०२ द्वितीयोऽध्यायः
02 Dvitīyo'dhyāyaḥ
श्रीश्रीगोविन्दभाष्यम् (Śrī-śrī-govinda-bhāṣyam)
अधिकरणम् १ (पादः १, स्मृत्य्-अधिकरणम्)
दुर्युक्तिक-द्रोणज-बाण-विक्षतं
परीक्षितं यः स्फुटम् उत्तराश्रयम् ।
सुदर्शनेन श्रुति-मौलिम् अव्यथं व्यधात्
स कृष्णः प्रभुर् अस्तु मे गतिः ॥
प्रथमेऽध्याये निरस्त-निखिल-दोषोऽचिन्त्यानत्-शक्तिर् अपरिमित-गुण-गणः सर्वात्मापि सर्व-विलक्षणो जगन्-निमित्तोपादान-भूतः सर्वेश्वरो वेदान्त-वेद्यः समवय-निरूपणेनोक्तः । द्वितीये तु स्व-पक्षे स्मृति-तर्क-विरोध-परिहारः प्रधानादि-वादानां युक्त्य्-आभासमयत्वं सृष्ट्य्-आदि-प्रक्रियायाः प्रति वेदान्तम् ऐकविध्यं चेत्य् अयम् अर्थ-निचयो निरूप्यते । तत्रादौ श्रुति-विरोधो निरस्यते ।
तत्र संशयः—सर्व-कारण-भूते ब्रह्मणि दर्शितः समन्वयः साङ्ख्य-स्मृत्या बाध्यते न वा ? इति । तत्र सति साङ्क्य-स्मृति-निर्विषयतापत्तेर् बाधः स्यात् । स्मृतिः खलु कर्म-काण्डोदितान्य् अग्निहोत्रादि-कर्माणि यथावत् स्वीकुर्वता ऋषिं प्रसूतं कपिलं [श्वे.उ. ५.२] इत्य् आदि-श्रुताप्त-भावेन परमर्षिणा कपिलेन मोक्षेप्सुना ज्ञान-काण्डार्थोप-बृंहणाय प्रणीता । अथ त्रिविध-दुःखात्यन्त-निवृत्तिर् अत्यन्त-पुरुषार्थः । न दृष्टार्थ-सिद्धिर् निवृत्तेर् अप्य् अनुवृत्ति-दर्शनात् [साङ्ख्य-कारिका १.१-२] इत्य् आदिभिस् तत्र ह्य् अचेतनं प्रधानम् एव स्वतन्त्रं जगत्-कारणम् इत्य् आदि निरूप्यते । विमुक्त-मोक्षार्थं स्वार्थं वा प्रधानस्य [साङ्ख्य-कारिका २.१], अचेतनत्वेऽपि क्षीरवच् चेष्टितं प्रधानस्य [साङ्ख्य-कारिका ३.६०] इत्य् आदिभिः । सा च ब्रह्म-कारणता-परिग्रहे निर्विषया स्यात् । कृत्स्नायास् तस्यास् तत्त्व-प्रतिपत्ति-मात्र-विषयत्वात् । अतः परम् आप्त-कपिल-स्मृत्य्-अविरोधेन वेदान्ता व्याख्येयाः । न चैवं मन्व्-आदि-स्मृतीनां निर्विषयता । तासां धर्म-प्रतिपादन-द्वारा कर्म-काण्डोपबृंहणे सविषयत्वाद् तिय् एवं प्राप्ते ब्रूते—
स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन्
नान्य-स्मृत्य्-अवकाश-दोष-प्रसङ्गात्
अवकाशस्याभावोऽनवकाशः निर्विषयतेत्य् अर्थः । समन्वयानुरोधेन वेदान्तेषु साङ्ख्य-स्मृति-निर्विषयता-दोषापत्तिर् अतः श्रुति-विपरीतार्थतया ते व्याख्येया इति चेन्, न । कुतः ? अन्येत्यादेः । तथा सत्य् अन्यासां मन्व्-आदि-स्मृतीनां वेदान्तानुसारिणीनां ब्रह्मैक-कारणता-पराणां निर्विषयता महान् दोषः प्रसज्जते । तासु हि सर्वेश्वरो जगद्-उत्पत्त्य्-आदि-हेतुः प्रतिपाद्यते, न तु कापिलोक्त-प्रकारान्तरत्व-सङ्गतिः । तत्र श्रीमन्-मनुः—
आसीद् इदम् तमो-भूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥
ततः स्वयंभूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम् ।
