरप्यङ्गीकृतः पारमार्थिकत्त्वभेदो भावीति चेत् तत्राह नेतरोऽनुपपत्तेरित्यादि । एषां पञ्चानामर्थास्तु भाष्ये द्रष्टव्याः
अधिकरणम् ३ (शास्त्रयोनित्वाधिकरणम्)
शास्त्र-योनित्वात्
.क्षतेर्न् एत्य् अतो नेत्य् आकृष्यम् । मुमुक्षुभिर् असौ नानुमेयः । कुतः ? शास्त्रेति । शास्त्रम् उपनिषद् योनिर् बोध-हेतुर् यस्य तत्त्वात् उपनिषद्-बोध्यत्व-श्रवणाद् इत्य् अर्थः । अन्यथौपनिषद्-असमाख्या-विरोधः । मन्तव्य इति श्रुत्या तु स्वानुसारि-तर्को ऽभ्युपगतः । पूर्वापराविरोधेन कोऽर्थोऽत्राभिमतो भवेत् इत्य् आद्यम् ऊहनं तर्कः शुष्क-तर्कं तु वर्जयेत् इत्य् आदि श्रुतेः । गौतमादि-शुष्क-तर्क-हेयत्वं तु वक्ष्यते, तर्काप्रतिष्ठानाद् इति । तस्मात् वेदान्तात् विदित्वासौ ध्येय इति । इदम् एवादुष्टं म्रमा¨¨एअम् इति सूत्रयति । श्रुतेस् तु शब्द-मूलत्वाद् इति । इत्थं च हरेर् आत्म-मूर्तित्वम् अनुभूतेर् अनुभवितृत्वं स्वात्मक-धर्माधिष्ठान-शालित्वं जगत्-कर्तृ निर्विकारत्वं चेत्य् आदि—श्रूयमाण-रूपतया तस्योपासनं सिध्यति । तत्राह न खलु तावद् वेदान्त-वाक्य-गणः प्रयोग-योग्यः सिद्धार्थ-बोधकत्वेन प्रयोजन-शून्यत्वात्, सप्त-द्वीपावसुन्धरेत्य् आदि वाक्यवत् । प्रवृत्ति-निवृत्ति-रूप-साध्यार्थ-बोधकानि वाक्यानि प्रयोजनवत्त्वात् प्रयोग-योग्यानि दृष्टानि । अर्थ-लिप्सुर् नृपं गच्छेत्, मन्दाग्निर् न जलं पिबेत्, इति लोके । सर्व-कामो यजेत, सुरां न पिबेद् इति वेदे च । न हि प्रयोजनम् अनुद्दिश्य वाक्य-प्रयोगः सम्भवति । तच् च प्रवृत्ति-निवृत्ति-साध्येष्टाप्ति-परिहारात्मकम् अवगतम् । ब्रह्म खलु परिनिष्पन्नं वस्तु । तद्-बोधकस्य सत्यं ज्ञानम् अनन्तम् इत्य् आदि-वाक्यस्य तच्-छून्यत्वान् न तद्-योग्यत्वम् । यदि कश्चित् तं प्रयुयुक्षुर् भवेत् तर्हि प्रयोजनवद् वाक्यैक-वाक्यतया तं प्रयुञ्जानस् तस्यापि तद्वत्त्वं ब्रूयात् । तस्मात् क्रतु-देवता-कर्तृ-प्रतिपादनेन तद्वान् तद्-वाक्य-गणस् तद्-योग्यो भवतीति । आह चैवं जैमिनिः । आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतद्-अर्थानां तस्माद् अनित्यत्वम् उच्यते तद्-भूतानां क्रियार्थेन समान्म्नायोऽर्थस्य तन्-निमित्तत्वाद् इति । मैवं भ्रमितव्यम् । प्रवृत्ति-निवृत्ति-बोधकता-विरहेऽपि परम-पुमर्थ-रूप-ब्रह्मास्तित्व-बोधनेनैव तस्य तद्वत्त्वात् निधि-सत्तावबोधक-वाक्यवत् । यथा त्वद्-गृहे निधिर् अस्तीत्य् आप्त-वाक्यात् तत्-प्राप्त्य्-एक-लक्षणः पुम्-अर्थस् तथाक्षयानन्द-चिद्-रूपं निरवद्य-सर्व-सुहृद्-आत्म-प्रदं मद्-अंशि ब्रह्मास्तीति तत्-सत्त्व-प्रत्ययाद् एव स इति न तद्वत्त्व-विरहः । पुत्रस् ते जातो नायं सर्पो रज्जुर् एवेत्य् आदिषु स्वरूप-परेष्व् अपि वाक्येषु हर्ष-भय-निवृत्ति-रूप-फलवत्त्वं दृष्टम् ।
किं च, स्फुटम् अस्य तद्वत्त्वं परिदृश्यते—सत्यं ज्ञानम् अनन्तं ब्रह्म यो वेद निहितं गुहायां सोऽश्नुते सर्वान् कामान् इत्य् आदिषु । न चोक्त-रीत्या क्रिया-परता तस्य शक्या वक्तुं प्रकरण-भेदात् प्रत्युत कर्म-तत्-फल-विगानात् श्रुत-हान्य-श्रुत-कल्पन-प्रसङ्गाच् च । न च निखिल-जगद्-उदयादि-कारणे नित्य-चिद्-वपुष्य् अनन्त-कल्याण-गुण-रत्नाकरे श्रीनिवासे ब्रह्मणि व्युत्पन्नं शास्त्रम् अन्य-परं शक्यं कर्तुम् । प्रमा¨¨नत्वेन स्व-विषयावगति-पर्यवसायित्वात् । न चाम्नायस्येत्य् आदि-न्यायेन जैमिनिना कर्म-परत्वं तस्य समर्थितम् इति वाच्यं तस्य ब्रह्म-निष्ठत्वात् । तस्मात् कर्म-प्रकरण-स्थानां केषांचिद् वाक्यानां स्वाथान् त्यक्त्वैव तत्-परत्वं तेन समर्थितं न त्व् अन्यत् । तस्मात् ब्रह्म-परम् एव तद् इति स्फुटम् ॥३॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।१६।४४।
अथ पूर्वार्थ-दार्ढ्याय ब्रह्मणः सर्व-वेद-वेद्यत्वम् उच्यते । योऽसौ सर्वैर् वेदैर् गीयत इति गोपालोपनिषदि । सर्वे वेदा यत्-पदम् आमनन्ति इति कठ-वल्ल्यां च पठ्यते । तत्र संशयः । सर्व-वेद-वेद्यत्वं विष्णोर् अयुक्तं न वेति । वेदेषु प्रायेण कर्म-विधान-दर्शनात् अयुक्तं तस्य तत् । वृष्टि-पुत्र-स्वर्गादि-फलकानि कारि-रिपुत्रकाम्येष्टि-ज्योतिष्टोमादीनि कर्माणि साङ्गानि सेति-कर्तव्यानि विदधतो वेदा दृश्यन्ते । ते च प्रमाणत्वेन स्व-विषयावगति-पर्यवसायिनो, विष्णु-परतया न शक्या नेतुम् इति प्राप्तेः—
उपक्रमेति बृहत्संहितावाक्यं । उपक्रमोपसंहारयोरैकरूप्यमिति षडेव लिङ्गानि । अभ्यासोऽविशेषपुनश्रुतिः । अर्थवादः प्रशंसा । उपपत्तिर्भेदे युक्तिः सा च भुञ्जनस्यापि मालिन्यमभुञ्जानस्यापि दीप्तिरित्येवंरूपाः । नन्वर्थवादस्य स्वार्थे प्रमाण्यं नेति चेन्न । त्रिधा ह्यर्थवादः । विरोधे गुणवादः स्यादनुवादोऽवधारिते भूतार्थवादस्तद्भानादर्थवादस्त्रिधा मतः इत्युक्तेः । आदित्यो यूपो यजमानः स्रस्तर इति गुणवादः । अग्निर्हिमस्य भेषजं इत्यनुवादः । इन्द्रो वृत्राय वज्रमुदयच्छदिति भूतार्थवादः । एष्वन्त्ययोः स्वार्थे तात्पर्यमिव । प्रकृते तदन्तीति न कापि क्षतिः । एवमन्यत्रापीति श्वेताश्वतरोपनिषदादौ इत्यर्थः । किम्त्विति । लोकप्रसिद्धं शास्त्रे नानुद्यते अद्भ्यो वा एष प्रातरुदेत्यपः । सायं प्रविशतीति वदतो न तत्र शास्त्राभिप्राय इति भावः । पृथगिति । आत्मानं स्वं प्रेरितारं ईश्वरं च पृथक् भिन्नं मत्वा जुष्टन् भजन् जनस्ततस्तदनन्तरं तेन ईश्वरेण हेतुना अमृतत्वं मोक्षमेति । ततस्तत्सम्बन्धेन व्याप्त इति केचित् । आदिपदात् जुष्टं यदा पश्यत्यन्यमीशमिति गृह्यते । तत्र द्वैते । विरुद्धेति । अणुत्व-विभुत्व-नियम्यत्व-नियामकत्वादयो मिथो विरुद्धा ये धर्मास्तैरवच्छिन्नौ विशिष्टौ प्रतियोगिनौ जीवेशौ यस्य स विरुद्धधर्मावच्छिन्नप्रतियोगी जीवेशयोर्भेदस्तत्तया शास्त्र एव स ज्ञायते न तु लोके लोके अज्ञातत्वं भेदस्यास्ति । न चाद्वैतमीदृशं भवतीत्याह अद्वैतस्त्विति । न खलु केवलाद्वैतिनो मोक्षे किञ्चित् फलमात्मनि स्वीकुर्वन्ति तत्स्वीकारे तस्य वैशिष्ट्यापत्तेः ततश्च कैवल्यक्षतिः । न च उपनिषन्मात्रगम्यत्वादद्वैतमज्ञतमिति शक्यं वक्तुं ब्रह्मात्मकस्य तद्गम्यत्वेऽवाच्यत्वप्रतिज्ञाभङ्गात् । लक्षणाविषयत्वन्तु न स्यात् सर्वशब्दावाच्ये तस्यायोगात् तस्मात् खपुष्पदिवदसत्त्वादेवाज्ञातं तत् पर्यवस्यतीति भावः । नन्वद्वयं बोधयन्तीति श्रुतिः प्रतीयते तस्याः का गतिरिति चेत् तत्राह यानि चेति । तत्राहुः । न द्वैतं वेदान्तार्थः संख्यादिशास्त्रैर्द्वैतिभिर्जीवब्रह्मस्वरूपैक्यरूपतया तदर्थस्याक्षेपादिति । मन्दमेतत् आपातविभ्राजितेन श्रुत्यर्थेन तेषां तथाक्षेपात् । न चैवं शास्त्रान्तरत्वासिद्धिर्व्यावर्तकविशेषसत्त्वात् अन्यथा अभेदवादिनां तेषां आक्षिप्तुर्न तत्तासिद्धिः । न चाद्वैतमेव तदर्थोऽस्तु सूत्रैरसकृन्निराकरणादिति । पूर्वसूत्रे विषयवाक्ये जगज्जन्मदिहेतुभूतं ब्रह्म जिज्ञास्यं ज्ञातुं ध्यातुं चेषणीयमिति श्रुतं । क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानेनापि तद्बोधसिद्धौ किं श्रुत्येत्याक्षेपसङ्गत्यारभ्यते । वेदान्तेषु मुमुक्षुप्रवृत्त्यनुपपत्तिः पूर्वपक्षे । फलं सिद्धान्ते तेषां प्रवृत्तिरिति । सच्चिदिति । अक्लिष्टमश्रमं यथ स्यात् तथा । बहु स्यामिति सङ्कल्पमात्रेण करोति जगदित्यक्लिष्टकारी अथवा भक्तानक्लिष्टान् करोतीति तथाभूतायेत्यर्थः । अत्र सर्वथा सेव्यत्वमुक्तं । तन्त्विति । उपनिषदा प्रतिपाद्यते औपनिषदः शैषिकाण् प्रत्ययः । शास्त्रेति । नानुमेयं ब्रह्म । कुतः शास्त्रेति वेदवेद्यत्वावगमात् नावेदविन्मनुते तं बृहन्तमिति स्फुटं मानान्तरप्रतिषेधाच्च । शास्त्रेत्यादिषु हेत्वादिप्रतीकेन हेतुत्वादि बोधयन् भाष्यकृत् समासब्व्याख्यातृत्वं स्वस्य व्यञ्जयति । एकाक्षरकृतं गौरवं त्वन्तु नोऽपनयसि ननु स्ब्वफक्विकासु बह्वीषु बह्वक्षरकृतं गौरवमस्ति तत् कथं नापनीतमिति चेत् न स्वतन्त्रेच्छूत्वात् । समाख्येति । समाख्या यौगिकः शब्दः । स्वानुसारी श्रुत्यनुकूलः । पूर्वेति कौर्मे वनपर्वणि च । शुष्कतर्कं परित्यज्य आश्रयस्व श्रुतिस्मृतीत्युक्तं । अत्रानुमानं तर्कश्च निरस्यते । अनुमाननिरासे तद्धर्मभूतव्याप्तिशङ्कानिवर्त्तकस्तर्कोऽपि निरस्यते । तर्कनाशे । तर्कनिश्चितव्याप्तिधर्मकमनुमानञ्च निरस्यत इति बोध्यमेवं परत्र च । इत्थञ्चेति । स्वात्मकानि हर्यभिन्नानि यानि धर्माधिष्ठानानि गुणधामानि तच्छालित्वं तद्वैशिष्ट्यमित्यर्थः । अथ केवलकर्मजडानां मतमनुवदति तत्राहेत्यादिना । प्रयोगयोग्यः उपदेशार्हः । तच्चेति । तच्च प्रयोजनं ज्योतिष्टोमादिप्रवृत्तिसाध्यस्वर्गादीष्टप्राप्तिरूपं सुरापानादिनिवृत्तिसाध्यानिष्टपरिहाररूपं चेत्यर्थः । अनिष्टं प्रत्यवायः । ब्रह्मेति । परिनिष्पन्नं सिद्धं वस्तु न तु कर्मवत् साध्यमित्यर्थः । तच्छून्यत्वादिति । प्रयोजनशून्यत्वात् प्रयोगार्हत्वं नेत्यर्थः । यदीति । कश्चिद्विद्वान् यदि तं वेदान्तवाक्यगणं प्रयोक्तुमिछुर्भवेत् तर्हि ज्योतिष्टोमादिविधिवाक्यैकवाक्यतया तं तद्वाक्यगणं प्रयुञ्जानः सन् तस्यापि तद्गणस्य तद्वत्त्वं ब्रूयादित्यर्थः । तथा तस्य तद्वत्त्वं स्वयं दर्शयति तस्मात् क्रत्विति । यज्ञाङ्गभूता या देवता विष्ण्वादयो ये च यज्ञकर्तारो यजमाना स्तत्प्रतिपादनेन तद्वाक्यगणः प्रयोजनवान् सन् प्रयोगयोग्यो भवतीत्यर्थः । विधिवाक्यानां यत् फलवत्त्वं तदेव वेदान्तवाक्यानामिति निष्कर्षः । स्वाभ्युपगमे जैमिनिसन्मतिं दर्शयति आह चैवमिति । आम्नायस्येति पूर्वपक्षसूत्रं । तस्यार्थः । आम्नायस्य वेदस्य क्रियार्थात्वात् कर्मपरात्वात् । अतदर्थानां क्रियापरतारहितानां सोऽरोदीदित्यादिवाक्यानां । आनर्थक्यं धर्मप्रमितिरूपार्थप्रतिपादकत्वविरह इत्यर्थ इति । सिद्धान्तमाह । तद्भूतेति । तस्यार्थः क्रियार्थेन वाक्येन तद्भूतानामक्रियार्थानां समाम्नायः समुच्चारणं सम्बन्ध इति यावत् । कुतः अर्थस्येति । पदार्थस्य वाक्यार्थहेतुत्वादित्यर्थः । तदेतन्मतं निरस्यति मैवमित्यादिना । तस्य तद्वाक्यगणस्य । तदिति । तत्सत्त्वप्रत्ययात् तादृशब्रह्मास्तित्वावगमात् स पुरुषार्थः प्रकाशत इति न तस्य फलशून्यत्वमित्यर्थः । परिनिष्पन्नवस्तुपरेष्वपि वाक्येषु फलवत्त्वं दृष्टमित्याह पुत्रस्ते इत्यादि । किञ्चेति । तस्य तद्वाक्यगस्य । तद्वत्त्वं फलवत्त्वं स्फुटं परिदृश्यते । सत्यमिति । आदिपदात् रसो वै स इत्यादिग्रहः । ब्रह्मणा सह सर्वकामाशनं ब्रह्मज्ञानानन्दित्वं विस्फुटं प्रतीयत इत्यर्थः । परकृतां सङ्गतिं भङ्क्तुमुद्यते नचोक्तेति । तस्य तद्वाक्यगणस्य । प्रकरणभेदादिति । अन्यत् कर्मप्रकरणं अन्यत्तु ज्ञानप्रकरणमित्यर्थः । प्रकरणैक्ये तु तथात्वं सम्भवेत् । प्रत्युतेति । वेदान्ते कर्म तत्फलञ्च विनिन्द्यते । तद्यखेह कर्मचित इत्यादिवाक्याच्च तद्वाक्यैकवाक्यता दूरोत्सारिता । श्रुतेति । श्रुतं ब्रह्मपरत्वं हीयते । अश्रुतं कर्मपरत्वं कल्प्येत । तथाच शब्दस्वारस्यभङ्गादयो दोषाः प्रसज्जेरन्नित्यर्थः । न चेति । यत्प्रमाणं यद्विषयकं तत्तद्विषयमवबोधयति नान्यत् । अन्यथा निखिलप्रमाणमर्यादाविपर्ययः स्यदिति भावः । न चाम्नायेति । तस्य तद्वाक्यगणस्य । तस्य ब्रह्मेति । जैमिनेर्ब्रह्मनिष्ठत्वं तद्गुरुणा बादरायणेन जिज्ञास्यते स्वशास्त्रे तथा मन्मतोपन्यासात् । तद्भूतानामिति जैमिनिसूत्रार्थमाह तस्मादिति । केषाञ्चित् सोऽरोदीदित्यादिवाक्यानां न तु उपनिषदामपीत्यर्थः । स्वार्थान् त्यक्त्वेति । विधिवाक्यैकवाक्यत्वेऽपि स्वार्थपरता न हीयते । तेन जैमिनिना । अन्यथौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति तदुक्तिविरोधः स्यादिति भावः । तत् शास्त्रं
अधिकरणम् ४ (समन्वयाधिकरणम्)
तत् तु समन्वयात्
तु-शब्दः शङ्काच् छेदार्थः । तत्-सर्व-वेद-वेद्यत्वं विष्णोर् उक्तम् । कुतः ? समन्वयात् । अन्वयस् तात्पर्य-लिङ्गम् । समन्वयत्वं सुविचारितत्वम् । सुविमृष्टैर् उपक्रमोपसंहारादिभिः षड्भिर् लिङ्गैस् तत्रैव शास्त्र-तात्पर्यात् स एव तद् वेद्य इत्य् अर्थः । इतरथा कथं योऽसाव् इत्य् आदि-श्रुति-वाक्योपपत्तिः । आह चैवं भगवान् पुण्डरीकाक्षः । वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-विद् वेद-विद् एव चाहम् इति ।
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ।
मां विधत्ते ऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् ॥ [भा.पु. ११.२१.४२-४३] इति वा ।
एतद् उक्तं भवति—साक्षात् परम्पराभ्यां वेदा ब्रह्मणि प्रवर्तन्ते । तत्र स्वरूप-गुण-निरूपणेन ज्ञान-काण्डे साक्षात् कर्म-काण्डे तु ज्ञानाङ्ग-भूत-कर्म-प्रतिपादनेन परम्परयेति मन्यन्ते । तत् त्व् औपनिषदं पुरुषं पृच्छामि, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्य् आदि श्रवणात् । वृष्टि-पुत्र-स्वर्गादि-फलक-कर्म-विधायिता तु तेषां रुच्य्-उत्पादनार्थायैव । वृष्ट्य्-आदि-फल-दृष्ट्या तेष्व् अभिजात-रुचेस् तद्-अर्थान् विचारयतो नित्यानित्य-वस्तु-विवेकिनो ब्रह्म-तृष्णा जगद्-वैतृष्णं च स्याद् इति सिद्धं सर्वेषां तेषां ब्रह्म-परत्वम् । कामितस्यैव वृष्ट्य्-आदेः फलत्वेन प्रतीतेर् अकामितोऽसौ न स्यात् । किं च ज्ञानोदयार्था बुद्धि-शुद्धिर् एव भवेत् । तम् एतम् इत्य् आदेर् इति ब्रह्माङ्ग-भूत-देवतार्चनं खलु ब्रह्मार्चनम् एव तत्-फलं तु चित्त-शुद्धिर् एवेत्य् अन्यत् प्राग्वत् ॥४॥
अथोक्त-वक्ष्यमाण-समन्वयोपपत्तये ब्रह्मणोऽवाच्यत्वम् निरस्यते । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति तैत्तरीयके । यद्-वाचानभ्युदितं येन वाग् अभ्युपद्यते तद् एव ब्रह्म तद् विद्धि नेदं यद् इदम् उपासत इति केनोपनिषदि च पठ्यते । तत्र संशयः—अशब्दं शब्द-वाच्यं वा ब्रह्मेति ? श्रुति-स्वारस्याद् अशब्दं तत् । अन्यथा स्व-प्रकाशता-हानात् ।
यतोऽप्राप्य निवर्तन्ते वाचश् च मनसा सह ।
अहं चान्य इमे देवास् तस्मै भगवते नमः ॥ इति स्मृतेश् च ।
इत्य् एवं प्राप्ते निराकर्तुम् आह—
अथ पूर्वार्थेति । पूर्वं हरेर्वेदान्तवेद्यत्वमभिहितं इदानीं निखिलवेदवेद्यत्वमभिधीयते । तेन प्राप्ते उक्तोऽर्थो दृढो भवतीत्यर्थः । तत्रापि पूर्वोक्तैवाक्षेपसङ्गतिः भगवतो वेदवेद्यद्वमाक्षिप्य समाधानात् । फलन्तु प्राग्वन्निभाल्यं । योऽसाविति । यो गोपालः । यत्पदमिति यद्ब्रह्मस्वरूपं । आमनन्ति अभ्यसन्ति । ते चेति । ते वेदा प्रमाणत्वात् स्वविषयं कर्मैव । बोधयेयुर्नेश्वरं । ये च केचन शब्दास्तत्र जीवेशपरा इव दृश्यन्ते ते विकलयज्ञाङ्ग भूत कर्तृदेवतासमर्पणेन तत्रैव पर्यवस्यन्तीति इत्यवोचामः एवं प्राप्ते ।— तत्त्वेति । स एवेति । स विष्णुरेव वेदवेद्य इत्यर्थः । वेदैश्चेति श्रीगीतासु । वेदान्तकृद्वेदार्थनिश्चायकः । उभयोरपि दृष्टान्त इत्यादावन्तशब्दस्य निश्चयार्थत्वप्रत्ययात् । किमिति श्रीभागवते । कर्मकाण्डे विधिवाकैः किं विधत्ते । देवताकाण्डे मन्त्रवाक्यैः किमाचष्टे प्रकाशयति । ज्ञानकाण्डे प्रतिषेधाय किमनूद्य विकल्पयेत् । अस्या वेदवाण्याः । अस्या हृदयं स्वयमाह मामिति । मां यज्ञरूपं विधत्ते । तत्तद्देवतारूपं मामभिधत्ते प्रकाशयति । यश्च प्रधानमहदादिप्रपञ्चजातं सर्गे विकल्प्य पृथङ्निरूप्य पुनः प्रतिसर्गे मद्रूपतामापाद्य पृथग्भावस्तस्यापोह्यते । तत्सर्वमहमेव । शक्तिमतो मम एतद्रूपत्वादिति । तेषां वेदानां । तेद्ष्विति । वेदेषूत्पन्नप्रीतेर्वेदार्थान् विचारयतो जनस्येत्यर्थः । ननु कर्मणां कारिरीप्रभृतीनांवृष्ट्यादि फलानि श्रूयन्ते ज्ञानाङ्गचित्तशुद्धिफलकत्वं कथं श्रद्दधीमहीति चेत् तत्राह कामितस्यैवेति । स्वर्गकामो यजेत इत्यादौ कामित एव स्वर्गादिः फलत्वेन । प्रतीतो नत्वकामित इत्यर्थः । असौ वृष्टादिरित्यर्थः । अपरां सङ्गतिं दर्शयति ब्रह्माङ्गेति । चिदचिच्छक्त्युपेतं खलु ब्रह्म । तच्छक्तिभूता इन्द्रादयो देवतास्तदङ्गबुद्ध्या इज्यन्ते । ब्रह्मार्चनमेव तद्यजनं । तेन चित्तं शुद्ध्यति न तु फलान्तरं तत्स्पृहाविरहादित्यर्थः । तर्हि फलश्रवणं कथं सङ्गतं तत्राहान्यत् प्राग्वदिति । रुच्युत्पादनार्थं तदिति । ब्रह्मणे वेद्यत्वमुक्तं । तच्च यतो वाचोनिवर्त्तस्तु इतिश्रुतेर्नभिधया शब्दवृत्त्या भवितुं युक्तं किन्तु लक्षणयैव तया । इति आक्षेपसङ्गत्यारभ्यते
अधिकरणम् ५ (ईक्षत्यधिकरणम्)
ईक्षतेर् नाशब्दम्
नास्ति शब्दो वाचको यस्मिन् तद् अशब्दम् । ईदृशं ब्रह्म न भवति । किन्तु शब्द-वाच्यम् एव तत् । कुतः ? ईक्षतेः । तत् त्व् औपनिषदं पुरुषं पृच्छामि इति प्रष्टव्यस्य पुरुषस्य औपनिषद-समाख्यादर्शनाद् इत्य् अर्थः । भावे तिप्-प्रत्ययस् त्व् आर्षः । सर्वे वेदा यत्-पदम् आमनन्ति इत्य् आदि वाक्येभ्यश् च । अशब्दं तु कार्त्स्न्येनाशब्दितत्वात् । दृष्टोऽपि मेरुः कार्त्स्न्येनादर्शनाद् अदृष्टः कथ्यते । अन्यथा यत इति, अप्राप्येति । अनभ्युदितम् इति । तद् एव ब्रह्मेति च व्याकुप्यात् । स्वात्मना वेदेन ज्ञापनं खलु स्व-प्रकाशतया न विरुद्ध्यते । तस्य स्वात्मकत्वं तु उपरि वक्ष्यते । तस्मात् शब्द-वाच्यं ब्रह्म ॥५॥
स्याद् एतत् । वाच्यत्वेनेक्षितः पुरुषः सगुणोऽस्तु तत्र गृहीत-शक्तयो वेदाः शुद्धे पूर्णे वाच्य-लक्षणया पर्यवस्येयुर् इति चेत् तत्राह—
गौणश् चेन् नात्म-शब्दात्
वाच्यत्वेन दृष्टोऽसौ सत्त्वोपाधिको न भवेत् । कुतः ? आत्म-शब्दात् । आत्मैवेदम् अग्र आसीत् पुरुष-विधः इति वाजसेनयके । आत्मा वा इदम् एक एवाग्र आसीत् नान्यत् किंचन मिषत् स ईक्षत लोकान् नु सृजा इत्य् ऐतरेयके च सृष्टेः पूर्वस्य पुरुषस्य आत्म-शब्देनाभिधानात् । तस्य शब्दस्य पूर्णे ब्रह्मणि मुख्य-वृत्तता प्राग् अभानि ।
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भा.पु. १.२.११]
शुद्धे महा-विभूताख्ये परे ब्रह्मणि शब्द्यते ।
मैत्रेये भगवच्-छब्दः सर्व-कारण-कारणे ॥
इत्य् आदि-स्मृत्या शुद्धस्य वाच्यता । नह्य् अवाच्यः शब्दितुं शक्यः ॥६॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।२।११।
तन्-निष्ठस्य मोक्षोपदेशात्
चतुर्षु नेत्य् अनुवर्तते । तैत्तरीयके—असद् वा इदम् अग्र आसीत् ततो वै सद् अजायत तद् आत्मानं स्वयम् अकुरुतेत्य् आरभ्य यदा ह्य् एवैष एतस्मिन्न् अदृष्ट्श्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दतेऽथ सोऽभयं गतो भवति यदा ह अवैष एतस्मिन्न् उदरम् अन्तरं कुरुते अथ तस्य भयं भवति इति प्रप¨¨इचातीते वेद-वाच्ये विश्व-कर्तरि तस्मिन् पर-ब्रह्मणि परिनिष्ठितस्य विमुक्ति-कथनान् न स गौणः । तस्य गौणत्वे तद्-भक्तस्य मुक्तिं न ब्रूयात् । निर्गुणः परमात्मा तस्यानुवृत्त्या मोक्षः स्मर्यते ।
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भा.पु. १०.८८.५] इति ॥७॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८८।५
हेयत्व-वचनाच् च
यद्य् असौ जगत्-कर्ता गौणः स्यात् तर्हि साधनोपदेशिषु वेदान्त-वाक्येषु स्त्री-पुंसादेर् इव हेयत्वं ब्रूयान् न चैवम् अस्ति । किं गुण-हानाय मुमुक्षुभिर् उपास्यः स कीर्त्यते । तद् भिन्नस्य तु गौणस्य तद् उच्यते—अन्या वाचो विमु¨¨इचथेति । कर्तृत्वं चेदं शुद्ध-निष्ठम् अतः सत्यत्वादिर् इव मुमुक्षु-ध्येयत्वं बोध्यं तथा च निर्गुण एव वाच्य इति ॥८॥
स्वाप्ययात्
वाजसनेयके—
पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते ।
पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥
पूर्णे स्वस्मिन्न् एव पूर्णस्यैव स्वस्याप्ययाभिधानान् न पूर्णम् अशब्दम् । यद् इदं गौणं स्यात् तर्हि परस्मिन्न् अपीयान् न तु स्वस्मिन्न् एव । न च पूर्ण-शब्दितं स्यात् । वाक्यार्थं तु अदो मूल-रूपम् । इदं प्रकाश-रूपम् । उभयं पूर्णम् । रासादिषु कर्मसु मूल-रूपात् पूर्णाद् उदच्यते प्रादुर्भवति । तत्-पूर्तौ पूर्णस्य प्रकाश-रूपम् आदायैक्यं नीत्वा पूर्णं मूल-रूपम् अन्यत्राविलीनं अवशिष्यत इति । निर्गुणस्य हरेर् ऐवंविध्यं स्मृतिर् आह—
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।
एकीभूय पुनः शेते निर्दोषो हरिर् आदि-कृत् ॥ इति ॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।२।३०-३४।
यत् तु सगुणं निर्गुणं चेति द्विरूपं ब्रह्म । तत्राद्यं सत्त्वोपाधि सर्वज्ञं सर्व-शक्ति जगत्-कारणम् । द्वितीयं च सत्तानुभूति-मात्रं पूर्णं विशुद्धम् । पूर्वत्र वेदानां शक्तिः । परत्र तु तात्पर्यम् इत्य् आद्य् अभिप्रेतम् । तद् अपि निरस्यति—
गति-सामान्यात्
गतिः अवगतिः । विज्ञान-घनः सर्वज्ञः सर्व-शक्तिः पूर्णो विशुद्धः परमात्मा जगद्-धेतुर् उपासितः सन् विमुक्ति-कृद् इति धीर् इत्य् अर्थः । तस्याः सर्वेषु वेदेषु सामान्याद् ऐकरूप्यात् । तथा-भूतस्यैकस्य ब्रह्मणः सर्वेषु तत्तयाभिधानात् । सगुणं निर्गुणं चेति द्विरूपता नास्तीत्य् अर्थः । स्मृतिश् च मत्तः परतरं नान्यत् किंचिद् अस्ति धनञ्जय इति ॥१०॥
अथ स्फुटम् एव निर्गुणस्य वाच्यत्वम् आह—
श्रुतत्वाच् च
काठकादिषु—
एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेता केवलो निर्गुणश् च ॥ [श्वे.उ. ६.११]
निर्गुणस्य श्रीय्-उक्तत्वाच् च वाच्य एव सः । नह्य् अशब्दः श्रूयेत । यत् तु लक्षणया निर्गुणस्यावगतिः न त्व् अभिधया प्रवृत्ति-निमित्ताभावाद् इति जल्पन्ति तद् असत् । सर्व-शब्दावाच्ये लक्षणायोगात् । निर्गुणत्वादेर् अप्य् अदृश्यत्वादेर् इव तन् निमित्तत्वात् ।
ननु निर्गुणोऽपि गुणवान् इति विरुद्धम् । मैवम् । रहस्यानवबोधात् । तथा हि, निर्गुणादयः शब्दा नैर्गुण्यादिना निमित्तेन न तत्र प्रवर्तेरन् । सर्वज्ञादयस् तु सार्वज्ञ्यत्वादिना । तेन परमैः सत्त्वादिभिः गुणैर् विहीनः स्वरूपानुबन्धिभिः तैस् तैस् तु विशिष्टोऽसाव् इति न कापि विचिकित्सा । स्मरन्ति चेत्थम् । सत्त्वादयो न सन्तीशे यत्र च परमा गुणाः, समस्त-कल्याण-गुणात्मकोऽसौ इत्य् आदिभिः । तस्मात् पूर्णो विशुद्धो हरिर् वेद-वाच्यः । अनामादि-शब्दास् तु गुणाप्रसिद्धि-कार्त्स्न्यागोचरत्वादितः सङ्गमनीयः । तद्-अप्रसिद्धिश् च परम-वैलक्षण्येनाग्रहात् । कार्त्स्न्येनागोचरता त्व् आनन्त्यात् । यस् तु तेषां स्फुटार्थं ब्रूते स एवं प्रष्टव्यः । तैस् तस्य बोधः स्यान् न वा ? इति । आद्ये तेऽपि तस्याख्याः । अन्ये तु तद्-आरम्भ-वैफल्यापत्तिर् इति ॥११॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१-२।
शब्दा वाचकतां यान्ति यत्रानन्द-मयादयः ।
विभुम् आनन्द-विज्ञानं तं शुद्धं श्रद्दधीमहि ॥
यस्य समन्वयस्योपपादनाय वाच्यत्वं ब्रह्मणः समर्थितं तम् इदानीं दर्शयत्य् आनन्दमय इत्य् आदिना यावद् अध्याय-पूर्ति । तत्रास्मिन् प्रथमे पादे प्रायेणान्यत्र प्रसिद्धानां शब्दानां ब्रह्मणि समन्वयः प्रदर्श्यते । तैत्तरीयके—ब्रह्मविद् आप्नोति परम् इत्य् उपक्रम्य, स वा एष पुरुषोऽन्न-रस-मयः इत्य् आदिनान्न-मय-प्राण-मय-मनो-मय-विज्ञान-मयान् क्रमेणाम्नायेदम् अभिधीयते । तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्य्ऽन्तरात्मानन्द-मयस् तेनैष पूर्णः । स वा एष पुरुष-विध एव तस्य पुरुष-विधताम् अन्वयं पुरुष-विधः । तस्य प्रियम् एव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तर-पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा [तै.उ. २.५] इति ।
तत्र संशयः—किम् अयम् आनन्द-मयो जीव उत पर-ब्रह्म ? इति । एष शारीर आत्मेति देह-सम्बन्ध-प्रतीतेर् जीव इति प्राप्ते—
अथोक्तेत्यादि । यत इति । वाचो वेदलक्षणा गिरः अप्राप्य विषयमकृत्वा यतो ब्रह्मणः सकाशान्निवर्त्तन्ते । मनसा सहेति । मनोऽपि यतो निवर्त्तते । इत्यर्थः । यद्वाचेति । यद्ब्रह्म वाचानभ्यूदितं येन वागभ्युद्यते प्रकाश्यते तद्ब्रह्मेति । शाखाचन्द्रन्यायेन कथञ्चिद्भागलक्षणया लक्ष्यमिति पूर्वपक्षवाक्यार्थः । सिद्धान्ते तु यतो निवर्त्तन्ते अप्राप्य स्वरूपगुणपारमलब्ध्वेत्यर्थः । एवं यद्वाचेतत्रापि वाक्यार्थः । नेदमिति । यदिदं मनःप्रभृतिप्रतीकरूपं एतच्च कार्त्स्न्यागोचरत्वमग्रे स्फुर्टीकरिष्यते । अन्यथेति । शब्दप्रकाश्यताभ्युपगमे सतीत्यर्थः । यतोऽप्राप्येति श्रीभागवते मैत्रेयवाक्यं । अर्थः प्राग्वत् । अत्र भगवतस्तथात्वमुक्तं न तु निर्गुणस्य । तेन श्रुतावप्येवमेवार्थः ॥ ईक्षतेरिति । भावे तिप् प्रत्ययस्त्वार्षः । ईक्षतेरिति धातुवाचकेक्षतिशब्दो लक्षणया धात्वर्थेक्षणपरः ईक्षितृत्वश्रवणादित्यन्ये । अन्यथा यत इति । देवदत्तः काश्या निवृत्त इत्युक्ते काशीं स्पृष्ट्वैवनिवृत्त इत्यधिगम्यते । एवं यतो वाचो निवर्त्तन्त इत्युक्ते कथञ्चिद्गोचरं कृत्वैव निवर्त्तन्त इत्यधिगम्यते । एवं अप्राप्येत्यत्र प्रकर्षेण न कथञ्चिल्लब्ध्वेत्येर्थः प्रतीयते । अनभ्युदितं अभितो नोदितं कियदुदितमेवेत्यर्थः । तस्मात् तत्र कार्त्स्न्येनागोचरत्वमेव साधु व्याख्यातं । कार्त्स्न्येन नाजोऽप्यभिधातुमीश इति स्मृतेश्च । तस्येति वेदस्य । उपरीति तद्धर्माद्यधिकरणेषु इत्येव ध्येयं स्यदेतदिति । यदि वक्ष्यमाणं मद्वाक्यं नोपपद्येत तर्हि त्वया यदुक्तं तत् स्यात् सिध्येदित्यर्थः । वक्ष्यमाणमाह वाच्यत्वेनेत्यादि । असौ पुरुषः । मिषत् प्रकाशमानं । प्राक् जन्मदिसूत्रभाष्ये । वदन्तीति श्रीभागवते । अद्वयमेकं । शुद्ध इति श्रीवैष्णवे । शब्दितुं शब्दगोचरतां नेतुम् । तन्निष्टस्येति । चतुर्षु सूत्रेषु । असद्वा इति । इदं जगत् अग्रे सृष्टेः प्राक् असत् सूक्ष्मं ब्रह्मैवासीत्तस्मिन् विलीनमासीदित्यर्थः । ततोऽसतः सूक्ष्मात् ब्रह्मणः सत् स्थूलं जगदजायत । तद्ब्रह्मैव स्वयमात्मानमकुरुत सूक्ष्मं चिच्छक्त्युपेतं स्वयं स्थूलं चिदचिच्छक्त्युपेतं सज्जगद्रूपमरचयत । चिति शक्तौ धर्मभूतं ज्ञानं विकाशः स्थौल्यं । अचिति तु महदाद्यवस्थेति बोध्यं । यदा ह्येवेति । एष प्रमाता जीवः । एतस्मिन् परमात्मनि । अदृश्ये दृश्यभिन्ने द्रष्टरि । अनात्म्ये आत्म्यं स्वर्गादिभोग्यं वस्तु तद्भिन्ने भोक्तरि । अनिरुक्ते गुणानन्त्यात् कृत्स्ननिर्वचनागोचरे । अनिलयने निलयनं प्रकाशस्तद्रहिते स्वयं प्रकाशमाने । प्रतिष्ठां स्थितिं ऐकान्तिकीं भक्तिमित्यर्थः । अभयं तद्धेतृत्वात् । अभयं गतो भवति विमुच्यत इत्यर्थः । उदरमल्पं । अन्तरं विच्छेदम् कपटलक्षणं । परिनिष्ठितस्य ऐकान्तिकभक्तस्य । न स गौण इति । स औपनिषदसमाख्यया वेदे दृष्टः पुरुषो गौणः न सत्वोपाधिको नेत्यर्थः । हरिर्हीति श्रीभागवते । प्रकृतेरुपाधितः परस्तद्धर्मैसंस्पृष्टः । अतएव निर्गुणः । तत्र हेतुः साक्षादेव पुरुष ईश्वरः । न तु प्रतिबिम्बवद्व्यवधानेनेत्यर्थः । अतएव सर्वेषां शिवादीनां दृक् ज्ञानं यस्मात् तादृशः सन्नुपद्रष्टा तदादिसाक्षी भवति । भजन्निर्गुणो गुणातीतफलभाग्जनो भवेदिति हेयत्वेति । कीर्त्त्यते हरिर्हीत्यादौ । तद्भिन्नस्य हरीतरस्य संसारिजीवस्य हेयत्वन्तु कथ्यत इत्यर्थः । अन्या हरीतरविषय वाचः रासादिष्विति । आदिना महिषीविवाहादिग्रहणं । ऐवम्विध्यं पूर्वोक्तश्रुत्यर्थरूपत्वम् । स देव इति पद्मे ॥९৷৷ सगुणविषयकं वाक्यं दृष्ट्वा केचिद्भ्रमन्ति तन्मतं निराकरोति । यत्त्वित्यादिना । पूर्वत्र सगुणे ब्रह्मणि परत्र तु निर्गुणे ॥ गतिरित्यादि सुगमं एको देव इति । मत्स्यकुर्माद्यात्मना भेदं निरस्याह एक इति । देवो विविधाश्चर्यक्रीडः । सर्वभूतेषु गूढः सर्वप्राणिहृद्वर्त्ती । तत्तधृद्वर्तित्वेन परिच्छेदो नेत्याह सर्वव्यापीति । आकाशवत्ताटस्थ्यं वारयति सर्वबूतास्तरेति निखिलान्तर्यामीत्यर्थः । सर्वेभ्यः कर्मफलदाता चेत्याह धर्माध्यक्ष इति । दयालुत्वमाह सर्वभूताधिवास इति सर्वाश्रय इत्यर्थः । सर्वान्तर्वर्त्यपि तत्कृतकर्मास्पृष्ट इत्याह साक्षीति । साक्षित्वे हेतुः चेता इति चित्स्वभाव इत्यर्थः अथवा चेताश्चेतयिता प्राणिनां ज्ञानप्रद इत्यर्थः । केवलः शुद्धः । शुद्धत्वं कुत इत्याह निर्गुण इति मायागन्धास्पृष्ट इत्यर्थः । सर्वशब्देति । सर्वैः शब्दैर्यदवाच्यम् तत्र लक्षणा न युज्यत इत्यर्थः । तथाहि ब्रह्म किञ्चिच्छब्दावाच्यं सर्वशब्दावाच्यं वा ? आद्ये शब्दवाच्यत्वमायाति केनचिच्छब्देनावाच्यत्वेऽपि केनचिद्वाच्यं तदित्यर्थात् । अनेन तु लक्षणापि न सम्भवेत् । यं किल सर्वशब्दावाच्यं न तत्र लक्षणा शक्या वक्तुं दृष्टान्तविरहात् । सोऽयं देवदत्त इत्यत्राजऽस्वार्थया तत्काले तत्कालरूपो भागो विहीयते । पिण्डमात्ररूपो भागस्तु न हीयते । स च भागो वाच्य एव पिण्डमात्रशब्देन दृष्ट इति । नास्ति सर्वशब्ब्दावाच्यस्य लक्षणायां दृष्टान्त इति । अद्वितीयं चिन्मात्रं ब्रह्म केनापि शब्देन वाच्यं न भवति किन्तु लक्ष्यमेव तदिति भवतामभ्युपगमः । निर्गुणत्वादेरपीति । अदृश्यत्वादिगुणकधर्मोक्तेरिति सूत्रे यथाऽदृश्यत्वादीन् गुणान् भगवान् व्यासः प्रवृत्तिनिमित्तानि मन्यते तथा निर्गुणत्वादयो धर्माः प्रवृत्तिनिमित्तानि भवेषुरित्यर्थः । अनामेति । अप्रसिद्धेस्तु गुणानामनामासौ प्रकीर्तित इत्यादि स्मृतेः । यतो वाचो निवर्त्तन्त इत्यादावशब्दं ब्रह्मेति यत् प्रतीयते तत् खलु अनन्तस्य तस्य कार्त्स्न्यनागोचरत्वादित्यवोचामः । यस्तु तेषामिति । तेषामनामादिशब्दानां । तेऽपीति । तेऽनामादिशब्दाः । तस्य ब्रह्मण इति शेषः । अन्त्ये तैस्तस्य बोधो न स्यादितिपक्षे तदारम्भवैफल्यं अनामादिशब्दवैर्यथ्यमित्यर्थः । एतोमेकादशसूत्रीं सभाष्यां पञ्चन्यायीं ये पठेयुः ससूक्ष्माम् । तत्त्वज्ञानं सुलभं किं न तेषां शेषग्रन्थोऽयमतिविस्तारकारी
अधिकरणम् ६ (आनन्दमयाधिकरणम्)
आनन्द-मयोऽभ्यासात्
परं ब्रह्मैव सः । कुतः ? अभ्यासात् । प्रतिष्ठान्तेनानन्द-मयं निरूप्य—आसन्न् एव सम्भवति, असद् ब्रह्मेति वेद चेद् अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुः [तै.उ. २.६] इति । तत्रैव ब्रह्म-शब्दस्याभ्यस्तत्वात् । अविशेष-पुनः-श्रुतिर् अभ्यासः । न चाभ्यासः पुच्छ-ब्रह्मणीति वाच्यम् । अन्नाद् वै प्रजाः प्रजायन्त इत्य् आदीनां पुच्छान्त-पठितानां चतुर्णां श्लोकानाम् अन्न-मयादि-पुच्छि-पुरुष-चतुष्टय-परत्वेनास्यापि श्लोकस्य तथाभूतस्याप्य् आनन्दमयस्योत्तरोदय-भेदेन तत्-तन्-नाम-भेदात् तद्-अयोगात् । विशेषतस् तु तृतीये वक्ष्यते प्रिय-शिरस्त्वाद्य् अप्राप्तेर् इत्य् आदिना । यत् त्व् आहुर् अन्नमयाद्य्-असुख-प्रवाह-निपातान् नानन्दमयस्य मुख्यत्वम् इति । नैष दोषः । तस्य सर्वान्तरत्वात् । अज्ञानां ज्ञप्ति-सौलभ्याय तथोपदेश-प्रवृत्तेः । परमोपकर्ता हि वेदः परम् एवात्मानं विजिज्ञाषयिषुर् अरुन्धती-दर्शन-न्यायेनापरोपदेशेऽपि प्रवर्तते ।
नन्व् एतावता परत्र तस्य तात्पर्यं न वा परस्यामुख्यत्वम् इति । किं चोत्तरत्र ब्रह्म-जिज्ञासुं प्रति तत्-पिता वरुणो विश्वोत्पत्त्य्-आदि-हेतु-भूतं वस्तु ब्रह्मेत्य् उपदिश्य पुनः स बुद्ध्य्-अर्थम् अन्न-प्राण-मनो-विज्ञानानि क्रमेण ब्रह्मेत्य् उक्त्वान्ते त्व् आनन्द-मयं ब्रह्मेत्य् उपदर्श्योपरराम । मद्-उक्तेयं विद्या भगवन् निष्ठेत्य् अभिदधौ । अथोपसंहारेऽपि । स य एवं-विद् अस्माल् लोकात् प्रेत्य एतम् अन्न-मयम् आत्मानम् उपसण्क्रामति [तै.उ. २.८.५] इत्य् उक्त्वा, एतम् आनन्द-मयम् आत्मानम् उपसण्क्रम्य, इमाङ्ल् लोकन् कामान्नी काम-रूप्य् अनुसञ्चरन् । एतत् साम गायन्न् आस्ते [तै.उ. ३.१०.५] इत्य् उक्तम्, अतः परं ब्रह्मैवानन्द-मयः पुरुष-विधोऽन्नमयोऽत्र चरमोऽन्नमयादिषु यः सद्-असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् इति स्मृतेश् च । शारीरत्वं तु तस्मिन्न् अपि न विरुद्धम् । यस्य पृथिवी शरीरम् इत्य् आदि श्रुतौ तस्यापि तद्-उक्तेः । अतः शारीरकम् इदं शास्त्रम् । यत् त्व् आनन्दमय इत्य् अत्र ब्रह्म-पुच्छम् इत्य् आदि व्याचष्टे, तन् मन्दम् । शब्द-स्वारस्य भङ्गा देशिकानुगति-हानाच् च ॥१२॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१७
विकारे मयट् स्मृतेर् जीवाशङ्का कस्यचित् स्याद् अतस् तां निराकर्तुम् आह—
विकार-शब्दान् नेति चेन्, न प्राचुर्यात्
न ह्य् आनन्द-विकारत्वाद् आनन्दमयः । कुतः ? प्राचुर्याद् आनन्दस्य तत्-प्रकृत-वचने मयड् इति प्राचुर्येऽर्थे मयड्-विधानात् । न च विकारे मयड् अस्तु । द्व्यचश् छन्दसीति नियमात् बहु-स्वराद् विकारार्थकस्य तस्याप्राप्तेः । न च दुःखाप्त्य्-असद्-भावः । एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः इति सुबाल-श्रुतेः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे इति स्मृतेश् च । तस्मात् प्रकृत्य्-अर्थ-प्रभूतत्वम् एवात्र प्राचुर्यम् । प्रचुर-प्रकाशो रविर् इति स्वरूपे च युज्यते प्रचुर-शब्दः । तस्माद् आनन्द-मयो न जीवः ॥१३॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।२३
तद्-धेतु-व्यपदेशाच् च
को ह्य् एवान्यात् कः प्राण्यात् यद्य् एष आकाश आनन्दो न स्यात् ? एष एवानन्दयतीति जीवस्यानन्दस्य हेतुर् आनन्दमय [तै.उ. २.७] इति व्यपदेशाच् च जीवाद् आनन्दयिता भिद्यते । इत्य् आनन्द-शब्देनानन्द-मयो दृश्यः ॥१४॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।३७
मान्त्र-वर्णिकम् एव च गीयते
सत्यं ज्ञानम् [तै.उ. २.१.३] इति मन्त्र-वर्णोक्तं ब्रह्मैव यस्माद् आनन्द-मय इति गीयतेऽतो नासौ जीवः । अयं भावः—ब्रह्मविद् आप्नोति परम् इत्य् उपासकस्य जीवस्य प्राप्य-ब्रह्मोपक्रम्य तद् एव सत्यम् इत्य् आदि-मन्त्रेण विशेषितम् । तस्यैवेहानन्दमय-शब्देन ग्रहणम् उचितम् । तस्माद् वा एतस्माद् इत्य् आदिभिर् उत्तरोक्तेर् अवाक्यैस् तस्यैवोपक्रान्तस्य प्र्पञ्चनात् । ततश् च प्राप्यं ब्रह्म प्राप्त-जीव-वादन्य-देवेति नानन्द-मयस्य जीवत्वम् ॥१५॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।२८।१५
ननु मान्त्रवर्णिकं ब्रह्म चेज् जीवाद् अन्यत् स्यात्, तदा तस्यैवानन्दमयत्व-समर्थनेन जीवाशङ्कापनयः स्यान् न चैवम् अस्ति जीव-स्वरूपस्यैवाविद्या-तत्-कार्य-निर्मुक्तस्य मन्त्र-वर्णेन परामर्शात् तस्माद् अनतिरिक्तो जीवाद् आनन्दमय इति चेत्, तत्राह—
नेतरोऽनुपपत्तेः
इतरो मुक्तावस्थोऽपि जीवो न मान्त्रवर्णिकः । कुतः ? अनुपपत्तेः, सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति सह-भोग-श्रवणासिद्धेः । विविधं पश्यति चित् यस्यासौ तेन विपश्चिता । पृषोदरादित्वात् पश्य-शब्दस्य पशभावः । विविध-भोग-चतुरेण तेन सह संयुक्तः सर्वान् कामान् अश्नुते भुङ्क्ते । अश भोजने इत्य् अस्मात् श्रा-प्रत्यय-परस्मैपदयोर् व्यत्ययेन श्नु-प्रत्ययात्मनेपदयोर् विधानम् । व्यत्ययो बहुलम् इति छन्दसि तथा स्मृतेः । सहभावोक्त्या भोगे भगवतो प्राधान्यम् । भक्तस्य तु प्राधान्यम् अनभिमतम् । वशे कुर्वन्ति मां भक्ताः सत्-स्त्रियः सत्-पतिं यथा इत्य् आदि तद्-वाक्यात् ॥१६॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।१।१ (तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः), ९।४।६३।
भेद-व्यपदेशात्
रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति इति तस्यैव मान्त्र-वर्णिकस्यानन्दमयस्य रस-प्राप्तेः तस्य लभ्यस्य लब्धुर् जीवान् मुक्तावस्थाद् अपि भेदोक्तेश् च मान्त्र-वर्णिकोऽसाव् अन्य एव । ब्रह्मैव सन् ब्रह्माप्नोति इत्य् आदिष्व् अपि न मुक्तस्य ब्रह्माभेदः । ब्रह्माप्ययस्य ब्रह्म-भूत्यानन्तर-भावित्वात् । किन्तु ब्रह्म-सदृशः सन्न् इत्य् एवार्थः । निरञ्जनः परमं साम्यम् उपैतीति श्रुतेः । इदं ज्ञानम् उपशृइत्य मम साधर्म्यम् आगताः इत्य् आदि स्मृतेश् च । सादृश्येऽप्य् एव-शब्दोऽस्ति । वाव यथा तथैवेव साम्ये इत्य् अनुशासनात् ॥१७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।५-६, २।१।३९
ननु सत्त्वस्यानन्द-हेतोः प्रधाने सत्त्वात् तद् एवानन्द-मयं स्याद् इति चेत्, तत्राह—