महा-भूतादि वृत्तौजाः प्रादुर् आसीत् तमो-नुदः ॥
योऽसाव् अतीन्द्रिय-ग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्व-भूत-मयोऽचिन्त्यः स एव स्वयम् उद्बभौ ॥
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥
तद् अण्डम् अभवद् धैमं सहस्रांशु-सम-प्रभम् ।
तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्व-लोक-पितामहः ॥ [मनु. १.५-९] इत्य्-आदि ।
श्री-पराशरः—
विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् ।
स्थिति-संयम-कर्तासौ जगतोऽस्य जगच् च सः ॥ [वि.पु. १.१.३१]
यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस् तां ग्रसत्य् एवं जनार्दनः ॥ [भा.पु. ११.९.२१]
एवम् अन्येऽपि । न चासां स्मृतीनां कर्म-काण्डोर्थोपबृंहण एव वृत्तेः । चित्त-शोधकता चैषां दृश्यते । तम् एतं वेदानुवचनेन इत्य्-आदि-श्रुतौ । यत् तु तेषां वृष्टि-पुत्र-स्वर्गादि-फलकत्वं क्वापि क्वापि वीक्ष्यतेऽनुभाव्यते च तद् अपि शास्त्र-विश्रम्भोत्पादनेन तत्रैव च विश्रान्तम् । सर्वे वेदा यत् पदम् आमनन्ति इत्य् आदेः, नारायण-परा वेदाः इत्य् आदेश् च ।
न च साङ्ख्य-स्मृत्या वेदान्तार्थोपबृंहणं शक्यं कर्तुं, श्रुति-विरुद्धार्थ-प्रतिपादनात् । श्रुति-संवादार्थ-स्पष्टीकरणं ह्य् उपबृंहणम् । न च तस्याम् इदम् अस्ति । तस्मात् श्रुति-विरुद्धा साङ्ख्य-स्मृतिः स्व-कपोल-कल्पितानाप्तेति न तद्-व्यर्थता-दोषाद् बिभीमः । न चाप्त-व्यपाश्रय-कल्पनया तत् स्मृति-पक्ष-पातो युक्तः । तत्त्वेन व्याख्यातानां बहूनां स्मृतिषु विभिनार्थासु पक्ष-पाते सति वास्तवार्थानवस्थिति-प्रसाङ्गात् । स्मृत्योर् विप्रतिपत्तौ सत्यां श्रुति-व्यपाश्रयाद् अन्यो निर्णय-हेतुर् न भवेत् । अतः श्रुत्य्-अनुसारिण्य् एवादरणीया इति । स्मृति-बलेनाक्षेप्तॄन् स्मृति-बलेनैव निराकरिष्याम इत्य् अन्य-स्मृत्य्-अनवकाशता-दोषोपन्यासः ।
यत् तु ऋषिं प्रसूतं कपिलं यस् तम् अग्रे ज्ञानैर् बिभर्ति [श्वे.उ. ५.२] इति श्वेताश्वतर-श्रुतेर् आप्तत्वं तस्येति, तन् न । तस्या अन्य-परत्वात् श्रुत्य्-अर्थ-वैपरीत्य-वक्तृतया तद्-अभावाच् च । मनोर् आप्तत्वं तु तैत्तरीयाः पठन्ति— यद् वै किं च मनुर् अवदत् तद्-भेषजम् इति । श्री-पराशरो हि पुलस्त्य-वसिष्ठ-प्रसादाद् एव देवता-परमार्थ-धियं प्राप्तेति स्मर्यते । वेद-विरुद्धः स्मृति-प्रवर्तकः कपिलो ह्य् अग्नि-वंश-जो जीव-विशेष एव मायया विमोहितो, न तु कर्दमोद्भूतो वासुदेवः ।
कपिलो वासुदेवांशस् तत्त्वं साङ्ख्यं जगाद ह ।
ब्रह्मादिभ्यश् च देवेभ्यो भृग्व्-आदिभ्यस् तथैव च ।
तथैवासुरये सर्व-वेदार्थैर् उपबृंहितम् ॥
सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह ।
साङ्ख्यम् आसुरयेऽन्यस्मै कुतर्क-परिबृंहितम् ॥ इति स्मरणात् ।
तस्मात् वेद-विरुद्धतयानाप्तायाः साङ्ख्य-स्मृतेर् व्यर्थता न दोषः ॥१॥
रामपद चट्टोपाध्याय: ३।२६।३-६, १०। ३।२८।४१, १०।८७।२५।
इतरेषां चानुपलब्धेः
इतरेषां च साङ्ख्य-स्मृत्य्-उक्तानाम् अर्थानां वेदेऽनुपलम्भात् तस्याः नाप्तत्वम् । ते च विभवश् चिन्मात्राः पुरुषास् तेषां बन्ध-मोक्षौ प्रकृतिर् एव करोति । तौ पुनः प्राकृताव् एव । सर्वेश्वरः पुरुष-विशेषो नास्ति । कालस् तत्त्वं न भवति । प्राणादयः पञ्च करण-वृत्ति-रूपा भवन्तीत्य् एवम् आदयस् तस्याम् एव द्रष्टव्याः ॥२॥
रामपद चट्टोपाध्याय : ३।२।१४, ११।११।३, ३।२८।४४।
अधिकरणम् २ (योग-प्रत्युक्त्याधिकरणम्)
ननु साङ्ख्य-स्मृत्या वेदान्ता व्याख्यातुं न युक्ताः । तस्या वेदान्त-विरुद्धत्वात् । योग-स्मृत्या तु व्याख्येयास् ते । वेदान्तार्थान् आश्रित्य तस्या वर्णितत्वात् । योगः खलु श्रौतः । ताः योगम् इति मन्यन्ते स्थिराम् इन्द्रिय-धारणाम् । विद्याम् एतां योग-विधिं च कृत्स्नम् इत्य् आदिषु कठादि-श्रुतिषु योग-विषयक-बहु-लिङ्ग-लाभात् । त्र्रुन्नतं स्थाप्य समं शरीरम् इत्य् आदिष्व् आसनादि-योगाङ्गाभिधानाच् च । तेन योगेन जगद् दुःखं परिजिहीर्षुर् आप्ततमो भगवान् पतञ्जलिः स्मृतिं निबबन्ध । अथ योगानुशासनम् । योगश् चित्त-वृत्ति-निरोधः इत्य् आदिभिः । समन्वयाविरोधेन वेदान्तेषु व्याख्यातेष्व् एषा स्मृतिर् अनवकाशा स्याद् योग-प्रतिपत्ति-मात्र-विषयत्वात् । मन्व्-आदि-स्मृतीनां तु धर्मावेदनया सावकाशता भवेत् । तस्मात् योग-स्मृत्यैव न तूक्त-समन्वयानुगत्या ते व्याख्येया इत्य् एवं प्राप्ते—
एतेन योगः प्रत्युक्तः
एतेन साङ्ख्य-स्मृति-प्रत्याख्यानेन योग-स्मृतिर् अपि प्रत्याख्याता बोध्या । तस्याश् च तद्वद् वेदान्त-विरुद्धत्वात् । तादृश्या योग-स्मृत्या तेषु व्याख्यातेषु वेदानुसारि-मन्व्-आदि-स्मृतेर् निर्विषयता स्याद् अतस् तया ते न व्याख्येया इत्य् अर्थः । न च वेदान्त-विरुद्धा सा वक्तुं शक्या । तत्रापि प्रधानम् एव स्वतन्त्रं कारणम् । ईशो जीवाश् च चिति-मात्राह् सर्वे विभवः । योगाद् एव दुःख-निवृत्तिर् एव मुक्तिः । इत्य् आदि तद्-विरुद्धार्थ-प्रतिपादनात् । प्रत्यक्षादि-प्रमाणं चित्त-वृत्तिर् इत्य् आदीनां तद्-उक्तार्थानां तेष्व् अनुपलम्भाच् च । तत्र ते ह्य् अर्थास् तस्याम् एवान्वेष्टव्याः । तस्मात् वेदान्त-विरुद्धाया योग-स्मृतेर् वैयार्थ्याद् दोषान् न वित्रासः । अन्यच् च प्राग्वत् । यत् तु वेदान्त-वेद्यम् ईश्वर-जीवोपायोपेय-याथात्म्यं तद् उपर्य् उपरि व्यक्तीभविष्यद् वीक्ष्यम् । एवं सति त्रिर्-उन्नतम् इत्य् आदाव् आसनादि-योगाङ्ग-विधानं तत् कारणं साङ्ख्य-योगाधिगम्यम् इत्य् आदौ च साङ्ख्यादि-शब्दानां ज्ञानं ध्यानं