कामाच् च नानुमानापेक्षा
सोऽकामयत बहु स्यां प्रजायेय इति सङ्कल्पाद् एव विश्व-सर्ग-श्रुतेर् नानुमानस्य प्रधानस्यास्मिन्न् आनन्द-मय-वाक्यं भवत्य् अपेक्षा जडस्य सङ्कल्पासम्भवात् ॥१८॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।२।३०-३१
अस्मिन्न् अस्य च तद्-योगं च शास्ति
अस्मिन्न् आनन्द-मये पुंसि प्रतिष्ठितस्यास्य जीवस्योभय-योगं कृतान्तरस्य तु भय-योगं शास्ति श्रुतिः यदा ह्य् एवेत्य् आदिना । न चैषा शिष्टिः प्रधान-पक्षे सम्भवेत् । तत्र प्रकृति-वियुक्तस्याभयम् अभ्युपगम्यते, न तु तत्-संसृष्टस्य । तस्माद् आनन्द-मयो हरिर् एव न जीवो नापि प्रकृतिर् इति ॥१९॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३५
छान्दोग्ये—
अथ य एषोऽन्तर् आदित्ये हिरण्मयः पुरुषो दृश्यते हिरण्य-श्मश्रुर् हिरण्य-केश आ प्रणखात् सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्डारीकम् एवम् अक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । तस्य र्क् च साम च गेष्णौ तस्माद् उद्गीथस् तस्मात् त्व् एवोद्गातैतस्य हि गाता स एष ये चामुष्मात् पराञ्चो लोकास् तेषां चेष्टे देव-कामानां चेत्य् अधिदैवतम् ॥ [छा.उ. १.६.६-८]
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैव र्क् तत् साम तद् उक्थं तद् यजुस् तद् ब्रह्म तस्यैतस्य तद् एव रूपं यद् अमुष्य रूपं याव् अमुष्य गेष्णौ तौ गेष्णौ यन् नाम तन् नाम ॥ [छा.उ. १.७.५] इति श्रूयते ।
तत्र संशयः—किम् अयं पुण्य-ज्ञानातिशय-वशात् प्राप्तोत्कर्षो जीवः कश्चित् सूर्येऽक्षिणि वोपदिश्यते उत तद्-अन्यः परमात्मेति । तत्र देहित्वादि-प्रतीतेर् उपचित-पुण्यो जीव एवायं ज्ञान-शक्त्य्-आधिक्यं च पुण्यातिशयाद् अत एव लोक-कामेशितृत्वादि-फलार्पणाद् उपास्यत्वं चेत्य् एवं प्राप्तौ ।
प्रतिज्ञातं समन्वयं विस्तारेण प्रतिपादयितुं मङ्गलमाचरति । शब्दा इति । षत्र श्रीगोविन्दे ब्रह्मण्यानन्दमयादयः शब्दा वाचकताः यान्ति ते यस्य वाचका भवन्तीत्यर्थः । तं वयं श्रद्दधीमहि दृढविश्वासेनानन्दमयं तं भजेम इत्यर्थः । शुद्धं मायातत्कार्यगन्धापृष्टं । स्फुटमन्यत् । यस्येति । वाच्यत्वं वेदाभिहितत्वं अभिधया वृत्त्या कथितत्वं समर्थितं श्रुत्या स्मृत्या साधितमीक्षत्यधिकरणे । प्रायेणेति । अन्यत्र जीवप्रधानदौ । तैत्तिरीयक इति । पूर्वं ब्रह्मणः सर्ववेदवेद्यत्वं प्रतिपादितं तन्न संभवेत् । आनन्दमयादिशब्दानां जीवादिषु प्रसिद्धेरित्याक्षिप्य समाधानादाक्षेपसङ्गतिः । तत्र हि ब्रह्मविदाप्नोतीत्युपक्रम्यान्नमयादयः पञ्च पुरुषाः पठ्यन्ते । तत्त्रान्नमयो यथा । स वा एष पुरुषोऽन्नरसमयः । तष्येदमेव शिरः । अयं दक्षिणः पक्षः । अयं उत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति अन्नाद्वै प्रजाः प्रजायन्ते याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्त्यथान्नं तदपि यास्त्यजन्त्यत इति । अस्यार्थः । वै प्रसिद्धौ निश्चये वा । एष मृज्जलादिपिण्डलक्षणः पुरुषोऽन्नरसमयः । अन्नरसो नामात्रान्नरसविकारः तेन त्वगादिरूपः सर्वोऽपि तद्विकारो लभ्यते । तन्मयत्वं जलादिविकारश्लेष्माद्यपेक्षया तस्याधिक्यात् तत्प्रचुर्य एव मयड्प्रत्ययात् विकारे तदयोगात् । द्व्यचश्छन्दसीति सूत्रेण विकारावयवयोर्द्व्यच एव मयट् छन्दसि स्यात् । मयतयोरित्यादिना बहुस्वरात्तयोस्तस्य विधानं लोके एव । पक्षिरूपकेणानुवर्णयति तस्येदमिति । इदं प्रसिद्धं शिर एव शिरः । नूनमुत्तरोत्तरत्रैव रूपकमयं । एवं पक्षादिष्वपि व्याख्येयम् । पक्षो बाहुः । उत्तरे वामः । अयं मध्यमो देहभागः । आत्मा अङ्गानां मध्यस्त्वेषामात्मेति श्रवणात् । इदमिति नाभेरधोऽङ्गम् । तत् पुच्छमिव पुच्छं अधोलम्बनसामान्यात् । तदेव प्रतिष्ठाश्रयः प्रकर्षेण तिष्ठत्यस्यामिति व्युत्पत्तेः । तदेवमरुन्धतीदर्शनन्यायेनान्तरतमत्वज्ञानार्थं लोकप्रसिद्धमात्मानमनूद्य तस्यान्तरतमं आत्मानं शास्त्र प्रसिद्धसाधनादिक्रमेण प्रवेशयन् प्राणमयादीनप्याह । तत्र मनसो धारणार्थं तदाधारः प्राणो धार्य इति प्रथमः प्राणमयमाह । एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमयस्तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधतामन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणपक्षः । अपान उत्तरपक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति प्राणं देवा अनुप्राणन्ति मनुष्याः पशश्च ये । प्राणो हि भूतानामायुस्तस्मात् सर्वायुषमुच्यत इत्यादि । तस्यैष एव शारीर आत्मा यः पूर्वस्येति । अस्यार्थः । अन्नवसमयात् प्राणमयोऽन्तरस्तदपगमेऽन्नरसमयस्य मृतेः । एषोऽन्नरसमयस्तेन प्राणमयेन पूर्णः वायुनेव दृतिः । स च प्राणमयः पुरुषविधः पुरुषाकारः । कथं तस्य पूर्वस्यान्नरसमयस्य पुरुषविधतामनुलक्ष्यीकृत्य विशेषं बोधयितुं अयं प्राणमयोऽपि रूपककल्पितैः शिरःपक्षाद्यैः पुरुषाकार एव निरूप्यत इति । तदेव रूपकं दर्शयति । तस्य प्राणमयस्य हृदि स्थितः प्राणवायुरेव प्रथमधार्यत्वेन शिरः कल्प्यते । एवं साधनक्रमेण दक्षिणपक्षत्वादिक्रमो बोध्यः । उदानानिर्देशः प्राणेनाभेदोपासनात् । आकाशस्तत्स्थो वायुवृत्तिविशेषः समानाख्यो वायुः प्राणादिवृत्त्यधिकारात् । स च मध्यस्थत्वादितरपर्यन्तवृत्तिरपेक्ष्यः अध्यक्षः । पृथिवी तदभिमानिनी देवता प्रतिष्ठा आध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । सैष पुरुषास्यपानमारभ्येति श्रुत्यन्तरात् । तस्य प्राणमयस्यैष तस्माद्वा एतस्मादात्मन आकाशः सम्भुतः इत्युपक्रमोक्त एवात्मा शारीर आत्मा तद्रूपशारीरान्तर्यामी । कीदृशः । यः पूर्वस्यान्नरसमयस्यापि शारीरः आत्मा । एवं यः पूर्वस्य प्राणमयस्योत्यादिकं परत्रापि योज्यम् । यत्त्वानन्दमयान्तेऽपि तस्यैष एव शारीर आत्मेति पठ्यते । तत्र तस्यौपचारिकभेदनिर्देशे अनन्यात्मत्वमेव बोधयति नत्वात्मान्तरम् । विज्ञानमयादन्योऽन्तर आत्मा इति वदन्यप्रस्तावात् । ततश्च तत्रैव पूर्वोक्त आनन्दमय्तात्पर्यावसानविवेक आत्मैव तस्य शारीर आत्मेति योज्याम् । एवं प्राणधारणया मनो वशीकृत्य उच्च मनो निष्कामकर्मात्मकतया धार्यमिति । मनोमयमाह । तस्माद्वा एतस्मात् प्राणमयादन्योऽन्तर आत्मा मनोमयन्ते एष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधतामन्वयं पुरुषविधस्तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न विभेति कदाचनेति । तस्यैष एव शारीर आत्मा यः पूर्वस्येति । अस्यार्थः । मनः सङ्कल्पाद्यात्मकमन्तःकरणं अस्य पूर्वस्मादन्तरत्वं ज्ञानसम्बन्धेन जडात् प्राणमयश्रैष्ठ्येन बोध्यम् । तेनैष पूर्णः मनोमयेन प्राणमयः पूर्णः । एष एव मनोमयः पुरुषाकारः । तस्य प्राणमयस्य पुरुषविधतामनुलक्ष्यीकृत्यायं मनोमयोऽपि पुरुषाकार इत्यर्थः । तदेव रूपकं दर्शयति । तस्य यजुरित्यादिना । यजुरित्यनियताक्षरपादविशेषो मन्त्रविशेषः । तज्जातिवाची यजुःशब्दः । तस्य शिरस्त्वं प्राथम्या यजुषा हि हविर्दीयते । एवमृक्सामयोश्च वैशिष्ट्यं बोध्यम् । आदेशोऽत्र ब्राह्मणम् । आदेष्टव्यविशेषान्निर्दिशति । अथर्वाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणञ्च शान्त्यादि प्रतिष्ठाहेतुकर्मप्रधानत्वात् पुच्छं प्रतिष्ठा । मनोमयाङ्गत्वं चैषां मनोवृत्तावाविर्भावित्वेन तत्प्राचुर्यात् । तद्विकारत्वे तु पौरुषेयत्वापत्तिः । अत्र पारमार्थिकपथस्यैव प्रकृतत्वाद्व्यवहारिकसङ्कल्पाद्यात्मकमनोमयत्वं न प्रयुज्यते । प्राणधारणायाः प्रागेव हि त्यक्तं तत् । अतएव मनुष्याधिकारवत्त्वान्मनुष्यशरीरमेवोपक्रान्तम् । तस्य मनोमयस्यैष तस्माद्वा एतस्मादित्युपक्रमः । कथित एवात्मा शारीर आत्मा तद्रूपशारीरान्तर्यामी । यः पूर्वस्य प्राणमयस्यापि शारीर आत्मेत्यर्थः । अथ विज्ञानमयमाह । तस्माद्वा एतस्मात्मनोमयादन्योऽन्तर आत्मा विज्ञानमयस्तेनैष पूर्णः । स वा एष पुरुषविध एव तस्य पुरुषविधतामन्वयं पुरुषविधस्तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठं उपासत इत्यादि । तस्यैष एव शारीर आत्मा यः पूर्वस्येति । अस्यार्थः । विज्ञानमयस्य जीवस्य मनोमयादस्तरत्वं करणात् तस्मात् कर्तृत्वेन श्रैष्ठ्यात् । तेनैष पूर्णः । विज्ञानमयेन मनोमयः पूर्णः । स वा एष विज्ञानमयः पुरुषविधः । तस्य मनोमयस्य पुरुषविधतामनुलक्ष्यीकृत्यायं विज्ञानमयोऽपि पुरुषविध इत्यर्थः । तदेव रूपकं दर्शयति तस्य श्रधैवेत्यादिना श्रद्धात्राध्यात्मशास्त्रयाथार्थ्यप्रतीतिः । ऋतं तच्छास्त्रार्थनिश्चिता बुद्धिः । सत्यं तदर्थानुभवप्रयत्नः । योगो युक्तिः समाधिरित्यर्थः । स तस्य मध्यकायः । श्रद्धादीनामेतत् साक्षात्काराङ्गत्वात् महस्तत्तत्सर्वप्रकाशकत्वेमोत्तमतरं शुद्धजीवस्वरूपं तत् किल पुच्छं तत्तदवधिभूतत्वात् । तत् खलु प्रतिष्ठा तेषां सर्वेषामाश्रयः । तदेवं शुद्धजीवपर्यन्तमुपदिश्य तथा तथा लब्धान्तराणां पुनः सर्वान्तरतमत्वेन तत्रैव पूर्वोपक्रान्तमुख्यात्मतत्त्वपर्यवसायकयत्नान्दमयमुपदिशति । तस्माद्वा एतस्माद्विज्ञानमयादित्यादिना । शेषं भाष्ये द्रष्टव्यम् । अस्यार्थः । आनन्दमयस्य सर्वान्तरवर्तित्वात् इह पूर्वत्र शास्त्रीयपरमार्थप्रक्रियैव लब्धा न तु व्यवहारिकी । ततः प्रियादिशब्दैः इष्टपुत्रदर्शनादिजमानन्दादिकं न व्याख्येयम् । किन्त्वेकस्यैव परमानन्दरूपस्य हरेरुत्तरोत्तरोदयविशेषात् प्रियादिशब्दैर्देशः । तथाहि एक एव परमात्मा व्युहित्वेन बृहत्वेन द्विधा भवति । तानन्दमयस्य प्रियरूपो नारायणः शिरो भवतिमोदरूपः प्रद्युम्नो दक्षिणः पक्षः प्रमोदरूपोऽनिरुद्ध उत्तरः पक्षः आनन्दरूपो वासुदेव आत्मा मध्यकायः । यथा नारायणो मध्यकायः वासुदेवः शिर । इति ब्रह्मरूपः सङ्कर्षणस्तु पुच्छं भवति । एवं हि स्मरन्ति । शिरो नारायणः । प्रोक्तो दक्षिणः सव्य एव च । प्रद्युमानिरुद्धश्च सदेहो वासुदेवकः । नारायणोऽथ सदेहो वासुदेवः शिरोऽपि वा । पुच्छं सङ्कर्षणः प्रोक्त एक एव तु । पञ्चधा । अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः । ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने ॥ इति ॥ सङ्कर्षणस्य ब्रह्मत्वमाधाररूपस्य तस्याधेयपुरुषोत्तमविग्रहापेक्षया बृहद्रूपत्वात् तद्धारकत्वस्वरूपबृहद्गुणयोगाच्च वदन्ति । अतएव तदाधारत्वरूपं प्रतिष्ठात्वं च तस्योक्तं पुच्छत्वन्तु सर्वोत्तरोदितत्वादिति । नचैवमुत्तरोत्तरोदयतारतम्याद् भेदः प्राप्नोति । एकोऽपि सन् । बहुधा योऽवभातीत्यादिश्रुतेः । अङ्गाङ्गित्वेनेत्यादिस्मरणाच्च । अतएव शिरः सदेहरूपके परिवृत्तिं सङ्गच्छते । तथाच नारायणादिशिरःप्रभृत्यवयवः श्रीकृष्णानन्दमयः स्वयं भगवानिति निष्कृष्टम् । अतएवानन्दमयमधिकृत्य रसो वै स । इत्यादिकमपि सङ्गतिमत् । मल्लानामशनिरित्यादौ पञ्चविधप्रेमरसाश्रयतया तस्यैवाभिधानात् । तथाच ब्रह्मविदाप्नोति परमिति यद् ब्रह्मोपक्रान्तं तस्यैष तस्माद्वा एतस्मादात्मन आकाश इत्यादिनात्मत्वं प्रदर्श्य तत्त्वस्य पर्यवसानमान्दमय एव दर्शितं अन्यानुक्तेरिति । विशेषस्तु प्रियशिरस्त्वाद्यप्राप्नोरित्यत्र द्रष्टव्यः । यद्यपि व्याख्यान्तरं प्राचीनैरप्यत्र दर्शितमस्ति तथाप्येतदेव व्याख्यानं सद्भिश्च श्रद्धेयं प्रमाणमूलत्वादिति । एतावतार्थकदम्बेनाचिन्त्येऽस्मिन् विषये । सन्देहादिकं दर्शयति किमयमित्यादिना । शारीरो देहभृत् । तत्त्वञ्च जीवस्यैव प्रसिद्धम् । स हि स्वार्जिताभ्यां पापपुण्याभ्यां नानाविधानि शरीराणि भजतीतिशास्त्रे दृष्टम् । परब्रह्मणस्तु कर्मसम्बन्धाभावाच्छरीराणि न भवन्तीत्यशरीरत्वं प्रसिद्धम् ॥ प्रतिष्ठान्तेनेति । वाक्येनेत्यर्थः । असन्निति । असन्निन्द्यः सम्भवति यो ब्रह्मासन्नास्तीति वेद । योऽस्ति ब्रह्मेति वेद । ततो ब्रह्मास्तित्ववेदनाद्धेतोरेनं जनाः सन्तं विदुर्ज्जानन्तीत्यर्थः । तत्रैवेति । आनन्दमये पुंसि ब्रह्मशब्दस्य द्विपाठादित्यर्थः । अविशेषेति । तस्यैव शब्दस्य पुनः प्रयोग इत्यर्थः । इदं द्वितीयं तात्पर्यलिङ्गम् । पुच्छब्रह्मणि केचित्तदभ्यासं मन्यन्ते तान्निरस्यति न चेति । तथाभृतस्य पुच्छान्तपठितस्य । तथाच प्रक्रमभङ्गाख्यो दोष इत्याशयः । तदयोगादभ्यासासम्भवात् । यत्त्विति । मुख्यत्वमिति । तस्येति । तस्यानन्दमयस्य सर्वान्तरन्त्वं सर्वान्तरवर्तित्वं तदनन्तरमन्यस्यात्मनोऽनुपदेशात् । नन्वेवञ्चेत् तस्यान्नमयादिभिः सह कुत उपदेशो भवितुं युज्यतेति चेत्तत्राह । अज्ञानामिति । अपरोपदेशे अन्नमयादिपुरुषोपदेशे । अपरत्र अन्नमयादिषु । न वेति । परस्यानन्दमयात्मनः । अभ्यासलिङ्गेनानन्दमयस्य परमात्मत्वं सूत्रकृद्भिर्निर्णीतं । अथोत्तरग्रन्थात् भृगुवार्तातस्तस्य तत्त्वं निर्णेतव्यमिति । भाष्यकृद्योजयति किञ्चोत्तरत्रेति । स य एवम्विदिति । आनन्दमयं ब्रह्म जानन्नित्यर्थः । एतमानन्दमयमात्मानमीश्वरमुपसंक्रम्य तस्यान्तिकं प्राप्य । इमान् चतुर्दशलोकान् अनुसञ्चरन् साम गायन्नास्ते वर्तत इत्यर्थः । सर्वत्र गतिस्वाच्छन्द्यवर्णनेन मुक्तत्वं सामगानेन मुक्तावपि भगवद्रतत्वं च बोध्यते । यत्तूपसंक्रम्येत्यस्योल्लङ्घ्येत्यर्थमभिधायानन्दमयादन्यत् परतत्त्वमित्याहुस्तन्मन्दम् । तच्छब्दस्य तत्र शक्त्यभावात् । मेषादिराशिषु रवेः प्राप्तिरेव मेषादिसंक्रान्तिरिति प्रसिद्धः । स कीदृश इत्याह । कामान्नीति कामं यथेष्टमन्नं भोगाः सन्त्यस्य कामान्नी कामं यथेष्टं रूपमस्त्यस्य कामरूपी । स सत्यसंकल्पत्वान्निखिलभोगसम्पन्नो विचित्ररूपश्च तदा भगवन्तमनुकूलयन् विभातीत्यर्थः । पुरुषविध इति । अत्र प्रधानमहदादिपरिणामरूपेषु समष्टिव्यष्टिजीवशरीरेषु जीवानामनुग्रहाय त्वमन्नमयं प्रविष्ट इत्यर्थः । कोह्येवान्यादित्यादिश्रुत्या प्राणनादिचेष्टानां त्वन्निमित्तत्वाभिधानात्तवानुग्राहकत्वम् । अन्नमयादिषु यश्चरमः पुरुषविधः पूर्वपूर्ववत् पुरुषरूपकेन निरूपित आनन्दमयः स त्वमेव । ननु तत्र जीवशरीरेषु प्रविष्टस्य मम तद्गतमालिन्यप्रसङ्ग इति चेत्तत्राह । सदसतः परमिति । स्थूलसूक्ष्मकार्यकारणवर्गात् परमन्यद्वस्तु । त्वं तत्प्रविष्टोऽपि तद्गन्धास्पृष्ट इत्यर्थः । एषु समष्टिरूपेषु जीवशरीरेषु लीनेषु सत्सु यद्वस्तु अवशेषं शिष्यमाणं ऋतं तत्तत्सर्वाश्रयभूतं तत्त्वमेवत्यर्थः । ऋगतावित्यस्मादधिकरणार्थकेन क्त्वप्रत्ययेन सिद्धे ऋतशब्दस्य तदर्थत्वं बोध्यम् । शारीरत्वन्त्विति । तस्मिन् परमात्मनि । तदुक्तेः शारीरत्वाभिधानात् । शारीरकमिति । शारीरः परमात्मा स्वार्थे कप्रत्ययः । वाच्यवाचकयोरभेदविवक्षया शास्त्रं शारीरकं । यत्त्विति व्याचष्टे केवलाद्वैती । शब्देति । पक्षसाध्ययोरेकविभक्तिकत्वं दृष्टं । तदभावात्तद्भङ्गम् । देशिको गुरुः स च बादरायणो वरुणश्च विकार इति । नित्यं वृद्धशरादिभ्य इति सूत्रेणानन्दशब्दात् बुद्धत्वाद्विकारे मयट् स्यात् अत आनन्दस्य विकार आनन्दमयः स च जीवः स्यादित्याशाङ्का स्यादित्यर्थः । नित्यं वृद्धेति सूत्रे मयड्वेतयोरिति सूत्राद्भाषायामिति नानु वर्त्तते । कथमन्यथा विकारशब्दान्नेति चेदिति पूर्वपक्षः । कथं वा द्व्यचश्छन्दसीतिनियमश्च संभवेत् । दीक्षितास्तु व्याख्याः । अनुवृत्त्यापि वा भाषायां नित्यं । अन्यत्र तु कादाचित्क इत्याश्रीत्य मयट्सु साधुरिति । ततश्च नित्यं वृद्धेत्यनेन मयटि सिद्धे द्व्यचश्छन्दसीत्यारभ्यते । तेनानन्दशब्दाद्बह्वचो विकारे न मयट् । किन्तु तत्प्रज्ञतेति सूत्रेणैव स इत्यर्थः । एतदत्र बोध्यं अन्नरसमनोविज्ञानानन्दशब्देभ्यः प्राचुर्ये मयट् । प्राणशब्दात्तु विकारे सः । ननु प्राणशब्दादिव मनःशब्दादपि विकारे मयट् स्याद्व्यचत्वादिति चेन्न । यजुरादीनामविकृताक्षरराशित्वेन मनोविकारत्वाभावत् । किन्तु मनोवृत्तावाविर्भावित्वेन तत्प्राचुर्यात्तत्र सः । यद्यपि विज्ञानं जीवचैतन्यमाणवमिति तत्प्रचुर्यं न सम्भवेत् । तथापि धर्मभूतज्ञानद्वारास्य व्याप्तिरस्तीति । तेन प्राचुर्यमादाय तद्वाचकात् प्रत्यय इत्याहुः । एष इति । अपहतपाप्ना नित्यनिरस्तनिखिलदोषः । पर इति श्रीविष्णुपुराणे । किञ्च प्रचुरप्रकाशे रविरित्यत्र प्रचुरशब्दः स्वरूपपर्यवसायी दृष्टस्तत्र सति आनन्दमय आनन्दस्वरूपः । एवं विज्ञानमयश्च बोध्यः । छन्दसि दृष्टानुविधिरिति तु वदन्ति को हीति अन्यानपानचेष्टां कः कुर्यात् । प्राणचेष्टाञ्च कः कुर्यात् । यद्येष आकाशः परमात्मानन्दस्वभावो न स्यात् । आनन्दमयत्वादेव फलनिरपेक्षो लोकयात्रां निर्वाहयतीति लोकवत्तु लीलाकैवल्यमिति वक्ष्यति । आनन्दयातीति । दैर्घ्यं छान्दसं । स्फुटमन्यत् । इहानन्दशब्देनेति । वसन्ते ज्योतिषा यजेतेत्यत्र ज्योतिःशब्देन ज्योतिष्टोम इव को हीत्यादावानन्दशब्देनानन्दमयो बोध्यः तस्यैवोपक्रान्तस्य ब्रह्मणः नेतर इति । वद्धजीवादितरो मुक्तो जीवो न मान्त्रवर्णिक इत्यर्थः । वशे इति श्रीभागवते ननु तस्यैव सार्द्धमहमागममितिवत् कल्पितेन सहभावेन तदा भाव्यमिति चेत्तत्राह । भेदेति । रस इति । मान्त्रवर्णिको हरिः । वै प्रसिद्धौ । रसः शृङ्गारादिरसमुर्त्तिर्भवति । यं रसं लब्ध्वायं तदुपासक आनन्दी प्रशस्तानन्दभाक् भवतीति मोक्षे जीवस्य धर्मित्वं सिद्धम् । साधर्म्यं साम्यम् । स्फुटमन्यत् नन्विति । प्रकाशात्मा सत्त्वं । सत्त्वं लघु प्रकाशकमिति सांख्योक्तेः । तदेव ज्ञानसुखरूपेण परिणमते । अतः सत्त्वमानन्दहेतुः । तच्च प्रधानेऽस्तीति प्रचुरानन्दं प्रधानमानन्दमयशब्दितमस्तु । न तु ब्रह्मेति चेत्तत्राह । कामाच्चेति अस्मिन्निति । प्रतिष्ठितस्यैकान्तिकभक्तस्य । शिष्टिरुपदेशः । तत्र प्रधानरूपे
अधिकरणम् ७ (अन्तराधिकरणम्)
अन्तस् तद्-धर्मोपदेशात्
तयोर् अन्तर्वर्ती परमात्मैव न जीवः । कुतः ? तद् इत्य् आदेः । इह प्रकरणेऽपहत-पाप्मत्वादीनां तद्-धर्माणां निगदात् । अपहत-पाप्मत्वम् अपहत-कर्मत्वं कर्म-वश्यता-गन्ध-राहित्यम् इति यावत् । न चैतत् कर्म-वश्ये जीवे सम्भवेत् । न चौत्पत्तिकं लोक-कामेशितृत्वादि । नापि फल-दातृत्वं तत्र मुख्यम् । न चोपास्यतायाः पारवश्यम् । यत् तु देह-सम्बन्धात् जीवोऽसाव् इत्य् उक्तं, तन् न पुरुष-सूक्तादिषु—वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णः तमसः परस्तात् इत्य् आदिना तस्यात्म-भूत-दिव्य-रूप-श्रवणात् ॥२०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।७।१३-१४।
भेद-व्यपदेशाच् चान्यः
आदित्यादि-देहाभिमानिनो जीवाद् अन्योऽन्तर्यामी परमात्मेत्य् अवश्यम् अङ्गीकार्यम् ।
य आदित्ये तिष्ठन्न् आदित्याद् अन्तरो यम् आदित्यो न वेद यस्यादित्यः शरीरं य आदित्यम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः इति बृहद्-आरण्यके ।
तस्माद् भेद-निरूपणात् स एवेह भवितुम् अर्हति श्रुति-सामान्यात् ॥२१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।७।१४
तत्रैव छान्दोग्ये श्रूयते—
अस्य लोकस्य का गतिर् इत्य् आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्त्य् आकाशः ... परायणम् [छा.उ. १.९.१] इति ।
इह सन्दिह्यते । आकाश-शब्द-बोध्यं वियद् ब्रह्म वेति ? तत्राकाश-शब्दस्य वियति रूढत्वाद् आकाशाद् वायुर् इति तस्यापि भूत-हेतुत्व-श्रवणाच् च वियद् इति प्राप्तौ ॥
पूर्वं ब्रह्मशाब्दाभ्यासादिकं आनन्दमयस्य ब्रह्मत्वे यथा हेतुस्तथा हिरण्यश्मश्र्वादिकमादित्यमण्डलस्थपुरुषस्य जीवहेतुरस्त्विति दृष्टान्तसङ्गत्यारभ्यते । छान्दोग्य इत्यादि । अथेति । उपासनाप्रस्तावादथशब्दः । य एष शास्त्र प्रसिद्धः । आदित्यमण्डलान्तर्वर्त्ती हिरण्यमयो ज्योतिर्मयश्चिद्घन इत्यर्थः । हिरण्यसुवर्णशब्दाभ्यां चैतन्यलक्षणं ज्योतिर्ग्राह्यम् । कनकवाचिभ्यां ताभ्यां । स्पृहणीयसर्वाङ्गत्वं लक्ष्यमित्याहुः । श्मश्रुशब्देनातिसूक्ष्माणि रोमाण्येव ग्राह्याणि । वयःपरिणामकृतानां तेषां तत्राभावात् । दृष्टसादृश्येनोक्तिर्हृत्प्रवेशायेति केचित् । आप्रणखो नखाग्रम् । यथेति । यथा कप्यासं पुण्डरीकं पद्मं भवति । एवमस्य पुरुषस्याक्षिणी भवतः । अत्र पुण्डरीकाक्षशब्दः पद्मसामान्यमाह । तेनारुण्यांशसिद्धातिचारुतालाभः महोत्पलमित्यादि पठद्भिः पद्मसामान्यपर्यायतयासौ पठितः । कं जलं पिबतीति कपिः सूर्यस्तेनासो । दीप्तिर्यस्य तद्रविकरविकसितमित्यर्थः । अथवा कपिरासो नासाग्रं यस्य तत् । गम्भीराम्भःसमूभूतमित्यर्थः । यद्वा कम्पत इति कपिः कुण्डिकम्पोर्नलोपश्चेति इप्रत्यये नलोपः । पुष्टपुण्डरीकधारित्वात् कपिः सकम्पः आसो नासाग्रं यस्य तदित्यर्थः । सर्वथा प्रसन्ननयनत्वमर्थः । अनेन परिपूर्णत्वं अनुग्रहशीलत्वञ्च व्यज्यते तदन्येषं ब्रह्मरुद्रादीनां त्वपूर्णत्वात् कामक्रोधाद्याक्रान्तत्वाच्चाक्षीणि विरूपाणि भवन्ति । हरेस्तु तत्तदभावात् प्रफुल्लारविन्दनेत्रत्वमुक्तम् । तदभावश्च पूर्णमद इत्यादि-श्रवणात् । अतएवारविन्दनेत्रादिशब्दः उद्धवादिभिः धनञ्जयादिभिराचार्यैश्च प्रयुक्तः । स्वरदण्डं कोकनदं पुण्डरीकं । असुरेषु यो रोषः स तेषां कल्याणहेतुत्वादनुग्रह एव । रोषः खलु स्वविषयानिष्टहृत्प्रतीतिः । अरोषगणो ह्यासौ देव इत्यादि स्मरणाच्च । तस्य पुरुषस्य नाम निर्दिशति उदितिरिति । तन्निर्वक्ति एष इति । उदितः उद्गतः सर्वदोषास्पृष्टत्वादुन्ननामेत्यर्थः । तन्नामज्ञानफलमाह । उदेति हेति । सोऽपि तद्वन्निर्दोषो । भवतीत्यर्थः । ऋक्सामे तस्य गेष्णौ पर्वणी भवतः । उद्गीथ उच्चैर्गीयमानत्वात् । स एष आदित्यान्तःस्थः पुरुषः । अमुस्मात् आदित्यत् । पराञ्च उर्द्ध्वगा लोकास्तेषामीष्ट ईशिता भवति । देवकामानां चेशिता तत्प्रदातेत्यर्थः । अधिदैवतं देवतामधिकृत्योपास्तिवाक्यमित्यर्थः । अधिदैवतध्यानोक्त्यनन्तरमध्यात्मं ध्यानमाहाथेति । आत्मानं देहमधिकृत्योपास्तिवाक्यमित्यर्थः । य एषोऽन्तरक्षिणीति । अक्षिमध्यगत इत्यर्थः । स एव । ऋग्वेदात्मक इत्याह सैव ऋगिति । उक्थं शास्त्रविशेषः तत्साहचर्यात् सामस्तोत्रं । एवञ्च सर्ववेदगीयमानत्वमुक्तम् । आदित्यपुरुषे यद्रूपादिकं । तदक्षिपुरुषेऽतिदिशति । तस्यैतस्येत्यादिना । ये चामुष्मादर्वाचो लोकास्तेषं चेष्टे मनुष्यकामानां चेति वाक्यशेषोऽस्ति । तस्यायमर्थः । एतस्मादक्षो अर्वाक् गतानां लोकानामीशिताक्षिपुरुषः । मनुष्यभोगनां च प्रदातेति । अन्तस्तद्धर्मेति । पाप्नशब्देन कर्म ग्राह्यमिति व्याचष्टे अपहतेत्यादिना । न चेति । तत् कर्मवश्यतागन्धराहित्यलक्षणमपहतपाप्नात्वम् । नचौत्पत्तिकमिति । देवानां यल्लोककामेशितृत्वं तन्न स्वाभाविकं किन्त्वीशोपासनलब्धया तच्छक्त्योपजायत इत्यर्थः । स्फुटमन्यत् न त्वादित्यमण्डलस्थो जीवः सोऽस्त्विति चेत्तत्राह । भेदेति । य इति । तेऽन्तर्यामीत्यन्वयः । एवञ्चात्मशब्देनाभेदो न शङ्क्यः । तथा सति षष्ठ्यर्थस्योपचारिकतापत्तिः । अमृत इति नित्यान्तर्यामित्वमुच्यते । आत्मेति विभुर्विज्ञानानन्द इत्यर्थः । स्मृतिश्चैवमाह । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् कनककुण्डलवान् किरीटी हारी हिरन्मयवपुर्धृतशङ्खचक्र इति
अधिकरणम् ८ (आकाशाधिकरणम्)
आकाशस् तल्-लिङ्गात्
ब्रह्मैव स न वियत् । कुतः ? तल्-लिङ्गात् । सर्व-भूतोत्पादनत्वादि-लक्षण-ब्रह्म-लिङ्गाद् इत्य् अर्थः । एतद् उक्तं भवति—सर्वाणीत्य् असङ्कुचित-सर्व-शब्दाद् वियत्-सहित-सर्व-भूतोत्पत्ति-हेतुत्वम् अवगतम् । न च तद् वियत्-पक्षे सम्भवेत् स्वस्य स्व-हेतुत्वाभावात् । आकाशाद् एवेत्य् एव-कारेण हेत्व्-अन्तरं च निरस्तम् । एतद् अपि न तत्-पक्षे । मृदादेर् घटादि-हेतोर् दृष्टवान् । ब्रह्म-पक्षे तु सङ्गतिमत् तस्यैव सर्व-शक्तिमतः सर्व-स्वरूपत्वात् । यद्यप्य् आकाश-शब्दस् तत्र रूढस् तथापि श्रौत-रूढितो ब्रह्मणि प्रयुज्यते बलिष्ठत्वाद् इति ॥२२॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।४०।१-२
कतमा सा देवतेति । प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति प्राणम् अभ्युज्जिहते [छा.उ. १.११.५] इति तत्रैव श्रूयते ।
तत्र प्राणो मुखान्तर्वर्ती वायुर् उत सर्वेश्वर इति सन्देहे । रूढत्वाद् भूताभ्युदयाभिसंवेशयोः प्राण-हेतुकत्व-प्रसिद्धेश् च वायुर् एवेति प्राप्तौ ।
पूर्वपमहतपाप्नत्वादिना ब्रह्मलिङ्गेन हिरण्यश्मश्रुत्वादिकमन्यथा नीतं । इह लिङ्गादाकाशब्दश्रुतिरन्यथा नेतुं न शक्या लिङ्गापेक्षया श्रुतेः प्रावल्यादिति प्रत्युदाहरणसङ्गत्यारभ्यते । अस्य लोकस्येत्यस्यार्थः । शालावतोऽभिधान ऋषिर्जैवलिं नृपं पृच्छति । अस्येति । निखिलप्रपञ्चाधारः का इति प्राश्नार्थः । जैवलिराह । आकाश इति । कथं तदाधारस्तत्राह । सर्वाणीति । भूताकाश व्यावृत्तये हेत्वन्तरं । आकाशं प्रतीति । तत्रैव हेत्वन्तरं । आकाशः परायणमिति । अयमाकाशः परमात्मैवेति सिद्धान्तार्थः इहेत्यादिग्रन्थः स्फुटार्थः । अत्र सर्वजगदुत्पत्तिप्रलयपालनहेतुत्वसर्वज्यायस्त्वानन्तत्वादीनि ब्रह्मलिङ्गानि प्रतीयन्ते । तेषां बहुनामनवकाशलिङ्गानामनुग्रहायैकस्या आकाशश्रुतेर्वाधो युक्तः । त्यजेदेकं कुलस्यार्थे इति स्यायात् । इदमत्र बोध्यं । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षादितिजैमिनेः सूत्रं । तत्र निरपेक्षवरश्रुतिः । श्रुतिसामर्थ्यलिङ्गं संहत्यार्थं ध्रुवपदवृन्दं वाक्यं कथमित्याकाङ्क्षाप्रकरणं । समानदोषाणामुदाहरणान्याकरग्रन्थाद्वीक्षणीयानि
अधिकरणम् ९ (प्राणाधिकरणम्)
अत एव प्राणः
प्राणोऽयं सर्वेश्वर एव न वायु-विकारः । कुतः ? अत एव सर्व-भूतोत्पत्ति-प्रलय-हेतुत्व-रूपाद् ब्रह्म-लिङ्गाद् एव ॥२३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।५।३७
तत्रैव श्रूयते—
अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विशतः पृष्ठेषु सर्वतः पृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेषु इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिर् [छा.उ. ३.१३.७] इति ।
तत्र संशयः—किम् इह ज्योतिर् आदित्यादि तेजः किं वा ब्रह्मेति । तत्र ब्रह्मणः पूर्वम् असन्निधानाद् आदित्यादि-तेजस् तद् इति प्राप्तौ—
पूर्वत्र ब्रह्मकान्तलिङ्गबाहुल्यादाकाशश्रुतेरेकस्या वाधो युक्तः । इह तु भूतोत्पत्तिप्रलयलिङ्गस्य प्राणेऽपि संभवेऽनैकान्तलिङ्गानन्तलिङ्गसहचराभावात् प्राणश्रुतेर्वाधो न युक्तः कर्तुमिति । प्रत्युदाहरणसङ्गत्याह । कतमेति । अतिदेशत्वान्नात्र पृथक्सङ्गत्यपेक्षेत्येके । तत्रैवाकाशवाक्यानन्तरं श्रूयते । उद्गीथे प्रस्तोतर्या देवताप्रस्तावमन्वायत्ता ताञ्चेदविद्वान् प्रस्तोष्यसि मूर्द्धा ते विपतिष्यतीति । कतमा सा देवतेत्यादि । अन्यार्थः । उद्गीथाधिकारे प्रस्तावध्यानमिति वक्तुमुद्गीथ इत्युक्तं । चाक्रायणो नामर्षिर्धनार्थं राज्ञो यागं गत्वा निजज्ञानवैभवं प्रकटयन् प्रस्तोतारमुवाच हे प्रस्तोतः या देवता प्रस्तावं सामभक्तिविशेषमन्वायत्तानुगता ध्यानार्थं तामविद्वानजानन् त्वं चेत् प्रन्तोष्यसि । तर्हि तव मूर्द्धा विपतिष्यतीति श्रुत्वा भीतः सन् प्रस्तोता चाक्रायणं पप्रच्छ । कतमा सेति । तस्य प्रतिवचनं प्राण इति । मुख्यप्राणवायुव्यावृत्तये सर्वाणीति । अभिसंविशन्ति प्रलयकाले लीनानि भवन्तीत्यर्थः । सर्वभूतप्रलयोत्पत्तिरूपेणानवकाशलिङ्गेन प्राणश्रुतिर्वाध्येति न किञ्चिच्चोद्यं
अधिकरणम् १० (ज्योतिरधिकरणम्)
ज्योतिश् चरणाभिधानात्
ज्योतिर् अत्र ब्रह्मैव ग्राह्यम् । कुतः ? चरणेति । तावान् अस्य महिमा ततो ज्यायांश् च पुरुषः पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि [छा.उ. ३.१२.६] इति पूर्वत्र द्यु-सम्बन्धिनः सर्व-भूत-पादत्वोक्तेः । इदम् अत्र तत्त्वं, पूर्वं हि पादोऽस्येति चतुष्पाद् ब्रह्म प्रकृतं तद् एवेह यद् इति यच्-छब्देनानुवर्तितम् इत्य् असन्निधि-भङ्गाद् उभयत्र द्यु-सम्बन्ध-श्रवणाविशेषाच् च निखिल-तेजस्वी हरिर् एव ज्योतिर्, न त्व् आदित्यादिर् इति ॥२४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।५।३६
ब्रह्मणोऽसन्निधिम् आशङ्क्य निरस्यति—
छन्दोऽभिदानान् नेति चेन्, न, तथा चेतोऽर्पण-निगदात् तथा हि दर्शनम्
ननु, गायत्री वा ईदं सर्वं भूतं यद् इदं किं च [छा.उ. ३.१२.१] इत्य् उपक्रम्य ताम् एव भूत-वाक्-पृथिवी-शरीर-हृदय-प्रभेदैर् व्याख्याय, सैषा चतुष्पदा षड्-विधा गायत्री तद् एतद् ऋचाभ्यनूक्तम् । तावान् अस्य महिमा [छा.उ. ३.१२.५-६] इति तस्याम् एव व्याख्यात-रूपायाम् उदाहृतो मन्त्रः कथम् अकस्माच् चतुष्पाद् ब्रह्माभिदध्यात् । तस्माद् गायत्र्याख्यस्य छन्दसस् तत्राभिधानान् न ब्रह्म प्रकृतम् इति चेन्, न । कुतः ? तथेति । तथा गायत्र्-आत्मनावतीर्णे ब्रह्मणि चेतोऽर्पणस्य ध्यानस्य तत्र निगदाद् उपदेशाद् इत्य् अर्थः । तथा स्सति हि गायत्री वा इदं सर्वम् इति दर्शनं सङतिमत् स्याद् अन्यथा पीड्यतेति गायत्र्या ब्रह्मत्वे प्रमाणं दर्शितं भवति ॥२५॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।१।१
युक्तिम् आह—
भूतादि-पाद-व्यपदेशोपपत्तेश् चैवम्
एवं ब्रह्मैव गायत्रीति मन्तव्यम् । कुतः ? भूतादीति भूतादीनि निर्दिश्याह—सैषा चतुष्पदेति । तस्य ब्रह्मत्वाभावे तत्-पादत्व-व्यपदेशासिद्धेर् इत्य् अर्थः । तस्माद् अस्ति पूर्वस्मिन् वाक्ये प्रकृतं ब्रह्म तद् एवेह यद् इत्य् अनुवर्तमानाद् द्यु-संबन्धेन प्रत्यभिज्ञानाच् च परामृष्टम् इति ॥२६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।१२।४४-४५
उभयत्र द्यु-सम्बन्ध-श्रवणाविशेषम् आक्षिप्य समादधाति—
उपदेश-भेदान् नेति चेन्, नोभयस्मिन्न् अप्य् अविरोधात्
ननु त्रिपादस्यामृतं दिवीति सप्तम्या द्यौर् आधारत्वेनोपदिष्टा । इह पुनः परो दिव [छा.उ. ३.१३.७] इति पञ्चम्या मर्यादात्वेन इत्य् एवम् उपदेश-भेदान् न तस्येह प्रत्यभिज्ञेति चेन्, न । कुतः ? उभयेति । उभयस्मिन्न् अपि सप्तम्य्-अन्ते चोपदेशे न विरुध्यते । यथा लोके वृक्षाग्र-स्थोऽपि शुक उभयथोपदिश्यमानो दृश्यते—वृक्षाग्रे शुको वृक्षाग्रात् परतः शुक इति । स चोपदेश-हेदेऽप्य् अर्थैक्यान् न विरुध्यते तद्वत् ॥२७॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।६।१९-२०।
कौषीतकि-ब्राह्मणे—प्रतर्दनो ह वै दैवोदासिर् इन्द्रस्य प्रियं धामोपजगाम युद्धेन च इत्य् उपक्रम्येन्द्र-प्रतर्दनाख्यायिका श्रूयते । तत्र प्रतर्दनेन हिततमं वरं पृष्ट इन्द्रस् तम् उपदिशति—प्राणोऽस्मि प्रज्ञात्मा तं मामायुर् अमृतम् उपास्स्व [कौ.ब्रा. ३.२] इति ।
अत्र संशयः—किम् इयं इन्द्रः प्राण-शब्द-निर्दिष्टो जीवः किं वा परमात्मेति । तत्रेन्द्र-शब्दस्य जीव-विशेषे प्रसिद्देस् तद्-एकार्थस्य प्राण-शब्दस्य तत्रैव वृत्तेश् चायं जीव एव तेन पृष्टः स्वोपासनं हिततमम् आहेति प्राप्ते—
पूर्वत्र प्राणवाक्ये ब्रह्मलिङ्गसत्वादस्तु ब्रह्मार्थता । इह तदभावान्न सात्त्विति । प्रत्युदाहरणसङ्गत्याह । अथ यदत इत्यादि । प्रतिपादकगायत्र्यात्मकब्रह्मोपासनानन्तरं प्रतिपाद्यतेजोमयब्रह्मोपासनकथनायाथ शब्दः । दिवो द्युलोकात् परस्ताज्ज्योतिर्दीप्यते तद्वै इदं । कुत्र तद्दीप्यते तत्राह । विश्वत इति । विश्वस्मात् प्राणिवर्गादुपरीत्यर्थः । विश्वशशब्दस्य कतिपयार्थत्वं व्यावर्तयितुं सर्वत इति । सर्वस्माल्लोकादुपरीत्यर्थः । अनुत्तमेष्विति । आस्थावरब्रह्मान्तेष्वित्यर्थः । इदम्शब्दार्थं स्फुटयति यदिमस्मिन्निति । निखिललोकव्यापी चिद्रूपे हरिरेव स्वहृदि विद्यमानो ध्येय इति वाक्यार्थः । ज्योतिश्चरणेति । ब्रह्मैव ज्योतिः । कुतः तावानस्य महिमेति । ज्योतिषस्तस्य सर्वभूतचरणोक्तेः । तावानित्यस्यार्थः गायन्त्री वा इदं सर्वमिति । गायन्त्रीरूपं यद्ब्रह्म वर्णितं तस्यास्य तावान् महिमा विभूतिः स्वयं पुरुषस्तु ततो । ज्यायान् । तदेवाह पादोऽस्येति । सर्वाणि भूतान्यस्यैकः पादः । तस्य त्रिपाद्विभूतिस्तु दिवि द्योतनवति परमे व्योम्नि चकास्तीति चतुष्पाद् विभूतिर्हरिरेव ज्योतिःशब्दितमित्यर्थः । कीदृशी सेत्याह । अमृतमितिपुमर्थः । इदमत्रेति इह ज्योतिर्वाक्ये । उभयत्रेति तावानिति वाक्ये अथ यदिति वाक्ये चेत्यर्थः छन्द इति । गायन्त्री वा इदं सर्वमिति सर्वात्मकं यद्गायन्त्रीच्छन्दावर्णितं । तस्यैव सर्वभूतादिचतुष्पद्विभूतिस्तावानित्यनेन या वर्णिता सा किल प्रशंसैव न तु वास्तवी । अक्षरसम्वेशमात्रस्य छन्दसस्तथात्वासम्भवादिति पूर्वपक्षेऽभिप्रायः । सिद्धान्ते तु ब्रह्मावतारवद्गायन्त्र्यपि तदवतार इति तथात्वं तस्याः पारमार्थिकमितिबोध्यं । षड्विधा भूतवाक्पृथिवीशरीरहृदयैरात्मना च षट्प्रकारा गायन्त्री वर्णिता । सैषा चतुष्पदा मन्त्रोत्तरार्धगदितपादचतुष्टयेत्यर्थः भूतादिपादेति । तत्पादत्वं भूतादिपादत्वं उपदेशेति । एवं सप्तम्यन्तत्वेन पञ्चम्यन्तत्वेन चेत्यर्थः । प्रत्यभिज्ञेति । प्रधानप्रातिपदिकार्थेन प्रत्यभिज्ञया गुणभूतविभक्त्यर्थो न प्रतिबन्धीति भावः । पूर्वमथ यदत इति यच्छब्दस्य प्रसिद्धविमर्शिततया बलित्वात् तत्सहकृतं ब्रह्मलिङ्गं तेजोलिङ्गापेक्षया बलीत्युक्तं । तथेह किञ्चिद्वलित्वसम्पादकं नास्तीति प्रत्युदाहरणसङ्गेत्यह भाव्यं । पूर्वत्र दिवि दिव इति प्रधानप्रकृत्यर्थानुबोधाद् गुणभूतप्रत्ययार्थो यथान्यथा नीतस्तथेहापीति स्वतन्त्रप्राणादिपदार्थभेदप्रतीतौ तत्सापेक्षब्रह्मरूपवाक्यार्थप्रतीतेर्गुणभूताया अपलापो युक्तो भवितुमिति दृष्टान्तसङ्गत्या चेत्याह । पदार्थः प्रतीतः । स्वातन्त्र्ये जनकत्वेन वाक्यार्थप्रतीतेर्गौण्यं तज्जन्यत्वेनेतिबोध्यं
अधिकरणम् ११ (इन्द्र-प्राणाधिकरणम्)
प्राणस् तथानुगमात्
तन्-निर्दिष्टः परमात्मैव न जीवः । कुतः ? तथेति । तत् प्रकृतस्य तस्य, स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृत [कौ.ब्रा. ३.९] इत्य् आनन्दादि-शब्द-वाच्यत्वेनानुगमात् ॥२८॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।९।६-७; १२।१३।१९; ५।१८।२५।
ननु नोक्तं युज्यते वक्तृ-स्वरूप-निरूपणात् । माम् एव विजानीहि इत्य् उपक्रम्य प्राणोऽस्मि [कौ.ब्रा. ३.२] इति वक्ता खलु इन्द्रः । तेन त्रिशीर्षाणं त्वाष्ट्रम् अहन-मरुन्-मुखान् ऋषीन् शाला-वृकेभ्यः प्रायच्छम् इत्य् आदिना विज्ञात-जीव-भावस्य स्वस्यैवोपास्यत्वेनोपदेशात् । उपक्रमानुरोधेनानन्दादेर् अप्य् उपसंहार-गतस्य जीव-परतया नेयत्वाच् च । प्राणेऽस्मीतीन्द्र-देवतैव तत्त्वेनोपासितुम् उपदिश्यते वाचं धेनुम् उपासीत [बृ.आ.उ. ४.८.१] इतिवत् । बलाधिष्ठातृत्वाच् च तस्य तथोपदेशः । प्राणो वै बलम् [बृ.आ.उ. ४.१४.४] इति हि वदन्ति । तस्माज् जीवोऽयम् इत्य् आक्षिप्य परिहरति ।
न वक्तुर् आत्मोपदेशाद् इति चेद्
अध्यात्म-सम्बन्ध-भूमा ह्य् अस्मिन्
अध्यात्म-संबन्धः परमात्मैकान्त-धर्म-सम्बन्धस् तस्य भूमा बहुत्वम् अस्मिन् प्रकरणे हि यस्माद् दृश्यतेऽतः परमात्मैव स बोध्यः । तथा हि, हिततमं वरं किल मोक्षाप्त्य्-उपायः । तत्-कर्मत्वं माम् उपास्स्व इति प्राण-शब्दितस्य प्रतीयते । एष एव साधु कर्म कारयति इत्य् आदिना सर्व-कर्म-कारयितृत्वम् । तद् यथा रथस्यारेषु नेमिर् अर्पिता नाभावरा अर्पिता एवम् एवैता भूत-मात्राः प्रज्ञा-मात्रास्व् अर्पिताः । प्रज्ञा-मात्राः प्राणेऽर्पिताः इति जड-चेतनात्मक-समस्ताधारत्वं च । एवं स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः । एष लोकाधिपतिर् एष सर्वेश्वरः इत्य् आनन्दात्मकत्वादि च । तद् एतद् धर्म-जातं परमात्मन्य् एव सम्भवति नायत्रेति ॥२९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।१८।२६-२७।
नन्व् एवं चेद् वक्तुर् आत्मोपदेशः कथं सङ्गच्छते ? तत्राह—
शास्त्र-दृष्ट्या तूपदेशो वाम-देववत्