च यद् दृष्टां तत् किल वैदिकाद् अन्यद् एव ग्राह्यम् । न हि प्रकृति-पुरुषान्यता-प्रत्ययेन ज्ञानेन तद्-उक्तेन योग-वर्त्मना वा मोक्षो भवेत् । तम् एव विदित्वातिमृत्युम् एति विज्ञाय प्रज्ञां कुर्वीत एतद् यो ध्यायति रसति भजति सोऽमृतो भवति इत्य् आदि-श्रुतिभ्यः । किं च, योऽंशोऽनयोर् अविरुद्धस् तत्र नो न विद्वेषः । किन्तु विरुद्धोऽंशः परिह्रीयते । यद्यप्य् एष परेश-निष्ठः, ईश्वर-प्रणिधानाद् वा, क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः इत्य् आदि सूत्र-प्रणयनात् । तथापि मोहाद् एवं जजल्पेति वदन्ति । गौतमादयोऽपि विमोहिता विरुद्धानि मतानि दधुः । तानि च प्रत्याख्यास्यति । विज्ञानां विमोहः क्वचित् सार्वज्ञाभिमान-कुपितया हरेर् मायया क्वचित् तु तस्यैच्छयैवार्थान्तर-प्रयुक्तया बोध्यः । ईश्वर-वादाभ्युपगमेन शङ्काधिक्यात् तन्-निरासार्थो ऽधिकरणातिदेशः । हिरण्यगर्भ-कृतापि योग-स्मृतिर् अनेनैव निराकृता बोध्या ॥३॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२५, १।६।३६।
अधिकरणम् ३ (विलक्षणत्वाधिकरणम्)
तद् एवं साङ्ख्यादि-स्मृत्योर् वेद-विरुद्धत्वेनानप्तत्वे निर्णीते वेदेऽपि तद्-विरोधिनः केचित् साङ्ख्यादयः संशयीरन् । तत्-परिहारायेदम् आरभ्यते । तत्रैवं संशयः । वेदोऽप्य् अनाप्तो न वेति । तत्र कार्र्या यजेत वृष्टि-काम इत्य् आदि-श्रुत्य्-उक्ते कारीर्यादि-कर्मण्य् अनुतिष्ठतेऽपि फलानुपलब्धेर् अनाप्त इति प्राप्तौ—
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्
नास्य वेदस्य साङ्ख्यादि-स्मृतिवद् अप्रामाण्यम् । कुतः जीव-कॢप्तत्वेन भ्रमादि-दोष-चतुष्टय-विशिष्टायाः साङ्ख्यादि-स्मृतेः सकाशात् वेदस्य नित्यतया भ्रमादि-कर्तृ-दोष-शून्यस्य वैशेष्यात् । तथात्वं नित्यत्वं चास्य शब्दाद् अवगम्यते । वाचा विरूप नित्ययेत्यादि श्रुतेः । अनादि-निधना नित्या वाग् उत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः इति स्मृतेश् च । मन्व्-आदि-स्मृतीनां तु वेद-मूलकत्वाद् एव प्रामाण्यम् । पूर्वं युक्तया नित्यत्वम् उक्तम् इह तु श्रुत्येति विशेषः ।
ननु,
तस्माद् यज्ञात् सर्व-हुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥ [ऋग्-वेद १०.९०.९] इति ।
इति पुरुष-सूक्ते जन्म-श्रवणाज् जातस्य च विनाशावश्यम्भावाद् अनित्यत्वम् । मैवम् । जनि-शब्देन तत्राविर्भावोक्तेः । अत उक्तं—
स्वयम्भूर् एष भगवान् वेदो गीतस् त्वया पुरा ।
शिवाद्या ऋषि-पर्यन्ताः स्मर्तारोऽस्य न कारकाः ॥ इति ।
न च फलादर्शनाद् अप्रामाण्यम् । अधिकारिणां सर्वत्र फल-दर्शनात् । यत् तु क्वचित् तद्-अदर्शनं तत् किल कर्तुर् अयोग्यतयोपपद्येत । साङ्ख्यादि-स्मृतीनां तु वेद-विरोधाद् एवाप्रामाण्यम् ॥४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१।४०, ६।१।३१।
अधिकरणम् ४
स्याद् एतत् तत् तेज ऐक्षत बहु स्यां [छा.उ. ६.२.३] ता आप ऐक्षन्त बह्व्यः स्याम [छा.उ. ६.२.४] इति छान्दोग्ये । ते हेमे प्राणा अहं श्रेयसे विवदमाना ब्रह्म जग्मुः को नः विशिष्ट इति बृहद्-आरण्यके च बाधितार्थकं वाक्यं वीक्ष्यते, तादृशं चैव बन्ध्या-सुतो भाति इतिवत् अप्रमाणम् एव । एवम् एकदेशाप्रामाण्येनान्यस्याप्य् अप्रामाण्याज् जगत्-कारणत्वं ब्रह्मणः श्रूयमाणं नेति चेत् तत्राह—
अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम्
तु-शब्दः शङ्काच् छेदाय । तत्-तेज इत्य् आदि-व्यपदेशः तेज-आद्य्-अभिमानिनीनां चेतनानां देवतानाम् एव, न त्व् अचेतनानां तद्-आदीनाम् । कुतः ? विशेषेति । हन्ताहम् इमास् तिस्रो देवता [छा.उ. ६.३.२] इति । तेजोऽवन्नानां सर्वा ह वै देवता अहं श्रेयसे विवदमानास् ते देवा प्राणे निःश्रेयसं विदित्वा इति प्राणानां च तत्र तत्र देवता-शब्देन विशेषणात् । अग्निर् वाग् भूत्वा मुख प्राविशद् आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् इत्य् आद्यैतरेयके वाग्-आद्य्-अभिमानिततायाग्न्य्-आदीनाम् अनुप्रवेश-श्रवणाच् च । स्मृतिश् च—
पृथिव्य्-आद्य्-अभिमानिन्यो देवताः प्रथितौजसः ।
अचिन्त्याः शक्तयस् तासां दृश्यन्ते मुनिभिश् च ताः ॥ इति ।
एवं, ग्रावाणः प्लवन्तः इत्य् अत्रापि कर्म-विशेषाङ्ग-भूतानां ग्राव्णां वीर्य-वर्धनार्था स्तुतिर् इयम् । सा च श्री-राम-कृत-सेतु-बन्धादौ यथावद् एवेति न क्वाप्य् अनाप्तत्वं वेदस्य, तेन तद्-उक्तं ब्रह्मणो विश्वैक-कारणत्वं सूचितम् ॥५॥
रामपद चट्टोपाध्याय : ३।६।२-४, ३।६।१२-२१, ११।१०।८-९, ३।२८।४३।
अधिकरणम् ५
पुनर् अपि ब्रह्मोपादानताक्षेपाय तर्कम् आश्रयन् साङ्ख्याः प्रवर्तते । यद्यप्य् अयम् आत्म-याथात्म्य-निर्णये त्यक्तस् तर्कः श्रुति-विरोधात् न कुतर्कापसदस्यात्म-लाभः इत्य् उक्तेः । तथापि परं प्रति दौष्य-प्रकाशनम् एतत् । तत्रैवं संशयः । जगद् ब्रह्मोपादानकं स्यान् न वेति । किं प्राप्तं ब्रह्मोपादानकं नेति वैरूप्यात् । सर्वज्ञ-सर्वेश्वर-विशुद्ध-सुख-रूपत्यआ ब्रह्माभिमताम् । अज्ञानीश्वर-मलिन-दुःखितया प्रत्यक्षादिभिर् अवगतं जगत् । अतस् तयोर् वैरूप्यं निर्विवादम् । उपादेयं खलु उपादान-स्वरूपं दृष्टम् । यथा मृत्-सुवर्ण-तन्त्व्-आद्य्-उपादेयं घट-मुकुट-पटादि । अतो वै ब्रह्म-वैरूप्येण तद्-उपादेयत्वासम्भवात् तत्-स्वरूपम् उपादानं किञ्चिद् अन्वेषणीयम् । तच् च प्रधानम् एव । सुख-दुःख-मोहात्मकं जगत् प्रति तादृशस्य तस्यैव योग्यत्वात् । यच् चोपादेय-सारूप्य-साधनाय तथाभूतेऽप्य् उपादाने ब्रह्मणि चिज्-जडात्मिकातिसूक्ष्मा शक्ति-द्वयी प्राग् अप्य् अस्तीत्य् उच्यते । तेनापि वैरूप्यात् दुष्परिहरं सूक्ष्मात् सूक्ष्म-शक्तिकाद् उपादानात् स्थूलतरोपादेयोदय-निरूपणात् । एवम् अन्यच् च वैरूप्यं विभावनीयम् । एवं ब्रह्म-वैरूप्यात् तद्-उपादानकं जगन् नेति तर्कश् च शास्त्रस्यावस्थापेक्ष्यः तद्-अनुगृहीतस्यैव क्वचिद् विशयेऽर्थ-निश्चय-हेतुत्वाद् इति पूर्व-पक्षः । तद् इमं निरस्यति—