तु-शब्दः सन्देह-हानौ । विज्ञात-जीव-भावेनापीन्द्रेण माम् एव विजानीहि माम् उपास्स्व इत्य् उपास्य-ब्रह्म-रूपतया योऽयं स्वोपदेशः कृतः स शास्त्र-दृष्ट्यैव सम्भवति नेतरथा । शास्त्रं खलु यद् वृत्तिर् यद्-आयत्ता तं ताद्रूप्येण उपदिशति । न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते प्राण इत्य् एवाचक्षते प्राणो हे एवैतानि सर्वाणि भवति इति छान्दोग्य-श्रुतिः । प्राणायत्त-वृत्तिकत्वाद् इन्द्रियाणि प्राण-रूपतया निर्दिशति । तथा चैवं विदुषो वक्तुः स्व-प्रज्ञां स्व-विनेये सञ्चिचारयिषोर् माम् एव विजानीहीत्य् आद्य्-उपदेशो यथा स्वं ब्रह्मायत्त-वृत्तिकम् असौ न विद्याद् इति ।
दृष्टान्तम् आह—वामेति । यथा बृहद्-आरण्यके—तद् धैतत् पश्यन्न् ऋषिर् वाम-देवः प्रतिपेदेऽहं मनुर् अभवं सूर्यश् च [बृ.आ.उ. १.४.१०] इति । स्व-वृत्ति-हेतुं ब्रह्म निर्दिश्य तद्-एकार्थेन मन्व्-आदीन् वाम-देवो व्यपदिशति तथेन्द्रोऽपि स्वम् इति । स्मृतिश् च तद् व्याप्यस्य ताद्रूप्यम् अभिधत्ते—
योऽयं तवागतो देव-समीपं देवता-गणः ।
स त्वम् एव जगत्-स्रष्टा यतः सर्व-गतो भवान् ॥ [वि.पु. १.९.६९] इति ।
सर्वं समाप्नोषि ततोऽसि सर्व [गीता ११.४०] इति च । लोकेऽपि स्थानम् अत्यैक्याद् ऐक्यं वदन्ति । गावः सायम् एकतां यान्तीति । विवदमाना नृपास् तां यातार इति च ॥३०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।७।४३, १०।३०।२२।
नन्व् अस्तु ब्रह्मैकान्त-धर्म-सम्बन्ध-भूमा तथाप्य् एतद्-वाक्यं ब्रह्म-परम् इति न शक्यं नियन्तुम् । न वाचं विजिज्ञासीत वक्तारं विद्यात् [कौ.उ. ३.८], त्रि-शीर्षाणं त्वाष्ट्रम् अहनम् इत्य् आदि जीव-लिङ्गात् । यावद् ध्य् अस्मिञ् शरीरे प्राणो वसति तावद् आयुः, अथ खलु प्राण एव प्रज्ञात्मा इदं शरीरं परिगृह्योत्थापयति [कौ.उ. २.२] इति मुख्य-प्राण-लिङ्गाच् च । एवं यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्य् एताव् अस्मिञ् शरीरे वसतः सहोत्क्रामतः [कौ.उ. २.३] इत्य् अपि जीवाद्य्-उक्तौ न बाधकम् । प्रवृत्ति-निवृत्ति-साहित्येन द्वयोर् ऐक्योपचारात् । तस्मात् त्रयम् उपास्यम् इति तद् एतन् निराकर्तुम् आह—
जीव-मुख्य-प्राण-लिङ्गान् नेति चेन्, न, उपासा-त्रैविध्याद्, आश्रितत्वाद्, इह तद्-योगात्
जीव-प्राणयोर् लिङ्गात् ताव् अप्य् उपास्याव् इति यद् उक्तं, तन् न । कुतः ? तथा सति उपासा-त्रैविध्यात् । न चैकस्मिन् वाक्ये तद् अङ्गीकर्तुं शक्यं वाक्य-भेद-प्रसङ्गात् । अयम् आशयः—किं जीवादि-लिङ्गाद् ब्रह्म-धर्माणां जीवादि-परत्वं, किं वा, त्रयाणां स्वातन्त्र्यम् । आहो स्वित्, जीवादि-लिङ्गानां ब्रह्म-परत्वम् इति । तत्राद्यः प्राग् एव निरस्तः । द्वितीयस् तूपासा-त्रैव्ध्य-प्रसङ्गेन दूषितः । तृतीये युक्तिम् आह—आश्रितत्वाद् इति । अन्यत्रापि जीव-प्राणादि-शब्दानां ब्रह्मार्थत्व-श्रयणाद् अपि तथा ।
ननु तत्र लिङ्ग-सत्त्वात् तद्-अर्थत्वम् आश्रितम् इति चेद् इहापि हिततमोपासन-कर्मत्वाद्-लिङ्ग-योगात् तद्-अर्थत्वम् आश्रयितुं युक्तम् इत्य् आह । इह तद्-योगाद् इति ।
ननु सहवासोत्क्रान्त्योर् ब्रह्म-पक्षे कथं सङ्गतिः ? इति चेत्, न । ब्रह्म-क्रिया-ज्ञान-शक्त्योर् देहे सहावस्थानं सह चोत्क्रमणम् इत्य् अर्थ-सत्त्वात् ।
ननु प्राणादि-शब्दाभ्यां धर्मि-प्रतिपादनात् कथं धर्म-परत्वं ? मैवं धर्म-प्रतिपादनेऽपि धर्मिणः प्रतिपत्तेर् उभयोर् ऐकरूप्यात् । प्राणेऽस्मि प्रज्ञात्मेति शक्ति-द्वय-धर्मकतया निर्दिष्टस्य पुनर् धर्म-रूपस्य प्रशंसा । यो वै प्राणः स प्रज्ञा इति । तस्माद् ब्रह्मैवात्र इन्द्र-प्राण-प्रज्ञादि-शब्दैर् अवगन्तव्यम् इति ।
नन्व् अनारभ्यम् एवैतत् प्राक् प्राण-चिन्तया गरार्थत्वात् । मैवम् । पूर्वत्र शब्द-मात्रे संशयः । इह तु आनन्दादिके कथञ्चिद् अन्य-परतया नीते साधकस्य ब्रह्मैकान्त-धर्मस्य अभावात् बाधकस्य जीवादि-लिङ्गस्य तु सत्त्वाद् अर्थेऽपि स इति तद्-आधिक्यात् पृथग् आरम्भः ॥३१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।१८।२५, ११।११।१७, ११।१२।२०
इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः
मनो-मयादिभिः शब्दैः स्वरूपं यस्य कीर्त्यते ।
हृदये स्फुरतु श्रीमान् ममासौ श्यामसुन्दरः ॥
प्रथमे पादे समस्त-जगत्-कारण-भूतं पुरुषोत्तमाख्यं परं ब्रह्म जिज्ञास्यम् इत्य् उक्तम् । तत्रैवान्यत्र प्रतीतानां केषाञ्चिद् वाक्यानां ब्रह्मणि समन्वयः प्रदर्शितः । द्वितीय-तृतीययोस् तु अस्पष्ट-ब्रह्म-लिङ्गकानां तस्मिन्न् एव समन्वयः प्रदर्श्यते । छान्दोग्ये शाण्डिल्य-विद्यायाम् इदम् आमनन्ति—
सर्वं खल्व् इदं ब्रह्म तज् -जलान् इति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत । मनोमयः प्राण-शरीरो भा-रूपः सत्य-संकल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यत्तोऽवाक्यनादरः [छा.उ. ३.१४.१-२] इत्य् आदि ।
तत्र संशयः—मनोमयत्वादिगुणैर् उपास्यो जीव उत परमात्मा ? इति । तत्र मनः-प्राणयोर् जीवोपकरणत्वात्, अप्राणो ह्य् अमनाः शुभ्रः इति परमात्मनस् तन्-निषेधात् तद्वान् जीवोऽयं स्यात् । न च सर्वं खल्व् इदं ब्रह्म इति पूर्व-निर्दिष्टं ब्रह्मात्र ग्रहीतुं शक्यं, तस्य वाक्यस्योपास्त्य् उपकरण-शान्ति-विधि-परत्वात् । शान्ति-निष्पत्तये सर्वस्य ब्रह्मात्मत्वोपदेशः । एवं जीवे निश्चिते अन्तिमो ब्रह्म-शब्दोऽप्य् एतत्-परं स्याद् इत्य् एवं प्राप्ते—
कौषीतकीत्यादि । प्रतर्दनो नाम नृपः । दैवोदासिः दिवोदासस्य पुत्रः । प्रियं प्रेमास्पदं इन्द्रस्य धाम गृहमुपजगाम । तद्गमने हेतुर्युद्धेनेति । तत्कारणेन पुरुषकारप्रदर्शनेन च अतिवली प्रतर्दनो निखिलान्नृपान् विजित्य स्वतुल्यं शक्रं विजेतुं तल्लोकं गतवानित्यर्थः । शरीरबलेन तमजेयं मन्नान इन्द्रो ज्ञानबलेन जेतुमनाः प्राह । प्रतर्दन वरं ते ददामीति । सहोवाच प्रतर्दनः । हे इन्द्र त्वमेवं वरं वृणीष्व यत्त्वं मनुष्याय हिततमं मन्यस इति । तत इन्द्र उवाच प्राणोऽस्मीत्यादि । मुख्यं प्राणं व्यावर्त्तयति प्रज्ञात्मेति ज्ञानघन इत्यर्थः । तं मामायुरमृतमिति । जीविकां दत्त्वायुरक्षकत्वादायुरित्युच्यते । ज्ञानदानेन मोक्षत्वादमृतमित्युच्यत इत्यर्थः । जीवविशेषे शचीनाथत्वाभिमानिनि । तदेकार्थस्य इन्द्रशब्दसमानाधिकरणस्य । तेन प्रतर्दनेन । स्वोपासनं निजभक्तिं । एवं प्राप्ते प्राणस्तथेति । तन्निर्दिष्ट इन्द्रः प्राणशब्दनिर्दिष्टः । तत्प्रकृतस्य इन्द्रप्राणशब्दप्रकृतस्य । अनुगमादवबोधात् । नह्यानन्दादिरूपत्वं स्वाभाविकं इन्द्रेऽभ्यूपगन्तुं शक्यं । स हि दैत्येरुपद्रुतोऽतिदुःखी स्वाधिकारान्ते विनष्टश्च प्रतीयत इति भावः ननु नोक्तमिति । इन्द्रप्राणशब्दनिर्दिष्टः परमात्मतेत्येतन्न युक्तमित्यर्थः । तत्र हेतुर्वक्त्रिति । तथाहि । स्वहृदि करं निधायेन्द्रो वक्ति मामेव विजानीहि इति । तेनेति । त्वाष्ट्रवधादिकमिन्द्रेनैव कृतं नतु परमात्मना । तथार्थत्वे पुराणेतिहासप्रसिद्धार्थविरोधपत्तिरितिभावः । त्रिशीर्षाणं त्रिशिरसं त्वाष्ट्रम् विश्वरूपं । रुत् वेदान्तवाक्यं तद्येषां मुखे नास्ति तेऽरुन्मुखास्तानब्रह्मज्ञानृषीन् शालावृकेलभ्याऽरण्यश्वभ्यः प्रायच्छं दत्तवानस्मीत्येतत् सर्वं रजोगुणिनि जीवे तस्मिन् संभवतीति । यस्येन्द्रस्य जीवभावो जीवधर्मो विज्ञातः स इन्द्रः प्रतर्दनं प्रति स्वमेवोपास्यमुपदिशति न तु परमेश्वरमित्यतो नोक्तं युज्यत इत्यर्थः । न त्वानन्दोऽजरोऽमृत इत्युपसंहारवाक्यस्य का गतिरिति चेत्तत्राहोपक्रमानुरोधेनेति । तत्त्वेनेति प्राणत्वेन । तस्य तथेति इन्द्रस्य प्राणत्वेनोपदेश इत्यर्थः । एवञ्चेदन्तेनाशङ्क्य । निराकरोत्यध्यात्मेत्यादिना तथाहीति । हिततमं वरं परमपुरुषार्थलभोपायं प्रतर्दनः पप्रच्छ । तल्लाभकामस्य तस्येन्द्रः प्राणोपासनमुपादिदेश । स तु प्राणः परमात्मैव न वायुविकारः । तमेव विदित्वेत्यादिश्रुतिभ्यः । तथा स यो ह मां वेद न ह वैतस्य केनचित् कर्मणा लोकोऽनुमीयते । न स्तेयेन भ्रूणहत्ययेत्यादिकं परमात्मपरिग्रहे घटेत नेन्द्रपरिग्रहे घटेत । तदर्थस्तु योऽधिकारी मां मद्वृत्त्येकहेतुं मद्व्यापकं वा परमात्मानं वेद अनुभवति तस्य ब्रह्मज्ञस्य लोको मोक्षः केनचित् कर्मपानुमीयते न हिंस्यते । दैवात् पतितानां पापानां विद्यया भस्मीभवात् । वह्निज्वालयैवैषीकतुलानामिति । एष एव साधुकर्मेत्यादिना निखिलप्राणिप्रवर्तकत्वं परमात्मधर्म एव । एवं न वाचं विजिज्ञासीत वक्तारं विद्यादिति । वक्तारमुपक्रम्य तद्यथा रथस्यारेषु नेमिरर्पितेत्यादिना जडचेतनसमस्ताधारत्वं दर्शितं । तच्च वक्तुस्तस्य परमात्मत्वे सत्येव सङ्गच्छेत नान्यथेत्यर्थः । श्रुत्यर्थस्तु यथा लोके प्रसिद्धस्य रथस्यारेषु मध्यवर्तिशलाकासु यट्सु चक्रोपान्तानेमिरर्पिता । नाभौ चक्रपिण्डिकायामरा अर्पिताः । तथा भूतमात्राः प्रज्ञामात्रास्वर्पिताः । भूतानि खादीनि मात्राः शब्दादयो विषयाश्चेत्यर्थः । जीवरूपासु प्रज्ञामात्रासु चित्स्वित्यर्थः । ताश्च प्राणे परमात्मन्यर्पिता इति । स एष इत्यादिकं स्फुटं परमात्मपरं । आनन्दात्मकत्वादि चेति । आदिनाजरत्वामृतत्वलोकनाथत्वसार्वैश्वर्याणि गृह्याणि । तस्मादध्यात्मसम्बन्धबाहुल्याद्ब्रह्मोपदेश एवायं । नेन्द्रात्मकजीवविशेषोपदेश इति सिद्धं नन्वेवमिति । एवं निखिलस्य वाक्यस्य ब्रह्मपरत्वे सति । मामेव विजानीहि इति वक्तुरिन्द्रस्य स्वोपदेशः कथं संभवेदित्यर्थः । सङ्गतिमाह शास्त्रेति । विज्ञातेति । विज्ञातजीवधर्मेण्येर्थः । स्वोपदेशो निजोपदेशः । न वै वाच इति । प्राणायत्तवृत्तिकत्वाद्वागादीनां प्राणरूपता प्रणाभिधानञ्च यथा तद्ब्रह्मायत्तवृत्तिकत्वादिन्द्रादिजीवानां ब्रह्मरूपतादीत्यर्थः । प्राणसंवादे कथास्ति । बागादयः सर्वे प्रत्येकमात्मनः श्रैष्ठ्यं मन्यमानाः तन्निश्चयाय प्रजापतिमुपजग्मुः । स च तानुवाच । यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स युष्माकं श्रेष्ठ इति । प्रजापतावेवमुक्तवति बागादिषु क्रमेणोत्क्रान्तेष्वपि मूकादिभावेन शरीरं सुस्थमस्थात् । मुख्यप्राणस्यच्चिक्रमिषायां तु बागादयो व्याकुलतामापुः । तां वीक्ष्य स तानुवाच मा मोहमापद्यथ । यतोऽहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद्वानमवष्टभ्य विधारयामीति । इह बागादीनां प्राणैकायत्तवृत्तित्वं विस्फुटं । पञ्चधा प्राणापानादिरूपेण । वानं शरीरं । वनति गच्छतीति व्युत्पत्तेः । तथाचैवमिति । एवं विदुष ईदृशज्ञानविशिष्टस्य ब्रह्मायत्तवृत्तिकोऽहमिति जानत इति यावत् । स्वप्रज्ञां स्वीयं तज्ञानं । स्वविनेये स्वविशिष्टे प्रतर्दने राज्ञि । सञ्चिचारयिषोः सञ्चारयितुमिच्छोरिन्द्रस्य मामेव बिजानीहीति इत्याद्युपदेशस्तं प्रति बभूवेत्यर्थः । अन्यथा ईदृशोपदेशभावे ईश्वरः कश्चिदस्तीत्येवमुपदेशे सतीति यावत् । असौ प्रतर्दनः स्वमात्मानं ब्रह्मायत्तवृत्तिकं न जानीयादित्यर्थः । वामदेववदिति । तदेकार्थेन अहंशब्दसामानाधिकरण्येन आत्मानं व्यपदिशतीत्यर्थः । सङ्गत्यन्तरमाह । स्मृतिश्चेति । योऽयमिति श्रीविष्णुपुराणे । विष्णुं प्रति देवानां वाक्यं तद्व्याप्यत्वात् देवास्तदभिन्ना इत्यर्थः । सर्वमिति श्रीगीतासु अर्जुनवाक्यं । सर्वव्यापकत्वात् त्वत्तः सर्वं न भिन्नमित्यर्थः । अपरां सङ्गतिमाह । लोकेऽपीति । स्थानैक्ये गाव इति । मतैक्ये विवदमाना इति । तामेकतां अर्धमङ्गीकृत्य आशङ्क्याते । नन्विति । प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह न वाचमिति । वक्ता खलु इन्द्राख्यो जीवः येन त्रिशीर्षा विश्वरूपो निजघ्ने इति जीवलिङ्गं विस्फुटं । यावदिति प्राणस्य शरीरधारणं तदुत्थापनञ्च । प्राणवायुत्वे लिङ्गमिति मुख्यप्राणलिङ्गं विस्फुटं । एवं यो वै इति । प्राणः प्राणवायुः । प्रज्ञाः जीवचैतन्यमिति पूर्वपक्षार्थः । जीवाद्युक्ताविति जीवमुख्यप्राणाभिधाने इत्यर्थः । यः प्राणः सा प्रज्ञेत्येभेदे । युक्तिमाह । प्रवृत्तीति । परमात्मलिङ्गन्तु स एष प्राण एव प्रज्ञात्मानन्दोऽजरामृत इत्यादि विस्फुटमिति । तस्मात् त्रयमिति । उपक्रमोपसंहारपर्यालोचनया ब्रह्मरूपैकवाक्यार्थप्रतीतावपि तस्या जीवमुख्य प्राणरूपपदार्थप्रतीतिजन्यत्वेन गौणत्वात् पदार्थप्रतीतेश्च तज्जनकत्वेन प्राधान्यदेकव्याकार्थप्रतीतिमपोह्य वाक्यभेद एव न्याय इति जीवादीनां त्रयाणामुपास्यानां प्रत्येकं स्वातन्त्र्येण वाक्यार्थत्वमस्त्विति । एतत् परिहरति जीवेति । तावपि जीवप्राणवपि । न चैकस्मिन्निति । उपक्रमादिभ्यां ब्रह्मपरत्वे सम्भवति सति वाक्यभेदो न युक्तस्तस्य गौरवदोषापादकत्वादनिष्टप्रसङ्गकत्वाच्चेत्यर्थः । न च पदार्थप्रतीतेर्मुख्यत्वं तस्या वाक्यार्थप्रतीतिशेषत्वात् । तस्मात् परैव मुख्येति । न हि जनकत्वमात्रेण मुख्यता युक्ता । सन्निपत्योपकारकाणामपि तदापत्तेः । अयमाशय इति । प्रागेव तथानुगमादित्यर्थः । अन्यत्रेति । तत्र कतमा सेत्यादि प्रकरणे । इहापि प्रतर्दनोपाख्याने । तदर्थत्वं ब्रह्मपरत्वं । ब्रह्मेति । ब्राह्मी ब्रह्मनिष्ठा या क्रियाशक्तिर्ज्ञानशक्तिश्च तयोरित्यर्थः । ननु विभ्वोस्तयोरुत्क्रमणं न सम्भवेदिति चेन्मैवं । तयोरचिन्त्यत्वेन तत्सम्भवात् । तस्मात् कार्यनिवृत्तिरेव तदुत्क्रमणमिति व्याख्यातारः । उभयोरिति । सिद्धान्ते धर्मधर्मिणोरभेदादित्यर्थः । तस्मादिति । अत्र प्रकरणे जीवप्राणप्रसङ्गगन्धोऽपि नास्तीति । भावः । नन्विति । प्राक् अतएव प्राण इत्यस्मिन्नधिकरणे । स संशयः
इति श्रीति । श्रीमदिति ब्रह्मविशेषणं । ब्रह्मणोऽतिमनोज्ञसन्निवेशिविग्रहत्वेन स्वात्मकसार्वज्ञ्याद्यनन्तगुणवृन्दलक्ष्मीधामवैशिष्ट्येण च अत्र प्रतिपादनात् । सूत्रविशेषणं वा । विशदार्थप्रतिपदशालित्वात् अल्पाक्षरैः पदैर्महतामर्थानां प्रतिपादनाद्वा । भाष्यविशेषणं वा । अल्पैर्वर्णैर्गभीराणामर्थानां निवेशनात् । प्रतिपादारन्ते प्रत्यध्यायान्ते च तत्तदर्थसूचकैरतिचारुभिः पद्यैरलङ्कृतत्वाच्चेतीति ॥
इति श्रीगोविन्दभाष्यव्याख्याने सूक्ष्माभिधाने प्रथमाध्यायभाष्यस्य प्रथमपादो व्याख्यातः ॥१॥
अधिकरणम् १२ (पादः २, सर्वत्र-प्रसिद्ध्यधिकरणम्)
सर्वत्र-प्रसिद्धोपदेशात्
स खल्व् अयं परमात्मैव, न जीवः । कुतः सर्वत्र वेदान्ते प्रसिद्धस्य जगज्-जन्मादि-हेतुता-रूपस्य तद्-एकान्त-धर्मस्यात्रापि वाक्ये तज्-जलान् इत्य् उपदेशात् । यद्यप्य् उपक्रम-वाक्ये शान्ति-विवक्षया, न तु स्व-विवक्षया ब्रह्म निर्दिष्टं तथाप्य् उपदिष्टे मनोमयत्वादिके तत्-सन्निधास्यति । क्रतुर् उपासना । मनोमयः शुद्ध-मनो-ग्राह्यः, मनसैवानुद्रष्टव्य इति श्रुत्य्-अन्तरात् । यतो वाच इत्य् आदि कृत-प्रतिषेधस् तु पामरागोचरत्वात् कार्त्स्न्यागोचरत्वाच् चेति तत्त्व-विदः । प्राण-शरीरत्वं तन्-नियन्तृत्वात् प्रेष्ठ-मूर्तित्वाद् इत्य् एके । अप्राणो ह्य् अमना इति तु तद्-अनधीन-स्थिति-ज्ञानत्वात् प्राकृत-विषयो वा । मनोवान् इत्य् अनीदवातम् इति च श्रुत्य्-अन्तरात् । अपरे तु, मनोमयः प्राण-शरीर-नेता [मु.उ. २.२.७], स एषोऽन्तर्-हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनोमयोऽमृतमयो हिरण्मयः, हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति, प्राणस्य प्राण इत्य् आदिषु सर्वेषु वेदान्तेषु प्रसिद्धस्य मनोमयत्वादेर् इहाप्य् उपदेशात् परमात्मैव मनोमय इति वाचख्युः ॥१॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।९।३५; १।२।११; १।७।४-५; २।१०।१५-१६; ११।१२।१७।
विवक्षित-गुणोपपत्तेश् च
मनोमयः प्राण-शरीरो भा-रूपः इत्य् आदिना ये गुणा विवक्षितास् ते हि परस्मिन्न् एवोपपद्यन्ते, न तु जीवे ॥२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।१९।४।
अनुपपत्तेस् तु न शारीरः
मनो-मयः शारीरो न भवति खद्योत-कल्पे तस्मिंस् तेषाम् असम्भवात् ॥३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।४६।
कर्म-कर्तृत्व-व्यपदेशाच् च
एतम् इतः प्रेत्याभिसंभवितास्मि इति श्रुतेर् एतम् इति प्रकृतं मनोमयं कर्मत्वेन प्राप्यत्वेन व्यपदिशति । शारीरं त्व् अभिसंभवितास्मीति कर्तृत्वेनेति कर्तुः शारीराद् विलक्षणः कर्म-भूतो मनोमयः परेशः । अभिसम्भवतिर् मिलनार्थः सम्भूयाम्भोधिम् अभ्येति नगापगेत्य् आदि प्रयोगात् ॥४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।४८,६३।
शब्द-विशेषात्
एष मे आत्मान्तर् हृदये [छा.उ. ३.१४.३] इति पठ्यन्तेन शब्देन शारीर उपासको निर्दिश्यते, मनोमयस् तूपास्यः प्रथमान्तेन । भिन्न-विभक्तिकयोः शब्दयोर् अर्थ-भेदेन भाव्यम् । तथा च शारीराद् उपासकाद् अन्यो मनोमय उपास्य इति ॥५॥
स्मृतेश् च
ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥ [गीता १८.६१]
इति स्मरणाच् च शारीरात् परस्य भेदः ॥६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।५।१४।
ननु एष मे आत्मान्तर्-हृदयेऽणीयान् ब्रीहेर् वा यवाद् वा [छा।उ। ३।१४।३] इत्य् अल्प-स्थानत्व-श्रुतेर् अणीयस्त्वोपदेशाच् च जीव एव मनो-मयो न त्व् ईश इत्य् आशङ्का-निरासायाह—
अर्भकौकस्त्वात् तद्-व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च
हेतु-युग्मान् मनोमयो नेश्वर इति न वाच्यम् । अत्रैव ज्यायान् पृथिवी ज्यायान् अन्तरिक्षात् इत्य् आदिना व्योम-वदस्य विभुत्वाभिधानात् । कथं तर्हि तद्-युग्मं सङ्गच्छते । तत्राह—निचाय्यत्वाद् एवम् इति । एवं मितत्वेनोक्तिर् निचाय्यत्वात् हृद्-उपास्यत्वात् । अयम् अत्र निष्कर्षः—विभोर् अपि परस्य यद् अणुत्वं प्रादेश-मात्रत्वादि च तत् क्वचित् भाक्तं क्वचित् तु मुख्यम् । तत्राद्यं स्मृति-स्थान-हृन्-मानस्य स्मर्यमाणे स्थानानि तस्मिन्न् उपचारात् । अन्यं तु तादृशस्यापि तस्य भक्तानुग्राहिणोऽचिन्त्य-शक्ति-योगिनस् तथा तथाभिव्यक्तेः । एकम् एव स्वरूपं भक्तेषु नाना-विधं स्फुरति—एकोऽपि सन् बहुधा योऽवभाति इति श्रवणात् । विभुत्वे सत्य् अप्य् अणुत्वादिकम् अचिन्त्य-शक्ति-योगात् ॥७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।६।८,१०।
ननु जीववत् परमात्मनोऽपि शरीरान्तर्वर्तित्वेन तत्-सम्बन्ध-कृतः सुख-दुःखोपभोगस् तेन सह समः स्याद् इति चेत् तत्राह—
सम्भोग-प्राप्तिर् इति चेन्, न, वैशेष्यात्
इह समिति सहार्थे वर्तते संवाद-शब्दवत् । सम्भोगः सह भोगस् तत्-प्राप्तिर् नेश्वरस्य । कुतः ? वैशेष्यात् । अयम् अभिप्रायः । न हि देह-सम्बन्ध-मात्रं तअद्-उपभोग-हेतुः, किन्तु कर्म-पारतन्त्र्यम् एव । तच् च न तस्यास्ति, अनश्नन्न् अन्योऽभिचाकशीति श्रवणात् । न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा [गीता ४.१४] इति स्मृतिश् चेति । कठ-वल्ल्यां पठ्यते—
यस्या ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः ॥ [क.उ. १.२.२५] इति ॥८॥
अत्र कश्चिद् ओदनोपसेचन-शब्द-सूचितोऽत्ता प्रतीयते । स किम् अग्निर् उत जीवः परो वेति भवति संशयः । विशेषानिश्चयात् त्रयाणां प्रश्नोत्तर-सत्त्वाच् च किं तावत् प्राप्तं अग्निर् अत्तेति । अग्निर् अन्नाद् इति श्रुतेः प्रसिद्देश् च । जीवो वा भवेत् । अदनस्य कर्म-निमित्तत्वात् कर्मिणो जीवस्य तत् सम्भवति, न तु कर्म-शून्यस्य । एवम् अभिप्रेत्य श्रुतिर् अपि तयोर् अदनानदने दर्शयति—तयोर् अन्यः पिप्पलम् इत्य् आदिना । तस्मात् जीवोऽयम् इति प्राप्तौ—
अद्वितीयपादः । अस्मिन् पादे अस्पष्टब्रह्मलिङ्गानि वाक्यानि ब्रह्मणि सङ्गमयितुं मङ्गलमाचरति मनोमयेति । त्रयस्त्रिंशत्सूत्रकं सप्ताधिकरणकं द्वितीयं पदं व्याख्यातुमारभते । द्वितीयेत्यादिना । पूर्वं जीवादिलिङ्गवाधेन ब्रह्मपरत्वं ब्रह्मलिङ्गवशाद्भिहितं । तथेह ब्रह्मलिङ्गं नास्ति किन्तु प्रकरणे ब्रह्मेति । तथाच प्रकरणात् लिङ्गं बलीति मनोमयत्वादिजीवलिङ्गात् जीवपरत्वमेवास्त्विति प्रत्युदाहरणसङ्गत्याह । पदान्तरात्वान्नात्रावान्तरसङ्गत्यपेक्षा इत्येके । छान्दोग्य इति । सर्वमिदं जगत् खलु प्रसिद्धौ ब्रह्मैव भवति । तत्र हेतुस्तज्जेति । तस्मात् जायते तज्जं तस्मिन् लीयते तल्लं तेनानिति जीवति तदनं तज्जञ्च तल्लञ्च तदनञ्च तज्जलान् लोपश्छान्दसः विशेषणानां कर्मधारयः । ब्रह्मायत्तवृत्तिकत्वात् सर्वं जगद्ब्रह्मैवेत्यर्थः । इति शब्दो हेतौ । यस्मात् सर्वं वस्तु ब्रह्म अतो देहाद्ययोगात् शान्तः सन्नुपासीत । उपास्तेः फलमाह । अथेति । पुरुषोऽधिकारी उपासकः । क्रतुमयः सङ्कल्पप्रधानः । तत्र हेतुर्यथेति । अस्मिन् लोके स्थित्वा यथा यादृशः क्रतुरुपासनात्मकः सङ्कल्पो यस्य सः । येन दास्यादिना भावेन हरिं प्रेप्स्यतीत्यर्थः । तथा तेन भावेन विशिष्ट एव इतो लोकात् प्रेत्य परलोकं गत्वा मोक्षी भवतीत्यर्थः । तस्मात् पुरुषः क्रतुमुपासनां कुर्वीत । किमुपासीतेत्याकाङ्क्षायामाह । मनोमय इत्यादि । विभक्तिविपरिणामेन मनोमयत्वादिगुणकं हरिमुपासीतेत्यर्थः । भारूपः प्रकाशस्वरूपः चैतन्यघन इति यावत् । सत्यसङ्कल्पः सफलमानसक्रियः । आकाशात्मा सर्वगतः । सर्वकर्मा विचित्रनानालीलः । सर्वकामो निखिलभोग्यसम्पन्नः । तदेवाह । सर्वगन्धः सर्वस इति । अशब्दमस्पर्शमित्यादिना प्राकृतगन्धादिप्रतिषेधदप्राकृतासाधारणगन्धादिसम्पन्न इति यावत् । शब्दस्पर्शरूपोपलक्षणार्थमाह । सर्वमिति । इदं गन्धादि भोग्यं सर्वमभ्यात्तोऽभितो गृह्णन् विभातीत्यर्थः । भावक्ताम्भादर्शाद्यचि पदसिद्धिर्भुक्ता ब्राह्मणा इतिवत् । अवाक्यश्चासावनादरश्चेति विग्रहः । अवाक्यः सिद्धसर्वार्थत्वेन याच्ञावाक्शून्यः । अनादरः ब्रह्मादिजगत् तृणीकृत्य सुखमासीन इत्यर्थः । यद्वा-अवाक्यः कार्त्स्न्येन वाचामगोचरः । अनादरः नास्त्यादरः स्वेतरेषु यस्य सः । सर्वेश्वरत्वात् सर्वैराद्रियमाणोऽसौ नास्य कश्चिदप्यादरणीय इत्यर्थः । श्रुत्यन्तरञ्च वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वमिति । कृपाविषयस्तु सर्वो भवत्येव । अनादरः आत्मसम्भावनाशून्य इति वा । तत्र संशय इति । मनोमयत्वादीनां प्रकृतब्रह्मसापेक्षत्वनिरपेक्षत्वाभ्यां सन्देहोत्पत्तिरित्यर्थः । तन्निषेधान्मनःप्राणनिषेधात् । पूर्वनिर्दिष्टं प्रकृतं । अन्तिम इति । एतदब्रह्मैतमितः प्रेत्याभिसम्भवितास्मीत्यन्तिमवाक्यस्थ इत्यर्थः । ननु मनोमयत्वादिकं जीवलिङ्गमस्तु प्रकृतलिङ्गसम्बन्धि मास्तु प्रकरणाल्लिङ्गस्य बलित्वादिति चेत् तत्राह । यद्यपीति । स्वविवक्षया ब्रह्मविवक्षया । तथापीति । मनोमयत्वादेर्विशेष्याकाङ्क्षायां यत् सर्वं खल्विदमिति ब्रह्म प्रकृतं तदेवान्वेति नाप्रकृतो जीव इत्यर्थः । अन्यथा प्रकृतहानप्रसङ्गात् । यतो वाच इति । मनोग्राह्यत्वनिषेधो विषयवासनया मनसि ब्रह्मस्फूर्त्तिर्न भवेदित्यर्थकः । कार्त्स्न्याविषयतापर्यवसायी वेत्यर्थः । प्राणशरीर इति । यथात्मा शरीरस्य नियामकस्तथेश्वरः प्राणानामित्यर्थः । अथवोपासकानां प्राणतुल्यं यस्य शरीरं श्रीविग्रहो भवति स परमात्मा प्राणशरीर इत्युच्यते । अप्राणो ह्यमना इति यः प्राणादिप्रतिषेधः स तु प्राणानधीनस्थितित्वात् मनोऽनधीनज्ञानत्वाच्चेति क्रमाद्बोध्यः । प्राकृतविषयो वेति । अप्राणो ह्यमना इति श्रुतिः प्राकृते प्राणमनसी तत्र निषेधति न तु स्वरूपानुबन्धिनी ते । इतरथा मनोवानित्यादिश्रुतिव्याकोपः स्यादित्यर्थः । मनोवानिति समना इत्यर्थः । कृत्स्ना श्रुतिस्तु यदात्मको भगवान् तदात्मिका व्यक्तिः किमात्मको भगवान् ज्ञानात्मकः ऐश्वर्यात्मकः शक्त्यात्मकश्चेति बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे बुद्धिमान् मनोवान् अङ्गप्रत्यङ्गवानित्येषा । अनीदवातमिति । अवातं वायुविकारप्राणरहितं ब्रह्म अनीत् स्वरूपानुबन्धिना ऋगाद्यात्मकेन प्राणेन अश्वशीदित्यर्थः । कृत्स्ना श्रुतिस्तु न मृत्युरासीदमृतं न तर्हि न रात्र्यह्न आसीत् प्रकेतः अनीदवातं स्वधया तदेकं तस्माद्वान्यं न परं किञ्चनासेति । अस्यार्थः । तर्हि महाप्रलये मृत्युर्नासीत् अमृतं सुधा च नासीत् रात्रेरह्नश्च प्रकेतश्चिह्नभूतश्चन्द्रो रविश्च अमृतभोक्ता नासीत् । स्वधया पितृभागेन सहेति योज्यं । नन्वेवं शून्यवादापत्तिरितिचेत् तत्राह । तदेकमवातं ब्रह्मानीत् तस्मादन्यत् परं किञ्चन नास इति । हृदेति । हृत्पद्मे मनीषया । निश्चित्य मनसा योऽभिक्गुप्तो ध्यातो भवतीत्यर्थः मनोमयेत्यादि स्पष्टं अनुपपत्तेरिति । तुरवधारणे एतमिति । इहलोकात् प्रेत्य एतं मनोमयं हरिमहमभिसंभवितास्मि मिलितास्मीति लुटः प्रयोगो गाढोत्कण्ठया भिन्नेति । षष्ठ्यन्तप्रथमान्तयओरित्यर्थः ईश्वर इति । सर्वस्य चाहं हृदि सन्निविष्ट इति चेह बोध्यं । इह षष्ठ्यन्तार्थात् जीवात् प्रथमान्तार्थेओ हरिरस्य इति स्मृतितोऽपि लभ्यत इत्यर्थः नन्वेष इति । मेऽन्तर्हृदये एष आत्मास्ति । कीदृशः ब्रीहेर्यवाद्वा अणीयानतिसूक्ष्मः । अर्भकेति । अर्भकमल्पमोकः स्थानं यस्य तत्वादित्यर्थः । व्योमवदस्येति । अस्यान्तहृदयवर्त्तिब्रीह्याद्यतिसूक्ष्मस्यात्मन इत्यर्थः । तद्युग्मां हेतुद्वयं । मितत्वेन परिच्छिन्नत्वेन । अयमत्रेति । भाक्तं गौणं । तस्मिन् । विभौ । तथा तथेति । अणुत्वेन प्रादेशमात्रत्वादिना चेत्यर्थः । तथैव युगपदिति । सर्वेषु लोकेषु मिथोऽतिदूराः संजातप्रेमाणे हरिभक्तास्तिष्ठन्ति । तैर्युगपद्ध्यायमानोऽण्वादिरूपो हरिरेकदैव तेषु सन्निहितः प्रत्यक्षीभवतीति प्रादेशमात्रः द्विभुजनराकारश्चतुर्भुजदेवाकारश्चेत्यादिपदात् । न च तत्र तत्र धावन् सन्निदधातीति शक्यं भणितुं यौगपद्यासम्भवात् । तस्माद्विभूरेव सोऽचिन्त्यशक्त्याणुत्वादिधर्मा सर्वत्र स्फुरतीति वैशेष्यादिति स्वार्थे ष्यण् । तदुपेति । तच्छब्दः सुखदुःखे परामृशति । तस्येश्वरस्य । पूर्वं जीवस्य यथा । भोक्तृत्वमुक्तं नेश्वरस्य तथात्तृत्वमपि जीवस्यैवास्तु न त्वीश्वरस्य इति दृष्टान्तसङ्गत्याह यस्येति । अस्यार्थः । उभे जात्या प्रसिद्ध ब्रह्मक्षत्रे यस्य ईश्वरस्य ओदनोऽन्नं भवतः सर्वामारको मृत्युर्यस्योपसेचनमोदनभोजनोपयोगि घृतादि भवति तं परेशं नाविरतो दुश्चरितादित्यादिश्रुत्युपदिष्टोपायवान् यथा वेद इत्थमन्यस्तूपायशून्यो न वेदेति काक्वार्थः
अधिकरणम् १३ (अन्तराधिकरणम्)
अत्ता चराचर-ग्रहणात्
पर एवात्ता । कुतः ? चराचरेत्य् आदेः । ब्रह्म-क्षत्रोपलक्षितं कृत्स्नं जगत् मृत्यूपसिक्तम् अन्नाद्यत्वेन गृहीतम्, न हि तादृशस्य तस्य अत्ता परस्माद् अन्यः सम्भवेत् । उपसेचनं खलु स्वयम् अद्यमानंसद् इतरादने निमित्तम् । मृत्यूपसिक्त-निखिल-जगद्-अत्तृत्वं नाम संहर्तृत्वम् एव । तच् च परमात्मैकान्तम् एव प्रसिद्धम् । न चानश्नन्न् इति श्रुत्या तस्य प्रतिषेधः । स्वाभाविकत्वात् । किन्तु कर्म-फलाद् अनस्यैवेति सुष्ठूक्तं परोऽत्तेति ॥९॥
प्रकरणाच् च
अणोर् अणीयान् महतो महीयान् इत्य् आदिभिर् हि पर एव प्रकृतः । अत्तासि लोकस्य चराचरस्य इति स्मृतेर् अपि चैनं समुच्चीयते ॥१०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।६।८, ६।९।३४।
तत्रैव,
ऋतं पिबन्तौ सुकृतस्य लोके
गुहां प्रविष्टौ परमे पराद् धर्षे ।
छायातपौ ब्रह्म-विदो वदन्ति
पञ्चाग्नयो ये च त्रि-नाचिकेता ॥ [क.उ. १.३.१] इति श्रुतम् ।
तत्र कर्म-फल-भोक्तृ-जीवस्य सद्वितीयत्वम् अभिधीयते । द्वितीयश् च बुद्धिः प्राणे वा परमात्मा वेति विचिकित्सायां बुद्ध्यादेर् जीवोपकरणत्वाद् ऋत-पान-रूपः कर्म-फल-भोगः कथञ्चित् सम्भवति, न तु परमात्मनः तस्य तन्-निषेधात् । तस्माद् असौ बुद्धिः प्राणो वेति प्राप्तौ—
अत्र कश्चिदिति । अत्ता भक्षकः । सदितरेति । उपसेचनेतरस्यान्नादेरदने गलाधःकरणे निमित्तं हेतुरित्यर्थः । परमात्मैकान्तं तन्मात्रवर्त्ति । तस्य निखिलजगत्संहर्तृत्वरूपास्यादनस्य अणोरित्यादि सुगमं
अधिकरणम् १४ (गुहाधिकरणम्)
गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात्
गुहां गताव् आत्मानाव् एव जीवेश-रूपौ न तु बुद्धि-जीवौ प्राण-जीवौ वा । कुतः ? तद्-दर्शनात् ।
या प्राणेन सम्भवत्य् अदितिर् देवता-मयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर् व्यजायत ॥ [क.उ. २.१.७] इति ।
तं दुर्दर्शं गूढम् अनुप्रविष्टं
गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्म-योगाधिगमेन देवं
मत्वा धीरो हर्ष-शोकौ जहाति ॥ [क.उ. १.२.१२]
इति च क्रमेण तयोर् गुहा-प्रवेश-वीक्षणात् । हि शब्देन पुराण-प्रसिद्धिः सूच्यते । पिबन्ताव् इति छत्रि-न्यायेन प्रयोज्य-प्रयोजक-भावेन वा द्वयोः पाने कर्तृत्वं, छायातपाव् इति च ज्ञान-तारतम्येन संसारित्वासंसारित्वेन वा सङ्गमनीयम् ॥११॥
विशेषणाच् च
अस्यां प्रक्रियायां जीवेशाव् एव मन्तृत्व-मन्तव्यत्वादि-भावेन विशेषतो विज्ञायेते । तं दुर्दर्शम् इति पूर्वस्मिन् ग्रन्थे मन्तृत्व-मन्तव्याभ्याम् एताव् एव विशेषितौ । इहापि वाक्ये छायातपाव् इत्य् अज्ञत्व-विज्ञत्वाभ्यां,
विज्ञान-सारथिर् यस् तु मनः प्रग्रहवान् नरः ।
सोऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् ॥ [क.उ. १.३.९]
इति प्राप्तृत्व-प्राप्यत्वाभ्यां परत्र च ॥१२॥
छान्दोग्ये य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतद् अमृतम् अभयम् एतद् ब्रह्मेति तद् यद्यप्य् अस्मिन् सर्पिर् वोदकं वा सिञ्चति वर्त्मनी एव गच्छति । एतं संयद् वाम इत्य् आचक्षत एतं हि सर्वाणि वामान्य् अभिसंयन्ति [छा.उ. ४.१५.१-२] इत्य् आदि श्रूयते । तत्र संशयः—किम् अयं पुरुषः प्रतिबिम्बः किं वा देवतात्मा आहो स्वित् जीव उताहो परमात्मेति । आद्यः स्यात् अक्ष्य्-आधारत्व-दृश्यत्वयोस् तत्र सत्त्वात् । द्वितीयो वा रश्मिभिर् एषोऽस्मिन् प्रतिष्ठित [बृ.आ.उ. ५.५.२] इति बृहद्-आरण्यकात् । किं वा तृतीयः स्यात् स हि चक्षुषा रूपं पश्यंस् तत्र सन्निहितो भवति । तस्माद् एषाम् अन्यतमोऽयम् इत्य् अस्यां प्राप्तौ—
पूर्वं ब्रह्मक्षत्रपदस्य मृत्युपदसान्निध्यात् यथा प्रपञ्चरत्वं तथेहापि छन्दस्य सन्निहितगुहाप्रवेशादिना बुद्धिप्राणपरत्वमस्त्विति दृष्टान्तसङ्गत्याह । तत्रैवेति । पूर्वपक्षे बुद्धिप्राणभिन्नजीवज्ञानं फलं । सिद्धान्ते तु जीवभिन्नपरमात्मज्ञानमिति । बोध्यं । ऋतमित्यस्यार्थः । ऋतमावश्यकं कर्मफलं पिबन्तौ भुञ्जानौ जीवेशौ । छत्रिणो गच्छन्तीतिवत् एकस्य जीवस्य पानकर्तृत्वेन ईशस्यापि तत्त्वेन व्यपदेशः । सुकृतस्य पुण्यस्य कार्ये देहरूपे लोके स्थितौ । परार्ध्ये परस्येशस्यार्द्धं स्थानमर्हतीति तथा हृदीत्यर्थः । कीदृशे परमे श्रेष्ठे । या गुहा नभोलक्षणा तां प्रविष्टौ छायातपौ तद्वद्विरुद्धधर्माणौ तौ ब्रह्मविदो वदन्ति । पञ्चाग्नयः कर्मिणश्च त्रिनाचिकेताश्च वदन्तीत्यर्थः । त्रिनाचिकेतुरग्निश्चितो यैस्तेऽपीत्यर्थः । कथञ्चिदिति । उपचारादितिभावः । असौ द्वितीयः । या प्राणेनेति । प्राणेन सम्भवतीति भूतिभिर्व्यजायतेति चोक्तेर्जीवोऽयं प्रतीयते । तं दुर्दर्शमिति । देवं द्योतमानं यं मत्वा धीरो हर्षशोकौ । संसारधर्मौ । जहातीत्युक्तेरीश्वरोऽयं प्रतीयत इत्याशयः । तत्र दुर्दर्शा दुर्ज्ञानं अतएव गृढमनुप्रविष्टं गुप्ततया स्थितं । नाहं प्रकाशः सर्वस्य । योगमायासमावृत इत्युक्तेः । क्वेत्याह । गुहेति । हृत्पुण्डरीकस्थमित्यर्थः । गह्वरेष्ठं गह्वरे अनेकविधार्थसङ्कटे देहे स्थितं । पुराणं चिरन्तनं । अध्यात्मेति । ध्यानलाभेनेत्यर्थः विज्ञानेति विज्ञानं बुद्धिः
अधिकरणम् १५ (अन्तराधिकरणम्)
अन्तर उपपत्तेः
अक्ष्य्-अन्तरः परमात्मैव । कुतः ? उपपत्तेः । आत्मत्वामृतत्व-ब्रह्मत्व-निर्लेपत्व-सम्पद्-वामत्वादीनां धर्माणां तत्रैव सिद्धेः ॥१३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।५।३६।
स्थानादि-व्यपदेशाच् च
यश् चक्षुषि तिष्ठन् [बृ.आ.उ. ३.७.१८] इत्य् आदिना चक्षुषि स्थिति-नियमनादिकं परमात्मन एवोक्तं बृहद्-आरण्यके ॥१४॥
सुख-विशिष्टाभिधानाद् एव च
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म [छा.उ. ४.१०.४] इत्य् अपरिच्छिन्न-सुख-विशिष्टं यद् ब्रह्म प्रक्रान्तं तस्यैव पुनर् अत्राप्य् अक्षि-स्थ-वाक्ये निगदाच् च प्रकृत-ग्रहणं न्याय्यम् । आन्तरालिक्य्-अग्नि-विद्या तु ब्रह्मविद्याङ्गं भवेत् । इह विशिष्टयोक्त्या ज्ञानादि-शब्दानां धर्मि-परत्वं च व्याख्यातम् ॥१५॥
श्रुतोपनिषत्क-गत्य्-अभिधानाच् च
उपनिषदं श्रुतवतोऽधिगत-रहस्यस्य श्रुत्य्-अन्तरे या देवयानाख्य-गतिर् उक्ता मैवेहाक्षि-पुरुष-विद उपकोशलस्योच्यते, अर्चिषम् अभिसम्भवति इत्य् आदिना । तस्माच् च तथा ॥१६॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।८।
प्रतिबिम्बादीनां त्रयाणां ग्रहणं त्व् इह न सम्भवतीत्य् आह—
अनवस्थितेर् असम्भावाच् च नेतरः
तेषां चक्षुषि नित्यमेन स्थितेर् अभावाद् अमृतत्वादेर् निरुपाधिकस्य तेष्व् असम्भवाच् च नेतरेषाम् अन्यतमः कोऽप्य् अक्षिस्थः किन्तु परमात्मैव स इति ॥१७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१६।३६।
बृहद्-आरण्यके श्रूयते—यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः [बृ.आ.उ. ३.७.३] इति । अत्र पृथिव्य्-आद्य्-अन्तः-स्थो यमयिता प्रतीतः, स किं प्रधानं जीवः परो वेति संशये प्रधानम् इति तावत् प्राप्तं, तद्-अन्तः-स्थत्वादेस् तत्र सम्भवात् । कारणं हि कार्येऽनुस्यूतं तस्य नियन्तृ च भवति । प्रीति-प्रदत्वाद् आत्मत्वं तत्रोपचरितं व्याप्ति-योगाद् वा नित्यत्वाद् अमृतं च तद् इति । जीवो वा कश्चिद् योगी स स्यात् सर्वान्तः-प्रवेशनान्तर्धान-शक्तिभ्यां नियन्तृत्वादृष्टत्वादेस् तत्र योगात् । आत्मत्वामृतत्वे च तस्य मुख्ये तस्मात् प्रधान-जीवयोर् एक्तरः स इति प्राप्ते—
अन्तर्याम्य् अधिदैवादिषु तद्-धर्म-व्यपदेशात्
योऽयम् अधिदैवादिषु वाक्येषु अन्तर्यामी श्रुतः, स परेश एव । कुतः? तद् इति । पृथिव्यादि-सर्वान्तःस्थत्व-तद्-अवेद्यत्व-तन्-नियन्तृत्व-विभु-विज्ञानानन्दत्वामृतत्वादीनां तद्-धर्माणाम् इहोक्तेः ॥१८॥
न च स्मार्तम् अतद्-धर्माभिलापात्
उक्त-हेतुभ्यः स्मार्तं प्रधानं अन्तर्यामीति न वाच्यम् । कुतः ? अतद् इति । दृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञतो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्माऽअन्तर्याम्य् अमृतोऽतोऽन्यत् स्मार्तम् [बृ.आ.उ. ३.७.२३] इति वाक्य-शेष-श्रीआनां द्रष्टृत्वादीनां तस्मिन्न् असम्भवात् ॥१९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।१।९,११।