दृश्यते तु
तु-शब्देन शङ्का निरस्यते । पूर्वतो नेत्य् अनुवर्तते । यद् उक्तं ब्रह्म-वैरूप्यात् तद्-उपादानकां जगन् नेति तन् न विरूपाणाम् अप्य् उपादानोपादेय-भावस्य दृष्टत्वात् । यथा गुणानाम् उत्पत्तिर् विजातीयाद् द्रव्यात्, यथा कृमीणां माक्षिकात्, यथा करि-तुरगादीनां कल्प-द्रुमात् । यथा च सुवर्णादीनां चिन्तामणेर् इति । इत्थम् अभिप्रेत्यैव दृष्टान्तितम् आथर्वणिकैः—
यथोर्ण-नाभिः सृजते गृह्णते च
यथा पृथिव्याम् ओषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केश-लोभानि
तथाक्षरात् सम्भवतीह विश्वम् ॥ [मु.उ. १.१.७] इति ॥६॥
रामपद चट्टोपाध्याय : ११।१२।१९, १।१।१, १०।८७।२२।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२६।
अधिकरणम् ६ (असदित्य्-अधिकरणम्)
ननूपादानात् विलक्षणं चेद् उपादेयं तर्ह्य् उपादाने ब्रह्मणि जगद्-उत्पत्तेः प्राग् असद् इत्य् आपद्येत । पूर्वम् ऐक्यावधारणाद् असच् चोत्पद्येत । न चैतद् इष्ट ते सत्-कार्य-वादिन इति चेत्, तत्राह
असद् इति चेन् न प्रतिषेध-मात्रत्वात् ।
नैष दोषः । कुतः ? प्रतीति । पूर्व-सूत्रे सारूप्य-नियमस्य प्रतिषेध-मात्रं विवक्षितम् । न तूपादानाद् उपादेयस्य द्रव्यान्तरत्वम् अपि । ब्रह्मैव स्व-विलक्षण-विश्वाकारेण परिणमत इत्य् अङ्गीकारात् । अयं भावः—यस्य सारूप्यस्याभावात् ब्रह्मोपादानताम् आक्षिपसि तत् किं कृत्स्नस्य ब्रह्म-धर्मस्यानुवर्तनम् अभिप्रैष्य् उत यस्य कस्यचिद् इति । नाद्यः उपादानोपादेय-भावानुपपत्तेः । न हि घटादिषु मृत्-पिण्डोपादेयेषु पिण्डत्वाद्य्-अनुवृत्तिर् अस्ति । द्वितीये तु नानिष्टापत्तिः सत्त्वादि-लक्षणस्य ब्रह्म-धर्मस्य प्रपञ्चेऽप्य् अनुवृत्तेः ।
ननु येन केनचिद् धर्मेण सारूप्यं न शक्यं मन्तुं सर्वस्य सर्व-सारूप्येण सर्वस्मात् सर्वोत्पत्ति-प्रसङ्गात् । तस्मात् येन धर्मेणोपादान-भूतं वस्तु वस्त्व्-अन्तरात् व्यावर्तते, तस्य धर्मस्योपादेयेऽनुवृत्तिः सारूप्यं, यथा तन्त्व्-आदितः सुवर्णं येन स्वभावेन व्यावर्तते तस्य कङ्कणादिके तद्-उपादेय्ऽनुवृत्तिर् दृष्टा, तथैतत् द्रष्टव्यम् इति चेन् मैवम् । माक्षिकादिभ्यः कृम्य्-आदीनाम् उत्पत्ताव् अस्य नियमस्य व्यभिचारात् । न च स्वर्ण-कङ्कणयोः सर्वथा सारूप्यम् अस्ति अवस्था-भेदात् । तथा च स्वर्ण-चिन्तामण्योर् इव वैरूप्येऽपि कङ्कण-स्वर्णयोर् इव द्रव्यैक्य-सत्त्वान् नासत्-कार्यम् इति ॥७॥