पूर्वत्र पिबन्ताविति प्राथमिकद्विवचनान्तत्वेन समानजीवेश्वरदृष्ट्यनुसाराच्चरमश्रुता गुहाप्रवेशादयो नीतास्तथात्र दृश्यत इतिप्राथमिकप्रत्यक्षत्वोक्त्याक्षिप्रतिबिम्बप्रतीत्यनुरोधाच्चरमश्रुता अमृतत्वादयः कथञ्चित् स्तुत्यर्थत्वेन नेया इति दृष्टान्तसङ्गत्याह । छान्दोग्य इत्यादि । पूर्वपक्षे प्रतीकस्योपासनं फलं सिद्धान्ते तु ईश्वरस्य इति बोध्यं । तत्रोपकोशलविद्यास्ति य एषोऽन्तरक्षिणीत्यादि । अस्यार्थः । अक्षिणि यः पुरुषो दृश्यते शास्त्रतः प्रतीयते स एष । आत्मा हरिरित्याचार्य उपकोशलं प्रत्युवाच । अन्तरिति अक्षिमध्यस्थ इत्यर्थः । प्रतिबिम्बं व्यावर्त्तयितुं आह एतदिति । अक्षिरूपस्य स्थानस्य ब्रह्मसारूप्यमाह तदिति । अस्मिन्नक्षिणि । वर्त्मनी पक्ष्मस्थाने इति द्वितीयाद्विवचनान्तत्वं तयोर्निर्लेपत्वात् सारूप्यं ब्रह्मणः । विभूतिमाह एतमिति । तस्य निरुक्तिरेतं हीति । सर्वाणि वामानि मनोज्ञानि वस्तूनि एतमक्षिस्थं पुरुषं अभिसंयात्याभिमुख्येन सामन्त्येनाप्नुवन्ति सर्वसम्पन्निषेवितोऽसावित्यर्थः । आद्य इति । पुरुषश्छायारूपः प्रतिबिम्बः स्यादित्यर्थः । द्वितीयो वेति । चक्षुरधिष्ठाता सूर्यो द्वितीय उच्यते । एष सूर्यः । अस्मिंश्चक्षुषि । किंवेति । तृतीयो जीवः । आदिपदात् वामनीत्वादीनां ग्रहणं । तथाहि वाक्यशेषः । एष उ एव वामनीरेष हि सर्वाणि वामानि नयति । एष उ एव भामनीरेष हि सर्वेषु लोकेषु हि भातीति । नयति स्वोपासकान् प्रापयतीति निखिलाभीष्टदातृत्वं । भातीति निखिलप्रकाशकत्वं चोक्तं । अक्ष्यन्तर इत्यादि स्पष्टं य इत्यादि सुगमम् सुखेति । आचार्याज्ञया तद्गृहे चिरस्थितगार्हपत्यादीनग्नीन् परिचरन्तमुपकोशलं प्रति प्रसन्नास्तेऽग्नयः प्रोचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति । अत्र कंशब्दो वैषयिके सुखे रूढः खंशब्दस्तु भूताकाश इति मिथो भेदप्राप्तेः पुनराह यद्वाव कं तदेव खं तदेव कमिति । इत्थञ्च मिथो वैशिष्ट्यप्रतिपादनेन यं सुखविशिष्टं ब्रह्म प्रक्रान्तं तस्य पुनरस्मिन्नक्षिस्थवाक्येऽभिधानाच्च स परमात्मेत्यर्थः । आन्तरालिकी मध्यस्था । ब्रह्मेति हृच्छोधकतयत्यर्थः । काषायपक्तिः कर्माणि ज्ञानन्तु परमा गतिः कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तत इत्यादि स्मृतिभ्यः । इह विशिष्ट्येति । श्रुतौ यन्मिथो वैशिष्ट्यमुक्तमस्ति इह सूत्रे स्फुटं तस्योक्त्या सत्यं ज्ञानमनन्तमित्याद्युक्तानां ज्ञानादिशब्दानाञ्च धर्मिपरत्वमुक्तं । नतु जडव्यावृत्तं ज्ञानं परिच्छिन्नव्यावृत्तमनन्तमितिवल्लक्षणं विधेयमिति भावः श्रुतोपनिषत्केति । श्रुत्यन्तरे अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजपन्त एतद्वै प्राणानामायतनमेतदमृतमेतदभयमेतत् परायणमेतस्मान्न पुनरावर्त्तते इत्यस्मिन् या देवयानाख्या गतिरुक्तेत्यर्थः । अस्यार्थः । अथ देहपातानन्तरं ब्रह्मचर्यादितपसा हेतुनात्मानमीश्वरमनुसन्धाय तद्ध्यानरूपया विद्ययोत्तरमार्गमर्चिरादिकं प्राप्य तेनादित्यादिद्वारा तमीश्वरं प्राप्नोति । तस्य विशेषणानि एतद्वै प्राणानामित्यादीनि सैव गतिरिहोपकोशलस्य अक्षिपुरुषविदः कथ्यते । अथ यदु चैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवतीत्यादिना एतेन प्रतिपद्यमाना इमं मानवमावर्त्तं नावर्त्तन्त इत्यन्तेन । अस्यार्थः । अस्मिन्नुपासकगणे मृते सति यदि पुत्रादयः शव्यं शवसम्बन्धिसंस्कारादिकर्म कुर्वन्ति यदि वा न कुर्वन्ति उभयखाप्यक्षतोपास्तिकफलास्ते उपासका अर्चिरादिदेवान् प्राप्नुवन्ति । ते चामानवपुरुषान्तांस्तान् ब्रह्म गमयन्तीति विशेषस्त्वर्च्चिरादिना वक्ष्यते । बहुवचनेन मोक्षे जीवबहुत्वं सिद्धं एयाणामिति । प्रतिबिम्बस्य तावत् पुरुषान्तरसन्निधायत्तत्वात् चक्षुषि नियमेनावस्थितिर्न संभवेत् । सूर्यस्य च रश्मिद्वारेण चक्षुषि स्थितिवचनात् देशान्तरस्थस्यापि तस्य करणप्रवर्तकत्वोपपत्तेर्न तत्रावस्थानं । जीव च निखिलकरणानुकूल्याय निखिलतदाश्रयभूते स्थानविशेषे हृद्यवस्थितिरिति न तत्र तदिति त्रयाणां तदसम्भवः पूर्वत्र सूत्रान्तरे यश्चक्षुषि तिष्ठन्नित्यन्तर्यामिब्राह्मणस्थवाक्यमन्तर्यामिनः परमात्मत्वं सिद्धवत् कृत्वोक्तं तदाक्षिप्य समाधानादाक्षेपोऽत्र सङ्गतिः । यः पृथिव्यामित्यादि । प्रधानयोगिजीवान्यतरोपास्तिः पूर्वपक्षे फलं सिद्धान्ते तु परमात्मोपास्तिः । यः पृथिव्यां तिष्ठन्नन्तर्यामीत्युक्ते स्थावरादिः स इति शङ्का स्यात् तद्वारणाय पृथिव्या अन्तर इति । पृथिवीदेवतां वारयितुं यं पृथिवी न वेदेति । तस्या नियामकोऽसावित्याह यस्य पृथिवीत्यादि । एष आत्मा विभुविज्ञानानन्दः श्रीहरिरन्तर्याम्यमृतो नित्यः स इत्यर्थः । एवं यः पृथिव्यामित्याद्यधिदेवतानन्तरं यः सर्वेषु लोकेष्वित्यधिलोकं यः सर्वेषु वेदेष्वित्यधिवेदं यः सर्वेषु यज्ञेष्वित्यधियज्ञं यः सर्वेषु भूतेष्वित्यधिभूतं यः प्राणेष्वित्यादि य आत्मनीत्यन्तमध्यात्मञ्च कश्चिदन्तःस्थो यमयिता श्रुयते स तत्र तत्र स्थितः प्रधानं योगिजीवो हरिर्वेति संशये प्रधानपक्षं व्युत्पादयति तदन्तःस्थत्वादेरिति । योगिजीवपक्षं व्युत्पादयति जीवो वेति । सर्वान्तः प्रवेशनं योगधर्मबलेन बोध्यं । यदुक्तं नारदं प्रति त्वं पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षीति । तस्येति योगिजीवस्य । एवं प्राप्ते सिद्धान्तमाह अन्तर्यामीति । विभुविज्ञानानन्दत्वादिनात्मशब्दार्थो बोध्यः । तद्धर्माणामिति । न चैते अन्यत्र मुख्यतया संभवेयुरित्याशयः न चेति । उक्तहेभूनां द्रष्टृत्वादयः प्रतिपक्षा इति तेषां हेत्वाभासता बोध्या । नान्यतोऽस्ति द्रष्टेति । अदृष्टत्वे सति द्रष्टा अतोऽन्तर्यामितोऽन्यो नास्तीत्यर्थः । इत्थञ्च योगिजीवोऽपि निवारितस्तस्य परमात्मनोऽप्रस्तुतत्वात्
अधिकरणम् १६ (अन्तर्व्याप्यधिकरणम्)
शारीरश् चोभयेऽपि हि भेदेनैवनम् अधीयते
नेत्य् अनुवर्तते । उक्त-हेतुभ्यः शारीरो योगि-जीवोऽन्तर्यामीति न वाच्यम् । कुतः ? हि यस्मात् उभये काण्व-माध्यन्दिनाश् चैनम् अन्तर्यामितो भेदेनाधीयन्ते । “यो विज्ञानम् अन्तरो यमयति” इति, “य आत्मानम् अन्तरो यमयति” इति च नियम्य-नियन्तृत्व-भावेन भेदं तयोः पठन्तीत्य् अर्थः । तस्मात् स श्री-हरिर् एव । सुबालोपनिषदि तु पृथिव्य्-आदीनां अव्यक्ताक्षरामृतानां श्री-नारायणोऽन्तर्यामीति कठैः पठितम् । अन्तः-शारीरे निहितो गुहायां अज एको नित्यो यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरे सञ्चरन् यं पृथिवी न वेद [सुबालोपनिषद् ७] इत्य् आदिना ब्राह्मणेन ।
भागवत-भाष्यम् (हरिदास शास्त्री): ८।१।१६।
अथ परा यया तद् अक्षरम् अधिगम्यते ॥
यत् तद् अदृश्यम् अग्राह्यम् अगोत्रम्
अवर्णम् अचक्षुः-श्रोत्रं तद् अपाणि-पादम् ।
नित्यं विभुं सर्व-गतं सुसूक्ष्मं
तद् अव्ययं यद् भूत-योनिं परिपश्यन्ति धीराः ॥ [मु.उ. १.१.६] इति ।
उत्तरत्र,
दिव्यो ह्य् अमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्य् अजः ।
अप्राणो ह्य् अमनाः शुभ्रो ह्य् अक्षरात् परतः परः ॥ [मु.उ. २.१.२] इति ।
किम् अत्र वाक्य-द्वये प्रकृति-पुरुषौ क्रमेण प्रतिपाद्यो किं वा परमात्मैवेति सन्देहे द्रष्टृत्वादि-चेतन-धर्माश्रवणात्, योनि-शब्दस्योपादान-वाचित्वाच् च प्रधानम् एवाक्षरं स्यात्, परतोऽक्षरात् परस् तु पुरुषो भएत् सर्व-विकार-भूताद् अक्षरात् परत्वं क्षेत्रज्ञेऽपि युक्तेः । तस्मात् ताव् एवात्र वेद्याव् इति प्राप्ते—
शारीरश्चेति । उभाभ्यां भेदेन पाठादुक्तहेतवः सत्प्रतिपक्षा इत्यर्थः । एवं युक्त्या अन्तर्यामिनः परमात्मत्वं निर्णीय सुबालोपनिषत्कठोक्त्या चेत्तस्य तत्त्वं निर्णेतुमाह सुबालेति । तत्र ह्यव्यक्ताक्षरयोः प्रधानजीवयोरन्तर्यामी श्रीनारायण इति स्फुटमुच्यते । तस्मादन्तर्यामी श्रीहरिरेवेति
अधिकरणम् १७ (अदृश्यत्वाधिकरणम्)
अदृश्यत्वादि-गुणको धर्मोक्तेः
अदृश्यत्वादि-धर्मा परमात्मैव उभयत्र वेद्यः । कुतः ? धर्मोक्तेः ।
यः सर्वज्ञः सर्व-विद् यस्य ज्ञान-मयं तपः ।
तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायाते ॥ [मु.उ. १.१.९] इति ।
दिव्यो ह्य् अमूर्तः पुरुषः इत्य् आदिना सर्वज्ञत्वादि-तद्-धर्म-कथनात् पर-विद्या-विषयत्वाच् च ॥२१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।३।३, ९-१०।
विशेषेण भेद-व्यपदेशाच् च नेतरौ
इतरौ प्रकृति-पुरुषौ ताभ्यां न बोध्यौ । यः सर्वज्ञः इत्य् आदिना अक्षरस्य विशेषणात् । दिव्य इत्य् आदिना स्मार्तात् पुरुषात् भेदोक्तेश् च । तस्माद् उभयत्रापि सर्व-कारण-भूतः पुरुषोत्तम एव बोध्य इति ॥२२॥
रूपोपन्यासाच् च
यदा पश्यः पश्यते रुक्म-वर्णं
कर्तारम् ईशं पुरुषं ब्रह्म-योनिम् ।
तदा विद्वान् पुण्य-पापे विधूय
निरञ्जनः परमं साम्यम् उपैति ॥ [मु.उ. ३.१.३]
इत्य् अक्षरस्य भूत-योनेर् उपनिरूपणाच् च तथा । इदं खलु परमात्मओ रूपं, न तु प्रकृतेर् न वा जीवस्य ॥२३॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।३।३-४।
प्रकरणाच् च
प्रकरणेति स्पष्टम् ॥२४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।३।
स्मृतिर् अप्य् एतद् विष्णु-परं व्याचष्टे । द्वे विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।
परया त्व् अक्षर-प्राप्तिः ऋग्-वेदादि-मया परा ।
यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अक्षयम् ॥
अनिर्देश्यम् अरूपं च पाणि-पादाद्य्-असंयुतम् ।
विभुं सर्व-गतं नित्यं भूत-योनिम् अकारणम् ॥
व्याप्य्-अव्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः ।
तद् ब्रह्म परमं धाम तद् ध्येयं मोक्ष-काङ्क्षिणाम् ॥
श्रुति-वाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् ।
तद् एतद् भगवद्-वाच्यं स्वरूपं परमात्मनः ॥
वाचको भगवच्-छब्दस् तस्याद्यस्याक्षरात्मनः ।
एवं निगदितार्थस्य सत्-तत्त्वं तस्य तत्त्वतः ॥
ज्ञायते येन तज् ज्ञानं परम् अन्यत् त्रयीमयम् ॥ [वि.पु. ६.५.६५-६७] इति ।
छान्दोग्ये—
को न आत्मा किं ब्रह्मेति [छा.उ. ५.११.१]… आत्मानम् एवेमं वैश्वानरं संप्रत्य् अध्येषि तम् एव नो ब्रूहीति [छा.उ. ५.११.६] इत्य् उपक्रम्य, यस् त्व् एतम् एवं प्रादेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति ॥ तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्व-रूपः प्राणः पृथग्-वर्त्मात्मा संदेहो बहुलो बस्तिर् एव रयिः पृथिव्य् एव पादावुर एव वेदिर्लोमानि बर्हिर् हृदयं गार्हपत्यो मनोऽन्वाहार्य-पचन आस्यम् आहवनीयः ॥ [छा.उ. ५.१८.१-२] इत्य् आदि श्रूयते ।
तत्र संशयः—किम् अयं वैश्वानरो जाठरोऽग्निः, किं वा, देवताग्निर् उत भूताग्निर्, आहो स्वित् विष्णुः? इति । अत्र चतुर्ष्व् अपि वैश्वानर-शब्दस्य साधारण्य-दर्शनाद् अनिर्णयोऽस्त्व् इति प्राप्ते—
पूर्वत्र प्रधानविरोधिद्रष्टृत्वादिचेतनधर्मवशात् प्रधानं नान्तर्यामीत्युक्तः । तर्हि तद्विरोधिधर्माश्रवणादिहादृश्यत्वादिगुणकं प्रधानं भूतयोनिरस्त्विति प्रत्युदाहरणसङ्गत्याह । अथेत्यादि । अस्यार्थः । पूर्वं ऋग्वेदादिपरा विद्या उपदिष्टा । तदानन्तर्यमथशब्दार्थः । यया तदक्षरमधिगम्यते स परा उत्कृष्टफलेत्यर्थः । वर्णसमुदायं निरस्यति यत्तदिति । अद्रेश्यमदृश्यं ज्ञानेन्द्रियैरलभ्यमित्यर्थः । अग्राह्यं कर्मेन्द्रियैः । अगोत्रं वंशशून्यं । अवर्णं जातिहीनं । अचक्षुःश्रोत्रं चक्षुःश्रोत्ररहितं ज्ञानेन्द्रियोपलक्षणमेतत् । अपाणिपादः पाणिपादरहितं कर्मेन्द्रियोपलक्षणमेतत् संयोगसम्बन्धेन करणप्रतिषेध्ऽयं । अतः स्मर्यते । पाणिपादाद्यसंयुतमिति । स्वरूपानुबन्धिकरणवत्त्वस्त्वस्तीति वक्ष्यति । नित्यं सदैकरसं । विभुं प्रभुं । सर्वगतं व्यापकं । सुसूक्ष्मं दुर्ज्ञेयं । अव्ययमविनाशि । यद् यथोक्तं । अक्षरं भूतयोनिं धीरा यया परिपश्यन्ति सा परा विद्येति । उत्तरत्रेति । दिव्यो द्योतमानः । अमूर्त्तः संयोगसम्बन्धेन मूर्तिरहितः । पुरुषः पुरुषाकारः । सबाह्याभ्यन्तरो विभुः । अप्राण इत्याद्युक्तार्थं । परतः प्रकृतेः परादक्षराज्जीवात् पर इति । परतोऽक्षरादिति । परतः महतः परादक्षरात् प्रधानादित्यर्थः । तदेव व्याचष्टे सर्वेति । अदृश्यत्वेति । अदृश्यत्वादयो गुणा यस्य स तथा । उभयत्र वाक्यद्वये । सर्वज्ञः सामान्येन सर्वविषयकज्ञानवान् । सर्वविद् विशेषेण तादृशः । तस्मादिति । तस्मात् तपःशक्तिकात् सर्वज्ञात् ज्ञानतपस्कात् पुरुषात् ब्रह्म त्रिगुणावस्थं प्रधानं जायते । तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमेति श्रवणात् नन्वेते वाक्ये प्रकृतिपुरुषयोः प्रतिपादके कुतो न स्यातामिति । चेत् तत्राह विशेषणेति । ताभ्यां वाक्याभ्यां । उभयत्रापि उभयोरपि वाक्ययोः रूपोपेति । रूपं विशेषणं तच्च रुक्मवत्स्पृहणीयवर्णत्वं जगत्कर्तृत्वं सार्वैश्वर्यञ्चेत्यादि । न चेदं प्रकृतौ जीवे वा संभवेत् किन्तु परमात्मन्येव। तस्मात् स एवादृश्यत्वादिधर्मेति प्रकरणेति । सुगमं
अधिकरणम् १८ (वैश्वानराधिकरणम्)
वैश्वानर-साधारण-शब्द-विशेषात्
वैश्वानरो विष्णुर् एव । कुतः ? साधारणेत्य् आदि । अयं भावः—यद्यपि स शब्दस् तत्र तत्र साद्ःआरणः, तथापि विष्णु-साधारणैर् द्यू-मूर्धादि-शब्दैर् विशेष्यमाणः सन् स्वस्य विष्ण्व्-अर्थं गमयति, तथात्म-ब्रह्म-शब्दाभ्यां उपक्रमस् तद्-विदः फल-विशेष-श्रुतिः, तद् यथेषिक-तुलम् इत्य् आदिका तस्य विष्णुत्वे लिङ्गम् । सोऽपि योगेन तत्रैव वर्तेत विश्वे नरा अस्येति । तस्माद् विष्णुर् एव सः ॥२५॥
इतोऽपीत्य् आह—
स्मर्यमाणम् अनुमानं स्याद् इति
इति-शब्दो हेत्व्-अर्थः । अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः [गीता १५.१४] इति विष्णोस् तत्त्वं स्मर्यमाणम् एतस्या विद्यया विष्णु-परत्वे अनुमानं लिङ्गं भवतीति हेतोः स विष्णुर् एव ॥२६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।१९।२५, ११।१६।३८।
अथ जाठरं निरस्यति—
शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न, तथादृष्ट्य्-उपदेशासम्भवात्, पुरुष-विधम् अपि चैनम् अधीयते
ननु वैश्वानरो न विष्णुर् अयम् अग्निर् वैश्वानर इति वैश्वानर-शब्दैकार्थाग्नि-शब्दात् हृदयं गार्हपत्य इत्य् आदिना हृदयादि-स्थस्य तस्य अग्नि-त्रेता-प्रकल्पनात् प्राणा इत्य् आधारत्वोक्तेः पुरुषेऽन्तः-प्रतिष्ठितं वेद [श.ब्रा. १०.६.१.११] इत्य् अन्तः-प्रतिष्ठानाच् च, किन्तु जाठराग्निर् एवायम् इति चेत्, न । कुतः ? तथेति । तथा जाठर-रूपत्वेन दृष्टेर् विष्णूपासनस्योक्तेः । तन्-मात्र-परिग्रहे द्यू-मूर्धत्वादेर् असम्भवात् ।
किं च, सो यो ह्य् एतम् एवाग्निं वैश्वानरं पुरुष-विधं पुरुषेऽन्तः-प्रतिष्ठितं वेद [श.ब्रा. १०.६.१.११] इति पुरुष-विधम् अप्य् एनम् अधीयते वाजसनेयिनः । जाठरे गृहीते तस्य पुरुषेऽन्तः-प्रतिष्ठानं स्यात्, न तु पुरुष-विधत्वं च । विष्णोस् तूभयं सम्भवेत् ॥२७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१६।३६; २।६।१३-१६।
अथ देवताग्नि-भूताग्नी निराकरोति—
अत एव न देवता भूतं च
ननु देवताग्नेर् ऐश्वर्य-वशेन द्यू-लोकाद्य्-अङ्गत्व-सम्भवाद् एव निर्देशस् तथा भूताग्नेश् च । यो भानुना पृथिवीं द्यामुतेमाम् आततान रोदसी अन्तरिक्षम् [ऋ.वे. १०.८८.३] इत्य् आदि मन्त्र-वर्णाद् इति चेत्, न । कुतः ? अत एव । एभ्य उक्तेभ्य एव हेतुभ्यो देवताग्निर् भूताग्निश् च न स इत्य् अर्थः । मन्त्र-वर्णस् तु प्रशंसा-वचनम् ॥२८॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।१।३९।
वैश्वानर-शब्दवद् अग्नि-शब्दस्यापि साक्षात् तत्-परत्वं इति जैमिनि-मतेन दर्श्यते—
साक्षाद् अप्य् अविरोधं जैमिनिः
विश्व-नेतृत्वेन गुणेन विश्वे नरा अस्येति सर्व-कारणत्वादिना वा यथा वैश्वानर-शब्दस् तथात्र नयनादि-गुण-योगेनाग्नि-शब्दश् च साक्षाद् एव विष्णु-वाचक इत्य् अविरोधम् अत्र जैमिनिर् मन्यते गुण-विशेषस्योपजीव्यत्वात् ॥२९॥
ननु कथम् अत्र प्रादेश-मात्रोक्तिरपरिच्छिन्नस्य? तत्राह—
अभिव्यक्तेर् इत्य् आश्मरथ्यः
तद्-दृष्टि-विशिष्टानां उपासकानां तथाभिव्यक्तो विभातो भवति विष्णुर् इत्य् आश्मरथ्यो मन्यते ॥३०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।९।११।
अनुस्मृतेर् इति बादरिः
प्रादेश-मात्र-हृत्-पद्म-प्रतिष्ठितेन मनसायम् अनुस्मर्यते, अतः प्रदेश-मात्र उच्यते इति बादरिर् मन्यते ॥३१॥
सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति
विभोर् अपि तस्य यत्-प्रादेश-मात्रत्वं तत् किल सम्पत्तेर् अविचिन्त्य-शक्ति-रूपाद् ऐश्वर्याद् एव न त्व् औपाधिकम् इति जैमिनिर् मन्यत एव । कुतः ? तत्राह—तथेति । हि यतस् तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो.ता.उ. १.३३], एकोऽपि सन् बहुधा योऽवभाति [गो.ता.उ. १.१९] इत्य् आद्या श्रीइस् तथाविचिन्त्य-शक्तिकत्वेनेशे विरुद्ध-धर्म-समावेशं बोधयतीत्य् अर्थः । ते च धर्मा ज्ञानत्वेऽपि मूर्तत्वम् एकत्वेऽपि बहुत्वम् इत्य् आदयः । उपरि चैतद् बहुलीभविष्यति । विभुत्वे सत्य् एव मध्यमत्वम् इति न किञ्चिद् अवद्यम् ॥३२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।९।३।
आमनन्ति चैनम् अस्मिन्
एवम् अचिन्त्य-शक्ति-योगं धर्मम् आथर्वणिका अस्मिन् परमात्मनि आमनन्ति । अपाणि-पादोऽहम् अचिन्त्य-शक्तिः [कैवल्योपनिषद् २१] इति । आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः इति स्मृतिश् च शब्दात् । न चात्र मिथो मतानां विरोधः ।
व्यास-चित्त-स्थिताकाशाद् अविच्छिन्नानि कानिचित् ।
अन्ये व्यवहरन्त्य् एतद् उरीकृत्य गृहाद् इव ॥ इत्य् आदि स्मृतेः ॥३३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।३३।८।
॥ इति श्री-ब्रह्म-सूत्र-भाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः
विश्वं बिभर्ति निःस्वं यः कारुण्येन देवराट् ।
ममासौ परमानन्दो गोविन्दस् तनुतां रतिम् ॥*॥
अथ तृतीये पादे विस्पष्ट-जीवादि-लिङ्गकानां केषांचिद् वाक्यानां तस्मिन् ब्रह्मणि समन्वयश् चिन्त्यते । मण्डूके श्रूयते—
यस्मिन् द्यौः पृथिवी चान्तरिक्षम्
ओतं मनः सह प्राणैश् च सर्वैः ।
तम् एवैकं जानथ आत्मानम् अन्या
वाचो विमुञ्चथामृतस्यैष सेतुः ॥ [म.उ. २.२.५] इति ।
तत्र संशयः । किम् इह द्यु-भ्व्-आद्य्-आयतनं प्रधानं, किं वा जीव उत ब्रह्मेति । तत्र प्रधानम् इति तावत् प्राप्तम् । सर्व-विकार-कारणत्वेन तद्-आयतनत्वोपपत्तेः । अमृत-सेतुश् च तद् एव वत्स-विवृद्धये क्षीरम् इव पुं-विमुक्तये प्रधानं प्रवर्तते इत्य् अङ्गीकारात् । आत्म-शब्दस् तु प्रीति-पदे तस्मिन्न् उपचरितः विभुत्व-योगाद् वा । जीवो वा स्यात् भोक्तृत्वेन भोग्य-प्रपञ्चायतनत्व-योगात् मनः-प्राणत्वादेस् तत्र प्रसिद्धेश् चेति प्राप्तौ पठति—
स्मृतिरपीति श्रीवैष्णवं बोध्यं । आथर्वणी श्रुतिर्मण्डूकं । व्यापि स्वेतरेयां । अव्याप्यं स्वेतरैः । भगवत् षड्भगविशिष्टं । वाच्यं भगवच्छब्देन न तु तेन लक्ष्यं । परमात्मनः स्वरूपमिति चैतन्यं ब्रह्मणः स्वरूपमितिवत् । सतत्त्वं याथार्थ्यं । तज्ज्ञानं परा विद्येति । पूर्वत्र वाक्यारम्भे तादृशत्वादिसाधारणधर्मस्य वाक्यशेषस्थसार्वज्ञ्याद्यभिधानेन परमात्मविषयत्वं दर्शितं तथाप्यत्राप्यारम्भस्थसाधारणशब्दस्य वा वाक्यशेषस्थहोमाधारत्वाभिधानेन प्रसिद्धानुगृहीतेन जाठराग्निविषयत्वमस्त्विति दृष्टान्तसङ्गत्याह । को न आत्मेति । नः अस्माकं आत्मा व्यापकः कः ब्रह्म बृहद्गुणकं वस्तु यद्वदन्ति तत् किमित्यर्थः । उभयोर्भेद उताभेद इत्यभिप्रायः । प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनकबुडिलाः पञ्च समेत्य इत्थं मीमांसां चक्रः । को न इति । तदुत्तरमुद्दालकेन सार्धं वैश्वानरोऽसाविति निर्धारायाश्वपतिकैकयराजमुपैत्योचुरात्मानमेवेत्यादि । संप्रत्यध्येषि सर्वदा ध्यायसि अधिकं जानासीति वा । स च राजा द्युलोकसूर्यव्यावाकाशाप्पृथिवीनामेकैको वैश्वानर इति विवदमान एते षड् ऋषयो मत्सन्निधिमागता इत्यवगम्य तादृग्विपरीतबुद्धिं निराकृत्य सम्यग् वैश्वानरबुद्धिं ग्राहयितुं तान् पप्रच्छ । कं त्वमात्मानमित्यादिना । पृष्टानां तेषामेक ऋषिर्द्युलोक एव वैश्वानर इत्याह । अन्यस्तु सूर्यः स इति । एवं क्रमेण पृथिव्यस्तानां द्युलोकादीनामेकैकस्य वैश्वानरत्वं श्रुत्वा तेषां द्युसूर्यादीनां क्रमात् सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मत्बहुलत्ववयित्वपादत्वगुणयोगं विधाय प्रत्येकवैश्वानरत्वपक्षं मूर्धपातान्धत्वप्राणोत्क्रमदेहशीर्णतावस्तिभेदशोषणैर्दोषैर्विनिन्द्य तेषामेव द्युलोकादीनां वैश्वानरपुरुषं प्रति मूर्धादिभावमभिधाय कृत्स्नां वैश्वानरोपासनां उपदिशति । यस्त्वेनमित्यादिना । अभिविमानं निर्गर्वं सर्वज्ञं वेत्यर्थः । प्रादेशमात्रं तत्परिमितं । आत्मानं विभुचैतन्यानन्दं । अचिन्त्यैश्वर्ययोगेन विभोरपि प्रादेशमात्रत्वं प्रादेशमात्रस्य च विभुत्वमित्युपदिशति । इहापि वक्ष्यते सम्पत्तेरित्यादिना । ईदृशं वैश्वानरं य उपास्ते तस्य सर्वलोकोच्चाश्रयं फलं भवतीत्यर्थः । तदेवाह स इत्यादि । लोका भोगभूमयः । भूतादितदुपाधयः । आत्मानो भोक्तारस्तत्तत्सम्बन्धिफलमन्नशब्दार्थः । उपासनफलमुक्त्वा उपास्यमाह । तस्येति । सुतेजस्त्वगुणा द्यौस्तस्य वैश्वानरस्य मूर्धा । भवति । विश्वरूपत्वगुणकः सूर्यस्तस्य चक्षुः विश्वरूपत्वं विविधरूपत्वं एष शुक्ल एष । नील इति श्रुतेः । नानावर्त्मगमनात् पृथग्वर्त्मा वायुः । स नानागतित्वगुणकस्तस्य प्राणः । बहुलगुणक आकाशस्तस्य सन्देहो मध्यकायः । वयिर्धिनं तद्गुणिका आपस्तस्य वस्तिः नाभेरधःस्थानं । पृथिवी तस्य पदौ भवतः । तस्य होमाधारत्वसिद्धये उर एव वेदिरित्यादि । बर्हिः कुशः । तत्र संशय इति । अयं वर्णितविशेषणविशिष्टः । चतुर्ष्वपीति । अयमग्निर्वैश्वानरः योऽयमन्तः पुरुषे इति जाठराग्नौ वैश्वानरशब्दः । पुरुषे देहे इत्यर्थः । वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीरिति देवताग्नौ । अस्यार्थः । वैश्वानरस्य अग्न्यधिष्ठातुर्देवस्य सुमतौ शोभनायां बुद्धौ स्याम वयं भवेम । तस्य अस्मद्विषया सुमतिरस्त्वित्यर्थः । तत्र हेतुः । राजाहीति । हि यतो भुवनानां राजा स भवति । कं सुखहेतुः सुखरूपो वा । अभिमुखा श्रीरस्येति अभिश्रीः । विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्निति भूताग्नौ च स शब्दः । विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नुं सूर्यमकृण्वन् कृतवन्तो देवास्तदुदये दिनव्यवहारादित्यर्थः । को न आत्मेत्यादौ परमात्मनि च स शब्द इति चतुर्षु स तुल्य इत्यर्थः । वैश्वानरेत्यादि । विशेषो विशेषणं । स शब्दो वैश्वानरशब्दः । स्वस्येति आत्मनो वैश्वानरशब्दस्येत्यर्थः । विष्ण्वर्थं विष्णुपरत्वं । तथेति । आत्मब्रह्मशब्दौ हरौ मुख्यवृत्ताविति प्रागवोचाम । तद्यथेषीकातूलमग्नौ प्रोतं भस्मीभवति तथैवेहास्य सर्वे पाप्नानो विनश्यन्तीति वैश्वानरोपासकस्य निखिलपापविनाशः फलं श्रुतमश्च स सर्वेश्वर इत्यर्थः । सोऽपि वैश्वानरशब्दोऽअपि स्मर्यमाणमिति । अहमिति श्रीगीतासु । वैश्वानरो भूत्वेति । जाठराग्निरूपस्तदधिष्ठाता सन्नित्यर्थः । तत्त्वं वैश्वानरत्वं । एतस्याश्छान्दोग्यस्थवैश्वानरविद्यायाः जाठराग्निमाशङ्क्य निराकरोति शब्दादिभ्य इति । आदिपदग्राह्यं दर्शयति हृदयमित्यादिना । तन्मात्रेति । जाठराग्नौ स्वीकृते तस्मिन् द्युमूर्धत्वादिकं न सम्भवेदित्यर्थः । किञ्चेति । पुरुषविधं पुरुषाकारं जठरस्थमग्निं यो वेदेत्यर्थः । उभयमिति । जाठररूपं पुरुषाकारत्वञ्चेत्यर्थः यो भानुनेति । यो भूताग्निर्देवः पृथिवीं द्याञ्चेमां द्यावापृथिव्यौ रोदसी अन्तरीक्षं तयोर्मध्यञ्च भानुना रूपेणाततान व्याप्तवान् स द्युलोकाद्यवयवो । भूताग्निर्ध्येय इत्यर्थः । सिद्धान्ते तु स्तुतिपरमेतत् । स वैश्वानरः पूर्वमग्न्यादिशब्दानां जाठराग्निरूपे जाठराग्न्यधिष्ठातरि वा हरौ वृत्तिर्दर्शिता इदानीं तदर्थकल्पनां विनैव साक्षादेव तेषां तस्मिन् हरौ वृत्तिरिति जैमिनिमतेनापि दर्श्यते । साक्षादपीति । विश्वेषां निखिलानां प्राणिनां नरो नेता प्रवर्तकः सर्वेश इति यावत् । अथवा विश्वे सर्वे नवा यस्मात् स विश्वानरः । विश्वश्चासौ नरश्चेति वा । नरे संज्ञायामिति सूत्रात् दीर्घः । स एव वैश्वानरः । अगि गतावित्यतोऽगेर्निर्न लोपश्चेति निप्रत्ययेऽग्निरिति रूपं । तन्निरुक्तिश्च अङ्गयतीत्यग्निर्जन्म प्रापयतीति निखिलजन्मप्रद इत्यर्थः । स च स च शब्दः साक्षात् परेशवाचक इति न कापि क्षतिरिति जैमिनिराह । स कस्मादेवं व्याचष्टे । तत्राह गुणेति द्युमूर्धत्वभक्तदोषनिर्दाहकत्वादितदेकान्तगुणानाश्रित्य तथा व्याचक्षावित्यर्थः । अन्यथा तच्छृवणं वा व्याकुप्येत् तद्दृष्टीति । प्रादेशमात्रत्वेन ध्यायतामित्यर्थः । अभिव्यक्तः स्फुरितः । स्मृतिश्च केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तमित्यादि अनुस्मृतेरिति । स्मृतिस्थानहृन्मानस्य स्मर्यमाणे स्थानानि हरावुपचर्यत इति वादरिमतं । तथाच विभौ तस्मिंस्तन्मात्रत्वं भाक्तमिति आश्मरथ्याभिमतामचिन्त्यशक्तिसम्पत्तिं जैमिनिमतेन स्फुटयन् तन्मात्रत्वं । वास्तवं स्थापयति सम्पत्तेरिति । अचिन्त्यशक्तिकत्वं तर्कागोचरत्वं दुर्घटघटनापटीयस्त्वं चेत्याहः । उपरीति श्रुतेस्तु शब्दमूलत्वात् सर्वोपेता च तद्दर्शनात् इत्यनयोर्व्याख्याने । ननु मध्यमत्वमनित्यत्वव्याप्यं ततः कथमस्य ब्रह्मधर्मत्वमिति चेत् तत्राह । विभुत्वे सत्येवेति अपाणीति कैवल्यापनिषदि दृष्टं । आत्मेश्वर इति श्रीभागवते । न चेति । न च समुद्रैकदेशेन सह समुद्रो विरोधीति भावः । व्यासचित्तेति स्कान्दे
अधिकरणम् १९ (पादः ३, ध्रुवाधिकरणम्)
द्यु-भ्व्-आद्य्-आयतनं स्व-शब्दात् ।
ब्रह्मैव किल तद्-आयतनम् । कुतः ? स्व-शब्दात् । अमृतस्यैव सेतुर् इति तद्-असाधारण-शब्द-सत्त्वाद् इत्य् अर्थः । सिनोतेर् वर्धनार्थत्वात् सेतुर् अमृतस्य प्रापकः । सेतुर् इव सेतुर् इति वा । स यथा नद्यादिषु कूलस्योपलम्भकस् तथायं संसार-पारभूतस्य मोक्षस्येति तस्यैवायं शब्दः । श्रुतिश् चैवम् आह—तम् एव विदित्वातिमृत्युम् एति इत्य् आद्या ॥१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।३५-३६।
इतोऽपीत्य् आदि ।
मुक्तोपसृप्य-व्यपदेशात् ।
यदा पश्यः पश्यते रुक्म-वर्णम् इत्य् आदौ, निरञ्जनः परमं साम्यम् उपैति इति मुक्त-प्राप्त्यत्वेनोक्तेश् च प्राप्यत्वेनोक्तेश् च ब्रह्मैव तत् ॥२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।४०।
नानुमानम् अतच्-छब्दात् ।
स्मार्तं प्रधानम् इह न ग्राह्यम् । कुतः ? अतच्-छब्दात् अचेतन-प्रधान-वाचक-शब्दाभावात् ॥३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५१।
प्राण-भृच् च ।
नेत्य् अनुवर्तते हेतुश् च । नाप्य् आत्म-शब्दात् प्राण-भृद्-ग्रहणाशात्र सम्भवति । अततीति-व्युत्पत्तेः सर्व-व्यापके ब्रह्मण्य् एव मुख्यत्वात् । यः सर्वविद् इत्य् आदिर् उपरितनस् तु तत्रैव वर्तते, अतो जीव-वाचक-शब्दाभावात् न तस्याप्य् अत्र ग्रहणं योग्यम् इति ॥४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५२।
इतोऽप्य् अत्र प्राण-भृद्-ग्रहणं नेत्य् आह—
भेद-व्यपदेशाच् च । तम् एवैकं जानथेत्य् आदिना तस्मात् तस्य भेदोक्ते च
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५७, १।१५।८।
प्रकरणात् ।
कस्मिन् नु भगवो विज्ञाते सर्वम् इदं विज्ञातं भवति [मु.उ. १.१.३] इति ब्रह्मणः प्रकृतत्वाच् च तथा ॥६॥
स्थित्य्-अदनाभ्यां च ।
द्यु-भ्व्-आद्य्-आयतनं प्रकृत्या—
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो अभिचाकशीति ॥ [मु.उ. ३.१.१] इति पठ्यते ।
तयोर् दीप्यमानस्याब्रह्मत्वं तदा स्याद् यदि द्यु-भ्व्-आद्य्-आयतनस्य पूर्वं न तत् प्रातिपादयेत् । इतरथा आकस्मिकी तद्-उक्तिर् अश्लिष्टा स्यात् । जीवोक्तिस् तु न तथा लोक-प्रसिद्धस्य तस्यानुवादात् । तस्माद् ब्रह्मैव तद् इति ।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।६।
छान्दोग्ये श्री-नारदेन पृष्टः श्री-सनत्कुमारस् तं प्रति नामादीन्य् उपदिश्याह—भूमा त्व् एव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा । अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम् [छा.उ. ७.२३.१-२४.१] इति । इह भूम-शब्देन बहुत्व-सङ्ख्यानाभिधीयते, किन्तु वैपुल्य-रूपा व्याप्तिर् एव । यत्रान्यत् पश्यति तद् अल्पम् इत्य् अल्पत्व-प्रतिद्वन्द्विकत्वोक्तेः । अल्प-शब्द-निगदित-धर्मि-प्रतिद्वन्द्वि-प्रतिपत्तेर् एव भूम-गुणवान् धर्मी स इति निर्णीयते ।
अत्र विचिकित्सा । भूमा प्राणो विष्णुर् वेति । तत्र प्राणो वा आशाया भूयान् [छा.उ. ७.१५.१] इति सन्निधानात् पुनः प्रश्नोत्तरयोर् अभावाच् च प्राणो भूमा । प्राण-शब्दो हि प्राण-सचिवं जीवम् अभिधत्ते, न वायु-विकार-मात्रम्, तरति शोकम् आत्मवित् [छा.उ. ७.१.३] इत्य् उपक्रमात्, आत्मत एवेदं सर्वम् [छा.उ. ७.२६.१] इत्य् उपसंहाराच् च । तेनान्तरालीको भूमापि स एव भवितुम् अर्हति । यत्र नान्यत् पश्यतीत्य् आदिकम् अप्य् अस्मिन् पक्षे सङ्गच्छते । सुषुप्तौ प्राण-ग्रस्तेषु इन्द्रियेषु तत्र दर्शनादि-विनिवृत्तेः । यो वै भूमा तत् सुखम् [छा.उ. ७.२३.१] इत्य् अप्य् अविरुद्धम् । तस्यां सुखम् अहम् अस्वाप्सम् इति सुख-श्रवणात् । एवं जीवात्मनि निर्णीते वाक्य-शेषोऽपि तद् अनुकूलतयैव नेय इत्य् एवं प्राप्ते ब्रवीति—
तृतीयपादः । अथ विस्पष्टजीवादिलिङ्गकानि वाक्यानि श्रीविष्णौ सङ्गमयितुं मङ्गलमाचरति विश्वमिति । यः कारुण्यादेव हेतोर्निःस्वं निर्द्धनं कृपणमितियावत् विश्वं तद्वर्तिजीववृन्दं विभर्त्ति धारयति पालयति चेत्यर्थः । कर्मणा तोषयतः सर्गानन्दं दत्वा विभर्त्ति । ननु देवाः फलदा इति श्रुतमिति चेन्मैवं यदसौ देवराट् सुरेश्वरः तदनुकम्पितास्ते फलं यच्छन्तीति स एव तथेति भावः । उपासनया तोषयतस्तु स्वरूपानन्दं दत्वा विभीर्त्तीत्यभिप्रेत्याह परमानन्द इति । असौ गोविन्दो मम रतिं तनुतामित्यनुषङ्गः । ननु सति साधने कारुण्यादिति कथमिति चेन्न । नह्यमूल्यस्य मणेर्मौल्याय कपर्दिका पर्याप्नोतीति कारुण्यादेव तत्तद्दानमिति । त्रिचत्वारिंशत्सूत्रकं एकादशाधिकरणकं तृतीयं पादं व्याख्यातुमारभते अथेत्यादिना । आदिना प्रधानादिग्रहणं । पूर्वत्रोपक्रमस्थितसाधारणशब्दस्य वाक्यशेषस्थितेन द्युमूर्धत्वादिलिङ्गेन परमात्मपरत्वं निर्णीतं तद्वदिहोपक्रमस्थितसाधारणायतनत्वस्य वाक्यशेषस्थितसेतुश्रुत्या परिच्छिन्ने सेतुशब्दार्थे प्रधानादौ व्यवस्थापनमस्त्विति दृष्टान्तसङ्गत्यारम्भः । पूर्वपक्षे प्रधानदेरुपासनं फलं सिद्धान्ते तु श्रीविष्णोरिति बोध्यं । मातेव हितकारिणी श्रुतिर्मुमुक्षूनुपदिशति यस्मिन्निति । दिवादिप्राणान्तं यस्मिन्नोतं तमात्मानं विभुं विज्ञानानन्दं हरिं विजानथ ज्ञात्वोपासध्वं घूयमित्यनुषङ्गः । द्यौरन्तरीक्षं । पृथिवीति चतुर्दशभुवनानि । चकारात् तन्मात्राहङ्कारमहदव्यक्तानि चाभिमतानि । प्राणैः सहेति । प्राणेन्द्रियवन्तो जीव बोध्यन्ते । कीदृशमात्मानं एकं सर्वेश्वरं विशुद्धं वा । एको मुख्यान्यकेवल इत्यमरः । एवकारव्यावृत्तमाहान्या इति । अन्य वाचो हरीतरविषयाः कर्मकाण्डपर्यन्ता इत्यर्थः । विमुञ्चथ त्यजत । ननु किमर्थं तदुपासनं तत्राहामृतस्येति । मुक्तिदत्वादसावुपास्य इत्यर्थः । तत्र संशय इति । इह दिवादीनामोतत्वश्रुतिः सन्देहबीजं द्यभ्वाद्यायतनं तत् । किमिति । तदायतनत्वेति । विकाराः खलु स्वस्वकार्ये प्रकृतेः पूर्वमपेक्ष्यन्ते ते अन्यथा कार्त्स्नेन तत्राक्षमाः स्युरिति तेषामायतनं प्रधानमुपपन्नमित्यर्थः । तदेव प्रधानमेव । अङ्गीकारादिति । वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य पुरुषविमोक्षनिमित्तं । तथा प्रवृत्तिः प्रधानस्येति सांख्याचार्यैरभ्युपगमादित्यर्थः । तस्मिन् प्रधाने । तद्धि सत्त्वद्वारा पुरुषं प्रीणयति प्रियो हि ममायमात्मेति प्रयुजाते । भोक्तृत्वेनेति । अन्नपानादीनि भोग्यानि भोक्तारं पुरुषमाश्रित्य तिष्ठन्तीति प्रसिद्धं । एवं प्राप्ते ब्रवीति द्युभ्वादीति । द्योश्च भूश्च ते आदी यस्य प्राणान्तस्य तं द्युभ्वादि । तस्य आयतनमाश्रयो ब्रह्मैवेह ग्राह्यं । कुतः स्वशब्दात् । अमृतस्यैष सेतुरिति । संसारनिवृत्तिकरणार्थकाद्वाक्यात् ब्रह्मासाधारणादित्यर्थः । तदन्यस्य मोक्षदत्वं नैवेत्यत्र श्रुतिमाह तमेवेति । वरं वृणीष्व भद्र ते ऋते कैवल्यमद्य नः । एक एवेश्वरस्तस्य भगवान् विष्णुरव्ययः । इति श्रीदशमे मुचुकुन्दं प्रति इन्द्रादिदेववोक्तेश्च । बहुमात्र किमुक्तेन यावद्विष्णुं न गच्छति । योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णय इत्यादित्यपुराणवचनाच्च । मुक्तिं प्रार्थयमानं मां पुनराह त्रिलोचनः । मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशय इति श्रीहरिवंशे कैलासयात्रायां स्वपूजकं घण्टाकर्णं प्रति श्रीववाक्याच्च मुक्तेति । यदेत्यादौ द्युभ्वाद्यायतनस्य मुक्तोपसृप्यत्वं व्यपदिष्टमतस्तद् ब्रह्मैव भावप्रधानो निर्देशः अतच्छब्दादिति । प्रत्युत तद्विरोधी शब्दोऽस्ति यः सर्वज्ञ इति हेतुश्चेति । स चातच्छब्दादित्येषः तमेवैकमिति । ज्ञेयात् तस्मात् ज्ञातृणां जीवानां भेदो विहितोऽतश्च प्राग्वत् आदिशब्दादोमित्येवं ध्यायथ आत्मानमिति परवाक्ये च ग्राह्यं प्रकरणेति । एकस्य विज्ञानेन सर्वविज्ञानमुपक्रम्य द्युभ्वाद्यायतनस्योपन्यासात् प्राग्वत् । न हि ब्रह्मण्यस्मिन् विज्ञाते तत् सम्भवेदिति तस्यैव तत् प्रकरणं स्थितीति पञ्चमीद्विवचनं । द्वा सुपर्णेति छान्दसं । द्वौ सुपर्णौ पक्षिणौ सयुजौ सहयोगवन्तौ सखायौ मित्रे भवतः समानमेकं देहलक्षणं वृक्षं परिष्वज्य तिष्ठतः । तयोरन्य एकः सुपर्णो जीवः पिप्पलं देहं पिप्पलनिष्पन्नकर्मफलं । स्वादु मधुरं यथा स्यात् तथात्ति भुङ्क्ते । अन्यः सुपर्णः परमात्मा तु तत् फलमनश्नन्नभुञ्जानोऽप्यभिचाकशीति प्रदीप्यत इत्यर्थः । तदिति ब्रह्मत्वं । तदुक्तिर्ब्रह्मोक्तिरश्लिष्टासङ्गतेत्यर्थः । न तथा नासङ्गता । तस्य जीवस्य । सूत्रस्थश्चशब्दो जुष्टं यदा पश्यत्यन्यमीशमिति वाक्यशेषस्थं तद्भेदवचनमाह
अधिकरणम् २० (भूमाधिकरणम्)
भूमा सम्प्रसादाद् अध्युपदेशात् ।
श्री-विष्णुर् एवायं भूमा, न प्राण-सचिवो जीवः । कुतः ? सम् इति । यो वै भूमा तत् सुखम् [छा.उ. ७.२३.१] इति विपुल-सुख-रूपत्व-श्रवणात् सर्वेषाम् उपर्य् उपदेशाच् च । एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय [छा.उ. ८.१२.३] इति श्रौत-प्रसिद्धेः सम्प्रसादः प्राण-सचिवो जीवस् तस्माद् अधिकतया भूम-गुण-वैशिष्ट्येनाभिधानाद् इति वा ।
अयम् अर्थः—पूर्वं नामादिकम् उपदिश्य स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् अतिवादी भवति [छा.उ. ७.१५.४] इति भिन्नोपक्रमार्थकेन तु-शब्देनातिवादित्व-हेतुं प्रकृतां प्राणोपास्तिं व्यावर्त्य मुखातिवादित्व-हेतोर् विष्णोः सत्य-शब्देन पृथग्-उपक्रमात् प्राणाद् अर्थान्तरम् धिकश् च भूमेति निश्चीयते । प्राणस्यैव भूमत्वे तस्माद् ऊर्ध्वं तद्-उपदेशो न सम्भवेत् । नामादेर् आप्राणाद् ऊर्ध्वम् उपदिष्टं वाग्-आदि तस्माद् अर्थान्तरं वीक्ष्यते । एवं प्राणाद् ऊर्ध्वम् उपदिष्टो भूमापि तथा । सत्य-शब्दः खलु पर-ब्रह्मणि श्री-विष्णौ प्रसिद्धः । सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदौ, सत्यं परं धीमहि इत्य् आदौ च । सत्येनेति हेतौ तृतीया । सत्येन पर-ब्रह्मणा निमित्तेन योऽतिवदतीति भावः । प्राणस्य नामाद्याशावसानोपास्यापेक्षया उत्कर्षः अतद्विदोऽतिवादित्वम् । श्री-विष्णोस् तु तस्माद् अप्य् उत्कर्षात् तद्-विदस् तन्-मुख्यम् इति प्राणातिवादिनः सत्यातिवादी श्रेयान् इति विस्फुटम् । अत एव सोऽहं भगवः सत्येनातिवदानि [छा.उ. ७.१६.१] इति शिष्योऽभ्यर्थयते । गुरुर् अप्य् आह सत्यं त्व् एव विजिज्ञासितव्यम् [छा.उ. ७.१६.१] इति ।
न च पुनः प्रश्नोत्तराभावात् प्राण-विषयम् अतिवादित्वं परत्रानुकर्षणीयम् इति वाच्यं अनवबोधात् । तथा हि प्राणाद् ऊर्ध्वम् अपृच्छतोऽयम् आशयः, नामाद्य्-आशावसानेष्व् अचेतनेषूपास्येषु पूर्व-पूर्वस्माद् उत्तरोत्तरं भूयस्त्वेनोपदिश्य तत्-तद्-विदोऽतिवादित्वं गुरुणा नोक्तं प्राण-शब्दित-जीवात्म-याथात्म्य-विदस् तु तद् उक्तम् इत्य् अत्रवोपदेशस्य पराकाष्ठा इति ।
अतः पुनः प्रश्नाभावः । गुरुस् तत्र ताम् अनङ्गीकुर्वंस् तद् अभ्यधिक-श्री-विष्णु-स्वरूप-याथात्म्यावगमे सत्य् एव सेति स्वयम् एवैष त्व् इत्य् आदिभिर् उपदिशति । शिष्यश् च सर्वोत्कृष्टे श्री-विष्णौ तस्मिन्न् उपदिष्टे तद् उपासन-तद्-उपाय-तत्-स्वरूप-याथात्म्य-प्रतिपित्सया सोऽहं भगवः सत्येनातिवादानि [छा.उ. ७.१६.१] इत्य् आदिकम् अभ्यर्थयते । न चोपक्रमादि-दृष्ट आत्म-शब्दः प्राण-सचिवं जीवम् आहेति शक्यं वदितुं, तस्य परस्मिन्न् एव मुख्ये व्युत्पन्नत्वात् । आत्मतः प्राणः [छा.उ. ७.२६.१] इत्य् अग्रिम-वाक्य-विरोधाच् च । एवं सति यत्र नान्यद् इत्य् आदि वाक्य-सङ्गतिर् दर्शितापि निरस्ता । यत्र भूमन्य् अनुभूयमाने सत्य् अनुभवितुस् तद् आविष्टस्यान्यदर्शनादिकं निषिध्यते । सौषुप्तिकं सुखं स्वल्पम् इति सुषुप्तस्य प्राणिनः भूम-रूपत्वं वदन्न् उपहासास्पदम् । तस्मा श्री-विष्णुर् एव भूमा ॥८॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१५।
धर्मोपपत्तेश् च ।
अस्मिन् भूम्नि ये धर्माः पठ्यन्ते, ते पर-ब्रह्मणि श्री-विष्णाव् एवोपपद्यन्ते, नान्यत्र । यो वै भूमा तद् अमृतम् इति स्वाभाविकम् अमृतत्वम् । स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [छा.उ. ७.२४.१] इत्य् अनन्याधारत्वम् । स एवाधत्त्वाद् इत्य् आदिना सर्वाश्रयत्वम् । आत्मतः प्राण [छा.उ. ७.२६.१] इत्य् आदिना सर्व-कारणत्वं चेत्य् आदयः ॥९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५२।
बृहद्-आरण्यके पठ्यते—कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् चेति । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् [बृ.आ.उ. ३.८.७-८] इत्य् आदि । तत्र संशयः—किम् अक्षरं, प्रधानं किं वा जीव उत ब्रह्म ? इति । तत्र त्रिष्व् अप्य् अक्षर-शब्द-प्रयोगाद् अनिर्णयः स्याद् इति प्राप्तौ—
पूर्वममृतत्वेन लिङ्गेनात्मशब्दस्य विष्णुपरत्वं यथोक्तं तथेह तादृशलिङ्गं नास्तीति प्राणो भूमा स्यादिति प्रत्युदाहरणसङ्गत्याह छान्दोग्य इत्यादि । श्रुतं । ह्येव भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मां भगवान् शोकस्य पारं तारयत्विति श्रीनारदेन पृष्टः श्रीसनत्कुमारो नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नाप्तेज आकाशस्मराशाप्राणान् पञ्चदशार्थान् पूर्वपूर्वस्मात् परपरस्य भूयस्त्वेनोपदिष्टवान् । तत्रादौ नाम ब्रह्मेत्युपदिदेश । पुनरस्ति भगवो नाम्नो भूय इति तेन पृष्टा वाग्वाव नाम्नो भूयसीति प्रत्युवाच । पुनरस्ति भगवो वाचो भूय इति पृष्टो मनो वाव वाचो भूय इति प्रत्युवाचेत्येवंक्रमेण प्राणावधिकं प्रश्ने दृष्टे प्राणोपदेशानन्तरं तु प्रश्नेन विनैवेदं श्रूयते । एष तु वा अतिवदति यः सत्येनातिवदतीति भूमा त्वेव विजिज्ञासितव्य इत्यादि । अस्यार्थः । अल्पे परिच्छिन्ने सुखं नास्तीति भूमैव व्याप्तिगुणकः श्रीहरिरेव सुखमित्यनन्तसुखमिच्छता स एव विजिज्ञास्य इत्यर्थः । तस्य लक्षणं यत्रेति । यस्मिन् भूमन्यनुभूते नान्यत् किञ्चित् स्फुरति किन्तु स एव सर्वत्रेत्यर्थः । आत्मवित् स्वस्वरूपज्ञः । आत्मनो जीवात्मनः । इदं सर्वं जगददृष्टद्वाराजायत इत्यर्थः । आन्तरालिको मध्ये पठितो । भूमाप्येव जीव एव्येर्थः । अस्मिन् जीवपक्षे । तत्र भूम्नि जीवे । तस्यां सुषुप्तौ । तदनुकूलतया जीवविषयतया । भूमेति । संप्रसाद इति । श्रीभगवदनुग्रहपात्रत्वादत्र मुक्तो जीवः संप्रसाद इत्युच्यते । एष त्विति । यः सत्येन परमात्मना प्राणपर्यन्तान् पञ्चदश अतीत्यवदति सत्यशब्दितः श्रीहरिः सर्वश्रेष्ठ इति वदति स एषोऽतिवदतीत्यर्थः । स्वोपास्यपारम्यवादित्वमतिवादित्वं । ननु मुक्तजीवस्य प्राणसचिवोक्तिरिह कथमिति चेन्मैवं तस्याप्यष्टमावरणभेदपर्यन्तं प्राणसाहित्यात् । तस्मादूर्द्ध्वमिति प्राणादूर्द्ध्वं भूमोपदेशो न युक्त इत्यर्थः । प्राणस्येति । अतद्विदः प्राणोपासकस्य । श्रीविष्णोस्विति । तस्मात् प्राणादपि । तद्विदः विष्णूपासकस्य । तदतिवादित्वं । मुख्यमतिशयि । परत्र भूमवाक्ये । तथाहीति । अपृच्छतः श्रीनारदस्य । नामेति । नामाद्याशावसानेषु चतुर्दशष्वित्यर्थः । तत्तद्विदो नामादिचतुर्दशोपासकस्य । तदुक्तमिति । तदतिवादित्वं । अत्रैव जीवे । तत्रेति । तत्र जीवे । तां पराकाष्ठां । सा पराकाष्ठा । प्रतिपित्सयेति लिप्सयेत्यर्थः । अग्रिमवाक्येति । तत्र हि तस्य आत्मनश्चैतत्सर्वकारणत्वमुच्यते न चैतत् प्राणसचिवे जीवे शक्यं वक्तुं । तदाविष्टस्येति । तदनुरक्तस्येत्यर्थः । एवं स्मर्यते । आत्मनि विष्णुं व्यञ्जयन्त इव पुष्पफलाढ्या इत्यादिना नान्यत्रेति । अन्यत्र प्राणिनि जीवे
अधिकरणम् २१ (अक्षराधिकरणम्)
अक्षरम् अम्बरान्त-धृतेः
अक्षरं ब्रह्मैव । कुतः ? अम्बरेति । एतस्मिन् नु खल्व् अक्षरे गार्ग्य् आकाश ओतश् च प्रोतश् चेति [बृ.आ.उ. ३.८.१२] इत्य् आकाश-पर्यन्तस्य सर्वस्य धारणात् ॥१०॥
भागवत-भाष्यम् (हरिदास शास्त्री): १२।१३।१९।
ननु सा प्रधानेऽपि स्यात्, सर्व-विकार-कारणत्वात् । जीवे च भोग्य-भूत-सर्वाचिद्-वस्त्व्-आश्रयत्वाद् इति चेत्, तत्राह—
सा च प्रशासनात् ।
साम्बरान्त-धृतिर् ब्रह्मण्य् एव । कुतः ? प्रेति । एतस्य वा अक्षरस्य प्रशासने गार्गि द्याव्-आपृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः [बृ.आ.उ. ३.८.९] इत्य् आदि विदितस्य प्रशासनस्य तत्रैव सम्भवाद् इत्य् अर्थः । न चेदं स्व-प्रशासनाधीनं सर्व-धारणं जडे प्रधाने बद्ध-मुक्तोभयावस्थे जीवे च समस्ति ॥११॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।३।२१, ७।१२।३०-३१।
अन्य-भाव-व्यावृत्तेश् च ।
तद् वा एतद् अक्षरं गार्ग्य् अदृष्टं द्रष्टृ, अश्रुतं श्रोतृ [बृ.आ.उ. ३.८.११] इत्य् आदिना वाक्य-शेषेणास्याक्षरस्य ब्रह्मान्यत्व-व्यावर्तनाच् च ब्रह्मैव तत् । अत्र द्रष्टृत्वादिना जडात्मक-प्रधान-भावो व्यावर्त्यते । सर्वैर् अदृष्टस्य तस्य सर्व-द्रष्टृत्वाद्य्-उपदेशात् जीव-भावश् चेति ॥१२॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२८।
प्रश्नोपनिषदि—
एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ओंकारस् तस्माद् विद्वान् एतेनैवायतने नैकतरम् अन्वेति [प्र.उ. ५.२] इति प्रकृत्य—यः पुनर् एतं त्रिमात्रेणोम् इत्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत, स तेजसि सूर्ये संपन्नः । यथा पादोदरस् त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्म-लोकं स एतस्माज् जीव-घनात् परात्-परं पुरिशयं पुरुषम् ईक्षते [प्र.उ. ५.५] इति पठ्यते ।
तत्र संशयः—ध्यानेक्षयोर् विषयः पुरुषश् चतुर्मुखः पुरुषोत्तमो वेति । तत्रैक-मात्रं प्रणवम् उपासीनस्य मनुष्य-लोकं द्वि-मात्रम् उपासीनस्यानरीक्ष-लोकं फलं प्रोच्य त्रि-मात्रम् उपासीनस्य ब्रह्म-लोकम् आह । स च लोक-क्रमाच् चतुर्मुख-लोकः प्रत्येतव्यस् तद् गतेन वीक्षमाणस् तु स एवेति युक्तेश् चतुर्मुखः स इति प्राप्ते—
पूर्वत्र भूम्नो ब्रह्मत्वे यथा सत्यशब्दो निर्णेता तथा अक्षरस्य तत्त्वे निर्णेता शब्दो नास्तीति प्रत्युदाहरणसङ्गत्याह बृहदारण्यक इति । प्रधानादेरुपास्तिः पूर्वपक्षे फलं सिद्धान्ते तु श्रीहरेरेवेति बोध्यं । कस्मिन्निति । अस्यार्थः । यदूर्द्ध्वां दिवो यदधस्तात् पृथिव्या ये च उभे द्यावापृथिव्यौ यदन्तरीक्षं यद्भूतं यद्भविष्यच्चैतत् सर्वं कस्मिन्नोतं प्रोतञ्चेति गार्ग्या । पृष्टे याज्ञवल्क्येन आकाशे तत् सर्वमोतं प्रोतञ्चेति प्रत्युत्तरिते गार्गी पुनरपृच्छत् कस्मिन्निति । आकाश ओतप्रोतत्वेन कुत्रास्तीत्यर्थः । अक्षरमिति । अक्षरं सदैकरसं ब्रह्मैव नान्यदिति साचेति । प्रशासनमाज्ञा अन्येति । अन्यभावो ब्रह्मान्यत्वं तस्य व्यावृत्तेर्निरासादित्यर्थः
अधिकरणम् २२ (ईक्षति-कर्माधिकरणम्)
ईक्षति-कर्म व्यपदेशात् सः ।
स पुरुषोत्तम एव ईक्षति-कर्म दर्शन-विषयः । कुतः ? व्यपदेशात् ।
तम् ओङ्कारेणैवायतनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयं परं चेति [प्र.उ. ५.७] इति ब्रह्म-धर्म-निर्देशात् ।
तद् एवं निर्णीते ब्रह्म-लोक-शब्दोऽपि निषाद-स्थपत्य्-अधिकरण-न्यायेन श्री-विष्णु-लोकस्य वाचकः सिद्धयति ॥१३॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।६३।३४।
छान्दोग्ये श्रूयते—
अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति [छा।उ। ८।१।१]
तत्र सन्देहः—किम् अयं हृदय-पुण्डरीक-स्थो दहराकाशो भूताकाशः, किं वा जीवः, उत श्री-विष्णुर् इति ? तत्र प्रसिद्धेर् भूताकाशः स्यात् । पुर-स्वामित्व-प्रत्ययत्वाच् च जीवो वेति प्राप्ते—
पूर्वं प्रधानादौ प्रयुक्तस्याप्यक्षरशब्दस्य सर्वप्रशास्त्रित्यादिना लिङ्गेन न क्षरतीति व्युत्पत्त्या कूटस्थत्वद्यापित्वाद्वा ब्रह्मणि योगवृत्तिराश्रिता तथेहापि देशपरिच्छिन्नफलश्रवणेन लिङ्गेन परशब्दस्यापेक्षिकपरत्वविशिष्टे चतुर्मुखे वृत्तिरस्त्विति दृष्टान्तसङ्गत्याह प्रश्नोपनिषदीत्यादि । पूर्वपक्षे विधेः सिद्धान्ते श्रीहरेरुपासनं फलं । एतद्वै इत्यादेरर्थः । पिप्पलादो नामाचार्यः सत्यकामेन पृष्ठो व्याचष्टे हे सत्यकाम परं श्रीनारायणाख्यमपरं चतुर्मुखाख्यं च ब्रह्म तदेतदेव । योऽयमोङ्कार इति । ओङ्कारस्य परं ब्रह्मत्वं मत्स्यकूर्मादिवत् तदवतारत्वात् । अपरब्रह्मत्वञ्च तज्जनकत्वात् तज्जनकत्वं परब्रह्माभेदात् । तस्मात् प्रणवं ब्रह्मात्मकं विद्वान् जानन् जन एतेन प्रणवेन ध्यानायतनेन ध्यातेनेति यावत् । परापरयोवेकमन्वेति यथा ध्यानं । त्रिमात्रेणेति । तृतीयेयं द्वितीयात्वेन नेया । ब्रह्मोङ्कारयोरभेदोपक्रमात् तादृशमक्षरं सूर्यास्तःस्थं परं ध्यायीतेति । ध्यात्वा सूर्यं प्राप्तः सामभिर्ब्रह्मलोकं नीयते । पादोदरः सर्पः । स इति परमपुरुषध्याता । स एतस्मात् जीवघनात् सर्वजीवाभिमानिनश्चतुर्मुखात् परं पुरिशयं परमे व्योम्नि पुरि स्थितं श्रीनारायणं श्रीपतिमीक्षते लभत इत्यर्थः । क्रममुक्तिरिह प्रकाशिता सनिष्ठानां बोध्या । तद्गतेनेति । चतुर्मुखलोकगतेन जनेन वक्ष्यमाणः स चतुर्मुख एवेति युक्तमित्यर्थः । तदेवमिति । ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयोऽत्र समासः । निषादस्थपतिं याजयेदित्यत्र निषादश्चासौ स्थपतिश्चेति तथा सः
अधिकरणम् २३ (दहराधिकरणम्)
दहर उत्तरेभ्यः
श्री-विष्णुर् एव दहरः । कुतः ? उत्तरेभ्यः वाक्य-शेष-गतेभ्यओ हेतुभ्य इत्य् अर्थः । ते च वियद् उपमत्व-सर्वाधारत्वापहत-पाप्मत्वादयो भूताकाशे जीवे च न सम्भवेयुः । श्रुतौ ब्रह्म-पुरम् उपासकस्य शरीरं तद्-अवयव-भूतं हृदय-पुण्डरीकं ब्रह्मणो वेश्म तत्र ध्येयं दहराकाश-शब्दं परं ब्रह्म तस्मिन्न् अन्वेष्टव्यम् अपहत-पाप्मत्वादि-गुण-जातम् इति व्याख्येयम् ॥१४॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१८॥
इतोऽपि दहरः श्री-विष्णुर् एवेत्य् आह—
गति-शब्दाभ्यां तथा दृष्टं लिङ्गं च
यथापि हिरण्य-निधिं निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुर् एवम् एवेमाः सर्वाः प्रजा अहरहर् गच्छन्त्य एतं ब्रह्म-लोकं न विन्दन्त्य् अनृतेन हि प्रत्यूढाः ॥ [छा.उ. ८.३.२]
इत्य् अत्रैनम् इति प्रकृतं दहरं निर्दिश्य तत्र प्रजानां गतिर् उक्ता गन्तव्यस्य तस्य ब्रह्म-लोक-शब्दश् चोक्तस् ताभ्यां दहरः श्री-विष्णुर् एवेति निश्चितम् । तथा हि—सता सौम्य तदा सम्पन्नो भवति इति तत्रैवान्यत्र प्राणानां परस्मिन् गमनं दृष्टं तद् एव ब्रह्म-लोक-शब्दस्य श्री-विष्णु-परत्वे लिङ्गं गमकम् । सत्य-लोक-परत्वे तु तत्र प्रत्यहं तासां सा न सम्भवेत् ॥१५॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२०।
धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः
दहरोऽस्मिन्न् अन्तराकाश इति प्रकृत्य वियद् उपमा-पूर्वकं तत्र सर्व-समानत्वम् उक्त्वात्म-शब्दं च प्रयुज्योपदिश्य चापहत-पाप्मत्वादि तम् एवानतिवृत्त-प्रकरणं निर्दिशति । अथ य आत्मा स सेतुर् विधृतिर् एषां लोकानां असम्भेदाय [छा.उ. ७.४.१] इति । तस्माद् अस्य विश्व-धृति-रूपस्य महिम्नोऽस्मिन् दहरे प्राप्तेर् अयं श्री-विष्णुर् एव । एष सेतुर् विधारण एषां लोकानां असम्भेदाय [बृ.आ.उ. ४.४.२२] इत्य् अन्यत्राप्य् एष महिमा तत्रैव दृष्टः ॥१६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।३।३०-३२।
प्रसिद्धेश् च
को ह्य् एवान्यात् [तै.उ. २.७] इत्य् आदौ ब्रह्मण्य् आकाश-शब्दस्य ख्यातेश् च ॥१७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।१८।१३।
ननु,
अथ य एष संप्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतद् अमृतम् अभयम् एतद् ब्रह्म [छा।उ। ८।३।४]
इति दहर-वाक्यान्तराले जीवस्य परामर्शा स एव दहरः स्याद् इति चेत्, तत्राह—
इतर-परामर्शात् स इति चेन् नासम्भवात्
मध्ये जीव-परामर्शाद् उपक्रमेऽपि स एवेति न शक्यं वक्तुम् । कुतः ? असम्भवात् । उपक्रम्योक्तस्य अपहत-पाप्मत्वादि-गुणाष्टकस्य जीवेऽनुपपत्तेर् इत्य् अर्थः ॥१८॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८९।१०, १०।८७।३८॥
उत्तराच् चेद् आविर्भाव-स्वरूपस् तु
शङ्का-च्छेदाय तु शब्दः । नेत्य् अनुवर्तते । प्रजापति-वाक्ये साधनाविर्भावित-स्वरूपस्योपदेशात् न तेनाविर्भूत-स्वरूपः शक्यो ग्रहीतुम् इत्य् अर्थः । धर-वाक्यार्थं तद् अष्टकं नित्याविर्भूतं तथैव प्रतीयात् । प्रजापति-वाक्क्योक्तं तत्-साधनाविर्भावितं । एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय [छा.उ. ८.१२.३] इत्य् आदिना तथैव प्रतीतेर् इत्य् उभयोर् महद् अन्तरम् । किं च, साधनाविर्भावित-तद्-अष्टकेऽपि जीवे असम्भाव्याः सेतुत्व-जगद्-विधारकत्वादयो गुणाः परेशत्वं दहरस्य गमयन्ति ॥१९॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।४।१४, २।५।१५॥
यद्य् एवं तर्हि तद्-अन्तराले जीव-प्रस्तावः किम्-अर्थम् ? तत्राह—
अन्यार्थश् च परामर्शः
तत्र जीव-परामर्शः परमात्म-ज्ञानार्थ एव । यं प्राप्य जीवस् तद्-अष्टकवता स्वरूपेणाभिनिष्पद्यते, स एष परमात्मेति ॥२०॥
अल्प-श्रुतेर् इति चेत् तद् उक्तम्
तत्र यत् समाधानं तत् प्राग् एवोक्तम् । निचाय्यत्वाद् एवं व्योमवच् च इत्य् अनेन विभोर् अपि प्रादेश-मात्रत्वं तन्-मात्र-स्मृति-स्थान-मानोपचारात् । स्मृति-भावापेक्षयाविचिन्त्य-महिम्नस् तस्य तथा प्राकट्याद् एव ॥२१॥
इतश् चैतद् एवम् इत्य् आह—
अनुकृतेस् तस्य च
नित्याविर्भूत-तद्-अष्टक-विशिष्टस्य दहरस्य साधनाविर्भावित-तद्-दृष्टकेन प्रजापति-वाक्योक्तेन जीवेनानुकरणात् तस्माद् इतरः सः । पूर्वम् अनृतापिहित-स्वरूपः पशात् ब्रह्मोपासनया सञ्छिन्न-पिधानस् तद् उपसम्पत्त्याविर्भावित-सुसिद्धं, पवनम् अनुहरते हनुमान् इत्य् आदिषु । दृश्यते च मुक्तस्य ब्रह्मानुकारः, निरञ्जनः परमं साम्यम् उपैति इति श्रुत्य्-अन्तरे ॥२२॥
अपि स्मर्यते
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२] इति ।
मुक्तानां भगवत्-साधर्म्य-लक्षणः स स्मर्यते । तस्माद् दहरः श्री-हरिर् एव, न जीवः ॥२३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।२९।४४।
कठ-वल्ल्यां पठ्यते ।
अङ्गुष्ठ-मात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूत-भव्यस्य न ततो विजुगुप्सते ॥ [क.उ. २.१.१२] इत्य् आदि ।
इह वीक्षा—अङ्गुष्ठ-मात्रो जीवः श्री-विष्णुर् वेति ? प्राणाधिपः सञ्चरति स्व-कर्मभिर् अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः इत्य् आदि श्वेताश्वतर-वाक्यैकार्थात् जीव इति प्राप्ते—
पूर्वत्र परमपुरुषशब्दस्य श्रीनारायणे रूढत्वात् तस्यैवोपस्यता निर्णीता । तद्वदत्राकाशशब्दस्य भूताकाशे रूढत्वात् तस्यैवोपस्यतास्त्विति दृष्टान्तसङ्गत्याह छान्दोग्येत्यादि । अथ यदिति । भूमविद्यानन्तर्यमथशब्दार्थः । अन्वेष्टव्यं ध्येयमित्यर्थः । तत्र सन्देह इति । प्रसिद्धिर्मितत्वञ्च तद्बीजं बोध्यं । दहरेति । ते चेति । विजिज्ञास्यत्वेननोक्तस्य दहराकाशस्य तञ्चेद्ब्रूरित्य्पक्रम्य किं तदत्र विद्यते यदन्वेष्टव्यं यद्वा विजिज्ञासितवमित्याक्षेपपूर्वकं समाधानवाक्यं । स ब्रूयात् यावान् वा अयमाकाशस्तावानेषोऽतर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते इत्यादि । एतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्मापहतपाप्ना विजरो विमृत्युरित्यादि च । अत्राकाशोपमानत्वं द्यावापृथिव्याश्रयत्वं कामाद्याधारत्वञ्च दहरस्योक्तं । श्रुत्यर्थस्तु तं गुरुं शिष्या ब्रूय्ः किं तदिति । हृत्पुण्डरीकं तावदल्पं तत्र स्थित आकाशस्ततोऽप्यल्पः स्यादिति अल्पे हृत्पुण्डरीके किमस्ति । यत् श्रुतियुक्तिभ्यां विचार्य ध्येयमित्यल्पत्वदोषेण दहरस्य ध्येयत्वे शिष्टैराक्षिप्ते तत्र समाधानं स ब्रूयादिति । स गुरुर्ब्रूयात् । किं ब्रूयादित्याह यावानिति । तथा चाकाशोपमत्वेनाल्पत्वदोषनिराकरणादचिन्त्यशक्त्या विभुत्वमजहदेव मध्यमतया विभातीति स श्रीहरिरेव तादृशो ध्येय इत्यर्थः । आकाशशब्दवाच्याश्चाष्टौ गुणास्तत्रान्वेष्टव्याः कथिताः । यो खलु य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामानित्युपसंहृताः । इह तद्गुणगणस्य मुमुक्षुमृग्यत्वश्रवणादानुवादित्वादिकं तस्य निरस्तं यथा हिरण्येति । न विदन्त्यत्र हेतुरनृतेनेति । हि यस्मादनृतेन प्रजाः । प्रत्युढा ग्रस्ता इत्यर्थः । सतेति । हे सौम्य श्वेतकेतो तदा सुषुप्तिकाले जीवः सता ब्रह्मणा सह सम्पन्नो भवति तत्र लीयत इत्यर्थः । तत्र प्रत्यहमिति । तत्र सत्यलोके । प्रतिदिनं तासां प्रजानां सा गतिर्न सअवेदित्यर्थः दहरेति । तमेव दहरमेव अनतिक्रान्तप्रकरणमित्यर्थः । स सेतुरिति । सेतुर्वर्णाश्रमाद्यसङ्करताहेतुः । विधृतिर्विशिष्टा धृतिर्येन सः । अञ्जसा असाङ्कर्येण च निखिलधारक इत्यर्थः । असंभेदाय असाङ्कर्याय प्रसिद्धेरित्यादि सुगमं नन्विति । सम्प्रसादो जीवः । परं ज्योतिः परं ब्रह्म । एष परंज्योतिःशब्दनिर्दिष्ट आत्मा विभुर्विज्ञानानन्दः । मध्य इति । उपक्रमोक्तस्य उपक्रान्ते दहरे पठितस्य स्यादेतदिति । य इति आत्मा जीवलक्षणः । विमृत्युर्मरणरहितः । विजिघत्सः विगता जिघत्सा यस्य सः । एतद्गुणाष्टकविशिष्टं जीवस्य नैजं स्वरूपं । तदष्टकं गुणाष्टकं । शङ्केति । साधनेति । साधनेन ब्रह्मोपासनेनाविर्भावितं तदष्टकवत् स्वरूपं यस्य स जीवः तथा तस्य तत्रोपदेशात् । तेनेति । प्रजापतिवाक्येन नित्यसिद्धरूपः परमात्मा न शक्यते नेतुमित्यर्थः । एतद्विशदयति दहरेत्यादिना । एवमेवेति । आदिशब्दात् परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति वाक्यशेषो ग्राह्यः । यत् परं ज्योतिः स उत्तमः पुरुषः श्रीहरिरित्यर्थः । लिङ्गान्तरमाह किञ्चेत्यादि यद्येवमिति । तदन्तराले दहरवाक्यमध्ये । अन्यार्थेत्यादि स्पष्टं नन्विति । अल्पत्वं मध्यमत्वं । पूर्वत्र दहरवाक्यादौ । अल्पेत्यादि स्पष्टं अन्विति । चावधृतौ । अनुकरणं नाम तत्समतया वर्त्तनं । तस्मात् जीवात् । स दहरः । इह स्फुटयति पूर्वमिति । अनृतापिहितमविद्यासंवृतं स्वरूपं यस्य सः । संछिन्नपिधानो विनष्टाविद्यः । तदुपसंपत्त्या परंज्योतिः सन्निधिलाभेन । तत्समो ब्रह्मतुल्यः । मिथोऽन्यत्वं परस्परभेदः इदमिति । इह वचनेन भेदेऽपि जीवबहुत्वमुक्तं तेन तत्र भगवतो मुक्तानाञ्च मिथो भेदः सिद्धः
अधिकरणम् २४ (प्रतिमाधिकरणम्)
शब्दाद् एव प्रमितेः
अङ्गुष्ठ-प्रमितः श्री-विष्णुर् एव । कुतः ? शब्दाद् एव । ईशानो भूत-भव्यस्य इति श्रुतेर् एवेत्य् अर्थः । न चेदृग् ऐश्वर्यं कर्माधीनस्य जीवस्य सम्भवेत् ॥२४॥
ननु विभोस् तत्-प्रमितत्वं कथं ? तत्राह—
हृद्य् अपेक्षया तु मनुष्याधिकारत्वात्
तु-शब्दोऽवधारणे । अङ्गुष्ठ-मात्रे हृदि स्मर्यमाणत्वात् विभोर् अप् अङ्गुष्ठ-मात्रत्वं । हृन्-मानापेक्षया तस्मिन् मानोपचारात् स्मर्तृ-भावापेक्षया तादृशस्यापि तस्याचिन्त्य-महिम्नस् तथा हृदि प्राकट्याद् वेत्य् उदितं प्राक् ।
ननु देहि-भेदेन हृन्-मान-भेदात् तावत्त्वं तस्याशक्यं सम्पादयितुम् इति चेत्, तत्राह—मनुष्येति । शास्त्रम् अविशेषेण प्रवृत्तम् अपि मनुष्यान् अधिकरोति । तेषां सामर्थ्यादि-जुषाम् उपासकत्व-सम्भवात् । ततश् च मनुष्य-वपुषाम् ऐकविध्यात् तद्वतां तद् अविरुद्धम् । तेन करितुर् अगादि हृदाम् अङ्गुष्ठ-मात्रत्वेऽपि न विरोधः । यत् तु जीवस्याप्य् अङ्गुष्ठ-मात्रत्वम् उक्तम् । तत् किल तावति हृदि स्थितेर् एव तु तावत् स्वरूपतया बालाग्र-शत-भागेत्य् आद्य् उत्तर-वाक्येन तस्याणुत्व-विनिश्चयात् । तस्माद् इह श्री-विष्णुर् एवाङ्गुष्ठ-मात्र इति ॥२५॥
ब्रह्मणेऽङ्गुष्ठ-परिमित्तत्व-सिद्धये तद्-आवेदकं शास्त्रं मनुष्याधिकारम् इत्य् उक्तम् । तेन मनुष्याणाम् एव तद्-उपासकत्वम् इति समर्थितम् । इदानीं तद्-अपवादेन पराधिकरणम् इदं प्रवर्तयते । बृहद्-आरण्यके श्रूयते—तद् यो यो देवानां प्रत्यबुध्यत, स एव तद् अभवत् । तथ र्षीणां तथा मनुष्याणां [बृ.आ.उ. १.४.१०] इति । तद् देवा ज्योतिषां ज्योतिर् आयुर् होपासतेऽमृतं [बृ.आ.उ. ४.४.१६] इति च । इह संशयः—इदं ब्रह्मोपासनं मनुष्येष्व् इव देवेषु श्रूयमाणं सम्भवेन् न वेति । देहेन्द्रियाभावेन सामर्थ्याभावात् न तेषु तद्-उपासन-सम्भवः । मन्त्रात्मकाः खल्व् इन्द्रादयो देवा न तेषां देहेन्द्रियाणि सन्ति । तद्-अभावाद् एव सामर्थ्य-वैराग्यार्थित्वानि च नेत्य् एवं प्राप्ते—
पूर्वत्राकाशशब्दस्यादिमे भूते रूढस्यापि प्रसिद्धिवशदाकाशोपमत्वादिलिङ्गाच्च ब्रह्मपरत्वं यथा दर्शितं तथात्राङ्गुष्ठमात्रशब्दस्याङ्गुष्ठमात्रो रवितुल्यरूप इति प्रसिद्धिवशात् परिच्छिन्नत्वलिङ्गेन जीवपरत्वमस्त्विति दृष्टान्तसङ्गत्याह कठवल्ल्यामिति । अनुष्ठेति । आत्मनि देहे मध्ये हृदीत्यर्थः । ततस्तमुपास्य न विजुगुप्सते श्लाघ्यो भवतीत्यर्थः । अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एतद्वैतदिति । तत्रेदं वाक्यमादिपदाद्ग्राह्यं । अधूमक इति लिङ्गव्यत्ययेन निर्धूमज्योतिरिवेत्यर्थः । नित्यतामाह स एवाद्य इति । अद्य वर्तमानकाले स एवास्ति । श्वो भविष्यत्काले स एव भविता । भूतेऽपि स एवभूदित्यस्योपेलक्षणमेतत् । यन्नाचिकेताः पप्रच्छ यत्र धर्मादित्वादित्यादिना तद्वस्त्वेतदेव । प्राणाधिप इति । वनपर्वणि च । ततः सत्यवतः कायात् पाशबद्धं वशं गतं । अङ्गुष्ठिमात्रं पुरुषं निश्चकर्ष यमो बलादिति । शब्दादिति स्पष्टं नन्वन्गुष्ठमात्रत्वाल्लिङ्गात् जीव एव सोऽस्त्विति चेत् तत्राह हृद्यपेक्षयेति । लिङ्गापेक्षसेशान इति श्रुतेर्बलिष्ठत्वं न तेन लिङ्गेन जीवः प्रतिपाद्य इत्यर्थः । तावत्त्वमङ्गुष्ठप्रमितत्वं । तस्य ब्रह्मणः । तेषां मनुष्याणां । उक्तं श्वेताश्वतरश्रुत्या । तावति अङ्गुष्ठप्रमिते । तावत्स्वरूपतयेत्यन्गुष्ठपरिमितस्वरूपतयेत्यर्थः । एवं सत्यङ्गुष्ठप्रमितत्वबोधकवाक्यानि लिङ्गदेहविशिष्टजीवात्मबोधकानीति बोध्यं । तस्येति जीवस्य
अधिकरणम् २५ (देवताधिकरणम्)
तद्-उपर्य् अपि बादरायणः सम्भवात्
तद् ब्रह्मोपासनं मनुष्याणाम् उपरि देवेषु च स्वीकार्यम् इति भगवान् बादरायणो नम्यते । कुतः ? उपनिषन्-मन्त्रार्थ-वादेतिहास-पुराण-लोक-परिज्ञात-विग्रह-शालिनां तेषां सामर्थ्यादि-सम्भवात् । तद्-उपासने सामर्थ्यं दिव्य-देहेन्द्रिय-योगात् निजैश्वर्य-विषयं वैराग्यं च । तद्-ऐश्वर्यस्य सावद्यत्व-विनश्वरत्वेनानुभूयमानत्वात् । स्मृतिश् च—
न केवलं द्विज-श्रेष्ठ नरके दुःख-पद्धतिः ।
स्वर्गेऽपि यात-भीतस्य क्षयिष्णोर् नास्ति निवृत्तिः ॥ [वि.पु. ६.५.५०]
तत एव ब्रह्म-विषयम् अर्थित्वं च । तस्य निरवद्य-नित्य-परिमितानन्दत्वेन श्रूयमाणत्वात् । विद्या-ग्रहणाय ब्रह्मचर्यम् अपि देवादीनां श्रूयते— त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर् देवा मनुष्या असुराः [बृ.आ.उ. ५.२.१] इति बृहद्-आरण्यके । इन्द्रस्य च छान्दोग्ये—एक-शतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यम् उवास [छा.उ. ८.११.३] इति । तस्मात् सामर्थ्यादीनां सत्त्वाद् अधिकारिणे देवादय इति ॥२६॥
ननु देवादीनां विग्रहवत्त्वे स्वीक्रियमाणे कर्मणि विरोधः प्राप्नुयात् एकस्य परिच्छिन्नस्य बहु-यज्ञेषु युगपद्-आहूतस्य सान्निध्यानुपपत्तेर् इति चेत् तत्राह—
विरोध-कर्मणीति चेन् नानेक-प्रतिपत्तेर् दर्शनात्
तत्-स्वीकारेऽपि न तत्र विरोधः । कुतः ? अनेकेति । शक्तिमतां सौभर्यादीनां कार्य-व्यूह-प्राप्ति-दर्शनाद् इत्य् अर्थः ॥२७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।८।४२, ३।२२।४४, ३।२३।४७।
ननूक्त-हेतोर् देवता-विग्रह-वादिनां कर्मणि विरोधो मा भूत्, वेद-शब्दे तु स स्यात् । तद्-उत्पत्तेः पूर्वत्र तद्-विनाशात् परत्र च तद्-वाचके तस्मिन् बन्ध्यात्मजाति-शब्दवद् अप्रामाण्य-लक्षणे विरोधः । औत्पत्तिकस् तु शब्देनार्थस्य सम्बन्ध इति शब्द-तद्-अर्थ-तत्-सम्बन्धानां यत्-पूर्व-तन्त्रेण नित्यत्वम् उक्तं तच् च विरुद्धं स्याद् इति चेत्, तत्राह—
शब्द इति चेन् नातः प्रभावात् प्रत्यक्षानुमानाभ्याम्
वेद-शब्देऽपि नोक्त-लक्षणे विरोधः । कुतः ? अतः प्रभवात् । नित्य-तत्-तद्-आकृति-वाचकात् तत्-तद्-वेद-शब्दात् तत्-तद्-वाच्य-नित्याकृत्य्-अनुस्मृत्या तत्-तद्-विग्रहाणाम् उत्पत्तेर् इत्य् अर्थः । आकृतयो नित्याः सर्व-व्यक्तिभ्यः पूर्वं स्थितेः । विश्वकर्मणः स्व-शास्त्रे याः प्रोक्ताः चित्रकर्म-प्रसिद्धये यमं दण्ड-पाणिं लिखन्ति वरुणं तु पाश-हस्तम् इति । देवादि-वाचका वेद-शब्दा गवादि-शब्दवत् स्वभावाद् एवाकृतिषु सङ्केतिताः सन्ति । न तु चैत्रादि-शब्दवत् व्यक्ति-मात्रेषु । तथा च नित्याकृति-वाचित्वाद् वेद-शब्दानां तद्वन् नाप्रामाण्यं, नापि पूर्व-तन्त्र-विरोध इति । इदं कुतः ? प्रत्यक्षेति श्रुति-स्मृतिभ्याम् इत्य् अर्थः । श्रुतिस् तावत् शब्द-पूर्वां सृष्टिम् आह—एत इति ह वै प्रजापतिर् देवान्, असृजतासृग्रम् इति मनुष्यान्, इन्दव इति पितॄंस्, तिरः पवित्रम् इति ग्रहान्, आशव इति स्तोत्रं, विश्वानीति मन्त्रम्, अभिसौभगेत्य् अन्याः प्रजाः [पञ्चविंशति-ब्राह्मण ६.९.१३.२२, ६.१२.१.३] इति । स्मृतिश् च—
नाम-रूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेद-शब्देभ्य एवादौ देवादीनां चकार सः ॥ [वि.पु. १.५.६३]
इत्य् आद्या ॥२८॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।३६, २।५।१६, २।१०।३७।
अत एव च नित्यत्वम्
अतो नित्याकृति-वाचित्वात् कर्तुः स्मरणाच् च नित्यत्वं वेदस्य सिद्धम् । काठकादि-संज्ञा तु तत्-तद्-उच्चरितत्वेनैव बोध्या ॥२९॥
स्याद् एतत् । वेद-शब्द-स्मृत्याकृत्य्-अनुस्मृता देवादि-विग्रह-सृष्टिर् या विधातुः श्राव्यते सा किल नैमित्तिक-प्रलयान्ते स्यात् प्राकृतिक-प्रलये तु प्राकृतिकाद् इतरस्य सर्वस्य विनाशोक्तेस् तस्य तादृशी सृष्टिः कथं स्यात् कथं वा वेदस्य नित्यत्वम् इति चेत्, तत्राह—
समान-नाम-रूपत्वाच् चावृत्ताव् अप्य् अविरोधो दर्शनात् स्मृतेश् च
शङ्का-च्छेदाय च-शब्दः । आवृत्तौ महा-प्रलयात् परस्याम् आदि-सृष्टाव् अपि वेद-शब्दे न विरोधः । कुतः ? समानेति । पूर्वोक्त-तुल्य-नाम-रूप-संस्थानत्वाद् इत्य् अर्थः । महा-प्रलये वेदास् तद् वाच्यास् तत्-तद्-आकृतयश् च नित्याः पदार्थाः स-शक्तिके श्री-हराव् एकीभावम् आपन्नास् तिष्ठन्ति । अथ तस्मिन् सिसृक्षौ सति ततोऽभिव्यज्यन्ते । तैर् वेद-शब्दैस् तत्-तद्-आकृति-पर्यालोचन-पूर्विका तत्-तद्-व्यक्ति-सृष्टिः श्री-हरेश् चतुर्मुखस्य च स्यात् । घटादि-शब्दैः पूर्व-घटाद्य्-आकृति-विमर्शिनः कुलालस्य पूर्व-सद्र्शी घटादि-सृष्टिर् यथेत्य् उत्तर-सृष्टानां पूर्व-सृष्टेस् तौल्यम् । एवं च नैमित्तिक-प्रलयान्तवत् महा-प्रलयान्तेऽपि तादृक् सृष्टिर् भवेद् एवेति ।
इदं कुतोऽवगतं ? तत्राह—दर्शनाद् इति । दर्शनं तावत्—आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किंचन मिषत् । स ईक्षत लोकान् नु सृजै [] इति, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै [श्वे.उ. ६.१८], सूर्याचन्द्रमसौ धाता यथा-पूर्वम् अकल्पयत् [ऋ.वे. १०.१९०.३] इत्य् आदि ।
स्मृतिश् च—
न्यग्रोधः सुमहान् अल्पे यथा बीजे व्यवस्थितः ।
संयमे विश्वम् अखिलं बीज-भूते तथा त्वयि ॥ [वि.पु. १.१३.६६] इति ।
नारायणः परो देवस् तस्माज् जातश् चतुर्मुखः ॥ इति ।
तेने ब्रह्म हृदा य आदिकवये [भा.पु. १.१.१] इति चैवम् आद्या ।
अयम् अत्र निष्कर्षः । सर्वेश्वरो भगवान् महा-प्रलयान्ते यथा-पूर्वं विश्वं विचिन्तयन् बहु स्याम् इति सङ्कल्प्य सूक्ष्मात्मना स्वस्मिन् विलीनं भोक्तृ-भोग्य-समुदायं विभज्य महद्-आदि-ब्रह्म-पर्यन्तम् अण्डं पूर्ववन् निर्माय वेदांश् च पूर्वानुपूर्विकान् आविर्भाव्य मनसैव तान् ब्रह्माणम् अध्याप्य च पूर्ववद् देवादि-रूप-विश्व-सृष्टौ तं विनियुङ्क्ते, स्वयं च तद् अन्तर्नियमयन्न् अवतिष्ठते । सोऽपि तद्-अनुग्रह-लब्ध-सार्वज्ञ्य-वीर्यो वेदैस् तत्-तद्-आकृतीर् विमृश्य पूर्वदेवादि-तुल्यांस् तान् सृजतीति । तद् एवम् इन्द्रादि-शब्दात्मनो वेदस्येन्द्राद्य्-अर्थाकृतेश् च सदातनत्वात् तयो सम्बन्धेऽपि तथात्वं सिद्धम् इति शब्देऽपि न कोऽपि विरोधः । तथा च देवादीनां सामर्थ्यादि-सम्भवात् तेषाम् अपि ब्रह्मोपासनाधिकारः सिद्धः । देवाद्य्-अधिकारेऽपि नाङ्गुष्ठ-मात्र-श्रुतिर् विरुद्धा । तद्-अङ्गुष्ठ-प्रतिमत्वेन तत्-सिद्धेः ॥३०॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।९।३८-३९।
अथ यासु विद्यासु देवा एवोपास्यास् तासु तेषाम् अधिकारः स्यान् न वेति विचार्यते । छान्दोग्ये—असौ वा आदित्यो देवमधु तस्य द्यौर् एव तिरश्चीनं वंश [छा.उ. ३.१.१] इत्य् आदिना सूर्यस्य देव-मधुत्वं प्रतिपाद्यते । रश्मीनां छिद्रत्वं च तत्र वसुय्-रुद्रादित्य-मरुत्-साध्याः पञ्च देव-गणाः स्व-मुख्येन मुखेनामृतं दृष्ट्वैव तृप्यन्तीत्य् आदि चोच्यते । सूर्यस्य मधुत्वं च ऋग्-आदि-प्रोक्त-कर्म-निष्पाद्यस्य रश्मि-द्वारा प्राप्तस्य रसस्याश्रयतया व्यपदिश्यन्ते । एवम् अन्यन् नाप्य् अन्यद् एवोपासना च ग्राह्या । तत्र तावत् पर-मतम् आह—
मनुष्याधिकारं शास्त्रमिति प्राक् प्रोक्तं तर्हि क्रममुक्त्यर्थया उपासनया देवत्वं प्राप्तानां मनुष्याणां तत्राधिकारो न स्यादित्याक्षिप्य समाधानदाक्षेपसङ्गत्याह ब्रह्मणोऽङ्गुष्ठेत्यादि । प्रसङ्गसङ्गत्या वेत्येके । देवानामनधिकारात् । तदर्थायां तस्यां देवादिभोगद्वारा मुक्तिकामानां नृणां प्रवृत्तिर्नेति पूर्वपक्षे फलं सिद्धान्ते तादृक् प्रवृत्तिरिति बोध्यं । तद्य इति । देवादीनां मध्ये यो यो देवादिस्तत् तादृशगुणकं ब्रह्म प्रत्यबुध्यतज्ञात्वोपास्त । स एव तदभवत् प्राप्नोत् । परस्मैपदं छान्दसं । स एवेत्यादिना जीवब्रह्मयोरभेदोऽपि नाशङ्कनीयः सादृश्यवेदकबहुवाक्यव्याकोपात् । तदेव इति । देवास्तद्ब्रह्मोपासते ध्यायन्ति । कीदृक् ज्योतिषां प्रकाशकानां सूर्यादीनां ज्योतिः प्रकाशकं । आयुर्जीवनप्रदं । अमृतमविनाशि नित्यमित्यर्थः । तेष्विति देवेषु । तेषां मन्त्रात्मकानां देवानां । तदिति । उपनिषदिति । तेषां विग्रहयोगात् तत् सम्भवतीत्यर्थः । इदमत्र बोध्यं । कर्मठैरपि देवताविग्रहाः स्वीकृताः अन्यथा यस्मै देवतायै हविर्गृहीतं स्यात् तां ध्यायेत् वषट् करिष्यन्निति श्रुतध्यानानुपपत्तिः । तथा मन्त्राणां तत्ताभ्युपगमस्तदैश्वर्यशक्तौ अनवधानादिति । सामर्थ्यादिकं विशदयति तदुपासनेत्यादिना । सावद्यत्वं सदोषत्वं परिणामित्वमिति यावत् । न केवलमिति श्रीवैष्णवे । तस्य ब्रह्मणः । निरवद्यत्वं परिणामशून्यत्वं । देवानां ब्रह्मोपासकत्वे प्रमाणान्तरमाह विद्येत्यादि । प्रजापतौ विधौ । इन्द्रस्य चेति चशब्दः पूर्वं ब्रह्मचर्यं समुच्चिनोति नन्विति । कर्मणि यज्ञे । विरोधः ऋत्विगादिवत् सन्निधानेन तत्रोपकारिता न स्यादित्यर्थः । तत्र हेतुरेकस्य परिच्छिन्नस्य देहित्वेनैकदेशस्थितस्येत्यर्थः । तदिति । विग्रहवत्त्वस्वीकारेऽपि यज्ञोपकारितायां वाधो नेत्यर्थः । कायव्यूहो वहूनि शरीराणि नन्विति । स विरोधः । तदुत्पत्तेः विग्रहोत्पत्तेः । तद्विनाशात् विग्रहविनाशात् । तद्वाचके विग्रहाभिधायिनि तस्मिन् वेदशब्दे । औत्पत्तिकः स्वाभाविकः नित्य इति यावत् । पूर्वतन्त्रेण द्वादशलक्षण्या । वेदेति । या आकृतयः । तद्वत् बन्ध्यात्मजादिशब्दवत् । प्रत्यक्षेति । श्रुतेः प्रत्यक्षत्वं प्रमाजनने अन्यानपेक्षत्वात् । स्मृतेरनुमानत्वं प्रमाजनने अन्यापेक्षत्वात् । एत इत्यादेरर्थः । एते असृग्रमिन्दवस्तिरःपवित्रमासुवो विश्वानि सौभगेत्येतैर्मन्त्रस्थपदैर्देवादीन् स्मृत्वा प्रजापतिर्विधाता ससर्जेत्यर्थः । तत्रैतच्छब्द इन्द्रियाधिष्ठातृदेवानां स्मारकः । असृग्रशब्दो रुधिरप्रधानदेहानां मनुष्याणां इन्दुशब्दश्चन्द्रमण्डलस्थानां पितृणां तिरःपवित्रशब्दः पवित्रं सोमं स्वमध्ये तिरस्कुर्वतां धारयतां ग्रहाणां आसुबशब्दः ऋचः सुवतां गानरूपाणां स्तोत्राणां विश्वशब्दो विश्वदेवशंसनानां स्तोत्रानन्तरं प्रयोगं विशतां मन्त्राणां अभिसौभगशब्दस्तु निरतिशयसौभगस्य वाचकः प्रजाः प्रजानामिति । नामरूपञ्चेति श्रीवैष्णवे । स ब्रह्मा । आद्यशब्दात् सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे इति ग्राह्यं नित्यत्वमिति । पूर्वपूर्वोच्चारणक्रमविशिष्टतया सर्ववेदोचार्यमाणत्वमित्यर्थः । नन्वेवं कठेन प्रोक्तं काठकमित्यादिनिरुक्तिः कथं तत्राह काठकादीति । कठादिशब्दैस्तत्तदाकृतिर्विचिन्त्य तत्तद्देहांस्तत्तच्छक्तियुक्तान् निर्माय तत्तद्ग्रन्थप्रकाशने ब्रह्मा तान् विनियुङ्क्ते । तेऽपि तदत्तशक्तयः पूर्वपूर्वकठादिप्रकाशितांस्ताननधीत्यैव स्वरतो वर्णतश्चास्खलितानेव पश्यन्तीति न किञ्चिच्चोद्यं । मोक्षधर्मे । युगान्ते तर्हि तान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवेति । अष्टमे च । चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान् यथा । तपसा ऋषयओऽपश्यन् यतो धर्मः सनातन इति स्मृतिः स्यादेतदिति । सर्वस्येति । स दग्ध्वा सर्वाणि भूतानीत्यादिसुबालश्रुतौ भवानेकः शिष्यते शेषसंज्ञ इत्यादि स्मृतौ च तमःशक्तिविशिष्टात् परेशादितरस्य वेदतद्वाच्याकृत्यादेस्तदनुसारिनिखिलप्रपञ्चस्य प्रलयाभिधानादित्यर्थः । शास्त्रमवकृष्य शयीत यदेति वेदलयः स्फुटं स्मर्यते । न चाकृतयस्तदा स्युरिति वाच्यं तत्सत्त्वे शेषसंज्ञासिद्धेः । तादृशीति । आकृत्यनुसृता देवादिविग्रहसृष्टिरित्यर्थः । समानेति । एकीभावमापन्नास्तिष्ठन्तीति । स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परमिति स्मृतेः शक्तयस्तदाकृतयश्च । ताभिः साहित्योक्तिस्तदा तासां स्थितिमाह । श्रुतयश्च तदा सन्तीति स्फुटमुक्तं । अतएव शास्त्रमवकृष्येत्युक्तं न तु दग्ध्वेति । तस्माद्वेदास्तत्तदाकृतयश्च नित्याः । श्रीहरेरिति । महदादेश्चतुर्मुखान्तस्य सृष्टिः श्रीहरिणा देवादिविग्रहाणां सृष्टिश्चतुर्मुखेनेत्यर्थः । न च शेषसंज्ञासिद्धिः अशेषसंज्ञा इतिच्छेदात् । आत्मा इति । अत्र सप्रकृतौ श्रीहरावेव सर्वस्य लय उक्तः । अत्र वेदाकृतिलयो वनलीनविहङ्गन्यायेन बोध्यः । महदादिप्रपञ्चलयश्च गन्धादिवच्चूर्णितघटादिवच्चेति वदन्ति । य इति । यः श्रीहरिः । विदधाति सृजति । सूर्येति । धाता ब्रह्मा । न्यग्रोध इति श्रीवैष्णवे । नग्रोधो बहुपाद्वट इत्यमरः । संयमे प्रलये । नारायण इति श्रीवाराहवाक्यं । तेन इति श्रीभागवते मङ्गलपद्यावयवः । यो हरिरादिकवये ब्रह्मणे तं बोधयितुमित्यर्थः । हृदा मनसैव ब्रह्म वेदं तेने पाठितवानित्यर्थः । तदङ्गुष्ठेति । देवाद्यङ्गुष्ठप्रमितत्वेनेत्यर्थः
अधिकरणम् २६ (भावाधिकरणम्)
मध्व्-आदिष्व् असम्भवाद् अनधिकारं जैमिनिः
जैमिनिर् देवानां मध्व्-आदिषु विद्यास्व् अनधिकारं मन्यते । कुतः ? असम्भवात् । न हि स्वयम् उपास्यः सन्न् उपासको भवितुम् अर्हति एकस्मिन्न् उभयासम्भवात् । वसुत्वादि-प्राप्तेर् मधु-विद्या-फलस्य सिद्धत्वेनार्थित्वासम्भवाच् च ॥३१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।६।३३।
ज्योतिषि भावाच् च
तद् देवा ज्योतिषां ज्योतिर् इत्य् आदि श्रुतेर् ज्योतिषि परस्मिन् ब्रह्मणि तेषाम् उपासकतया भावाच् च न तास्व् अधिकारः । ब्रह्मोपासनस्य देव-मनुष्य-साधारण्येऽपि विशिष्य देवानां तत्-कथनं तेषाम् इतरोपासन-निवृत्तिं द्योतयति ॥३२॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।२३। १०।६३।३४।
एवं प्राप्ते ब्रवीति—
भावं तु बादरायणोऽस्ति हि