युक्त्य्-अन्तरेण पुनर् आक्षिपति—
अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्
अस्य चिज्-जडात्मकस्य नाना-विधापुमर्थ-विकारास्पदस्य जगतः सूक्ष्म-शक्तिकं ब्रह्म चेद् उपादानं तदापीतौ प्रलये तस्य तद्वत् प्रसङ्गः । षष्ठ्य्-अन्ताद् इवार्थे वतिः तत्र तस्येवेति सूत्रात् । उपाद्येवदपुमर्थ-विकार-प्राप्तिः स्यात् । तदानीं तेन सह तस्यैक्यात् । अतोऽसमञ्जसम् इदम् उपनिषद्-वाक्य-वृन्दं, यत् सार्वज्ञ्य-निरवद्यत्वादि-गुणकम् उपादानं ब्रह्मेति गदति ॥८॥
परिहरति—
न तु दृष्टान्त-भावात्
तु-शब्दाद् आक्षेप-सम्भावनापि निरस्ता । नैव किञ्चिद् असमञ्जसम् । कुतः ? उपादेय-जगत्-सम्पर्केऽप्य् उपादानस्य ब्रह्मणः शुद्धतयाऽवस्थितौ दृष्टान्त-सत्त्वात् । यथैकस्मिंश् चित्राम्बरे नील-पीतादयो गुणाः स्व-स्व-प्रदेशेष्व् एव दृष्टाः, न तु ते व्यतिकीर्यन्ते, तथा चैकस्मिन् देहिनि बाल्यादयो देह-धर्मा देहे काणत्वादयः करण-धर्माश् च करण-गणे विज्ञायन्ते, न त्व् आत्मनि । एवम् अपुमर्थ-विकारा ब्रह्म-शक्ति-धर्माः शक्ति-गताः स्युर् न तु ब्रह्मणि शुद्धे प्रसज्जेरन् इति ॥९॥
रामपद चट्टोपाध्याय : ११।६।६, ७।९।३०, ११।२।३९
न केवलं निर्दोषतया ब्रह्मोपादानता स्वीकृता । प्रधनोपादानताया दुष्टत्वाद् अपीत्य् आह—
स्व-पक्षे दोषाच् च
ये दोषास् त्वया साङ्ख्येनास्मत्-पक्षे सम्भावितास् ते स्व-पक्षे निज-मत एव द्रष्टव्याः, तेषाम् अन्यत्र निरस्तत्वात् । तथा हि, उपादानोपादेययोर् वैरूप्ये साङ्ख्य-पक्षेऽप्य् अस्ति, शब्दादि-शून्यात् प्रधानाच् छब्दादिमतो जगतो जनुर् अङ्गीकारात् । तस्मात् तस्य वैरूप्याद् एवास्मत्-कार्यता-प्रसङ्गः । प्रधानाविभाग-स्वीकाराद् एवापीतौ तद्वत् प्रसङ्गश् चेत्य् एवम् आदयः । जगत्-प्रवृत्ति अपि प्रधान-वादे च सम्भवति इति तत्-परीक्षायां वक्ष्यामः ॥१०॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२५।
यत् तूक्तं तर्कानुगृहीतं शास्त्रम् अर्थ-निश्चय-हेतुर् इति तत् प्रयाह—
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम्
इति चेद् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः
पुरुष-धी-वैविध्यात् तर्का नष्ट-प्रतिष्ठा मिथो विहन्यमाना विलोक्यन्ते । अतोऽपि तान् अनादृत्यौपनिषदी ब्रह्मोपासनता स्वीकार्या । न च लब्ध-माहात्म्यानां केषाञ्चित् तर्का प्रतिष्ठिताः । तथा-भूतानाम् अपि कपिल-कणभुग्-आदीनां मिथो-विवाद-सन्दर्शनात् ।