तु शङ्का-च्छेदार्थम् । तास्व् अपि मध्व्-आदि-पूपासनासु भावं देवाधिकारस्य भगवान् बादरायणो मन्यते । हि यस्माद् आदित्य-वस्व्-आदीनाम् अपि सतां स्वावस्थ-ब्रह्मोपासनया स्वभावाप्ति-पूर्वक-ब्रह्म-लिप्सा सम्भवोऽस्ति । कार्य-कारणोभयावस्थ-ब्रह्मोपासनस्यात्रावगमात् । इदानीम् आदित्य-वस्व्-आदयः सन्तः स्वावस्थ-ब्रह्मोपासीनाः कल्पान्तरेऽप्य् आदित्यादयो भूत्वा आदित्याद्य्-अन्तर्यामि-कारण-भूतं ब्रह्मोपास्य मुक्ताः सन्तस् तद् भविष्यन्तीति भावः । न चादित्यादि-शब्दानां ब्रह्म-पर्यन्तत्वे मानाभावः । य एतम् एवं ब्रह्मौपनिषदं वेद इत्य् उपसंहारस्य मानत्वात् । न च विद्या-फलस्य वसुत्वादि-प्राप्तेः सिद्धत्वाद् अर्थित्वासम्भवः । लोके पुत्रिणाम् एव सतां जन्मान्तरे पुत्र-लिप्सा-दर्शनात् । एवं च ब्रह्मण एवोपास्यत्वात् तद् देवा ज्योतिषां ज्योतिर् इत्य् अपि सूपपन्नम् । प्रजापतिर् अकामयत प्रजायेयेति स एतद् अग्निहोत्रं मिथुनम् अपश्यत् । तद्-उदिते सूर्येऽजुहोत् इति । देवा वै सत्रम् आसत इत्य् आदि श्रुत्य्-अन्तर-सिद्धः कर्माधिकारश् च तेषां न विरुद्द्यते । लोक-सङ्ग्रहार्थया भगवद्-आज्ञया तत्-करणात् ।
ननु मधु-विद्यादि-शालिनाम् अनेक-कल्प-पर्यन्तं विलम्बं सहिष्णूनां कथं मुमुक्षुत्वं ब्रह्म-लोकान्त-सुख-वैतृष्ण्ये तत्त्वात् ? सत्यम् । तद्-बोधक-शास्त्राद् अदृष्ट-वैचित्र्यस्य नियामकत्वाच् च तादृशाः केचिद् अधिकारिणः सम्भवन्तीति स्वीकार्यम् । इदम् अधिकरणं पूर्वार्थे कैमुत्य-द्योतनाय ॥३३॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।६३।४३-४४।
मनुष्याणां देवादीनां च सामर्थ्यादि-योगाद् ब्रह्मोपासनायाम् अधिकारः प्रोक्तः । सा च वेदान्त-पाठाद् ऋते न सम्भवति । औपनिषदः पुरुषः इत्य् आदि-श्रुतिर् इति स्थितम् । तत्-प्रसङ्गाद् इदम् आरभ्यते ।
छान्दोग्ये जानश्रुतिर् हि पौत्रायण [छा.उ. ४.१.१] इत्य् आदिर् आख्यायिका श्रूयते । तत्र हंसोक्ति-श्रवणानन्तरं सयुग्वानो रैङ्कस्य सन्निधि-गतेन जानुश्रुतिना गो-निष्क-रथान् दर्शयित्वा देवतां पृष्टो रैङ्क आह—अहह हारेत्वा शूद्र तवैव सह गोभिर् अस्त्व् [छा.उ. ४.२.३] इति तं शूद्र-शब्देन सम्बोध्य पुनर् अप्य् आहृत-गो-नोष्क-रथ-कन्योपहारं आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा [छा.उ. ४.२.५] इत्य् उक्त्वा संवर्ग-विद्याम् उपदिष्टवान् इति वर्ण्यते । इह भवति संशयः । वेद-विद्यायां शूद्रोऽधिक्रियते न वेति । तत्र मनुष्याधिकारोक्तिर् अविशेषात् सामर्थ्यादि-सत्त्वात् शूद्रेति श्रौत-लिङ्गात् पुराणादिषु विदुरादीनां ब्रह्मवित्त्व-दर्शनाच् च सोऽधिक्रियते इति प्राप्तौ ।
पूर्वमुक्तो ब्रह्मविद्यायाधिकारो देवानामस्तु । तेषां परमानन्दस्य तत्फलस्याप्तेः । मध्वादिविद्यासु तु स मास्तु वसुत्वादिप्राप्तेस्तत्फलस्य तेषु सिद्धेरिति प्रत्युदाहरणसङ्गत्याह अथेत्यादिना । असावित्यादेरयं निर्यासः । आदित्यो देवमधु देवानां मेदनान्मध्विव मधु तस्य मधुनो द्युलोक एव तिरश्चीनं वंशः आदित्याख्यमधुनोऽन्तरीक्षेऽवस्थानत् न देवमध्वाधारो यूपः । रोहितं शुक्लं कृष्णं परकृष्णं गोप्यञ्चेति पञ्च रोहितादीन्यमृतानि प्रगाद्युर्द्ध्वान्तपञ्चगवस्थिताभिरादित्यरश्मिनाडीभिर्मधुच्छिद्रभूताभी रोहिताद्याख्यतत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्यमण्डलमानीतानि । पञ्चमममृतं गोप्याख्यं प्रणवकुसुमादुपासनाभ्रमरैरूर्ध्वदिग्गतसूर्यरश्मिरूपेण गोप्याख्यमधुच्छिद्रद्वारा तन्मगुलमानीतं । रोहितादिकममृतं मकरन्दस्थानभूतं वह्नौ हुतसोमाज्यपयःपुरोडाशादिरूपं बोध्यं । तानि च रोहितादीन्यमृतानि यशस्तेजोवीर्यसर्वेन्द्रियान्नरूपेण निष्पन्नान्यादित्यमधुसम्बन्धीनि प्रागादिषु दिक्षु क्रमेण स्थितानां वम्वादीनामुपजीव्यानीत्येवं भावयतां वसुत्वादिप्राप्तिफलं । वस्वादीनां समानानां मध्ये एको भूत्व यश आद्यमृतं प्रत्यक्षानुमानादिभिः । करणैरुपलभ्य तृप्यतीति । स्वेषु यो मुख्यस्तद्रूपेण मुखेन वक्त्रेण इत्यर्थः । एवमन्यत्रापीति । आदित्यो ब्रह्मेत्यादिरूपा ग्राह्या । असम्भवादिति । उपास्यतोपासकतयोरुभयोर्धर्मयोरेकस्मिन्नादित्येऽसम्भवादयोग्यत्वादित्यर्थः । एतदेवाह न हीति ज्योतिषीति । तत्कथनं ब्रह्मोपासकत्वकथनं भावन्त्वीति । स्वावस्थेति । आदित्यादिमूर्त्तिकं ब्रह्मोपास्य पुनरप्यादित्यं प्राप्य तदनन्तरं शुद्धं चिन्मूर्त्तिकं ब्रह्म प्राप्स्याम इत्यभिलाषः सम्भवतीत्यर्थः । कारणमिति चिद्विग्रहमित्यर्थः । मधुविद्याया ब्रह्मोपासनत्वमुक्तं तत्राशङ्कते न चादित्यादिशब्दानामिति । तथा च देवानां ब्रह्मैकभक्तत्वमक्षतमिति । न च विद्याफलस्येति । इदानीं यो राजास्ति स जन्मान्तरे राजा बुभूषतीतिवदिति बोध्यं । एवञ्चेति । मध्वादिषूपासनास्वपि ब्रह्मैवोपास्यमतस्तदेवा ज्योतिषामित्यादिश्रुतेर्नासङ्गतिरित्यर्थः । किञ्च लोकसंग्रहार्थमीश्वराज्ञया देवाः कर्माण्यस्य कुर्वन्ति किमुत साक्षाद्ब्रह्मस्वरूपं ध्यायन्ति न वेति शङ्कितव्यमित्यभिप्रायेणाह प्रजापतिरित्यादि । पुष्करादौ ब्रह्मादिभिर्यज्ञाः कृत इति पुराणेतिहासयोरतिप्रसिद्धं यज्ञस्थलानि च प्रत्यक्षाणीति । केचिदिति । सनिष्ठाविशेषा एते बोध्याः
अधिकरणम् २७ (अपशूद्राधिकरणम्)
शुग् अस्य तद्-अनादर-श्रवणात् तदाद्रवणात् सूच्यते हि
नेत्य् अनुवर्तते । तस्यां शूद्रो नाधिक्रियते । कुतः ? हि यस्माद् अस्य पौत्रायणस्य जानश्रुतेर् अब्रह्मज्ञस्य कम् व् अरे एनम् एतत् सन्तं सयुग्वानम् इव रैङ्कम् आत्थ [छा.उ. ४.१.३] इति हंसोक्तानादर-वाक्य-श्रवणात् तदा ब्रह्मज्ञं रैङ्कं प्रत्याद्रवणात् शुक् संजातेति सूच्यते अस्याम् आख्यायिकायाम् । तथा च शोक-योगाद् एवाशुद्रेऽपि तस्मिन् शूद्रेति सम्बोधनं स्व-सार्वज्ञ्य-विज्ञापनयैव न तु चतुर्थ-
वर्णत्वाद् इति ॥३४॥
एवं शूद्रत्व-लिङ्गे निरस्ते कोऽयम् इति जिज्ञासायां क्षत्रियत्वम् अस्य वक्तुं सूत्रयति—
क्षत्रियत्वावगतेश् चोत्तरत्र चैत्ररथेन लिङ्गात्
अस्य जानश्रुतेः क्षत्रियत्वम् अवगम्यते श्रद्धादेयो बहुदायी [छा.उ. ४.१.१] इत्य् अनेक-दानादि-समधिगत-जनपदाधिपत्यात् क्षत्तारम् उवाचेति क्षत्तुः प्रेषणात् रैङ्काय गो-निष्क-रथ-कन्यादि-दानाच् च । न ह्य् एतानि क्षत्रियाद् अन्यस्य सम्भवन्ति । राज-धर्मत्वाद् उपक्रमाख्यायिकायां क्षत्रियत्वम् अवगतम् । अथोपसंहाराख्यायिकायां तद् अवगम्यत इत्य् आह उत्तरत्रैतत् संवर्ग-विद्या-वाक्य-शेषे सङ्कीर्तितेन चैत्ररथेनाभिप्रतारित-संज्ञेन क्षत्रियत्वं विज्ञायते । वाक्य-शेषस् तथाह—अथ शौनकं कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविश्यमानौ ब्रह्मचारी बिभिक्षे [छा.उ. ४.३.५] इत्य् आदि ।
नन्व् अभिप्रतारिणश् चैत्ररथत्वं क्षत्रियत्वं च नास्मिन् प्रकरणे प्रतीयते इति चेत् तत्राह लिङ्गाद् इति । अथ शौनकम् इत्य् आदिना साहचर्याल् लिङ्गाद् अभिप्रतारिणः कापेय-सम्बन्धः प्रतीतः । अन्यत्र चैतेन चैत्ररथं कापेया अयाजयन्न् इति कापेय-सम्बन्धिनश् चैत्ररथं श्रूयते । तस्मात् चैत्ररथिर् नाम क्षत्र-पतिर् अजायत [] इति चैत्ररथस्य क्षत्रियत्वं चेति । तद् एवं तस्य तत् तच् च सिद्धम् । तथा च संवर्ग-विद्योपासकौ कापेयाभिप्रतारिणौ वा ब्राह्मण-क्षत्रियौ निर्दिष्टाव् अतस् तस्याम् एव विद्यायां गुरु-शिष्य-भावेनान्वितौ रैङ्क-जानश्रुती च तथा स्याताम् इति तस्य क्षत्रियत्वम् । ततश् च वेदे शूद्रौ नाधिकारीत्य् अर्थो युक्त्या साधितः ॥३५॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।१६।१६-१८।
तद् एवं श्रुत्य्-आद्य्-अनुग्रहेण दर्शयति—
संस्कार-परामर्शात् तद्-अभावाभिलापाच् च
श्रुत्य्-अन्तरे अष्ट-वर्षं ब्राह्मणम् उपनयीत तम् अध्यापयेद् एकादशे क्षत्रियं द्वादशे वैश्यम् इत्य् अध्यापनाय संस्कार-विमर्शनात् तत्र ब्राह्मणानां एवाधिकारः । नाग्निर् न यज्ञो न क्रिया न संस्कारो न व्रतानि शूद्रस्य इति संस्काराभाव-कथनाच् च शूद्रस्य नाधिकारः । त्रवर्णिक-बाह्यस्य संस्काराविधानात् संस्कार-सापेक्षे वेद-पाठे तस्य न सः ॥३६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।२१।१३, ७।११।१४-१५, ७।११।२१।२४।
संस्काराभावं द्रढयति—
तद्-अभाव-निर्धारणे च प्रवृत्तेः
छान्दोग्ये एव नाहम् एतद् वेद भो यद्-गोत्रोऽहम् अस्मि [छा.उ. ४.४.४] इति सत्य-वचसा जाबालस्य शूद्रत्वाभावे निर्धारिते सति, नैतद् अब्राह्मणो विवक्तुम् अर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्याद् अगाः [छा.उ. ४.४.५] इति गौतमस्य गुरोस् तत् संस्कारादौ प्रवृत्तेश् च ब्राह्मण-पदोपलक्षित-त्रैवर्णिकत्वम् एव संस्कार-प्रयोजकम् अवगम्यते, अतो न शूद्रोऽधिकारी ॥३७॥
श्रवणाध्ययनार्थ-प्रतिषेधात् स्मृतेश् च
पद्यु ह वा एतच् छ्मशानं यच् छूद्र-समीप नाधेतव्यम् । तस्माच् छूद्रो बहु-पशुर् अयज्ञीय इति शूद्रस्य वेद-श्रवण-प्रतिषेधान् न स तत्राधिकारी । अनुपशृण्वन्तोऽध्ययन-तद्-अर्थ-ज्ञान-तद्-अनुष्ठानानि न सम्भवन्तीत्य् अतस् तान्य् अपि प्रतिषिद्धानि ।
नाग्निर् न यज्ञः शूद्रस्य तथैवाध्ययनं कुतः ।
केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते ॥
वेदाक्षर-विचारेण शूद्रः पतति तत्-क्षणाद् इत्य्-आदि-स्मृतेश् च । तथा विदुरादीनां तु सिद्ध-प्रज्ञत्वान् न किञ्चिच् चोद्यम् । शूद्रादीनां मोक्षस् तु पुराणादि-श्रवणज-ज्ञानात् सम्भविष्यति । फले तु तारतम्यं भावि ॥ ३८ ॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।६।२९-३३।
एवं प्रासङ्गिकं समाप्य प्रकृतं समन्वयं चिन्तयति—कठ-वल्ल्यां पठ्यते—
यद् इदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति ॥ [क.उ. २.३.२] इति ।
किम् अत्र वज्रम् अशनिर् ब्रह्म वेति संशये भव-हेतुतया कम्पकारित्वात् तज्-ज्ञानेन मोक्षस्य च वाचनिकत्वाद् अशनिर् वज्र-शब्दाद् अवगम्यते । प्राणत्वं चास्य रक्षकत्वात् । न च प्रकरणाद् ब्रह्मार्थतया शक्या कर्तुम् उद्यतं वज्रम् इति श्रुत्या तस्य बाधाद् इत्य् एवं प्राप्ते—
पूर्वत्र देवशब्दश्रुत्या मनुष्याधिकारनियमापवादेन देवानामधिकारो यथोक्तस्तथेह मुमुक्षौ जानश्रुतौ शूद्रेति श्रोतलिङ्गतो द्विजाधिकारनियमापवादेन वेदे शूद्रस्य चाधिकारोऽस्त्वितिदृष्टान्तसङ्गत्याह मनुष्याणामित्यादि । सिद्धान्ते शूद्रशब्दश्य क्षन्त्रिये समन्वयादध्यायन्तर्भावोऽस्य युक्तः । चातुर्वर्णस्य ब्रह्मविद्यायामधिकारसाम्यं पूर्वपक्षे फलं । सिद्धान्ते तु तत्तारतम्यं तदिति बोध्यं । छान्दोग्याख्यायिकायामेष निष्कर्षः । जनश्रुतिर्नृपः प्रियतिथिर्बहुप्रदो बहुसद्गुणो वभूव । तस्य गुणैः परितुष्टा देवर्षयो धृतहंसवपुषो ग्रीष्मे प्रासादपृष्ठे शयानस्य तस्योपरि मालामावध्याजग्मुः । तेषामग्रगं हंसं पश्चादागच्छन्नेको हंसः संबोध्य साश्चर्यमाह भो भो भल्लाक्ष अस्य जानश्रुतेर्द्युलोकव्यापि तेजो न पश्यसि तत्तेजस्तान्धक्ष्यति अतस्तं विलङ्घ्य न गच्छेति भल्लाक्षेत्युपहासोक्तिर्भद्राक्षेत्यर्थः । इदं श्रुत्वा स प्राह । कमु वर एनमेतत् सन्तं सयुग्वानमिव रैङ्कमात्थेति । अस्यार्थः । कमुपदं आक्षेपार्थकं कथमित्यर्थः । वरो वराको जानश्रुतिः । वैङ्को नाम कश्चित्तत्त्वविद्वरेण्यो ब्रह्मचारी । योजयति देशान्तरं गमयति सयुग्वानं सारूढमिति युग्वा शकटः तेन सह स्थितमित्यर्थः । तथा चैनं वराकं प्राणिमात्रं जानश्रुतिं सयुग्वानं भगवन्तं ब्रह्मतेजसं रैङ्कमिवात्थ ब्रवीषीत्यर्थः । अज्ञतया निजनिन्दां श्रुत्वोत्तप्नो विज्ञं रैङ्कमासाद्यायं कृतार्थो भवत्विति दयालूनां हंसानां भावः । अथ स नृपो । हंसवाक्यात् स्वस्यापकर्षं रैङ्कस्योत्कर्षं च श्रुत्वा प्रतप्तहृत् रात्रिं कथञ्चिन् व्यतीयाय । ततो रात्यन्तसूचकं वन्दिस्तुतिमङ्गलतूर्यनिर्घोषमाकर्ण्य पर्यन्कस्थ एव त्वरया क्षत्तारमाहूयादिदेश विविक्तेषु गिरिगुहादिषु रैङ्काभिधं सयुग्वानमन्विष्या सम्यगाख्याहीति । स क्षत्ता तथैवान्विष्यन् क्वचिदतिविविक्ते शकटाधस्तान्निविष्टं पामानं कण्डूयन्तं वीक्ष्य सोऽयमिति निश्चित्य प्रवीण्याद्रैङ्कस्य गार्हस्थ्यच्छां ज्ञात्वा सत्वरमागत्य तं विज्ञापयामास । नृपश्च तमुपश्रुत्य गोनिष्करथान् गृहीत्वा रैङ्कमासाद्य देवतां पप्रच्छ रैङ्कस्तं प्राह अहहेति । अहहेतिनिपातः सकोपाह्वानमाह । हारेण युक्तो हावेत्वा मुक्तादामलग्नः प्राप्त इत्यर्थः । सरथस्तवैव गोभिः सहास्तु तिष्ठतु । नैतारता मदिच्छासिद्धिरिति भावः । एवं तदिच्छामवगम्य समानीतगोनिष्करथकन्योपहारं नृपं रैङ्कः प्राह आजहारेत्यादि । हे शूद्र इमा गोनिष्करथकन्यास्त्वमाजाहारानीतवानसि किन्त्वनेनैव कन्योपहाररूपेण मुखेन द्वारा मामालपयिष्यथा भाणयिष्यसीत्यर्थः । विद्याग्रहणस्य कन्यैवैका दक्षिणेति निष्कर्षः । इहेति । अधिक्रियते अधिकारी विधीयत इत्यर्थः । शुगन्येति । पौत्रायणस्य पुत्रायणगोत्रस्य । जानश्रुतेर्जनश्रुतापत्यस्य । शुगिति । शुचा शोकेन द्रवति रैङ्कं प्रति गच्छतीति व्युत्पत्तेः । तथच यौगिकोऽयं शूद्रशब्दः क्षन्त्रियेऽपि प्रयुक्तः स्वप्रभावपरिचयायेत्यर्थः ननु मुख्यशूद्रः सोऽस्तु किं जघन्येन योगेनेत्यत आह क्षन्त्रियत्वावगतेश्चेति । अन्यस्य जातिशूद्रस्येत्यर्थः । अथेति । तदिति क्षन्त्रियैत्वं । अथ शौनकमिति । शुनकस्यापत्यं शौनकं । कपिगोत्रं कापेयं पुरोहितं । अभिप्रतारिणं यजमानं । कक्षसेनस्यापत्यं काक्षसेनिं । तो भोक्तुमुपविष्टौ याचकेन परिविश्यमानौ कश्चिद्ब्रह्मचारी विभिक्षे याचितवानित्यर्थः । एतेनेति । एतेन द्विरात्रेण कर्मणा चैत्ररथमभिप्रतारिणं कापेया अयाजयन्नित्यर्थः । तस्मादिति चैत्ररथात् क्षन्त्रियादित्यर्थः । तस्येत्यभिप्रतारिणः । तत्तच्चेति चैत्ररथत्वं क्षन्त्रियत्वं चेत्यर्थः । तथा स्यातां ब्राह्मणक्षन्त्रियौ भवेतां संस्कारेति । अष्टवर्षमित्यादिखिलश्रुतौ त्रैवर्णिकानामेव वेदाध्ययनाङ्गोपनयनसंस्कारपरामर्शात्तेषामेव तदध्ययनेऽधिकारः । नाग्निरित्यादौ तु शूद्राणां तत्संस्काराभावोक्तेर्न तेषां तत्र अधिकार इत्यर्थः । चशब्दोऽवधारणे । न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हतीति स्मृतेश्च । पातकं भक्ष्याभक्ष्यविभागाभावकृतमित्यर्थः तदभावेऽति । जाबालः खलु मृतपितृको गुरूपसत्तिकामो गोत्रमजानन्मातरं पप्रच्छ किंगोत्रोऽहमस्मीति । साप्यहं न जानामीति प्रत्युवाच । ततः स गौतममुपेत्याह । भगवन् त्वयि ब्रह्मचर्यं चरितुमिच्छाम्यनुगृह्णातु भगवानिति । किंगोत्रोऽसीति गौतमेन पृष्टः स आह । नाहं गोत्रं वेद नापि मन्माता इति । ततः स गौतमस्तदीयेन सत्यवचसा तस्य शूद्रत्वाभावं निश्चित्य तदुपनयनादौ प्रवृत्तस्तं प्राह नैतदित्यादि । अस्यार्थः । एतत् सत्यवचनं विवक्तुं विविच्य निःसंशयं वक्तुमब्राह्मणो नार्हति । न त्वं सत्यादगाः सत्यवाक्यादतिगतः । तस्मात्वं ब्राह्मणोऽसीत्यर्थः । हे सौम्य सत्यकाम जाबाल स्वामहमुपनेष्ये तदर्थां समिधमाहरेति श्रवणेति । अर्थशब्देनार्थज्ञानतदनुष्ठाने बोध्ये । पद्यु हवेति । पद्यु पादसंयुक्तं सञ्चारक्षममित्यर्थः । बहुपशुः पशुतुल्यः । बहुच्प्रत्ययः । विभाषा सुपो बहुच्पुरस्तात्त्विति सूत्रात् । अयज्ञीयो यज्ञानर्हः । नाग्निवित्यादि स्फुटार्थः । आदिपदादुद्यमपर्वणि श्रीभगवद्वाक्यं । परिचर्याविनिन्दं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः । नित्योत्थितो भूतये अतन्द्रितः स्यादेष स्मृतः शूद्रधर्मः पुराणः इति । स्मृत्यन्तरं चास्ति । अथास्य वेदमुपशृण्वन्तस्त्रपुजतुभ्यां श्रोत्रपरिपूरणं अध्ययने जिह्वाच्छेदः अर्थावधारणे हृदयविदारणमिति । अस्यार्थः । अस्येति शूद्रस्य । त्रपुजतुभ्यां प्रतप्ताभ्यां सीसलाक्षाभ्यां तद्द्रवाभ्यामित्यर्थः । श्रोत्रपरिपूरणं वेदश्रवणप्रायश्चित्तमित्यर्थ इति । विदुरादीनां चेत्यादिपदाद्धर्मव्याधः । एषां पूर्वजन्मानुष्ठितश्रवणादिना वामदेवादिवज्ज्ञानोत्पत्तिरिति सर्वं सुस्थं । तारतम्यमिति आनन्दोत्कर्षापकर्षरूपमित्यर्थः
अधिकरणम् २८ (कम्पनाधिकरणम्)
कम्पनात्
वज्रादि-सहितस्य कृत्स्नस्य जगतः कम्पकत्वाद् वज्रम् अत्र ब्रह्मैव ।
चक्रं चङ्क्रमणाद् एष वर्जनाद् वज्रम् उच्यते ।
खण्डनात् खड्ग एवैव हेति-नामा हरिः स्वयम् ॥ [ब्र.वै.पु.]
इति स्मरणाच् च । अयं भावः—प्राण-शब्दितत्वं भय-हेतुत्वं च परमात्मनः श्रुति-प्रसिद्धम् । तत् तच् चात्र वज्र-शब्दितस्य कीर्त्यमानं सद् अस्य परमात्मत्वं गमयतीति ॥३९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१०।१३; ६।१२।३, ६।८।३२, ६।१२।१०, ६।१२।८।
ज्योतिर्-दर्शनात्
न यत्र सूर्यो भाति न चन्द्र-तारके इत्य् आदिकम् इतः प्राक् श्रुतम् । भयाद् अस्याग्निस् तपति इत्य् आदिकं परत्र । तत्रोभयत्रापि ब्रह्मैकान्तस्य ज्योतिषस् तेजसो दर्शनाद् अन्तरालेऽपि ब्रह्मैव वज्र-शब्दाद् अवधारणीयम् ॥४०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।११।२०, १०।३।२४॥
आकाशो ह वै नाम-रूपयोर् निर्वहिता ते यद् अन्तरा तद् ब्रह्म तद् अमृत्ं स आत्मा [छा.उ. ८.१४.१] इति श्रुतं छान्दोग्ये ।
तत्राकाश-शब्देन संसार-बन्धाद् विनिर्मुक्तो जीवात्मोच्यते परमात्मा वेति सन्देहे । अश्व इव रोमाणि विधूय पापम् इत्य् आदिना पूर्व-मुक्तस्य प्रकृअतत्वात् ते यद् अन्तरेति नाम-रूप-विमुक्तस्याभिधानात् तस्यापि भूत-पूर्व-गत्या तन्-निर्वोढृत्व-सम्भवाद् असङ्कुचित-प्रकाश-शब्दस्यापि तत्रोपपत्तेश् च विमुक्तात्मेह प्रतिपाद्यते । तद् ब्रह्म तद् अमृतम् इति तद्-अवस्था विमृष्टेति प्राप्ते—
एवमिति । प्रासङ्गिकमधिकारविचारं । पूर्वत्त्रेशानश्रुत्या जीवलिङ्गं वाधित्वाङ्गुष्ठशब्दस्य ब्रह्मपरत्वं यथोक्तं तथेह वज्रश्रुत्या प्रकरणं वाधित्वा वज्रशब्दस्याशनिपरत्वं वाच्यमिति दृष्टान्तसङ्गत्याह कठवल्ल्यामित्यादि । यदिति । वर्जयति नियमयति जनानिति वज्रं ब्रह्म । कीदृशं तत् प्राणो रक्षकं प्राणितीति व्युत्पत्तेः । महद्विभुः । भयं दगुधरं विभेत्यस्मादिति व्युत्पत्तेः । उद्यतं प्रकाशशालि । कीदृग्जगत् निःसृतमुत्पन्नं । तथाच यदिदं किञ्चिद्वज्रं कर्तृ उत्पन्नं सर्वं जगत् एजति कम्पयति एतद्यो विदुस्तेऽमृता मोक्षिणो भवन्तीति । किमत्रेति । ननु वज्रज्ञानेन कथं मोक्षस्तत्राह तज्ज्ञानेनेति । न हि वचनस्यातिगुरुत्वमस्तीत्यर्थः । तस्येति प्रकरणस्य । श्रुत्या प्रकरणवाधस्तु सुसिद्ध एवेत्याकाशस्तल्लिङ्गादित्यादिवद्बोध्यः । कम्पनादिति । उह्योऽत्र पक्षः । वज्रशब्देन श्रीहरिर्वाच्य इत्यत्र ब्रह्मवैवर्त्तवाक्यमुदाहरति चक्रमिति । चंक्रमणात् सर्वत्र गमनात् वर्जनान्नियमनात् खण्डनाद्द्युष्टविनाशनादित्यर्थः । अयं भाव इति । अत्र सर्वपालकत्वसर्वप्रशास्तृत्वमोचकत्वैर्लिङ्गैर्वज्रश्रुतावेकस्या वाधो युक्तः । त्यजेदेकं कुलस्यार्थे इति । न्यायादिति प्रागवोचाम ज्योतिरिति । न तत्र सूर्यो भाति न चन्द्रतारके नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति वाक्यं यदिदं किञ्चिदित्यतः पूर्वं श्रूयते । भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम इति वाक्यन्तु तस्मात् परत्र श्रूयते । तत्रोभयत्रापि ब्रह्मसाधारणस्य भासभयशब्दबोध्यस्य तेजसः प्रभावस्य दर्शनान्मध्यगतं वज्रशब्दोक्तं भयङ्करं वस्तु ब्रह्मेवेत्यर्थः । अत्र ज्योतिः परिमैश्वर्यं बोध्यं
अधिकरणम् २९ (आकाशाधिकरणम्)
आकाशोऽर्थान्तरत्वादि-व्यपदेशात्
इहाकाशः पर्मात्मैव न मुक्त-जीवः । कुतः ? अर्थान्तरेति । अयम् अर्थः—नाम-रूप-निर्वोढृत्वं किल मुक्तावस्थाज् जीवाद् अन्यम् आकाशं साधयति । बद्धावस्थं तं खलु कर्म-वशात् नाम-रूपे भजतः । स्वयं तु तन् निर्वोढृत्वे न शक्तः । मुक्ताश्रयस्य तु तस्य तत्र जगद् व्यापार वर्ज्यम् इति वक्ष्यमाणात् परमात्मनस् तु जगन् निर्मितिषु क्षम्स्य श्रुत्यैव तद् उक्तम् । अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि इत्य् आदिना । तस्मात् परमात्मैवेह बोध्यः । आदि-शब्दात् निरुपाधिक-बृहत्त्वादि-रूपं ब्रह्मत्वादि । यत् तु पूर्वं मुक्तः प्रकृत इत्य् उक्तं तन् न ब्रह्म-लोकम् इति परमात्मनः प्रकृतत्वात् आकाश-शब्दश् च व्यापकत्वाद् असङ्गत्वाच् च परमात्मनि प्रयुक्तः प्रसिद्धश् च तत्रैवेति ॥४१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।२१,२३।
स्याद् एतत् मुक्ताद् अपि जीवाद् अर्थान्तरं ब्रह्मेति नोपयुक्तं क्षोदाक्षमत्वात् । तथा हि बृहद्-आरण्यके, कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्य् अन्तर्-ज्योतिः पुरुषः । पुरुषः स समानः सन्न् उभौ लोकाव् अनुसंचरति [बृ.आ.उ. ४.३.७] इत्य् आदिना बद्धावस्थं जीवम् उपक्रम्य, स वा अयम् आत्मा ब्रह्म विज्ञान-मयः [बृ.आ.उ. ४.४.५] इत्य् आदिना तस्यैव ब्रह्मत्वं परामृश्यते । परत्र्याप्य् अथाकामयमान [बृ.आ.उ. ४.४.६] इत्य् आदिना मुक्तावस्थेति विमृश्य, ब्रह्मैव सन् ब्रह्माप्य् एति [बृ.आ.उ. ४.४.६] इति तस्य तथात्वं निश्चीयते । तथान्तेऽप्य् अभयं वै ब्रह्म भवति य एवं वेद [बृ.आ.उ. ४.४.२५] इति फलोक्तिश् च ।
तद् एवं सति यः क्वचिज् जीव-ब्रह्मणोर् भेद-व्यपदेशः स खलु घटाकाश-महाकाशवद् उपाधि-कृतः स्यात् तद्-विगमे परिच्छिन्नस्य जीवस्य महत्त्वं घट-नाशे घटाकाशस्येव । विश्व-कृत्त्वादि च तस्यिअवेश्वरत्वात् तस्मात् नार्थान्तरं मुक्त-जीवाद् ब्रह्मेत्य् आक्षिप्तौ पठति—
पूर्वत्र प्राणशब्दितत्वादिकं वज्रशब्दस्य ब्रह्मपरत्वे यथा गमकं तथाकाशशब्दस्य तत्परत्वे गमकं किञ्चिन्नास्तीति प्रत्युदाहरणसङ्गत्याहाकाशेत्यादि । तदब्रह्म तदमृतमित्यादेर्मुक्तजीवेऽपि सम्भवादित्याशयः । आकाशो हेत्यस्यार्थ। आकाशो ब्रह्मैव । ह वै निश्चये । नामरूपयोर्निर्वहिता निर्वाहकृत् । ते नामरूपे संज्ञादिविमुक्तस्याकाशस्यान्तरा मध्ये स्तः यद्वा ते द्वे यदन्तरा यद्विना स्तः ताभ्यां यदस्पृष्ट इत्यर्थः । तस्यापीति मुक्तजीवस्य । इहेति । जगन्निस्मितीति । सत्यसङ्कल्पयोगादिति भावः । प्रसिद्धश्च को ह्येवान्यादित्यादौ
अधिकरणम् ३० (उत्क्रान्त्यधिकरणम्)
सुषुप्त्य्-उत्क्रान्त्योर् भेदेन
व्यपदेशाद् इत्य् अनुवर्तते । तस्मिन् वाक्य-सन्दर्भे मुक्त-जीवो ब्रह्मैवेति न सम्भवति । कुतः ? सुषुप्ताव् उत्क्रान्तौ च जीवाद् भेदेन ब्रह्मणो व्यपदेशात् । सुषुप्तौ तावत् प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नाऽऽन्तरं [बृ.आ.उ. ४.३.२१] इति । उत्क्रान्तौ च, प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन् याति [बृ.आ.उ. ४.३.३५] इति । उत्सर्जन् हिक्क-शब्दं कुर्वन् । न च स्वपत उत्क्रामतो वा अकिञ्चिज्-ज्ञस्य तदैव प्राज्ञेन स्वेनैव परिष्वङ्गान्वरोहौ सम्भवेताम् । न च जीवान्तरेण तस्यापि सार्वज्ञ्याभावात् ॥४२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।३९-४०।
ननु नैतावत्भीष्ट-सिद्धिर् औपाधिक-भेदाभ्युपगमाद् इति चेत्, तत्राह—
पत्य्-आदि-शब्देभ्यः
तत्रैवोत्तरत्र पत्य्-आदयः शब्दाः पठ्यन्ते । स वा अयम् आत्मा…सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदं प्रशास्ति यद् इदं किञ्च [बृ.आ.उ. ५.६.१] स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान् एष सर्वेश्वर एष भूताधिपतिर् एष लोकेश्वरः लोक-पाल एष सेतुर् विधरण एषां लोकानाम् असंभेदाय [बृ.आ.उ. ४.४.२२] इत्य् आदिना । तेभ्यो मुक्त-जीवाद् अन्यत् ब्रह्मेति विज्ञायते । न हि सर्वाधिपत्यं सर्व-प्रशासनादिकं वा मुक्त-जीवस्य शक्यं वक्तुम्, जगद्-व्यापार-वर्जम् [वे.सू. ४.४.१७] इति प्रतिषेधात् । अन्तः-प्रविष्टः शास्ता जनानाम् इति तैत्तरीयके [?] ब्रह्मण एव तच्-छ्रवणात् । न चौपाधिकत्वं भेदस्य तस्य मुक्ताव् अपि श्रवणात् । अंशाधिकरणे तु तथात्वं परिहरिष्यामः । अयम् आत्मा ब्रह्म [बृ.आ.उ. ४.४.५] इत्य् अत्र जीवस्य तद् उक्तिस् तद्-गुणांश-योगात् । ब्रह्मैव सन्न् इत्य् अत्र तु आविर्भावित-गुणाष्टकेन ब्रह्म-सदृशः सन्न् इत्य् एवार्थः । परमं साम्यम् उपैति [मु.उ. ३.२.३] इत्य् आदि श्रवणात् ब्रह्म-भावोत्तर-भावित्वाच् च ब्रह्माप्ययस्येति पूर्वम् अभाषि । तद् एवं बद्ध-मुक्तोभयावस्थाज् जीवात् ब्रह्मणो भेद-सिद्धो नाम-रूप-निर्वोढाकाशो न मुक्त-जीवः, किन्तु परमात्मैवेति सिद्धम् । नेतरोऽनुपपत्तेर् भेद-व्यपदेशाच् चेत्य् अत्र यत् शङ्का-निदानं तद् इहैवोक्तम् इति पुनर्-उक्तिर् मुक्ति-कालिक-भेदाभ्यासात् न दोष इत्य् अपरे ॥४३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।३।२९,३१।
॥ इति ब्रह्म-सूत्र-भाष्ये प्रथमाध्ययस्य तृतीयः पादः ॥
चतुर्थः पादः
तमः साङ्ख्य-घनोदीर्णं यस्य गो-गणैः ।
तं संविद्-भूषणं कृष्ण-पूषणं समुपास्महे ॥
मुक्त्य्-उपायतया जिज्ञास्यं विश्व-जन्मादि-बीजं जडाज् जीवाच् च विलक्षणम् अविचिन्त्यानन्त-शक्ति-सार्वज्ञ्यादि-कल्याण-गुण-मयं निरस्त-हेयं निरङ्कुशैश्वर्यं परं ब्रह्म परामृष्टं प्राक् । इदानीं तु कासुचिच् छाखासु दृश्यमानानां कपिल-तन्त्र-सिद्ध-प्रधान-पुमर्थक-शब्दान्वितानां वाक्यानां समन्वयस् तत्रैव चिन्त्यते । कठ-वल्ल्याम् इदम् आमनन्ति—
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥
महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः ।
पुरुषान् न परं किंचित् सा काष्ठा सा परा गतिः ॥ [क.उ. १.३.१०-११] इति ।
तत्राव्यक्त-शब्देन स्मार्तं प्रधानं वाच्यं शरीरं वेति सन्देहे महद्-अव्यक्त-पुरुषाणां परापर-भावेन स्मृति-प्रसिद्धानां श्रुतौ यथावत् प्रत्यभिज्ञानात् स्मार्तं स्वतन्त्रं प्रधानम् इह वाच्यं शरीरं वेति प्राप्ते—
स्यादेतदिति । अर्थान्तरं भिन्नमित्यर्थः । उभाविति । इहलोकपरलोकावित्यर्थः । तथात्वमिति ब्रह्मत्वं । फलोक्तिः ब्रह्म भूयायाप्तिवचनं । क्वचित् द्वासुपर्णेत्यादिषु । तस्यैव ब्रह्मणः । सुषुप्तीति । संपरिष्वक्तः समाश्लिष्टः । अन्यरूढोऽधिष्ठितः । तस्यापि जीवान्तरस्यापि नन्विति । एतावत सुषुप्त्युत्क्रान्त्योर्जीवब्रह्मभेदप्रतिपादनेन नाभीष्टसिद्धिर्मुक्तजीवाद्ब्रह्मणो भेदसिद्धिर्नेत्यर्थः । तत्र हेतुरौपाधिकेति । अस्मत्सिद्धान्तेऽप्याविद्यके भेदस्वीकारादित्यर्थः । तत्रैवेति । तच्छ्रवणात् सर्वाधिपत्याद्युक्तेः । तथात्वमौपाधिकत्वं । तदुक्तिर्ब्रह्मत्वोक्तिः । ननु तद्भेद आनन्दमयाधिकरणे दर्शितोऽस्त्यत्र पुनस्तभुक्तिः पौनरुक्तमिति चेत्तत्राह नेतर इत्यादि । सङ्गत्यन्तरमाह मुक्तकालिकेति
अधिकरणम् ३१ (पादः ४, आनुमानिकाधिकरणम्)
आनुमानिकम् अप्य् एकेषाम् इति चेन्, न, शरीर-रूप-कवि-न्यस्त-गृहीतेर् दर्शयति च
एकेषां कठानाम् आनुमानिकं स्मार्तं प्रधानम् अपि वाच्यं दृश्यते । न व्यक्तम् अव्यक्तम् इति व्युत्पत्त्या तद् उक्तेर् इति चेन्, न । कुतः ? शरीरेत्य् आदेः । शरीरम् एवात्र रथ-रूपक-विन्यस्तम् अव्यक्त-शब्देन गृह्यते । दर्शयति चैतत् प्राक्तनो ग्रन्थ आत्म-शरीरादीनां रथादि-रूपक-कॢप्तिम् । एतद् उक्तं भवति पूर्वत्र—
आत्मानं रथिनं विद्धि शरीरं रथम् एव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥
इन्द्रियाणि हयान्य् आहुर् विषयांस् तेषु गोचरान् ।
आत्मेन्द्रिय-मनो-युक्तं भोक्तेत्य् आहुर् मनीषिणः ॥ [क.उ. १.३.३-४] इत्य् अन्तेन ग्रन्थेन ।
श्री-विष्णु-पद-प्रेप्सुम् उपासकं रथित्वेन तच्-छरीरादिकं रथादित्वेन रूपयित्वा यस्यैते रथादयो वशे भवन्ति सोऽध्वनः पारं तत्-पदम् आप्नोत्य् उक्त्वाथ रथादि-रूपितानां तेषां शरीरादीनां वशीकार्यतायां गौण्य-प्राधान्यम् उच्यते इन्द्रियेभ्यः परा ह्य् अर्था [क.उ. १.३.१०] इत्य् आदिना । तत्र यानीन्द्रियाणि रथ-रूपके अश्वादि-भावेन प्रकृतानि तान्य् एवेह वाक्येऽपि गृह्यन्ते प्रायः-शब्द-तौल्यात् । यत् तु शरीरम् अवशिष्टं तत् खलु अव्यक्त-शब्देन परिशेषात् प्रकरणाच् चेति । न च स्मार्त-तत्त्व-प्रत्यभिज्ञात्रास्ति तन्-मत-विरोधात् ॥१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।३।२९,३१।
ननु शरीरस्य व्यक्तत्वाद् अव्यक्त-शब्द-वाच्यता कथम् इत्य् आशङ्क्याह—
सूक्ष्मं तु तद्-अर्हत्वात्
शङ्का-निरासाय तु-शब्दः । कारणात्मना सूक्ष्म-शरीरम् इह विवक्ष्यते । कुतः ? तद्-अर्हत्वात् । तस्य सूक्ष्म-शरीरस्य अव्यक्त-शब्द-योग्यत्वात् । तद् वेद तर्ह्य् अव्याकृतम् आसीद् इति श्रुतिर् अपीदं स्थूलावस्थं जगत् प्राग्-बीज-शक्त्य्-अवस्थं तद् योग्यं दर्शयति ॥२॥
तद्-अधीनत्वाद् अर्थवत्
परम-कारण-ब्रह्माधीनत्वाद् अर्थवत् प्रधानं स्व-कार्योत्पादन-फलवद् इत्य् अर्थः । तद्-ईक्षणेनैव प्रधानं वर्तते, न तु स्वतः जाड्यात् । श्रुतिश् च श्वेताश्वतराणां—मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [श्वे.उ. ४.१०], अस्मान् मायी सृजते विश्वम् एतत् [श्वे.उ. ४.९], य एकोऽवर्णो बहुधा शक्ति-योगात् वर्णान् अनेकान् निहितार्थो दधाति [श्वे.उ. ४.१] इत्य् आद्या । स्मृतिश् च—
स एव भूयो निज-वीर्य-चोदितां
स्व-जीव-मायां प्रकृतिं सिसृक्षतीम् ।
अनाम-रूपात्मनि रूप-नामनी
विधित्समानोऽनुससार शास्त्र-कृत् ॥ [भा.पु. १.१०.२२]
प्रधान-पुरुषौ चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्ग-काले व्ययाव्ययौ ॥ [वि.पु. १.२.२९]
मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् ।
हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥ [गीता ९.१०] इत्य् आद्या ।
एवम् अभ्य्पगमानन् नास्माकं साङ्ख्य-मते प्रवेशः । स्वतन्त्रम् एव प्रधानं कारणम् इति तत्राभ्युपगमात् ॥३॥
इतोऽपि न प्रधानम् अव्यक्त-शब्द-वाच्यम् इत्य् आह—
ज्ञेयत्वावचनाच् च
गुण-पुरुषान्यता-प्रत्ययात् कैवल्यम् इति वदन्तः साङ्ख्याः प्रधानस्य ज्ञेयत्वं स्मरन्ति क्वचन विभूति-विशेष-लाभाय च, न त्व् अत्र तद् अस्ति तद् उपस्थापक-शब्दाभावात् ॥४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।१०।
वदन्तीति चेन् न प्राज्ञो हि प्रकरणात्
ननु ज्ञेयत्वावचनम् अप्रसिद्धम् । यतोऽशब्दम् अपर्शम् अरूपम् अव्ययम् । तथा रसं नित्यम् अगन्धवच् च यत् । अनाद्य् अनन्तं महतः परं ध्रुवं निचाय्य तं मृत्यु-मुखात् प्रमुच्यते इति पर-वाक्यं निचाय्येति तस्य ज्ञेयत्वं वदतीति चेन्, न । कुतः ? हि यस्मात् तत्र प्राज्ञः परमात्मैवोच्यते ।
पुरुषान् न किञ्चित् सा काष्ठा सा परा गतिः ।
एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥ इति तस्यैव प्रकृतत्वात् ॥५॥
भागवत-भाष्यम् (हरिदास शास्त्री): ५।११।१३-१४।
इतोऽपि प्रधानं तद् वाच्यं नेत्य् आह—
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च
च-कारः शङ्का-हानाय । यद् अस्यां कठ-वल्ल्यां त्रयाणाम् एव पितृ-प्रसाद-स्वर्गाग्न्यात्मनाम् एवं ज्ञेयत्वेनोपन्यासः प्रश्नश् च त्रयाणाम् एव तेषां वीक्ष्यते, नान्यस्य कस्यचित् पदार्थस्य । ततो नात्र प्रधानं वेद्यम् ॥६॥
महद्वच् च
बुद्धेर् आत्मा महान् परः इत्य् अत्र यथा बुद्धि-परत्वोक्तेर् आत्म-शब्दैकार्थाच् च महच्-छब्देन स्मार्तं महत्-तत्त्वं न गृह्यते । एवम् आत्म-परत्वोक्तेर् अव्यक्त-शब्देन प्रधानं नेत्य् अर्थः ॥७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।३७।
अन्योऽपि सार्त-सिद्धान्तो निरस्यते । श्वेताश्वतरोपनिषदि पठ्यते—
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे.उ. ४.५] इति ।
किम् अत्र स्मृति-सिद्धा प्रकृतिर् अजा, किं वा ब्रह्मात्मिका वैदिकीति सन्देहे अजाम् इत्य् अकार्यत्वस्य बह्वीः प्रजाः सृजमानाम् इति स्वातन्त्र्येण सृष्टेश् च प्रत्ययात् स्मृति-सिद्धेति प्राप्ते—
चतुर्थपादः । अथ प्रधान पुरुषावभासकानि कानिचिद्वाक्यानि ब्रह्मणि सङ्गमयितुं मङ्गलमाचरति तम इति । यस्य श्रीकृष्णपुष्णः श्रीबादरायणरवेर्गोगणैर्वाग्वृन्दैरेव गोगणैः किरणवृन्दैः सांख्यघनोदीर्णं कपिलमेघकल्पितं तमः अज्ञानमेव तमस्तिमिरं विदीर्णं विनष्टमभूत् तं वयं समुपास्महे भजामहे इत्यन्वयः । गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्यात् दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियां स्वर्गवज्राम्बुरश्मिदृग्वाणलोमस्विति केशवः । तं कीदृशमित्याह सम्विदिति । सम्वित् ज्ञानशक्तिः सैव निखिलपालनलक्षणो विचारः । स एव भूषणं यस्य तमित्यार्थः । अत्र समस्तवस्तुविषयं रूपकमङ्गी परम्परितन्त्वङ्गं । अष्टारिंशतिसूत्रकमष्टाविकरणकं चतुर्थपादं व्याख्यातुमुक्तार्थानुवादपूर्वकमवतारयति मुक्त्युपायतयेत्यादिना । पूर्वपूर्वत्र ब्रह्मैव कारणं न प्रधानादीत्युक्तं । तन्न युक्तं प्रधानादेरपि कारणत्वेन वेदान्तेषृपलब्धः । न च कारणद्व यं वैयर्थ्यं कल्प्यं भेदेन व्यवस्थितेरित्याक्षेपः सङ्गतिरियमप्येकेषामिति वदता सूत्रकृतैवं सूच्यते । आनन्तरन्यायप्रसिद्धजीवोक्तिभङ्गेना प्रसिद्धब्रह्मोक्तिपरवद प्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यं स्यादिति दृष्टान्तसङ्गतिः । पूर्वपक्षे ब्रह्मसमन्वयानियमः सिद्धान्ते तु तन्नियमः फलमिति भाव्यं । इन्द्रियेभ्य इत्यादि । अर्थाः शब्दादयो विषया इन्द्रियेभ्यः परास्तदाकर्षकत्वेन प्रधानभूता इत्यर्थः । अतएवेन्द्रियाणि ग्रहाः शब्दादयस्त्वतिग्रहाः श्रूयान्ते । गृह्णन्ति निवध्नन्ति विषयासक्तं पशुमिति पूर्वेषां ग्रहत्वं तदाकर्षकत्वात् तदुत्तरेषन्त्वतिग्रहत्वमिति ज्ञेयं । इन्द्रियार्थव्यवहारस्य मनोमूलत्वादर्थेभ्यो मनः प्रधानं । निश्चितविषयान् भुङ्क्ते इति संशयात्मकात् मनसो निश्चयात्मिका बुद्धिः परा । भोगोपकरणाद्बुद्धेर्भोक्तात्मा परः । कीदृशो महान् देहेन्द्रियान्तःकरणानां स्वामीत्यर्थः । महत आत्मनो जीवादव्यक्तं सूक्ष्मशरीरं तेनैव जीवस्य नानायोनिषु समाकर्षणात् अस्मात् तत् प्रधानमित्यर्थः । तस्मादव्यक्तात् सूक्ष्मात् शरीरात् पुरुषः परः । देहेन्द्रियादिसर्वनिरन्तृत्वात्तत्तत्सर्वप्रवर्तकत्वाच्च तस्मादपि प्रधानशित्यर्थः । तत्रेति । परापरभावेनेति । यथोत्तरं परत्वं यथापूर्वं अपरत्वमिति ज्ञेयम्। । आनुमानिकेति । एकेषामिति । एतदिति । पूर्वत्रेति । एतस्मादिन्द्रियेभ्यः परा ह्यर्था इत्यादिवाक्यात् पूर्ववर्तीत्यर्थः । आत्मानमित्यादेरर्थः । आत्मनो भोक्तृत्वेन प्राधान्यात् रथित्वं भोगसाधनशरीररथस्वामित्वमित्यर्थः । शरीरस्य रथवद्भोगसाधनत्वाद्रथत्वम् । विवेकाविवेकवृत्तिभ्यं शरीरद्वारा सुखदुःखयोर्भोक्तुर्नयनात् बुद्धेः सारथित्वम् । मनसा हयरश्मिस्थानीयेन विवेकिना विषयेभ्य इन्द्रियाणि निवर्त्त्यन्ते । तेन अविवेकिना तेषु भानि प्रवर्त्त्यन्ते इति मनसः प्रग्रहत्वम् । इन्द्रियाणि संयतानि सन्मार्गं प्रापयन्ति असंयतानि कुमार्गमिति तेषां हयत्वम् । हयो । मार्गमालक्ष्य चलन्तीन्द्रियाणि तु विषयमुपलभ्येति शाब्दादीनां गोचरत्वं मार्गत्वमित्यर्थः । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण इति वाक्यमिहैव बोध्यम् । इन्द्रियं मनोयुक्तं यथा स्यात् तथात्मा जीवो भोक्तेत्याहुरित्यर्थः । युक्तमिति भावे निष्ठा । ईदृशो यः प्रमाता स चेत् सत्प्रसङ्गी स्यात् तदा अध्वनः संसारमार्गस्य पारं विष्णोस्तत् परमव्योमाख्यं पदमाप्नोतीति । वशीकार्यतायामिति । इन्द्रियाणां वशीकार्यता । तत्प्रवृत्त्यनधीनतया भगवत्प्रावल्यं तत्प्रमाणं भगवतो । वशीकार्यता तद्भक्तैस्तस्य प्रपत्तिरेवेति बोध्यम् । अव्यक्तशब्देनेति गृह्यन्त इति पूर्वेणैवान्वयः । परिशेषादिति । प्रसक्त प्रतिषेधेनान्यत्राप्रसङ्गात् शिष्यमाणे अप्रत्ययात् परिशेषस्तस्मादिभ्यर्थः । न चेति । स्मार्त्ततत्त्वानि कपिलस्मृत्युक्तानि । तन्मतविरोधादिति । इन्द्रियेडभ्योऽर्थानां परत्वं तद्धेतुत्वादिति अर्थेभ्यो मनसः परत्वं तद्धेतुत्वादिति च संख्या न मन्यन्ते । महानात्मा बुद्धेः पर इत्यत्रापि महतो महान् पर इति वाच्यम् । एतच्च तैर्न मन्तव्यं बुद्धिशब्देन महत्तत्त्वस्य स्वीकारात् । तथात्मशब्देन महतो विशेषणं च तन्मतमिति सर्वमेतत् तत्सिद्धान्तेन सहासङ्गतम् । अतः पुरुषविश्वस्तानामेवेह ग्रहणं युक्तमिति सूक्ष्ममिति । गोभिः श्रीणीत मत्सवमितिवत् प्रकृतिवाचकेन शब्देन विकारो लक्ष्यः गोभिर्गोविकारैः पयोभिर्मत्सवं सोमं श्रीणीत मिश्रितं कुर्यादिति तदर्थः । प्राक् प्रलये । तद्योग्यमव्यक्तशब्दयोग्यम् नन्वित । तत्रेति सांख्यशास्त्रे । तदधीनेति । परमेति । अत्मादिति प्रधानात् तदुपादायेत्यर्थः । मायी परेशः । यः परेशः । निहितार्थः इदमेवं करिष्यामीति चित्तवृतप्रयोजन इत्यर्थः । दधाति सृजति । स एवेति श्रीभागवते । स ईश्वरः श्रीहरिः । प्रकृतिमनुससार तां क्षोभयितुं प्रविवेशेत्यर्थः । किदृशीमित्याह निजेति । निजवीर्येण स्वरूपशक्तिबलेन चोदितां वशीकृत्य महदादिकार्ये नियोजितानित्यर्थः । स्वशक्तिभूतानां जीवानां मायां मोहिकां वशयित्रीमित्यर्थः । किमर्थमनुससार । अनामरूपे संज्ञामूर्त्तिरहिते आत्मनि जीवे रूपनामनी देवादिर्मूर्त्तित्तत्संज्ञे विधित्समानश्चिकीषुर्जीवानां भोगापवर्गार्थं तेषां स्थूलसूक्ष्मोपाधिं सिसृक्षन्नित्यर्थः । शास्त्रकृत् तदनुसृतेः पूर्वमेव वेदादिशास्त्राविर्भावकारीति कर्मज्ञानभक्तिसिद्धये प्रागेव तत्प्रतिपादकं शास्त्रं प्रकटितवानिति निरुपाधि हि तत्कर्तृत्वमुक्तम् । प्रधानमिति श्रीवैष्णवे । पुरुषं जीवशक्तिम् । व्ययाव्ययौ सविकारनिर्विकारौ । मयेति श्रीगीतासु । अध्यक्षेण स्वामिना । मायाक्षेत्रज्ञकर्मासुगुण्येनाधिष्ठिता प्रकृतिः सचराचरं सूयते जनयति । अनेन क्षेत्रज्ञकर्मासुगुण्येन मत्कर्तृकेण प्रकृत्यधिष्ठानेन हेतुना जगद्विपरिवर्तते पुनःपुनर्भवति ज्ञेयत्वेति । गुणपुरुषेति । प्रकृतिपुरुषविवेकज्ञानेनेत्यर्थः । न त्वत्रेति । अत्र अस्यामुपनिषदि अव्यक्तशब्दमात्रं श्रूयते न त्वन्यदित्यर्थः वदतीति । अशब्दमिति । नित्यं सर्वदेति प्रत्येकं सम्बध्यते । निचाय ज्ञात्वा । प्रधानपक्षेऽप्येताद्वाक्यं सङ्गतम् । तत् किल शब्दादिशून्यं महत्त्वात् परञ्च ज्ञेयञ्च सांख्यैः स्मर्यते । मैवमेतत् । कुतः प्रकरणात् । एवं सति ब्रह्मपक्षे तद्वाक्यार्थः । प्राकृतशब्दादिभोगशून्यं नित्यं महतो जीवाद्धिरण्यगर्व्भादपि परं ब्रह्म निचाय ज्ञात्वोपास्य च मृत्युमुखात् कालाननात् विमुच्यते विमुक्तो भवतीति । इह वाक्ये सच्चिदानन्दैकरसं परमपुरुषार्थरूपं निखिलहेयप्रत्यनीकं ब्रह्म निरूप्यते न तु प्रधानमिति भावः त्रयाणामिति । नचिकेतसा यमादर्थत्रयं वृत्तं पितृप्रसन्नता स्वर्गहेत्वग्निविद्यात्मविद्या चेति । तन्त्रयमेव अत्रोपदिष्टं नान्यदिति कठबल्ल्यां दृश्यते ततोऽत्र प्रधानं नानेयमित्यर्थः । आत्मशब्देनात्मत्वजातिमद्ग्रहणाज्जीवेशयोर्लाभः महद्वच्चेति । बुद्धेरात्मेत्यत्र महच्छब्देन प्रथमविकारे वाच्ये महतो महान् पर इत्यनिष्टं स्यात् तथात्मशब्देन महतो विशेषणं चानिष्टमतो न प्रथमविकारो गृह्यते । एवमात्मपरत्वोक्तेस्तत्राव्यक्तशब्देन प्रधानं न ग्राह्यम् । न ह्यात्मनः परतया प्रधानं सांख्यैर्मतं तस्मात् सूक्ष्मशरीरं तदिति सुष्ठूक्तम्
अधिकरणम् ३२ (चमसाधिकरणम्)
चमसवद् अविशेषात्
वदतीति सूत्रान् नेत्य् अनुवर्तते । नात्र स्मृति-सिद्धा सा शक्या ग्रहीतुम् । कुतः ? अविशेषात् । न जायत इति व्युत्पत्त्याजात्व-मात्र-प्रतीतेस् तस्या ग्रहणे विशेष-हेत्व्-अभावाद् इत्य् अर्थः । दृष्टान्तश् चमसवद् इति । यथा बृहद्-आरण्यके [बृ.आ.उ. २.२.३] अर्वाग्बिलश् चमसश् चम्यतेऽनेनेति व्युत्पत्त्या यज्ञीय-भक्षण-साधनत्व-मात्र-प्रतीतेर् न सोऽयं चमस-विशेष इति शक्यते ग्रहीतुम् । यौगिक-शब्देष्व् अर्थ-प्रकरणादिकं विनार्थ-विशेषानिश्चयात् तद्वत् । तस्माद् अत्र मन्त्रे स्मृति-सिद्धा प्रकृतिर् न ग्राह्या अर्थ-प्रकरणादेर् अप्य् अभावात् । नापि स्वातन्त्र्येण सृष्टेः प्रत्ययः, प्रजाः सृजमानां इति तन्-मात्र-प्रतीतेः ॥८॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।३-५।
वैदिकी ब्रह्म-शक्तिस् तु ग्राह्या विशेष-हेतु-सत्वाद् इत्य् आह—
ज्योति-रूप-क्रमातु तथा ह्य् अधीयत एके
तु-शब्दो निश्चये । ज्योतिर् ब्रह्म । तद् देवा ज्योतिषां ज्योतिः [बृ.आ.उ. ४.४.१६] इत्य् आदि श्रुति-प्रसिद्धेः । तद् एवोपक्रमः कारणं यस्याः सा ब्रह्म-कारणैवेयम् अजा ग्राह्या चमसवद् अन्यतोऽस्या विशेष-बोधाद् इति । तत्र यथा, इदं तच्-छिर एष ह्य् अर्वाग्बिलश् चमस ऊर्ध्वबुध्नः [बृ.आ.उ. २.२.३] इति वाक्य-शेषात् शिरो-रूपश् चमस-विशेषो निश्चितस् तथास्याम् अपि प्रथमेऽध्याये अजा-मन्त्रान्विते, चतुर्थे च शक्तेः प्रक्रमात् ब्रह्म-शक्ति-रूपो विशेष इति । अत्र पूर्वत्र, ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् निगूढाम् [श्वे.उ. १.३] इति । परत्र तु य एकोऽवर्णो बहुधा शक्ति-योगाद् इति । अथैतस्या ग्रहणे प्रमाणान्तरं च दर्शयति तथा हीति । हिर् हेतौ । यस्माद् एके शाखिनस् तथाधीयते, तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायाते [मु.उ. १.१.९] इति प्रकृतिम् ईश्वरोत्पन्नां पठन्ति । ब्रह्म-शब्द-वाच्यम् अत्र प्रधानं त्रिगुणावस्थं ग्राह्यं, मम योनिर् महद् ब्रह्म [गीता १४.३] इति स्मृतेः ॥९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।३-४, १९।
ननु कथम् अस्याः प्रकृतेर् अजात्वं, अजायाः पुनः कथं ज्योतिर्-उत्पन्नत्वम् इत्य् आशङ्क्य समाधत्ते—
कल्पनोपदेशाच् च मध्व्-आदिवद् अविरोधः
च-शब्देन शङ्का निरस्यते । तद् द्वयम् अस्याः सम्भवति । कुतः ? कल्पनेति । कल्पनं सृष्टिः । यथा-पूर्वं अकल्पयत् इति प्रयोगात् । तमः शक्तिकाद् ब्रह्मणः प्रधानोत्पति-कथनाद् इत्य् अर्थः । इदम् अत्र तत्त्वम् । तमोऽभिधानातिसूक्ष्मा नित्या च परस्य शक्तिर् अस्ति । तम आसीत् तमसा गूढम् अग्रे प्रकेतं यदा तमस् तन् न द्विआ न रात्रिः [ऋ.वे. १.२९.३] इति, गौर् अनाद्य्-अन्तवती [चुल्लिकोपनिषद्] इत्य् आदि श्रुतेः । सा किल प्रलये तेन सहैक्यं गता, न तु तत्र विलीना तिष्ठति । पृथिव्य् अप्सु प्रलीयते इत्य् आदि श्रुत्या पृथिव्य्-आदीनां अक्षरान्तानां तमसि लय-कथनात् तमसस् तु परस्मिन्न् ऐक्य-कथनात् । तद्-ऐक्यं नामातिसौक्ष्म्याद् विभागानर्हत्वम् एव नान्यत् । इतरथा तम एकीभवतीति च्वि-प्रत्ययासामञ्जस्यात् । अथ सिसृक्षोः परस्माद् देवात् तमः-शक्तिकात् त्रिगुणावस्थम् अव्यक्तम् उत्पद्यते । महान् अव्यक्ते लीयते, अव्यक्तम् अक्षरे, अक्षरं तमसि इति श्रुतेः । तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विज-सत्तम इत्य् आदि स्मृतेश् च । ततस् तु महद्-आदेः सर्गः । तेन प्रधान-कल्पनोपदेशेन कारण-रूपा कार्य-रूपा चेति व्यवस्था प्रकृति-सिद्धा । प्रधान-पुंसोर् अजयोः कारण-कार्य-भूतयोर् इति स्मृतेश् [वि.पु. १.९.३७] च । सृष्टि-काले तूद्भूत-सत्त्वादि-गुणा विभक्त-नाम-रूपा प्रधानाव्यक्तादि-शब्दिता लोहिताद्य्-आकारा ज्योतिर् उत्पन्नेति । दृष्टान्तम् आह—मध्व्-आदिवद् इति । यथादित्यः कारणावस्थायां एकीभूतः कार्यावस्थायां वस्व्-आदि-भोग्य-मधुत्वेनोदयास्त-मयत्वेन च कल्प्यमानोऽपि न विरुध्यते तद्वत् ॥१०॥
बृहद्-आरण्यके—
यस्मिन् पञ्च पञ्च-जना आकाशश् च प्रतिष्ठितः ।
तम् एव मन्य आत्मानञ् विद्वान् ब्रह्मामृतोऽमृतम् ॥ [बृ.आ.उ. ४.४.१७] इति श्रूयते ।
किम् अत्र कापिल-तन्त्रोक्तानि पञ्चविंशति-तत्त्वानि ज्ञेयानि, किं वा, पञ्चैव केचिद् अन्ये, इति वीक्षायां बहुव्रीहि-गर्भ-कर्मधारय-विशिष्टात् पञ्च-पञ्च-जन-शब्दात् पञ्चविंशति-पदार्थ-प्रतीतेः कापिलोक्तान्य् एव तानि ग्राह्याणि । आत्माकाशयोर् अतिरेकस् तु कथञ्चिन् निवर्तनीयः । जन-शब्दस् तत्त्व-वाचीत्य् एवं प्राप्ते—
पूर्वमव्यक्तशब्दमात्रेण प्रधानस्य स्फुटमप्रतीतेस्तच्छब्दस्य प्रकृतशरीरपरत्वमुक्तं इह त्वजाशब्दात् लोहितेत्यादिना त्रैगुण्यार्थाच्च तस्य स्फुटं प्रतीतेरजाशब्दः प्रधानपरोऽस्त्विति प्रत्युदाहरणसङ्गत्याह अन्योऽपीत्यादि । अजामित्यादेः पूर्वपक्षेऽर्थः । लोहितेति । रजःसत्त्वतमांसि गुणा लक्ष्यन्ते । बह्वीः प्रजा इति वहवः पुरुषा बोध्यन्ते । सृजमानामित्यजायाः स्वतः कर्तृत्वञ्च । एको विवेकहीनोऽजः पुरुषस्तां जुषमाणो भजन्ननुशेते । तामात्मत्वेनोपगम्य ताद्गतसुखदुःखाद्यनुभवतीत्यर्थः । अन्यस्त्वजो विवेकिनां भुक्तभोगां कृतभोगविवेकज्ञानां जहाति भुक्त्वा विमुच्यत इति । सिद्धान्ते तु एको जीवः अन्यस्त्वीश इत्यर्थो बोध्यः । तस्यापि जिघ्रति षड्गुणेश इति श्रीभागवते तद्भोगस्मरणात् । संशयं दर्शयति किमत्रेति । वैदिकी वेदोक्ता । पूर्वपक्षं परिहरति चमसवदिति । चमसो यज्ञीयपात्रविशेषः । तस्याः सांख्योक्तायः प्रकृतेः । सोऽयमिति । कथञ्चिदर्वाग्विलत्वादेरन्यत्राप्यविशेषादित्यर्थः । अर्थेति । अर्थेन प्रकरणेन च विशेषो निश्चीयते । यथा हरिं भज भवच्छिदे इत्यत्रानन्यसाध्येन मोक्षलक्षणेन फलेन हरिशब्दस्य परमात्मत्येवार्थः । देवो जानाति मे मन इत्यत्र वक्तृश्रोतृबुद्धिसान्निध्यलक्षणेन देवशब्दस्य भवानित्येवार्थो निश्चितस्तथा प्रकृतेऽर्थप्रकरणादिकं नास्तीति न स्मार्त्तिप्रकृतिर्निश्चेयेत्यर्थः । संयोगादिरादिपदात् । तन्मात्रेति । सृष्टिमात्रप्रत्ययादित्यर्थः ज्योतिरिति । शिरोरूप इति । मनुष्यमस्तकमिह चमसत्वेन रूप्यत इत्यर्थः । अस्यामुपनिषदि । शाखिन आथर्वणिकाः । त्रिगुणावस्थं विभक्तगुणत्रयम् । ममेति श्रीगीतासु नन्विति । अजात्वं ब्रह्मवन्नित्यत्वम् । ज्योतिरुत्पन्नत्वं ब्रह्मकार्यत्वम् । कल्पनेति । यथेति । अकल्पयदसृजत् । प्रकृतेर्नित्यत्वे प्रमाणं तम आसीदित्यादि । प्रकेतं जगत् । तेन परमात्मना सह । च्विप्रत्ययेति । अनेकमेकं भवतीति व्युत्पत्तेर्महानव्यक्तमित्यादि प्रलीनानामवोत्पत्तिरिति भावः । स्मृतिस्तमर्थं स्फुटयति तस्मादिति भारतवाक्यम् । तस्मात् तमःशक्तिकात् परमात्मनः । प्रधानेति श्रीवैष्णवे । कारणमित्यत्र ब्रह्मेति बोध्यम् । द्व्यवस्थत्वं ग्राहयितुमाह यथेत्यादि । मधुव्यपदेशानर्हसूक्ष्मात्मना स्थितिः कारणवस्था वस्वादिभोग्यरसाश्रयतया मधुत्वं कार्यावस्थेत्यर्थः
अधिकरणम् ३३ (सङ्ख्योपसङ्ग्रहाधिकरणम्)
न सङ्ख्योपसङ्ग्रहाद् अपि नाना-भावाद् अतिरेकाच् च
अपि-शब्दः सम्भावनायां । सङ्ख्या-ग्रहणेनापि न तान्य् अत्र प्रतिपादयितुं शक्यन्ते । कुतः ? नानेत्य् आदि । नाना-भूतेषु तेष्व् अनुगत-धर्माभावेन पञ्चताया ग्रहीतुम् अशक्यत्वात् । आत्माकाशयोः पृथङ्-निर्देशेन सप्तविंशति-तत्त्वापत्तेश् च । न हि पञ्च-द्वय-श्रुति-मात्रेण भ्रमितव्यम् । कस् तर्हि निर्णयः ? उच्यते—पञ्चजन-शब्दोऽयं समस्तः सप्तर्षि-शब्दवत् संज्ञा-वाचकः । दिक्-सङ्ख्ये संज्ञायाम् इति पाणिनि-स्मरणात् । यथा सप्तर्षयः सप्तेत्य् एकैकोऽपि सप्तर्षि-संज्ञस् तथा पञ्चजनाः पञ्चेत्य् एकैकोऽपि पञ्चजन-संज्ञ इत्य् अर्थः । ततश् च पञ्चजन-संज्ञकाः पञ्च पदार्था इति सुष्ठु ॥११॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।२२।२-४, ३।२६।१२, ३।१६।१६, ३।२६।१४-१५।
के ते इत्य् अपेक्षायाम् आह—
प्राणादयो वाक्य-शेषात्
प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् अन्नस्यान्नं मनसो ये मनो विदुः [बृ.आ.उ. ४.४.१८] इत्य् अस्मात् प्राणादयः पञ्च ते बोध्याः ॥१२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।१।११।
नन्व् एतन् माध्यन्दिनानां सङ्गच्छते न तु काण्वानां तेषाम् अन्न-पाठाभावाद् इत्य् आशङ्क्य समाधत्ते—
ज्योतिषैकेषाम् असत्य् अन्ने
एकेषां काण्वानां पाठे अन्ने असत्य् अपि ज्योतिषा पञ्च-सङ्ख्या सम्पद्यते । यस्मिन् पञ्च इत्य् अतः पूर्वं—तद् देवा ज्योतिषां ज्योतिर् [बृ.आ.उ. ४.४.१६] इति ज्योतिषः पठितवात् । इहोभयेषां ज्योतिर् मन्त्रे तुल्येऽपि सति ज्योतिर् ग्रहणाग्रहणम् अपेक्ष्य सत्त्वासत्त्व-निबन्धनं बोध्यम् ॥१३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ८।५।३,५।
पुनर् अपि साङ्ख्यः शङ्कते । वेदानेषु ब्रह्मऐक-कारणं विश्वम् इति न शक्यते वक्तुं तेष्व् एक-कारणिकायाः सृष्टेर् अदर्शनात् । एकत्र तस्माद् वा एतस्माद् आत्मनः आकाशः सम्भूतः [तै.उ. २.१.३] इत्य् आदिना सृष्टिर् आत्म-हेतुका प्रदर्श्यते । असद् वा इदम् अग्र आसीत् ततो वै सद् अजायत, तद् आत्मानं स्वयम् अकुरुत [छा.उ. ६.२.१] इत्य् असद्-धेतुका च । अन्यत्र क्वचिद् आकाश-हेतुका सृष्टिः पठ्यते, अस्य लोकस्य का गतिर् इत्य् आकाश इति होवाच [छा.उ. १.९.१] इत्य् आदिना । क्वचित् प्राण-हेतुका, सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति [छा.उ. १.११.५] इत्य् आदिना । क्वचिद् असद्-धेतुका—असद् एवेदम् अग्र आसीत् । तत् सदासीत् तत् समभवत् [छा.उ. ३.१९.१] इत्य् आदिना । क्वचित् तु सद्-धेतुका—सद् एव सौम्येदम् अग्र आसीत् इति । क्वचित्—तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याम् एव व्याक्रियत [बृ.आ.उ. १.४.७] इत्य् अव्याकृत-हेतुका च प्रोच्यते । एवम् अन्यत्रापि सानेकधा । तद् एवं तेष्व् एकस्य हेतोर् अनिरूपणात् ब्रह्मैक-हेतुकं विश्वम् इति न शक्यते निश्चेतुं, किन्तु प्रधान-हेतुकं तन् निश्चेतुं शक्यते, तद् वेदं तर्हीत्य् आदि श्रवणात् । कार्य-कारणयोः सारूप्यं खल्व् अस्मिन् पक्षे निर्बाधं वीक्ष्यते । इहात्माकाश-ब्रह्म-शब्दा विभुत्वात् असत्-सच्-छब्दौ तस्य विकाराश्रयत्वात् नित्यत्वाच् च प्राण-शब्दश् च स्वोत्पन्न-तत्त्व-रूपकत्वाद् ईक्षादयोऽपि कार्याभिमुख्यत्वाभिप्रायेण तत्रैव योज्यास् तस्मात् साङ्ख्योक्तं प्रधानम् एव विश्वैक-हेतुर् वेदान्तैर् उच्यते । इत्य् एवं प्राप्ते—
पूर्वमजामन्त्रन्येशशक्तिपरत्वनिर्णायकः प्रागूर्द्ध्वञ्च तच्छक्तिप्रसङ्गो । यथास्ति तथायमस्मिन्निति मन्त्रस्य कपिलोक्तपञ्चविंशतितत्त्वनिर्णायका पञ्चजनश्रुतिरस्तीति । दृष्टान्तसङ्गत्याह बृहदारण्यके यस्मिन्नित्यादि । फलद्वयमिह प्राग्वद्बोध्यम् । यस्मिन् परेशे प्राणादयः पञ्च सर्वाधार आकाशश्चैते सन्ति तमेवात्मानं विभुविज्ञानानन्दं ब्रह्म बृहद्गुणकममृतमविनाशिनमहं मन्ये ज्ञात्वोपास्ये । य इदं विद्वानमृतो मुक्तः । तद्विज्ञानेन मुक्तेरवश्यम्भावादिति भावः । बहुब्रीहिगर्भेति । पञ्चकृत्व आवृत्ताः पञ्चेति पञ्चपञ्चाः संख्ययव्ययासन्न दूराधिकसंख्याः संख्येयेति सूत्रात् समासः । संख्येयार्थया संख्यया सहाव्ययादयः समस्यान्ते स बहुब्रीहिरिति तदर्थः । द्विरावृत्ताः दश द्विदश विप्रा इतिवत् । बहुब्रीहौ संख्येये डज् बहुगुणादिति सूत्रात् डच् समासः । संख्येये यो बहुब्रीहिस्तस्मात् डच् नच बहुगुणशब्दाच्चेति तदर्थः । अन्यपदार्थवृत्त्यभावेऽप्ययं बहुब्रीहिर्द्वित्रा इतिवद्बोध्यः । तल्लक्षणस्य प्रायोऽभिप्रायत्वात् तदधिकारपठितत्वेऽपि तत्त्वमिति न दोषः । ततश्च पञ्चपञ्चाश्च ते जनाश्चेति कर्मधारये पञ्चविंशतिलाभः । नम्वात्मकाशाभ्यां सप्तविंशतिः स्युरिति चेत् तत्राहात्मेति । पञ्चविंशत्यन्तर्भूतयोस्तयोः प्राधान्यात् कथञ्चित् पृथक्कृत्वोक्तिरित्यर्थः । कथञ्चित्त्वन्स्त्वगतिकगतिः । जनशब्दस्तत्त्ववाची जनस्तत्त्वसमूहक इति स्मरणात् । एतं पूर्वपक्ष निरस्यन्नाह न संख्येति । तान्यत्रेति कपिलोक्तानीत्यर्थः । नानाभूतेष्विति । मूलप्रकृतिरेका प्रकृतिविकृतयो महदादयः सप्त इन्द्रियाण्येकादश भूतानि तु पञ्चेति विकृतय एव षोडश प्रकृतिविकृतिभावहीनः पुरुष एक इत्येवं नानाभूतानि तानि न तु पञ्चपञ्चकरूपाणीत्यर्थः । कपिलोक्तसंख्याङ्गीकारे वाधकान्तरञ्चाह आत्मेति । तथा चापसिद्धान्तापत्तिः । दिगिति । एते संज्ञायामेव समस्येते स कर्मधारयः । दिग्यथा दक्षिणाग्निः । संख्या यथा सप्तर्षयो विप्र इति प्राणेति । तत्तद्वृत्त्येककारणं तद्व्यापकं वा ब्रह्म ये विदुरित्यर्थः ज्योतिषैकेषामिति । प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुरिति केचित् काण्वः पठन्ति
अधिकरणम् ३४ (कारणत्वाधिकरणम्)
कारणत्वेन चाकाशादिषु यथा-व्यपदिष्टोक्तेः
च-शब्दः शङ्का-च्छेदाय । ब्रह्मैव विश्वैक-हेतुर् इति शक्यते निश्चेतुम् । कुतः ? आकाशादिषु कारणत्वेन यथा-व्यपदिष्टोक्तेः । लक्षण-सूत्रादिषु सार्वज्ञ्य-सत्य-सङ्कल्पादि-गुणकत्वेन निर्णीतं ब्रह्म यथा-व्यपदिष्टम् उच्यते । तस्यैकस्यैव खादि-हेतुत्वेन सर्वेषु वेदान्तेष्व् अभिधानात् । यथा सत्यं ज्ञानम् अनन्तम् इत्य् आदिना सार्वज्ञ्यादि-गुणकतया निर्दिष्टं ब्रह्म तस्माद् वा एतस्माद् इत्य् आदिना कारणत्वेन विमृश्यते यथा च सद् एव सौम्येदम् इत्य् आदौ तद् ऐक्षत बहु स्याम् इति तद्-गुणकत्वेन निर्दिष्टं ब्रह्म तत्-तेजोऽसृजतेति तत्त्वेन परामृश्यते एवम् अन्यत्रापि द्रष्टव्यम् । कार्य-कारणयोः सारूप्यं तु ब्रह्म-पक्षे वक्ष्यामः । आत्माकाश-प्राण-सद्-ब्रह्म-शब्दा व्याप्ति-सन्दीप्ति-प्राणन-सत्त्व-बृहद्-गुणकत्व-योगान् मुख्यास् तथेक्षादयश् च ॥१४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।२४।६०।
अथासद्-व्याकृत-शब्दयोर् गतिम् आह—
समाकर्षात्
सोऽकामयत इति पूर्व-सन्दर्भ-प्रकृतस्य परमात्मनः, असद् वा इत्य् अत्र आदित्यो ब्रह्म इति पूर्व-निर्दिष्टस्य ब्रह्मणः, असद् एवेदम् इत्य् अत्र च समाकर्षात् तत् तच् च वाक्यं ब्रह्म-परम् एव । प्राक् सृष्टेर् नाम-रूपाविभागात् तत्-संबन्धितयास्थित्वाभावाद् असच्-छब्देन तत्र ब्रह्मैवोक्तम् । अन्यथा सद् एव सौम्य इत्य् आद्य् अनन्तर-सम्भावितासत्-कारणता-प्रत्युक्तेः, आसीद् इति काल-सम्बन्धस्य च विरोधः । असन्न् एव स भवति इत्य् आदिनासद्-वादिनो विगीतत्वाच् च सूक्ष्म-शक्तिकं ब्रह्मैव तद्-अर्थः । तद् धेदं तर्हि इत्य् अत्राप्य् अव्याकृत-शब्देन तद्-अन्तराल-भूतं ब्रह्मैव बोध्यते । स एष इह प्रविष्ट इत्य् आदि पर-वाक्यतस् तस्याकर्षणात् तच्-छक्तिकं ब्रह्मैव स्व-सङ्कल्प-वशात् स्वयम् एव नाम-रूपाभ्यां व्याक्रियत इति तत्रार्थः । इतरथा वेदान्त-प्रतिष्ठितत्वं गति-सामान्यं च श्रुतं व्याकुप्येत । तस्माद् एकं ब्रह्मैव विश्व-हेतुर् इति निश्चेयम् ॥१५॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।२४।६३-६४।
पुनर् अपि साङ्ख्यं निरस्यति । कौषीतकी-ब्राह्मणे बालाकिना विप्रेण ब्रह्म ते ब्रवाणीति प्रतिज्ञाय ब्रह्मतयादित्यादिषु षोडशसु पुरुषेषूक्तेषु अजातशत्रुर् नाम राजा तन् निराकृत्य स्वयम् आह—यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत् कर्म स वेदितव्य [१८] इति ।
तत्र सन्देहः—किम् अत्र प्रकृत्य्-अध्यक्षस् तन्त्रोक्तो भोक्ता वेद्यतयोपदिश्यते उत सर्वेश्वरः श्री-विष्णुर् इति । यस्य चतत् कर्मेति कर्म-सम्बन्ध-वीक्षया भोक्तृत्वावगमात् उत्तरत्रच तौ ह सुप्तं पुरुषम् आजग्मतुः [१९] इत्य् आदिना । तद् यथा श्रेष्ठैः स्वैर् भुङ्क्ते [२०] इत्य् आदिना च भोक्तुर् एव प्रतिपादनात्, सोऽयं तन्त्रोक्तो भवेत् प्राण-शब्दश् चात्र प्राण-भृत्त्वाद् उपपद्यते । तद् अयम् अर्थः—य एषां पुरुषाणां भोगोपकरण-भूतानां कर्ता कारण-भूतस् तथा तद्-धेतु-भूतं पुण्य-पाप-लक्षणं कर्म च यस्य, स वेदितव्यः प्रकृति-विविक्ततया ज्ञेय इति । तस्मात् तन्त्रोक्तो जीव एवास्मिन् प्रकरणे वेद्यः प्रतिपद्यते । ततश् च वक्तव्यतयोपक्रान्तं ब्रह्म स एव तद्-अन्येश्वरासिद्धेः । ईक्षादयोऽपि कारणं गतास् तस्मिन्न् एवोपपन्नाः तद्-अधिष्ठाता प्रकृतिर् एव विश्व-जनयित्रीत्य् एवं प्राप्तौ—
पूर्वत्र ज्योतिषा वा पञ्चसंख्यापूर्त्तिरिति विकल्पस्याविरोधः कारणविषयत्वाभावात् । अथ कारणे वस्तुनि तस्य विरुद्धत्वेन स्वीकारानौचित्यात् तदनादरेण प्रधानस्यैव कारणत्वं समर्थनीर्यमिति प्रत्युदाहरणसङ्गत्याह पुनरपीति । नन्विरोधार्थमयं न्यायोऽत्रासङ्गतः । मैवम् । समन्वयाद्वाक्यार्थज्ञाने स्मृत्यादिप्रमाणान्तरविरोधशङ्कापरिहारस्याविरोध्यायार्थत्वात् । इह तु कारणविषयवाक्यानां मिथो विरोधान्न ब्रह्मणि समन्वयः संभवीत्याशङ्क्य तत्परिहारेण समन्वयस्य साध्यत्वात् तदध्यायसङ्गतिसिद्धेः । असत्परस्य वाक्यस्य स्वीकृतसत्परत्वनिरासेन समन्वयस्थापनात् पादसङ्गतिश्च बोध्या । एकत्रेति तैत्तिरीयके । अन्यत्रेति छान्दोग्ये । अव्याकृतं प्रधानं । तथाच प्रतिवेदान्तं कारणवैविध्यात् तद्विगानं स्फुटम् । तत्तत् प्रतिपादयतां मिथो विरोधान्न तेषां ब्रह्मणि समन्वयः । किन्त्वनुमानसिद्धप्रधानलक्ष्यत्वमेव साम्प्रतमिति भावः । एवमिति । सा सृष्टिरनेकधा परमाणुसमारब्धतत्सङ्घरूपत्वादित्येर्थः । विवक्षितमाह तदेवमिति । अस्मिन् पक्षे प्रधानवादे । इह प्रधाने । तत्रैव प्रधाने । एवं प्राप्ते निरस्यति कारणत्वेन चेति । लक्षणेति । लक्षणसूत्रं जन्माद्यस्य यत इत्येतत् । तस्यैकस्य ब्रह्मणस्तद्गुणकत्वं तैत्तिरीयके दर्शयति यथा सत्यमित्यादिना । अथ छान्दोग्येऽपि तद्गुणकत्वं दर्शयति यथा सदेवेत्यादिना । तत्त्वेन तद्गुणकत्वेन । एवमन्यत्रापीति बृहदारण्यकादावपि । तैत्तिरीयकादिवत् तद्गुणकस्यैव ब्रह्मणः खादिहेतुत्वमन्वेषणीयमित्यर्थः । कार्येति । सारूप्यं साधर्म्यं । आत्माकाशेत्यादौ क्रमेण व्याप्तिसन्दीप्तिप्राणनादि धर्मसम्बन्धो बोध्यः समाकर्षादिति । तत्सम्बन्धितया नामरूपोपयोगितया । अन्यथा सदेव । सौम्येदमग्र आसीदिति सत्कारणतां निरूप्य तद्ध्येक आहुरसदेवेदमग्र असीदित्यादिना असत्कारणतां सम्भाव्य तस्याः प्रत्युक्तिः कुतस्तु खलु सौम्येदं स्यादिति होवाच कथमसतः सज्जायतेति वाक्येन कृतास्ति सा कथं सम्भवेत् यद्यसदेव कारणं स्यात् किञ्चासीदिति कालसम्बन्धोऽप्यस्य तया सह न स्यात् सतोरेव सम्बन्धात् तस्मादुक्तमेव चार्वित्यर्थः । तदन्तरात्मभूतं तच्छक्तिकं मतं । व्याक्रियते इति कर्मकर्त्तरि प्रयोगः । एवमेव व्याचष्टे तच्छक्तिकमित्यादिना । कार्यविषयं विज्ञानं तु क्वचिदाकाशपूर्वतया क्वचित्तेजःपूर्वतया क्वचित् प्राणपूर्वतया क्वचिदक्रमाच्च सृष्टिवर्णनात् किल न वियदश्रुतेरित्यदिना परिहरिष्यति
अधिकरणम् ३५ (जगद्-वाचित्वाधिकरणम्)
जगद्-वाचित्वात्
न ह्य् अत्र तन्त्रोक्तः क्षुद्रः क्षेत्रज्ञः प्रतिपाद्यते, अपि तु वेदान्तैक-वेद्यः सर्वेश्वर एव । कुतः ? जगद् इति । एतच्-छब्द-सहचरस्य कर्म-शब्दस्य चिज्-जडात्मक-पूर्व्पूर्वाभिधायित्वाद् इत्य् अर्थः । तत्-कर्तृत्वेन तस्यैव प्राप्तेः । इदम् अत्र तत्त्वम् । क्रियत इति व्युत्पत्त्या कर्म-शब्दो जगद्-वाची । सति च तद्-वाचित्वे तच्-छब्दः सार्थकः । पुरुष-मात्र-कर्तृत्वं शङ्का-निवृत्त्य्-अर्थकत्वात् । न च तन्त्रोक्तस्य कर्तृत्वम् अस्वीकारात् न चाध्यासात् तद्-असङ्ग-श्रुति-व्याकोपात् । तस्मात् सर्वेश्वर एव तत्-कर्ता । एवं च मृषावादित्वम् अजातशत्रोर् न स्यात् । ब्रह्म ते ब्रवाणीति प्रतिज्ञाय षोडश-पुरुषान् वदतो बालाकेर् मृषैव किलेति वाक्येन मृषाभावित्वम् आपाद्य स्वयं ब्रह्म विवक्षुः स चेज् जीवं ब्रूयात् तर्हि तस्यापि तत् स्याद् इति । तद् एवं सत्य् एष वाक्यार्थः । त्वया ये पुरुषा ब्रह्मत्वेनोक्तास् तेषां यः कर्ता ते यत् कार्य-भूता भवन्तीत्य् अर्थः ।
नन्व् एतावद् एव कृत्स्नं जगद् यस्य भवति स परम-कारण-भूतः सर्वेश्वर एव वेद्य इति ॥१६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।२४।६०।
नन्व् अत्र जीवस्य मुख्य-प्राणस्य च लिङ्ग-दर्शनात् तद्-अन्यतरो ग्राह्य इति चेत् तत्राह—
जीव-मुख्य-प्राण-लिङ्गान् नेति चेत् तद् व्याख्यातम्
इन्द्र-प्रतर्दनाख्यायिकायां तल्-लिङ्गं निर्णीतम् । तत्र किलोपक्रमोपसंहार-पर्यालोचनेन वाक्यस्य ब्रह्म-परत्वे निश्चिते जीवादि-लिङ्गम् अपि तत्-परत्वेन नीतम् । इहापि ब्रह्म ते ब्रुवानीत्य् उपक्रमात् । सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यम् आधिपत्यं, पर्येति य एवं वेद इत्य् उपसंहाराच् च तत्-परत्वेन तन् एयम् इति । न चेदं वाक्यं प्रतर्दनाख्यान-निर्णयाद् गतार्थं, यस्य चैतत् कर्म इत्य् अस्यापूर्वत्वात् ॥१७॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।४।२८, १०।८७।५०।
ननु यद्यप्य् एतच् छब्दान्वितात् कर्म-शब्दात् ब्रह्मणि प्रसिद्धात् प्राण-शब्दाच् चायं सन्दर्भो ब्रह्म-परः कर्तुं शक्यस् तथापि जीव-सङ्कीर्तनाद् अतथा-भूतत्वं तस्य । न च प्रश्न-व्याख्यानाभ्यां जीवान्यद् ब्रह्मात्र शक्यं मन्तुम् । तत्रापि जीवस्यैव प्रत्ययात् । स्वापाधारादि-पृच्छया जीव एव पृष्ट इति सुप्ति-स्थानं तु नाड्यः करण-ग्रामश् च प्राण-शब्दिते जीव एवैकधा भवति, स एव च प्रतिबुध्यत इति व्याख्याने च प्रतीयते । तस्माज् जीव-परोऽयम् इति शङ्कायां पठति—
अन्यार्थस् तु जैमिनिः प्रश्न-व्याख्यानाभ्याम् अपि चैवम् एके
तु-शब्दः शङ्का-च्छेदाय । इह जीव-सङ्कीर्तनम् अन्यार्थं जीवान्य-ब्रह्म-बोधार्थम् इति जैमिनिर् मन्यते । कुतः ? प्रश्नेति । प्रश्नस् तावत् प्रबुद्ध-प्राणस्य सुप्तस्य प्रतिबोधने प्राणादि-भिन्ने जीवे बोधिते पुनः, क्वैष एतद् बालाके पुरुषोऽशयिष्ट क्व वा एतद् अभूत् कुत एतद् आगात् [कौ.उ. ४.१८] इति जीवान्य-ब्रह्म-विषयो दृश्यते । व्याख्यानम् अपि । यदा सुप्तः स्वप्नं न कञ्चन पश्यअति तथास्मिन् प्राण एवैकधा भवति [कौ.उ. ४.१९] इत्य् आदि । एतस्माद् आत्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः [कौ.उ. ४.१९] इति च जीवान्यद् एव ब्रह्म गमयति । प्राणोऽत्र परमात्मा, तस्यैव सुषुप्त्य्-आधारत्व-प्रसिद्धेः । तत्रैव जीवादीनां लयो निष्क्रमश् च तस्मात् । नाडीनां तु सुप्ति-स्थान-गमनाय द्वार-मात्रता वक्ष्यते । जागराच् छ्रान्तो जीवो यत्र स्वपिति पुनर् अपि भोगाय यस्मान् निःसरति सोऽयं परमात्मात्र वेद्य इति । अपि चैवम् एके वाजसनेयिनोऽस्मिन्न् एव बालाक्य्-अजातशत्रु-संवादे विज्ञान-मय-शब्देन जीवम् अभिधाय ततो भिन्नं ब्रह्मामनन्ति । य एष विज्ञान-मयः पुरुषः क्वैष तदाभूत् कुत एतद् आगात् इति प्रश्ने । य एषोऽन्तर्-हृदय आकाशस् तस्मिन् शेते इति व्याख्याने च । तस्मात् सर्वेश्वर एवात्र वेद्यतयोपदिश्यत इति ॥१८॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।३।३१।
बृहद्-आरण्यके याज्ञवल्क्यो मैत्रेयीं स्व-भार्याम् उपदिशति—
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय पतिः प्रियो भवति इत्य् आरभ्य, न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवत्य् आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्य् आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् [बृ.आ.उ. २.४५., ४.५.६] इति ।
तत्र संशयः—किम् अस्मिन् वाक्ये द्रष्टव्यत्वेन तन्त्रोक्तो जीवात्मोपदिश्यते, किं वा परमात्मेति ? तत्रोपक्रमे पति-जायादि-प्रीति-संसूचनेन मध्ये एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति न प्रेत्य संज्ञाऽस्ति [बृ.आ.उ. २.४.१२] इत्य् उत्पत्ति-विनाश-योगेन संसारि-स्वभाव-प्रतीतेर् उपसंहारे, विज्ञातारम् अरे केन विजानीयाद् [बृ.आ.उ. २.४.१४] इति विज्ञातृत्वोक्तेश् च तन्त्रोक्तः स्यात् । आत्म-विज्ञानेन सर्वं विज्ञातं तु भोग्य-जातस्य भोक्त्र्-अर्थत्वाद् औपचारिकं भवेत् । न तु अमृतत्वस्य तु नाशास्ति वित्तेनेति [बृ.आ.उ. ४.५.३] इत्य् आदिना अमृतत्व-लाभोपायोपदेशात् कथम् अस्य वाक्यस्य जीव-परत्वम् इति, तस्यैव प्रकृति-विमुक्तस्य ज्ञानेन तत्त्व-सम्भवात् । एवम् अन्यान्य् अपि ब्रह्म-लिङ्गानि कथञ्चिद् अत्रैव नेयानि । तस्माद् अत्र जीवात्मोपदिश्यते । तद्-अधिष्ठिता प्रकृतिर् विश्व-कारणम् इति प्राप्ते—
पूर्वत्र स एष इति परवाक्यतो ब्रह्माकर्षणात् तद्वेदं तर्हीति पूर्ववाक्यं ब्रह्मपरतया व्याख्यातं तद्वत् परस्मात् कर्मवाक्यात् पूर्वब्रह्मवाक्यं कापिलपुरुषपरं स्यादिति दृष्टान्तसङ्गत्याह कौषीतकीत्यादिना । बालाकिना बालाकापुत्रेण । बाह्वादिभ्यश्चेति सूत्रादिञ्प्रत्ययः । आदित्यादिष्विति । आदित्यचन्द्रविद्युदाकाशाद्यधिकरणकेष्वित्यर्थः । तो हेति बालाक्यजातशत्रू बोध्यौ । तद्यथेति । तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मा तैरात्मभिर्भुङ्क्ते । एवमेवैते आत्मानं भुञ्जतीति वाक्येन च भोक्तुरेव निरूपणादित्यर्थः । श्रुत्यर्थस्तु श्रेष्ठी प्राणभूतः पुमान् स्वैर्भृत्यैर्भोगोपकरणभूतैर्भुङ्क्ते भृत्याश्च भोजनाच्छादनादिना प्रधानं तमुपजीवन्ति । एवं जीवः आदित्यादिभिः प्रकाशादिना भोगोपकरणभूतैभुङ्क्ते । आदित्यादयोऽपि हविर्ग्रहणादिना भृत्यवज्जीवमुपजीवन्तीति जीवोऽत्र भोक्ता सिद्ध इति स एव सांख्योक्तो जीव एवेत्यर्थः । एवं प्राप्ते परिहरति जगदिति । उह्योऽत्र पक्षः । एतदिति । एतदिति सर्वनाम्ना प्रत्यक्षादिप्रमाणेऽपि लक्षितं जगन्निर्दिष्टम् । सति चेति । जगद्वाचित्वे सत्येक कर्मशब्दः सार्थकः स्यात् । तत्र हेतुः पुरुषमात्रेति । आदित्यादयः षोडश सर्वे कर्तार इति या शङ्का सा तदैव निवर्त्तते यदि कर्मशब्दोऽन्तर्भूतादित्यादिकं जगद्ब्रूयादित्यर्थः । नहि जगदन्तर्भूतानामादित्यादीनां जगत्कर्तृत्वं सम्भवेदिति भावः । न चेति । अस्वीकारात् तन्मते प्रकृतेरेव विश्वकर्तृत्वाभ्युपगमादित्यर्थः । न चाध्यासादिति । पुरुषे कर्तृत्वं प्रकृत्यध्यासाद्भवेदिति न वाच्यम् । असङ्गो ह्ययं पुरुष इति श्रुतिव्याकोपापत्तेरित्यर्थः । स चेदिति । स नृपतिरजातशत्रुः । तदिति मृषाभाषित्वम् । सिद्धान्ते वाक्यार्थमाह तदेवं सतीत्यादिना आशङ्क्य समाधत्ते नन्वत्रेत्यादिना । जीवेति । इन्द्रप्रतर्दनेति । प्राणस्तथानुगमादित्यस्मिन्नधिकरणे चिन्तितमेतत् । तत्परत्वेन तन्नेयमिति । मध्येऽपि यस्य चैतत् कर्मेति जगदात्मककर्मकर्तृत्वोक्तेः पुरुषमात्रानुक्तेश्चेति बोध्यम् । न चेदमिति । प्राणस्तथेत्यधिकरणे कर्मपदस्याविचारणान्न तेनोक्तार्थतेत्यर्थः नन्विति । अतथाभूतत्वं ब्रह्मबोधकत्वाभावः । तस्य वाक्यसन्दर्भस्य । तत्रापीति । प्रश्नव्याख्यानयोरपीत्यर्थः । स एवेति । शयनाधारादिप्रश्नद्वारेण जीव एव पृष्ट इति प्रश्ने प्रतीयत इत्यर्थः । स्फुटमन्यत् । एवं शङ्कायां पठत्यन्यार्थस्त्विति । प्रश्नेति । ब्रह्मजिज्ञासुं बालाकिमादाराजातशत्रुः सुप्तपुरुषसन्निधिं गत्वा हे सोमराजन्निति सुप्तमाहूयाह्वानशब्दाश्रवणात् प्राणदेवभोक्तृत्वं निरूप्य यष्टिघातोत्थापनेन प्राणादिभिन्न जीवे प्रतिबोधिते पुनर्जीवभिन्नाधिकरणभवनापादानविषयान् प्रश्नान् स्वयमेव चकार क्वैष एतदित्यादिना । अस्यार्थः । हे बालाके शयनमेतद्यथा स्यात् तथा एष पुरुषः क कस्मिन्नधिकरणेऽशयिष्ट स्वापे शयनं कृतवानित्यधिकरणप्रश्नार्थः । एतद्भवनमेकीभावो यथा स्यात् तथा क्वाश्रये सुप्तोऽभूदिति भवनायतनप्रश्नार्थः । शयनभवनयोराधारं पृष्ट्वोत्थानावस्थायामागमनापादानं पृच्छति एतदागमनं यथा स्यात् तथा कुतः कस्मात् उद्बोधावस्थायामगादुत्थानं कृतवानित्यर्थः । एतत्प्रश्नोत्तरदानासमर्थं बालाकिं मत्वा स्वयमेवोत्तरमाह यदा सुप्त इत्यादि । शयनभवनयोराधार उत्थानपादानं च प्राणशब्दबोध्यः परमात्मैवेत्युत्तरार्थः । तथा च जीवस्य भोक्तुर्यत्र शयनभवने यतश्चोत्थानमेकीभावभ्रंशरूपः स पुरुषोत्तमो हरिवेवात्र निखिलकर्त्ता वेद्यतया मयोपदिष्ट इति । एतस्मादिति । आत्मनः परेशात् । प्राणा इन्द्रियाणि । यथायतनः यथास्थानं । देवास्तदधिष्ठातारः । लोकाः स्थानानीत्यर्थः । एष इति विज्ञानमयो जीवः
अधिकरणम् ३६ (वाक्यान्वयाधिकरणम्)
वाक्यान्वयात्
अत्र परमात्मैवोपदिश्यते, न तु तन्त्रोक्तो जीवः । कुतः ? पूर्वापर-पर्यालोचनायां कृत्स्नस्य वाक्यस्य तत्रैव समन्वयात् ॥१९॥
रामपद चट्टोपाध्याय: १०।१४।५०-५५, १०।२३।२६-२७।
भागवत-भाष्यम् (हरिदास शास्त्री): ७।३।३३-३४
तम् एतं प्रतिज्ञातं वाक्यान्वयं त्रि-मुनि-सम्मत्यापि द्रढयति—
प्रतिज्ञा-सिद्धेर् लिङ्गम् आश्मरथः
आत्मनो विज्ञानेन सर्वं विदितम् इति या प्रतिज्ञा सैवास्यात्मनः परात्मत्व-सिद्धेर् लिङ्गम् इत्य् आश्मरथो मन्यते । न ह्य् आत्म-विज्ञानेन सर्व-विज्ञानम् उपदिष्टम् । अन्यत्र परम-कारण-विज्ञानात् तत् सम्भवेत् । न चैतद् औपचारिकं शक्यं वक्तुम् । आत्म-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञाय ब्रह्म तं पराद् इत्य् आदिना तस्यैवात्मनो ब्रह्म-क्षत्रादि-विश्वाश्रयतायाः सर्व-रूपतायाश् चोक्तत्वात् । न हि सा सा च परस्माद् अन्यत्र सम्भवेत् । न च तस्य वा एतस्य महतो भूतस्य निःश्वसितम् इत्य् आदि दर्शित-कृत्स्न-जगत्-कारणता तद् अन्यस्मिन् कर्म-वश्ये पुंसि शक्या व्याख्यातुम् । न चानादृत्य वित्तादिकं मोक्षोपायं पृच्छतीं मैत्रेयीं स्व-पत्नीं प्रति ब्रह्मान्यं जीवं ब्रुवन्न् आप्तः । तज्-ज्ञानेन मोक्षाभावात् । तम् एव विदित्वेति ब्रह्म-ज्ञानेनैव मोक्ष-श्रवणात् । तस्माद् अयं परमात्मैवेति ॥२०॥
रामपद चट्टोपाध्याय: १०।४१।४-५, ११।२९।३०।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३७।
ननु जीवोऽयम् आत्मा पत्य्-आदि-प्रियता-संसूचनेन संसार-प्रत्ययात् । न चात्र वाक्य-प्रतिज्ञानुपरोधार्थम् आत्मनस् तु कामायेत्य् अत्रात्म-शब्देन परमात्मानं व्याख्याय तत्राराधक-गतं सर्व-कर्तृकं सर्व-कर्मकं वा प्रीणनं विवक्षणीयम् ।
येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र स्थावरा जङ्गमा अपि ॥ इति स्मृतेर् इति वाच्यम् ।
तथाभावस्य तत्रावीक्षणाद् इत्य् आशङ्क्याह—
उत्क्रमिष्यत एवम्-भावाद् इत्य् औडुलोमिः
उत्क्रमिष्यतः साधन-सम्पन्नस्यासन्न-परमात्म-प्राप्तेर् विदुष एवं भावात् सर्व-प्रियत्वाद् उपक्रम-गतेनात्म-शब्देन परमात्मैव बोध्य इत्य् औडुलोमिर् मन्यते । तद् अयम् अत्र वाक्यार्थः—पत्युः कामाय मत्-प्रयोजनायाहम् अस्याः प्रियः स्याम् इत्य् एवं-रूपाय पतिः प्रियो न भवति, किन्तु आत्मनः परम्नः कामाय स्वाराधक-प्रिय-प्रतिलम्भन-रूपायैवेत्य् अर्थः । काम इच्छा । तं सफलं कर्तुम् इत्य् अर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिनः [पा. २.३.१४] इति सूत्राच् चतुर्थी । भक्त्याराधितः खलु भगवान् भक्तानां सर्व-वस्तु-गतं प्रियत्वं सम्पादयति ।
अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः ।
मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः ॥ [भा.पु. ११.१४.१३] इति स्मृतेः ।
अयतिविशेष् पत्युः कामाय पतिं प्रियं न करोत्य् अपि तु परमात्मनः कामायैव ।
प्राण-बुद्धि-मनः स्वात्म-दारापत्य-धनादयः ।
यत् सम्पर्कात् प्रिया आसंस् ततः कोऽन्यः परः प्रियः ॥ [भा.पु. ११.२३.२७] इति स्मरणात् ।
कामः सुखम् । चतुर्थी पूर्ववत् । तथा च यत्-सम्पर्कात् यत्-सङ्कल्पात् यत्-सम्बन्धाद् वा अप्रियम् अपि प्रियं भवति स श्री-हरिर् एव् प्रेष्ठो द्रष्टव्य इति ।
किं च, नायम् आत्म-शब्दो जीवार्थक इति शक्यं ग्रहीतुम्, तस्य विभौ परेशे मुख्य-व्युत्पन्नत्वात् । इतरथा आत्मा वा अरे इत्य् अनेनानन्वयापत्तिः । सत्यां च तस्यां वाक्य-भेदः । स्वीकृते च तस्मिन् पूर्व-वाक्यस्य न किञ्चित् फलं पश्यामः । द्रष्टव्यतौपयिकतया तस्योपदेशात् । न चोभयत्रापि जीवार्थकोऽस्तु, ब्रह्मैकान्त-धर्म-श्रुति-व्याकोपात् । यद्यप्य् अयं निर्गुणात्म-वादी चिति तन्-मात्रेण तद्-आत्मकत्वाद् इत्य् औडुलोमिः [वे.सू. ४.४.६] इति च वक्ष्यमाणात् । तथाप्य् अविद्या-विनिवृत्तये तादृग् आत्माभिव्यक्तये च श्री-हरिं भजत्या, ऋत्विजम् इत्य् औडुलोमिस् तस्मै हि परिक्रियते [वे.सू. ३.४.४५] इति वक्ष्यमाणात् भक्तिर् एव सर्वाभीष्ट-साधिकेति प्रसिद्धम् ॥२१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।२५।३५-३६।
स्याद् एतत् ।
स यथा सैन्धव-खिल्य उदके प्रास्त उदकम् एवानुविलीयेत न हास्योद्ग्रहणायैव स्याद् यतो यतस् त्वा ददीत लवणम् एवैवं वा अर इदं महद् भूतम् अनन्तम् अपारं विज्ञान-घन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति [बृ।आ।उ। २।४।१२]
इत्य् एतन् मध्यमं वाक्यं कथं प्रतिसमाधेयम् । तन्त्रोक्त-जीव-साधने निपुणतरत्वादि त्य् आशङ्क्याह—
अवस्थितेर् इति काश-कृत्स्नः
उदके सैन्धव-खिल्यस्यैव विज्ञान-घन-शब्दितस्य जीवेतरस्य महतो भूतस्य परमात्मओऽवस्थितेर् उपदेशात् तन्-मध्य-गतं वाक्यं परमात्म-परम् एव । तथा च परापरात्मनोर् भेद-प्रत्ययात् न महद्-भूतम् अनन्तं वस्त्व् एव विज्ञान-घनो जीव इति काशकृत्स्नो मन्यते ।
अयम् अत्र निष्कर्षः—येनाहं नामृता स्यां किम् अहं तेन कुर्यां [बृ.आ.उ. ४.५.४] इति मोक्षोपायं पृष्टो मुनि आत्मा वा अरे द्रष्टव्यः [बृ.आ.उ. ४.५.६] इत्य् आदिना परमात्मोपासनं तद्-उपायम् उक्त्वा, आत्मनि खल्व् अरे दृष्टे [बृ.आ.उ. ४.५.६] इत्य् आदिना उपास्य-लक्षणं, स यथा दुन्दुभेः [बृ.आ.उ. ४.५.८] इत्य् आदिना उपासनोपकरणं करण-नियमनं च सामान्याद् उपदिश्य, स यथाऽऽर्द्रैधाग्नेः [बृ.आ.उ. ४.५.११] इत्य् आदिना, स यथा सर्वासाम् अपा [बृ.आ.उ. ४.५.१२] इत्य् आदिना च स-विस्तरं तद् उभयं पुनर् उक्त्वा अत्र मोक्षोपाय-प्रवृत्ति-प्रोत्साहनाय, स यथा सैन्धव [बृ.आ.उ. २.४.१२] इत्य् आदिना सदैवोपास्य-सान्निध्यम् उपपाद्य, एतेभ्य एव भूतेभ्यः समुत्थाय [बृ.आ.उ. २.४.१३] इत्य् अनुपासकस्य देहोत्पत्ति-विनाशानुकारितया संसारतो देहात्म-भ्रान्तिं प्रदर्श्य, न प्रेत्य-संज्ञास्ति [बृ.आ.उ. २.४.१३] इत्य् उपासकस्य तु परमं देह-वियोगं प्राप्य विमुक्तस्य तदानीं स्वाभाविक-स्व-ज्ञानोदयाद् भूत-संघातेनैव्कीकृत्य आत्मनि देव-मनुष्यादि-धीर् नास्तीत्य् अभिधाय, यत्र हि द्वैतम् इव भवति [बृ.आ.उ. २.४.१४, ४.५.१५] इत्य् आदिना मुक्तस्यापि तस्य परमात्मानं आश्रयम् उपदिश्य, येनेदं सर्वं विजानाति तं केन विजानीयात् [बृ.आ.उ. २.४.१४, ४.५.१५] इति तस्य दुर्ज्ञेयताम् आपाद्य, विज्ञातारम् अरे केन विजानीयाद् इति प्रक्रमोक्तात् तत्-प्रसाद-रूपाद् उपासनाद् विना तं सर्वज्ञम् ईश्वरं केनोपायेन जानीयात्, न केनापीत्य् एतद् एवोपासनम् अमृतत्वोपायः परमात्माप्तिर् एवामृतत्वम् इत्य् उपसंहृतवान् । अतः परमात्मैवास्मिन् वाक्य-सन्दर्भे निरूप्यते, न तु तन्त्रोक्तः पुमान्, न च तद्-अधिष्ठिता प्रकृतिर् इति ॥२२॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३१
एवं निरीश्वरं प्रधान-वादं निरस्य सेश्वरं तम् इदानीं निरस्यन् विश्व-कारणता-वादि-वाक्यानि परस्मिन् ब्रह्मणि प्रवर्तयति । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, यतो वा इमानि भूतानि जायन्ते [तै.उ. ३.१], सद् एव सौम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छा.उ. ६.२.१], तद् ऐक्षत बहु स्यां प्रजायेय, स ऐक्षत लोकान् नु सृजा इत्य् आदीनि वचांसि श्रूयन्ते । किम् एषु निमित्तम् एव ब्रह्म मन्तव्यं किं वा निमित्तोपादान-रूपं तद् इति वीक्षायां पूर्व-पक्षो दृश्यते । तथा हि यद्यप्य् उपनिषदस् तस्माद् वा एतस्माद् इत्य् आदिभिर् वाक्यैर् जगत्-कारणतया परं ब्रह्माहुस् तथापि तासु निमित्त-मात्रता तस्य मन्तव्या । तद् ऐक्षत, स ऐक्षत इत्य् आदिषु वीक्षण-पूर्वक-सृष्टि-वर्णनात् तत्-पूर्वक-स्रष्टारः खलु कुलालादयो घटादि-निमित्तान्य् एव दृश्यन्ते जगद्-उपादानं तु प्रकृतिर् एव स्यात् उपादानोपादेययोस् तयोः साधर्म्य-दर्शनात् । न च निमित्तम् एवोपादानम् इति शक्यं वक्तुम् । लोके जडस्य मृद्-आदेर् घटाद्य्-उपादानत्वं चेतनस्य तु कुलालादेर् घटादि-निमित्तत्वम् इति तयोर् भेद-नियमात् । तथानेक-कारक-सिद्धं च कार्यं वीक्ष्यते । तद् एव लोक-सिद्धं भावम् उपेक्ष्य तस्यैकस्यैव तद् उभयत्वं वक्तुं न ताः क्षमन्ते । अनो निर्विकारेण ब्रह्मणा अधिष्ठिता विकारिणी प्रकृतिर् एव विकृतस्य विश्वस्य जगत उपादानं ब्रह्म तु निमित्तम् एव केवलम् । न चैतद् यौक्तिकम् ।
विकार-जननीम् अज्ञाम् अष्ट-रूपाम् अजां ध्रुवाम् ।
ध्यायतेऽध्यासिता तेन तन्यते प्रेरिता पुनः ॥
सूयते पुरुषार्थाच् च तेनैवाधिष्ठिता जगत् ।
गौर् अनाद्य्-अन्तवती सा जनित्री भूत-भाविनी ।
सितासिता च रक्ता च सर्व-काम-दुघा विभोः ।
पिबन्त्य् एनाम् अविषमाम् अविज्ञाताः कुमारकाः ।
एकस् तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् ।
ध्यान-क्रियाभ्यां भगवान् भुङ्क्तेऽसौ प्रसभं विभुः ।
सर्व-साधारणीं दोग्ध्रीं पीयमानां तु जज्वभिः ।
चतुर्विंशति-सङ्ख्याकम् अव्यक्तं व्यक्तम् उच्यते ॥ इति चुल्लिकोपनिषदि श्रवणात्।
स्मृतिश् चैवम् आह—
यथा सन्निधि-मात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥ [वि.पु. १.२.३०]
सन्निधानाद् यथाकाश-कालाद्याः कारणं तरोः ।
तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ [वि.पु. २.७.३७]
निमित्त-मात्रम् एवासौ सृष्टानां सर्ग-कर्मणि ।
प्रधान-कारणी-भूता यतो वै सृज्य-शक्तयः ॥ [वि.पु. १.४.५१] इत्य् आद्याः ।
एवं सिद्धौ क्वचिद् ब्रह्मोपादानताभासि वचांसि कथय्चिद् अन्यथैव नेयानीति । एवं प्राप्ते—
ब्रह्मोपक्रमसामर्थ्याद्वाक्यार्थस्य यथा ब्रह्मपरत्वं वर्णितं प्राक् तद्वत् मैत्रेयीब्राह्मणे जीवोपक्रमसामर्थ्यात् जीवपरत्वं स्यादिति दृष्टान्तसङ्गत्याह बृहदारण्यक इत्यादिना । न वा अरे पत्युवित्यादेरर्थः । अरे मैत्रेयि मित्रपुत्रि पत्युः कामाय अभिलाषाय तं पूरयितुं पतिः प्रियो भवतीति नैव स्वया बोध्यं अपि तु आत्मननो जीवस्यैव कामाय पतिः प्रियो भवतीत्येवमग्रिमेषु पर्यायेषु व्याख्येयम् । यद्भोगाय पत्यादिप्रपञ्चः प्रकृत्या सृष्टः स एवात्मा जीवः प्रकृतेः प्राकृताच्च देहादेर्विविच्य त्वया द्रष्टव्य इति पूर्वपक्षार्थः । सिद्धान्तार्थस्तु भाष्येणैव स्फुटीकृतोऽस्तीति । तत्रोपक्रम इति । पतिजायादिभोग्यवद् भोक्तृपक्रमान्मध्येऽप्येतेभ्य इति जीवधर्मप्रत्ययाच्च कापिल एवायमात्मा द्रष्टव्योऽभिधीयते । एतेभ्यो देहरूपेण परिणतेभ्यः प्राक् तेभ्यो भूतेभ्यः सम्यगुत्थाय देवादिभावमनुभूयेत्यर्थः । तान्येवंभूतानि विनष्टान्यनुलक्षीकृत्य विनश्यति म्रियते । प्रेतस्थितस्य तस्य देवमानवादिसंज्ञा नास्ति न भवतीत्यर्थः । विज्ञातारमित्युपसंहाराच्च कापिलः सोऽभिमत इत्याहोपसंहार इति । सत्त्वधर्मौ ज्ञानसुखे स्वस्मिन् अध्यस्य चिन्द्रूपोऽयं जीवः संज्ञातारं सुखिनञ्च मन्यत इति कापिलमतम् । ननु जीवविज्ञानेन सर्वविज्ञानं कथमुपपद्येत तथाहात्मेति । भोक्तृर्थत्वादिति । शय्यासनादिवदिति ज्ञेयम् । औपचारिकमिति गौणमित्यर्थः । न त्विति । वाक्येति । तमेव विदित्वेत्यादौ परमात्मज्ञानस्यैव मोक्षोपायतया श्रवणात् नास्य वाक्यस्य जीवपरत्वमिति न वाच्यमित्यर्थः । तत्र हेतुस्तस्यैवेति । तस्य कापिलस्य जीवात्मनस्तत्वममृतत्वं मोक्ष इत्यर्थः । अत्रैव कापिले जीवात्मनि । एवं प्राप्ते ब्रूते वाक्यान्वरादिति । उह्योऽत्र पक्षः । तत्रैव परमात्मनि श्रीहरौ त्रिमुनिसन्मत्यापीति । आश्मरथ्यौडुलोमिकाशकृत्स्नामतेनापीत्यपिशब्दात् स्वस्यैतदेव मतमित्युक्तम् । प्रतिज्ञेति । लिङ्गं सामर्थ्यं बोध्यम् । न चैतदिति । एतदेकविज्ञानेन सर्वविज्ञानं । न हि सा सा चेति । स विश्वाश्रयता सा सर्वज्ञता च परेशादन्यत्र जीवे न सम्भवतीत्यर्थः । तस्याल्पकत्वादिति भावः । तदन्यस्मिन् परेशभिन्ने पुंसि जीवे कर्मवश्ये इति हेतुगर्व्भं विशेषणमेतत् । न चेति । ब्रुवन् याज्ञ्यवल्क्यः । तज्ज्ञानेन जीवज्ञानेन न चात्रेति । प्रतिज्ञानुपरोधार्थमेकविज्ञानेन सर्वविज्ञानसिद्ध्यर्थम् । येनार्चित इति पाद्मे । सर्वकर्मकं प्रीणनं पूर्वार्धे सर्वकर्तृकन्तु परार्धे बोध्यम् । तथेति । तथाभावस्य तादृशप्रीणनस्य । तत्र भगवदाराधके अदर्शनादित्यर्थः । उत्क्रमिष्यत इति । एवंभावादित्यस्य व्याख्यानं सर्वप्रियत्वादिति । सर्वेषां प्रियः प्रीणनकर्ता यः स च सर्वे प्रिया प्रीणनकर्त्तारो यस्य स च सर्वप्रियस्तत्त्वादित्यर्थः । प्रीज्ञे तर्पणे इत्यस्मात् कर्त्तरि कप्रत्ययः । इगुपधज्ञाप्रीकिरः क इति सूत्रात् । तदयमत्रेति । सर्वं वस्तु मद्भक्तस्यानुकूलमस्तु । मद्भक्तस्तु मदधिष्ठानधिया सर्वस्मिन् वस्तुनि अनुकूलोऽस्तु इति भगवतो योऽभिलाषस्तमहं सफलं कर्त्तुम् । पत्यादिवस्तु भक्तस्य प्रियं भासते ततश्च पत्यादिवस्तुनि भगवदधिष्ठानत्वसम्बन्धं विज्ञाय तदीयत्वधिया सर्वं तदनुकूलयति प्राणेतादिना न तु तद्विषयीत्यर्थः । क्रियार्थेति । क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुक्तस्य तुमुनः कर्मणि चतुर्थी स्यादित्यर्थः । यथा पुष्पाय वाटीं प्रयातीत्यादि पुष्पमाहर्त्तुमित्याद्यर्थः । पुष्पहरणार्थं हि वाटीप्रयाणं एवं भगवदभिलाषसाफल्यकरणार्थं पत्यादिवस्तुप्रियताभवनमिति योज्यम् । तत्र सर्वकर्तृकप्रीणनपक्षं व्युत्पादयति भक्त्याराधित इति । सर्ववस्त्विति । हरिसङ्कल्पेन सर्वं तस्य प्रियकरं भवतीत्यर्थः । अकिञ्चनस्येति श्रीभागवते । सर्वा दिशस्तद्वर्तिनोऽर्थास्ताश्चेत्यर्थः । सर्वकर्मकप्रीणनपक्षं व्युत्पादयति यद्वेति । प्राणेति श्रीभागवते । यत्सम्पर्कात् यदधिष्ठानत्वलक्षणात् सम्बन्धात् । वक्तुस्तात्पर्यमाह तथाचेति । किञ्चेति । अयमुपक्रमवाक्यस्थः । इतरथेति । उपक्रमस्थात्मशब्दस्य जीवार्थकत्वस्वीकारे तेन सहात्मा वा अरे इति वाक्यस्यैकवाक्यतालक्षणसम्बन्धो न स्यात् तस्यैकविज्ञानेन सर्वविज्ञानवेदिनः परेशपरत्वादित्यर्थः । तस्यामनन्वयापत्तौ । तस्मिन् वाक्यभेदे । तस्य पूर्ववाक्यस्य । उभयत्रापि पूर्ववाक्ये परवाक्ये चेत्यर्थः । नन्वौडुलोमेरीदृग्भक्तिव्याहारः कथं तत्राह यद्यपीति । सूत्रद्वयार्थस्तु तद्भाष्ये द्रष्टव्यः पुनः शङ्कते स्यादेतदिति । स यथेत्यस्य पूर्वपक्षेऽयमर्थः । सैन्धवखण्डे उदकक्षिप्ते तत्र विलीयमानस्य तस्योद्ग्रहणं कर्तुमशक्यम् । यतो यत उदकप्रदेशात् स आदीयते तत्तत्प्रदेशो लवणमेव न तूदकलवणयोः पार्थक्येन प्राप्तिः । एवमिदं प्रत्यग्रूपं महत् पूज्यं अनवच्छिन्नं भूतं सत्यं अनन्तं नित्यमपारं विभुम् । ईदृशं वस्तु विज्ञानघनो जीव प्रकृत्यध्यासी सन् देहेन्द्रियभावेन परिणतेभ्यो भूतेभ्यः खादिभ्य एव समुत्थाय तैः स सृष्टः सन् देवमानवादिसंज्ञया व्यक्तीभूय तानन्येव भूतानि विनश्यति सति अनुपश्चात् विनश्यति तद्विनाशेन विनाशीभवति । सिद्धान्ते त्वयमर्थः । सैन्धवखण्डो । यथोदके क्षिप्तस्तद्व्याप्नोति न चास्योद्धृत्य ग्रहणं भवेत् । अरे मैत्रेयि एवमेव विज्ञानघने जीवे इदं महदभूतमनन्तमपारं ब्रह्म व्याप्यास्तीत्यनुषङ्गः । कृत्स्नं जीवस्वरूपं तद्व्याप्यं भवति न तु बहिस्तेनावृतमित्यर्थः । अन्तःप्रवेशाभिप्राय् आदेवाणोरणीयानितिश्रुतिराह । सर्वावच्छेदेन व्याप्तेस्तिलेषु तैलं दधिनीरसर्पिरिति श्रुतिः सङ्गच्छते । इत्थञ्चोपास्यस्य श्रीहरेः सदा सान्निध्यात् तस्योपासने प्रवृत्तेरुत्साहो योग्य इति भावः । स च विज्ञानघनस्तञ्चेन्नोपास्ते तर्हि एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति तदुत्पत्तिविनाशावात्मनि मन्यमानः संसरतीत्यर्थः । यद्यसौ तमुपास्ते तदा प्रेत्य तल्लोकं प्राप्य तत्र विराजतस्तस्य संज्ञा नास्ति । भूतसंसृष्टतया देवमनुष्यादिधीरात्मनि न भवतीत्यर्थः । स्वरूपनिष्ठा तद्भृत्यत्वधीस्तत्र स्फुरत्येवेति । विज्ञानघनशब्दस्य महद्विशेषणत्वे क्लीवत्वं स्यन्नच्चैवमस्ति । तथाचोक्तमेव सुष्ठु । अवस्थितेरितीति । अयमत्रेति । येन वित्तादिना । तत्रात्मनि खल्वित्यादौ । यस्मिन् विज्ञाते सर्वं विज्ञातं स्यात् स परमात्मेत्यर्थ्यादुपाश्यलक्षणमुक्तं भवति । स यथेति । स दृष्टान्तो यथेत्यर्थः । यथा वाद्यमानस्य दुन्दुभिशङ्खादेर्ध्वनौ निहितमनास्तां ध्वनिं गृह्णाति नान्येदेवं श्रीहरिनिहितमनाः श्रीहरिमेव गृह्णीयान्न ततोऽन्यदिति करणसंयमस्तदुपासनोपयोगीत्यर्थः । यथार्द्रैधोऽग्नेरित्यादिना पुनरुपास्यलक्षणम् । यथार्द्रैकाष्ठयुक्तादग्नेर्धूमविस्फुलिङ्गा व्युच्चरन्ति एवं यस्मात् वेदादयो निःश्वसितरूपा नित्यशाब्दा प्रादुर्भवन्ति स परमात्मेत्यर्थः । स यथा सर्वासामित्यादिना पुनः करणनियमनमुक्तम् । यथा सर्वासामपां समुद्रो मुख्याश्रयो यथा च सर्वेषां स्पर्शादीनां त्वगादयो ग्राहकास्तथा श्रीहरिरेव सर्वेन्द्रियव्यापाराश्रयस्तद्ग्राही च विधेय इति तदर्थः । अवशिष्टं स्फुटार्थम् । स्वज्ञानोदयादिति । निजस्वरूपनिजज्ञानाविर्भावादित्यर्थः । यत्र हि द्वैतमिवेत्यादौ परमात्मसङ्कल्पसिद्धदिव्यविग्रहयोगो मुक्तस्येति चतुर्थेऽध्याये स्फुटीभावि
अधिकरणम् ३७ (प्रकृत्य्-अधिकरणम्)
प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुरोधात्
ब्रह्मैव जगतः प्रकृतिर् उपादानम् । कुतः ? प्रतिज्ञेत्य् आदेः । श्रौतयोः प्रतिज्ञा-दृष्टान्तयोर् आनुगुण्याद् इत्य् अर्थः । श्वेतकेतो यन् नु सौम्येदं महामना अनूचान-मानी स्तब्धोऽस्युत तम् आदेशम् अप्राक्षीर् येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् [छा.उ. ६.१.३] इति विज्ञानेन सर्व-विज्ञान-विषया प्रतिज्ञा श्रूयते छान्दोग्ये । सा किलादेशस्य उपादानत्वे सति सम्भवेत् कार्यस्य तद्-अव्यतिरेकात् । निमित्तात् तस्याव्यतिरेकस् तु न कुलाल-घटयोर् व्यतिरेकात् । दृष्टान्तेऽपि, यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्यात् [छा.उ. ६.१.४] इत्य् आदेर् उपादान-विज्ञानात् कार्य-विज्ञान-विषयस् तत्रैव श्रुतः । स च निमित्त-मात्रताभ्युपगमे न सम्भवेत् । न हि कुलाले विज्ञाते घटो विज्ञायते । तद्-अनुरोधात् विश्वस्योपादानं च शब्दान् निमित्तं च ब्रह्मैवेति ॥२३॥
अभिध्योपदेशाच् च
च-शब्दोऽनुक्त-समुच्चयार्थः । सोऽकामयत बहु स्यां प्रजायेयेति, स तपोऽतप्यत तपस् तप्त्वा इदं सर्वम् असृजत् । यद् इदं किञ्चन तत् सृष्ट्वा तद् एवानुप्राविशत् । तद् अनुप्रविश्य सच् च त्यच् चाभवत् [तै.उ. २.५.१] इति तैत्तिरीयके परमात्मन एव चिज्-जडात्मना बहु-भवन-सङ्कल्पोपदेशात् तदात्मक-बहु-स्रष्टृत्वोपदेशाच् च स एवोभय-रूपः ॥२४॥
साक्षाच् चोभयाम्नातात्
अवधृतौ च शब्दः । किं स्विद् वनं क उ स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः, मनीषिणो मनसा पृच्छतैतत् यद् अध्यतिष्ठद् भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः मनीषिणो मनसा प्रब्रवीमि वो ब्रह्माद्यतिष्ठत् भुवनानि धारयन् इति तत्रैव साक्षाद् उभय-रूपत्व-कथनाद् एव तस्य तथात्वम् । इह हि यतो वृक्षाद् उपादान-भूताद् द्यावापृथिवी-शब्दोपलक्षितं जगद्-ईश्वरो निष्टतक्षुर् निर्मितवान् । वचन-व्यत्ययश् छान्दसः । स वृक्षः कस् तद्-आधार-भूतं वनं च किं, भुवनानि धारयन् स यद् अध्यतिष्ठत् तत् किम् इति लोकानुसारिणि प्रश्ने अलौकिक-वस्तुत्वात् स च तत् तच् च ब्रह्मैवेत्य् उक्त-मतस् तद् एवोभय-रूपम् इति ॥२५॥
आत्म-कृतेः परिणामात्
सोऽकामयत [तै.उ. २.५.१] इति सृष्टि-कामत्वेन प्रकृतः परमात्मैव तदात्मानं स्वयम् अकुरुतेति सृष्टेः कर्तृ-भूतः कर्म-भूतश् च श्रूयते, अतस् तस्यैव तद्-उभय-रूपत्वम् ।
ननु कथम् एकस्यैव पूर्व-सिद्धस्य कर्तृतया स्थितस्य क्रियमाणत्वं, तत्राह—परिणामाद् इति । कूटस्थत्वाद्य्-अविरोधि-परिणाम-विशेष-सम्भवाद् अविरुद्धं तस्य तत् । इदम् अत्र तत्त्वं—
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे.उ. ६.८] इति श्रुतेस् त्रिशक्ति ब्रह्म ।
विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा ।
अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि.पु. ६.७.६१] इति स्मृतेश् च ।
तस्य निमित्तत्वम् उपादानत्वं चाभिधीयते । तत्राद्यं पराख्य-शक्तिमद्-रूपेण, द्वितीयं तु तद्-अन्य-शक्ति-द्वय-द्वारैव । स-विशेषणे विधि-निषेधौ विशेषणम् उपसङ्क्रामत इति न्यायात् । य एकोऽवर्णो बहुधा शक्ति-योगात् [श्वे.उ. ४.१] इत्य् आदि श्रवणाच् च ।
एवं च निमित्तं कूटस्थम् उपादानं तु परिणामीति सूक्ष्म-प्रकृतिकं कर्तृ स्थूल-प्रकृतिकं कर्म इत्य् एकस्यैव तद्-उभयत्वं सिद्धम्, मृत्-पिण्डादि-दृष्टान्त-श्रवणात् । परिणामाद् इति सूत्राक्षराच् च भ्रान्त्य्-अध्यास-पर्यायोऽतात्त्विकान्यथा-भावात्मा विवर्तः परिहृतः । न च शुक्त्य्-आदि-वद् ब्रह्मण्य् अध्यासः सम्भवति, तद्वत् तस्य पुरो-निहितत्वाभावात् । न चाकाशवत् तत्र सः, तद्वत् तस्य गम्यत्वाभावात् । किं चान्यथा-भावोऽन्यथा-भानम् एव । तच् च नावृत्तिम् अन्तरेण सम्भवेत् । आवृत्तिस् तु ब्रह्मेतरत्वाद् विवर्तान्तः पतेद् इत्य् अनवस्थैव । एवम् अपि क्वचित् तद्-उक्तिर् विरागायैवेति तत्त्व-विदः । इतरथा तन्-मात्र-भूतादीनां न्यूनतातिरेको वा श्रूयते भ्रान्तेर् अनियत-रूपत्वात् । नियत-स्वभावानां वस्तूनां भाव-विनिमयश् च दृश्यते । तस्मात् तात्त्विकान्यथा-भावात्मा परिणाम एव शास्त्रीयः ॥२६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।३।३३
योनिश् च हि गीयते
यद् भूत-योनिं परिपश्यन्ति धीराः [मु.उ. १.२.६], कर्तारम् ईशं पुरुषं ब्रह्म-योनिं [मु.उ. ३.१.३] इत्य् आदि श्रुतौ योनिम् इति कर्तारं पुरुषम् इति च गीयते हि यस्माद् अतो ब्रह्मैवोभयम् । योनि-शब्दस् तूपादान-वाची । पृथिवी योनिर् ओषधि-वनस्पतीनाम् इत्य् आदि प्रयोगात् । यत् खलु निमित्तोपादानयोर् लोक-वेदाभ्यां भेद इति यच् च लोके कार्यस्यानेक-सिद्धत्व-नियमाद् एकस्माद् एव तस्मात् तद्-वक्तुं न ताः क्षमा इत्य् उक्तं तद् अनेनैव प्रत्युक्तम् ॥२७॥
अथ दर्शितः समन्वयो भज्येत न वेति विशङ्कां विहन्तुम् अधिकरणम् आरभते । श्वेताश्वतरोपनिषद्-आदौ श्रूयते—क्षरं प्रधानम् अमृताक्षरं हरः [श्वे.उ. १.१०],
एको हि रुद्रो न द्वितीयाय तस्थुर् [श्वे.उ. ३.२], यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रः शिवो महर्षिः [श्वे.उ. ३.४], यदा तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः [श्वे.उ. ४.१८] इति ।
प्रधानाद् इदम् उत्पन्नं प्रधानम् अधिगच्छति ।
प्रधाने लयम् अभ्येति न ह्य् अन्यत् कारणं मतम् ॥ इति ।
जीवाद् भवन्ति भूतानि जीवे तिष्ठन्त्य् अचञ्चलाः ।
जीवे च लयम् इच्छन्ति न जीवात् कारणं परम् ॥ इति चैवम् आदि ।
तत्र संशयः—किम् एते हरादि-शब्दाः शितिकण्ठादेर् वाचका उत पर-ब्रह्मण एवेति । प्रसिद्धेः शितिकण्ठादेर् एवेति प्राप्ते—
पूर्वत्रैकविज्ञानेन सर्वविज्ञानश्रवणात् वाक्यं यथा ब्रह्मपरमभूत् तथेह वीक्षापूर्वकसृष्टिश्रवणात् वाक्यं निमित्तमात्रतावबोधि भवत्विति दृष्टान्तसङ्गतिः । एवं निरीश्वरमित्यादिना सेश्वरमिति पातञ्जलं ज्ञेयम् । तदिति ब्रह्म बोध्यम् । तयोरिति प्रकृतिजगतोरित्यर्थः । भावमभिप्रायम् । भावः सत्ता स्वभावाभिप्रायचेष्टोत्मजन्मस्विति नानार्थवर्गः । तस्यैकस्येति ब्रह्मण एवेत्यर्थः । तदुभयत्वमिति निमित्तत्वमुपादानत्वञ्चेत्यर्थः । ता उपनिषदः । क्षमन्ते समर्था भवन्ति । केवलं शुद्धं विकारशून्यमिति हेतुगर्भविशेषणम् । न चैतदिति । यौक्तिकं युक्तिबलकल्पितम् । विकारेति । विकारजननीं शुद्धां । अज्ञां जडां । अष्टरूपामिति । भूमिरापोऽनलो वायुः खं मने बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधेति स्मृतेः । अजां जन्मरहितां अतो ध्रुवां नित्यां वीक्षते भगवानितिशेषः । तेनेश्वरेणाध्यासिताधिष्ठिता सती ध्यायते कार्याणि सिसृक्षति । तेन प्रेरिता सती तन्यते कार्याणुत्पादयति । किमर्थमित्याह सूयत इत्यादि । पुरुषार्थं जीवभोगापवर्गार्थं जगत् सूयत इत्यर्थः । गौः सन्ताननोत्पादनसाम्यात् ततुल्या । अनाद्यन्तवती नित्येत्यर्थः । उभयत्र क्रमेण हेतू जनित्री भूतभाविनीति । सितेत्यादिना सत्त्वतमोरजोमयीत्युक्ता । विभोरीशस्य सर्वकामदुघा विविधविचित्रसर्गसाधिका । अविज्ञता विवेकख्यातिहीनास्तत्कार्यदेहादिबन्धनास्तद्वशा जीवा एतां पिबन्त्यनुभवन्तीत्यर्थः । अविषमां सर्वेषु कुमारेषु साधारणीम् । एको मुख्यो देवः क्रीडापरः परमात्मा स्वच्छन्दः स्वतन्त्रो । वशानुगां स्वायत्तामेनां पिबते भुङ्क्तेक् तत्प्रवर्तनादिना तामनुभवतीत्यर्थः । तदेवाह ध्यानेति । ध्यानं स ऐक्षत लोकान् नु सृजा इति । कार्यं सृष्टिसङ्कल्पः क्रिया तस्याः परिणतिः । ताभ्यां प्रसभं बलदेव भुङ्क्ते । नन्वेवं प्रकृत्यनुभवे तल्लेपः स्यादिति चेत्तत्राह भगवानिति । तदाप्यविलुप्तषडैश्वर्य इत्यर्थः । यज्वभिर्यजमानैः कर्मिभिरित्यर्थः । यथा सन्निधीति श्रीवैष्णवे । गन्धो नासिकासन्निहितः सन् मनसः क्षोभहेतुर्भवति न तु किञ्चित् करोति । आकाशादयश्च तरुं नोत्पादयन्ति न च तं वर्द्धयन्ति किन्तु सन्निधिमात्रेण सन्निधानादेवावकाशादिदानद्वारा तस्य हेतवः कथ्यन्ते । तथा प्रकृतिसन्निधिमात्रेण जगद्धेतुरीश्वरो न तु तत्र व्यापारीति । स्फुटार्थमन्यत् । श्रुतौ प्रतीतो व्यापारोऽत्र निरस्तः । ननु ब्रह्मैवोपादानमिति वदतां वचसां का गतिरिति चेत् तत्राह कथञ्चिदिति । तत्सन्निधिं विना प्रकृतौ परिणामो न भवेदिति तस्यैव स उपचर्यतामिति भावः । एवं प्राप्ते । प्रकृतिश्चेति । श्वेतकेतो इति तत्पितुरुद्दालकस्य वाक्यम् । श्वेतकेतो हे सौम्य चन्द्रवत्प्रियदर्शन अनूचानमानी साङ्गवेदाध्ययनवानस्मीत्यभिमानवान् । अतएव महामनाः महानस्मीति मनो यस्यासौ तथा । अतएव स्तब्धो विनयशून्योऽसि । इदं यत् तत् किमित्यर्थः । येन प्रश्नेन मतेन विज्ञातेन अन्यत् सर्वं अश्रुतममतं अविज्ञातमपि श्रुतं मतं विज्ञातञ्च भवति तमादेशं परेशमप्राक्षीः पृष्टवान् अभूदित्यर्थः । आदेशः शास्ता उपदेश्यो वेत्यर्थः । तादृशस्य तस्य विज्ञानं तव प्रयेणभून्न वेति । कथमन्यथा तव महागर्बोदयः स्यात् । स्फुटार्थमन्यत् अभिध्येति । अभिध्या सङ्कल्पः । चशब्दाद्बहुस्रष्टृत्वोपदेशः । यद्यपि अकामयतेति वाक्यं पूर्वं ज्ञातपरं तथापि परवाकस्य तस्य तत्रत्यज्ञानाय तदाकरतामात्रं पुनरुक्तम् । सच्चेत्याकाशवायू त्यच्चेति तेजोऽपपृथिव्यः स च तत्तच्चेति । स च वृक्षः तत्तच्च वनमधिष्ठानञ्चेत्यर्थः ब्रह्मैवेत्यर्थः । उभयरूपं निमित्तोपादानात्मकमित्यर्थः आत्मकृतेरिति । लोके तु खलु कृतिमान् कर्त्ता कृतिविषयो मृत्सुवर्णादिरुपादानमिति व्यवस्था । आत्मानमिति द्वितीयया कृतिविषयत्वम् । स्वयमित्यनेन कृतिमत्त्वञ्च । तथाचोपादानं निमित्तञ्च ब्रह्मवेत्युक्तम् । कुतः आत्मकृतेरात्मसम्बन्धिन्याः कृतेरित्यर्थः । सम्बन्धश्चात्र विषयविषयिभावः । आत्माधाराधारिभावश्च । इदमत्रेति । पराप्रधानक्षेत्रज्ञरूपा शक्तित्रयी । विष्ण्विति श्रीवैष्णवे । अविद्या कर्मसंज्ञा च तृतीया शक्तिर्मायेत्यर्थः । तस्येति ब्रह्मणः । अभिधीयते शास्त्रेषु । सविशेषणे इति । विशिष्टे वस्तुनि ये विधिर्निषेधश्च स खलु विशेषणपर्यवसायीत्यर्थः । यथा गौरः पुमानित्यत्र गौरत्वं पुंसो विहितं तत् खलु विशेषणदेहपर्यवसायि प्रतीतम् । यथा भगवत्कैङ्कर्यप्रतिबन्धी स्तम्भो निन्द्य इत्यर्थः । तं कैङ्कर्यप्रतिबन्धित्वं स्तम्भस्य विशेषणं निषिध्यते माभूदिति तथैतद्बोध्यम् । एवञ्चेति । कूटस्थं निर्विकारम् । सूक्ष्मेति । सूक्ष्मानभिव्यक्तगुणा तमःशब्दिता सङ्कुचितज्ञाना जीवशब्दिता च प्रकृतिर्यत्र तत् परावद्ब्रह्मकर्तृनिमित्तं तादृक् तदुभयांशस्तूपादानं बोध्यं । स्थूलाभिव्यक्तगुणा प्रधानादिविकाशितगुणा जीवशब्दिता च प्रकृतिर्यस्य तद्ब्रह्मेति । कर्मेति क्रियमाणमित्यर्थः । ननु ब्रह्मणो । विवर्तोऽस्तु प्रपञ्च इति चेत् तत्राह मृत्पिण्डादीति । विवर्त्तवादेऽनुपपत्तिं दर्शयति न चेति । तद्वत् शुक्त्यादिवत् । तस्य ब्रह्मणः । ननु पुरोनिहितत्वमप्रयोजकं विभोरप्याकशस्येवाल्पाध्यासादिति चेत् तत्राह आकाशवदिति । गम्यत्वं गोचरत्वमध्यासे प्रयोजकं ब्रह्मणि तत्त्वाभावान्नाध्यास इत्यर्थः । किञ्चेति । तच्चान्यथाभानम् । एवमिति । आत्मानमेवात्मतया विजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयोऽपि च तत् प्रलीयते रज्वामहेर्भोगभवाभवौ यथेत्यादौ विवर्तवादोक्तिः प्रपञ्चे वैराग्यायेत्यर्थः । इतरथेति । तन्मात्राणि शब्दादीनि भूतानि खादीनि ये चैव प्रतिसर्गं श्रूयन्ते नाधिकानि न चोनानि । तेज उष्णं जलं शीतं पृथिवी त्वनुष्णाशीतेत्येवं वस्तुस्वभावाश्च नियता अनुभूयन्ते सर्वैः । तदेतत् सर्वं विपर्यस्तं । तस्मात् यदि रज्जुभुजङ्गादिवद् भ्रमविजृम्भितः प्रपञ्च स्यात् तस्यानादित्वात् वस्तुभूतत्वदेव चेयमेकरूपता सिद्ध्येत् । सादित्वे सृष्टेरकस्मात् स्वीकारे मुक्तानामपि पुनर्जन्मप्रसङ्गात् पूर्वसृष्टिसादृश्यानुपपत्तिश्च । अवस्तुभूतत्वे स्वाप्निकराज्यादिवत् क्षणे क्षणे बैलक्षण्यञ्च स्यात् । शास्त्रीय इति । तदात्मानं स्वयमकुरुतेति पाच्यांश्च सर्वान् परिणामयेद् य इति श्रुतेः । कालाद्गुणव्यतिकरः परिणामस्वभावत इत्यादि स्मृतेः । परिणामादिति सूत्रखण्डाच्च योनिरिति । यत् खल्विति । तत् जगत् कार्यम् । ता उपनिषदः । अनेनैव आत्मकृतेरिति सूत्रव्याख्यानेनैव
अधिकरणम् ३८ (सर्व-व्याख्याता-अधिकरणम्)
एतेन सर्वे व्याख्याता व्याख्याताः
एतेनोक्त-प्रकारक-समन्वय-चिन्तनेन सर्वे हरादयः शब्दा व्याख्याता ब्रह्म-परतया नीताः, तस्य सर्वनामत्वात् ।
नामानि विश्वानि न सन्ति लोके
यदाविरासीत् पुरुसस्य सर्वम् ।
नामानि सर्वानि यम् आविशन्ति
तं वै विष्णुं परमम् उदाहरन्ति ॥ इति भाल्लवेय-श्रुतिः ।
वैशम्पायनोऽप्य् एतान् श्री-कृष्णाह्वयान् सस्मार—श्री-नारायणादीनि नामानि विनान्यानि रुद्रादिभ्यो हरिर् दत्तवान् इत्य् अन्यत्र स्मर्यते । किन्त्व् अयम् अत्र नियमः । यत्रान्य-वाचकत्वेऽप्य् आविरोधस् तत्रान्यद् अमुख्यतयोच्यते । यत्र तु विरोधस् तत्र श्री-विष्णुर् एवेति । पदाभ्यासोऽध्याय-समाप्ति-द्योतनाय ॥२८॥
सर्वे वेदाः पर्यवस्यन्ति यस्मिन्
सत्यानन्ताचिन्त्य-शक्तौ परेशे ।
विश्वोत्पत्ति-स्थेम-भङ्गादि-लीले
नित्यं तस्मिन्न् अस्तु कृष्णे मतिर् नः ॥
॥ इति श्री-ब्रह्म-सूत्र-भाष्ये प्रथमाध्ययस्य चतुर्थ-पादः ॥
॥ समाप्तोऽयं प्रथमोऽध्यायः ॥
विश्वकारणे सर्वेश्वरे श्रीहरौ वेदानां समन्वयो दर्शितः स न युज्यते श्रीशिवादेरपि विश्वकारणत्वेन श्रवणादित्याक्षिप्य समाधेराक्षेपोऽत्र सङ्गतिः । अथेत्यादि । क्षरमित्यादौ हरादिशब्दानां सिद्धान्तार्थोऽयं हरति तत्त्वानि लयाभिमुख्यं नयति इति हरः परमात्मा स त्वमृताक्षर इत्यर्थः । रुजं संसृतिपीडं द्रावयति अपनयतीति रुद्रः स एव । एकः सर्वाध्यक्षः । तस्मात् द्वितीयाय न तस्थुः ततोऽन्यं ननापतस्थुराशिश्रीयुरित्यर्थः । शिवो मङ्गलरूपः श्रीहरिः मङ्गलं मङ्गलानामिति सहस्रनामस्तोत्रात् । प्रधानादिति । प्रधानात् सर्वतत्त्वमुख्यात् परमात्मनः । जीवादिति जीवयति सर्वानिति व्युत्पत्तेर्जीवः परेशः को ह्येवान्यादिति श्रुतेश्चेति । पूर्वपक्षे तु हरादिनमानः शितिकण्ठदयो बोध्याः । तत्रेति । तत्र क्षरमित्यादिश्रुतिषु । शितिकण्ठादेरुमापत्यादेः । एतेनेति । तस्येति । तस्य परब्रह्मणः । श्रीविष्णोरेव हरादिनामनामित्वादित्यर्थः । यदुक्तं ब्रह्माण्डे । रुजं द्रावयते यस्मात् रुद्रस्तस्माज्जनार्दनः । ईशनादेव चेशानो महादेवो महत्त्वतः । पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् । तदधारो यतो विष्णुः पिणाकीति ततः स्मृतः । शिवः सुखात्मकत्वेन सर्वसंबोधनद्धरः । कृत्त्यात्मकमिदं विश्वं यतो वस्ते प्रवर्त्तयन् । कृत्तिवासास्ततो देवो विरिञ्चिश्च विरेचनात् । बृंहणाद् ब्रह्मनामासावैश्वर्यादिन्द्र उच्यते । एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः । वेदेषु च पुराणेषु गीयते पुरुषोत्तमः । इति मनुष्यादिशब्दानामपि श्रीहरौ वृत्तिः श्रूयते । किमुत तत्र योगभाजां हरादिशब्दानामित्यभिप्रायेणोदाहरति यद् यतः पुरुषादेव सर्वमाविरभूत् । नामानीति । कार्यनामान्यपि कारणनामान्येवभेदादितिभावः । वैशम्पायनोऽपीति । एतान् हरादिशब्दान् । अन्यत्रेति । यथा स्कान्दे । ऋते नारायणादीनि नामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजवत् त्र्यम्बकं पुरमिति । ब्राह्मे च । चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति । उग्रो भस्मधरो नग्नः कापालीति शिवस्य च । विशेषनामानि ददौ स्वकीयान्यपि केशव इति । यत्रेति शास्त्रे । इत्थं पञ्चत्रिंशदधिकैकशतसूत्रकेण सप्तत्रिंशदधिकरणकेन प्रथमाध्यायेन ब्रह्मणि वेदानां समन्वयं निरूप्याथ तद्भक्त्याशया मङ्गलमाचरति सर्व इति । स्थेमा पालनम् । भङ्गः संहारः ॥२८
द्वापरे वेदेषु समुत्सन्नेषु सङ्कीर्ण-प्रज्ञैर् ब्रह्मादिभिर् अभ्यर्थितो भगवान् पुरुषोत्तमः कृष्ण-द्वैपायनः सन् तान् उद्धृत्य विबभाज । तद् अर्थ-निर्णेत्रीं चतु-लक्षणीं ब्रह्म-मीमांसाविश्चकार इत्य् अस्ति कथा स्कान्दी । वेदेषु खलु कर्मणे निखिल-पुमर्थ-हेतुत्वं विष्णोस् तु कर्माङ्गत्वम्, स्वर्गादेः कर्म-फलस्य नित्यत्वं, जीवस्य प्रकृतेश् च स्वतः कर्तृत्वम् । परिच्छिन्नस्य प्रतिबिम्बस्य भ्रान्तस्य वा ब्रह्मण एव जीवत्वम् । चिन्-मात्र-ब्रह्मात्मकत्व-धी-मात्राद् एवास्य जीवस्य संसृति-विनिवृत्तिर् इत्य् आपाततो दुर्मतिभिः प्रतीयन्ते । तान् इमान् पूर्व-पक्षान् विधाय परस्य विष्णोर् इह स्वान्तन्त्र्य-सर्व-कर्तृत्व-सार्वज्ञ्य-पुमर्थत्वादि-धर्मक-विज्ञान-स्वरूपत्वं निरूप्यते ।
तथा हि, ईश्वर-जीव-प्रकृति-काल-कर्माणि पञ्च-तत्त्वानि श्रूयन्ते । तेषु विभु-चैतन्यम् ईश्वरः । अणु-चैतन्यं तु जीवः । नित्य-ज्ञानादि-गुणकत्वम् अस्मद्-अर्थत्वं चोभयत्र । ज्ञानस्य ज्ञातृत्वं प्रकाशस्य स्व-प्रकाशकत्ववद् अविरुद्धम् । तत्रेश्वरः स्वतन्त्रः स्वरूप-शक्तिमान् प्रवेश-नियमनाभ्यां जगद् विदधत् क्षेत्रज्ञ-भोगापवर्गो वितनोति । एकोऽपि बहु-भावेनाभिन्नोऽपि गुण-गुणि-भावेन च विद्वत्-प्रतीतेर् विषयोऽव्यक्तोऽपि भक्ति-व्यङ्ग एक-रसः प्रयच्छति चित्-सुखं स्वरूपम् ।
जीवात्मानस् त्व् अनेकावस्था बहवः । परेश-वैमुख्यात् तेषां बन्धस् तत्-सान्मुख्यात् तु तत्-स्वरूप-तद्-गुण-वरण-रूप-द्विविध-बन्ध-विनिवृत्तिस् तत्-स्वरूपादि-साक्षात्-कृतिः ।
प्रकृतिः सत्त्वादि-गुण-साम्यावस्था तमो-मायादि-शब्द-वाच्या तद्-ईक्षणावाप्त-सामर्थ्या विचित्र-जगज्-जननी । कालस् तु भूत-भविष्यद्-वर्तमान-युगपच्-चिर-क्षिप्रादि-व्यवहार-हेतुः क्षणादि-परार्धान्तश्-चक्रवत् परिवर्तमानः प्रलय-सर्ग-निमित्त-भूतो जड-द्रव्य-विशेषः । ईश्वरादयश् चत्वारोऽर्था नित्याः—नित्यो नित्यानां चेतनश् चेतनानाम् इति, गौर् अनाद्य्-अनन्तवती इति, सद् एव सय्म्येदम् अग्र आसीत् इति श्रुतेः । जीवादयस् तु तद्-वश्याश् च —
कर्म च जडम् अदृष्टादि-शब्द-व्यपदेश्यम् अनादि विनाशि च भवति । चतुर्णाम् एषां ब्रह्म-शक्तित्वाद् एकं शक्तिमद्-ब्रह्मेत्य् अद्वैत-वाक्येऽपि सङ्गतिर् इतीमेऽर्थाश् चतुर्लक्षण्याम् अस्यां यथास्थलं प्रकाश्यन्ते । लक्षणान्य् अध्यायाः । तद्-अर्थात्मके श्री-भागवते विव्रियते ।
अस्य सूत्रार्थ्यत्वं च स्मर्यते—अर्थोऽयं ब्रह्म-सूत्राणाम् इति ।
तत्र प्रथमे लक्षणे सर्वेषां वेदानां ब्रह्मणि समन्वयः । द्वितीये सर्व-शास्त्राविरोधः । तृतीये ब्रह्माप्ति-साधनानि । चतुर्थे तु तद्-आप्तिः फलम् इति । यत्र निष्काम-धर्म-निर्मल-चित्तः सत्-प्रसङ्ग-लुब्धः श्रद्धालुः शान्त्य्-आदिमान् अधिकारी । सम्बन्धो वाच्य-वाचक-भावः । विषयो निरवद्यो विशुद्धानन्त-गुण-गणोऽचिन्त्यानन्त-शक्तिः सच्-चिद्-आनन्दः पुरुषोत्तमः । प्रयोजनं त्व् अशेष-दोष-विनाश-पुरःसरस् तत्-साक्षात्कार इत्य् उपरि स्पष्टं भावि ।
यस्यां खलु विषय-संशय-पूर्वपक्ष-सिद्धान्त-सङ्गति-भेदात् पञ्च न्यायाङ्गानि भवन्ति । न्यायोऽधिकरणात् । विषयो विचार-योग-वाक्यम् । सङ्गतिर् इह शास्त्रादि-विषयतया बहु-विधाऽपि न वितायते । विषयावगतौ स्वयम् एव विद्योतनात् ।
इत्य् एवं स्थिते ब्रह्म-जिज्ञासाधिकरणं त्âवत् प्रवर्तते । यो वै भूमा तत् सुखं नान्यत् सुखम् अस्ति । भूमैव सुखं भूमा त्व् एव विजिज्ञासितव्यः [छा.उ. ७.२५.१] इति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि [बृ.आ.उ. २.४.५] इति च श्रूयते । निदिध्यासितव्यो जिज्ञासितव्यः । इति भवति संशयः । अधीत-वेदस्य पुंसो धर्मज्ञस्य ब्रह्म-जिज्ञासा युक्ता न युक्ता वेति ? अपामसोमम् अमृता अभूम, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवतीत्य्-आदिषु धर्मैर् अमृतत्वाक्सय्य-सुखत्व-श्रवणान् न युक्तेति पूर्वस्मिन् पक्षे प्राप्ते भगवान् बादरायणो व्यासः प्रारिप्सितस्य शास्त्रस्यादिमं सूत्रम् इदम् अवतारयति—
अथातो ब्रह्म-जिज्ञासा
अथातः शब्दाव् अत्रानन्तर्य-हेतु-भावयोर् भवतः । अथानन्तरम् अतो ब्रह्म-जिज्ञासा युक्तेत्य् अक्षर-योजना । विधिनाधीत-वेदस्यापाततोऽधिगत-तद्-अर्थस्याश्रम-सत्यादिभिश् च विमृष्ट-सत्त्वस्य लब्ध-तत्त्व-वित्-प्रसङ्गस्याथ तत्-प्रसङ्गानन्तरम् अतः काम्य-कर्माणि परिमितानित्य-फलानि । ब्रह्म-स्वरूपं तु ज्ञान-लभ्यम् अक्षयानन्त-चित्-सुखं नित्य-ज्ञानादि-गुणकं नित्य-सुख-हेतुर् इति प्रत्ययात् काम्य-कर्म-प्रहाण-पुरः सरा चतुर्-लक्सण्या जिज्ञासा युक्तेत्य् अर्थः ।
नन्व् अधीताद् वेदाद् एव तत्-तद्-अवगतिः स्याद् अध्ययनस्यार्थावबोधन-पर्यन्तत्वात् । ततस् तत्-प्रहाणे तद्-उपासने च धीः प्रवर्तते । किम् अनया चतुर्-लक्षण्येन चेद्, उच्यते । आपाततः प्रतीताद् अर्थाद् वास्तवाद् अपि संशय-विपर्ययाभ्यां धीर् विभ्रंशते । सोपपत्तिकर्या तया नु अधीतया तावतिवर्त्य परमार्थे तस्मिन्न् असौ स्थिरीभवतीत्य् आवश्यकं तद्-अध्ययनात् ।
अयम् अर्थः । आश्रम-कर्माणि चित्त-शोधकतया ज्ञानाङ्गानि भवन्ति । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानशेन [बृ.आ.उ. ४.४.] इति बृहद्-आरण्य-श्रुतेः । सत्य-तपो-जपादीनि च—सत्येन लभ्यस् तपसा ह्य् एष आत्मा सम्यक् ज्ञानेन ब्रह्मचर्येण नित्यम् [मु.उ. ३.१.५] इति मुण्डक-श्रुतेः ।
तत्त्व-वित् प्रसङ्गः खलु ज्ञान-हेतुः नारदादीनां सनत्-कुमारादि-प्रसङ्गेन ब्रह्म-जिज्ञासा-दर्शनात् ।
काम्य-कर्माण्य् अनित्य-फलानि तद् यथेह कर्म-चित्तो लोकः क्षीयते एवम् एवामुत्र पुण्य-चित्तो लोकः क्षीयते इति छान्दोग्य-श्रुतेः । ब्रह्मैव तु ज्ञानैक-गम्यम् ।
अक्षयानन्त-सुखं च सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्मेति व्यजानाद् इति तैत्तिरीयकात् [तै.उ. २.१.१] । नित्य-ज्ञानादि-गुणकं च परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे.उ. ६.८], सर्वस्य शरणं सुहृत् [श्वे.उ. ३.७], भाव-ग्राह्यम् अनीडाख्यम् [श्वे.उ. ५.१४] इत्य् आदि श्वेताश्वतर-वचनात् । नित्य-सुखदत्वं च, तं पीठस्थं ये तु यजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषां इति गोपालोपनिषद्-उक्तेः ।
काम्य-कर्मणां हेयता तु तृतीये वक्ष्यते । तथा च साङ्गं स-शिरस्कं च वेदम् अधीत्य तद्-अर्थान् आपाततोऽधिगम्य तत्त्ववित्-प्रसङ्गेन नित्यानित्य-विवेकतोऽनित्य-वितृष्टे नित्य-विशेषावगतये चतुर्लक्षण्यां प्रवर्तत इति । न चात्र कर्म-सम्पत्त्य्-आनन्तर्यं शक्यं वक्तुम्, तद्वताम् अपि सत्सङ्ग-विरहिणां ब्रह्म-जिज्ञासाया अदर्शनात् । तच्-छून्यानाम् अपि सत्याद्-पूतानां सत्-प्रसङ्गिनां दर्शनाच् च । न च नित्यानित्य-विवेकादि साधन-चतुष्टय-सम्पत्त्य्-आनन्तर्यं शक्यं वक्तुम् । प्राक् तस्या दौर्लभ्यात् सत्-प्रसङ्ग-शिक्षा-पर-भाव्यत्वाच् च । तद्-अवाप्त-ज्ञानाः खलु देशिक-भावानुसारिणः स-निष्ठादि-भेदात् त्रिधा भवन्ति । निष्ठया कर्माण्य् आचरन्तः स-निष्ठाः । लोक-संजिघृक्षया तान्य् आचरन्तः परिनिष्ठिताः । ध्यानम् एवानुतिष्ठन्तो निरपेक्षाश् च । सर्वे ह्य् एते ब्रह्म-विद्ययैव स्वभावानुसारि परं ब्रह्म गच्छन्तीत्य् उपर्य् उपरि विशदीभविष्यति ।
ननु —
इति स्मृतेर् मङ्गलम् एवाथ-शब्दार्थः । शास्त्रारम्भे हि शिष्टो विघ्न-नाशाय तद् आचरन्तीति चेन् नैवम् । ईश्वरस्य विघ्नाशङ्का-विरहात् । तस्येश्वरस्य तु—कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ॥ इति स्मृतेः । तथापि मङ्गलात्मकत्वात् तस्मात् कम्बु-स्वनादिवत् तत् सम्भवेद् इति तेनैव लोकोऽपि सङ्गृहीतः । तस्मात् तादृशस्य पुंसस् तद्-अनन्तरं तज्-जिज्ञासा युक्तेति । अबिन्दु-मस्तको योऽङ्कः सूत्रतो वृत्तितोऽपि सः । द्वि-बिन्दु-मस्तकस् त्व् एव बोध्योऽधिकरणाश्रितः ॥ १ ॥