नन्व् अहम् अन्यथानुमास्ये यथाप्रतिष्ठा न स्यात् । न तु प्रतिष्ठितस् तर्क एव नास्तीति शक्यं वदितुं तर्काप्रतिष्ठानुरूपस्य तर्कस्य प्रतिष्ठितत्वात् । सर्व-तर्काप्रतिष्ठायां जगद्-व्यवहारोच्छेद-प्रसङ्गात् । अतीत-वर्तमान-वर्त्म-साधारण्येनानागतेऽपि वर्त्मनि सुख-दुःख-प्राप्ति-पर्हारार्था लोक-प्रवृत्ति-दृष्टेति चेत् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः । पुरुष-बुद्धि-मूल-तर्कावलम्बनस्य भवतो देशान्तर-कालान्तरज-निपुणतम-तार्किक-दूष्यत्व-सम्भावनया तर्काप्रतिष्ठान-दोषाद् अनिस्तारः स्यात् । यद्यप्य् अर्थ-विशेषे तर्कः प्रतिष्ठितस् तथापि ब्रह्मणि सोऽयं नापेक्ष्यते, अचिन्त्यत्वेन तद्-अनर्हत्वात्, श्रुति-विरोधाच् चेति त्वद्-उक्त्य्-असङ्गतेश् च । श्रुतिश् च ब्रह्मणस् तर्कागोचरताम् आह—
नैषा तर्केण मतिर् आपनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । [क.उ. १.२.९] इति कठानाम् ।
ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।
यदा तदैवासत्-तर्कैस् तिरोधीयेत विप्लुतम् ॥ [भा.पु. २.६.३९] इत्य् आद्या ।
तस्माच् छ्रुतिर् एव धर्म इव ब्रह्मणि प्रमाणम् । तत्-पोष-कारी तर्कस् त्व् अपेक्षत एव मन्तव्य इति श्रुतेः, पूर्वापराविरोधेन इत्य् आदि स्मृतेश् च । तस्मात् ब्रह्मोपादानकं जगद् इति ॥११॥
रामपद चट्टोपाध्याय : १।८।१७, ६।४।२६, ६।९।३३; २।६।३९,
भागवत-भाष्यम् (हरिदास शास्त्री): २।६।४१-४२।
अधिकरणम् ७ (शिष्टापरिग्रहाधिकरणम्)
साङ्ख्य-योग-स्मृतिभ्यां तदीय-तर्कैश् च विरोधः परिहृतः । इदानीं काणभुग्-आदि-स्मृतिभिस् तदीय-तर्कैश् च स परिह्रियते । तत्र कणादादि-मतैर् ब्रह्मोपादानता बाध्यते न वेति वीक्षायां, तस्यां सत्यां तत्-स्मृतीनाम् अनवकाशतापत्तेः । सर्वत्र न्यून-परिमाणानाम् एव द्व्य्-अणुकादीनां त्र्य्-अणुकादि-महा-कार्यारम्भकत्व-दर्शनात् ब्रह्मणो विभुत्वेन तद्-अयोगाच् च बाध्यत इति प्राप्तौ—
एतेन शिष्टा परिग्रहा अपि व्याख्याता
शिष्टाः परिशिष्टाः । नास्ति परिग्रहो वेद-कर्मको येषां ते अपरिग्रहाः । विशेषणयोः कर्मधारयः । एतेन वेद-विरोधि-साङ्ख्यादि-निरासेन परिशिष्टास् तद्-विरोधिनः कणभक्षाक्षपाद-प्रभृतयोऽपि निरस्ता वेदितव्याः, निराकरण-हेतोः साम्यात् । न ह्य् आरम्भ-वादेऽपि न्यून-परिणामारम्भकत्व-नियमोऽस्ति । दीर्घ-तन्त्व्-आरब्ध-द्वि-तन्तु-कपटे वियद्-उत्पन्ने शब्दे च व्यभिचारात् । कारण-वस्तु-विषयस्य तर्कस्याप्रतिष्ठानम् अशक्यं वक्तुम् इति शङ्काधिक्याद् अधिकरणातिदेशः । तत्-परिहारस् तु शुष्क-तर्कस्याप्रतिष्ठान-नियमात् । अत एवापरे बौद्धादयः परमाणून् अन्यथा वर्णयन्ति । क्षणिकानर्थात्मकान् केचित् । ज्ञान-रूपान् परे । शून्यात्मकान् अपरे । सद्-असद्-रूपांस् त्व्
अन्ये । सर्वे ह्य् एते तन्-नित्यताविरोधिन इति ॥१२॥
रामपद चट्टोपाध्याय : ३।११।१, ५।१२।९-११, ३।११।१५।
भागवत-भाष्यम् (हरिदास शास्त्री): ५।१२।९-११।
अधिकरणम् ८ (भोक्त्र्-आपत्त्य्-अधिकरणम्)
पुनर् आशङ्क्य समाधत्ते—
भोक्त्र्-आपत्तेर् अविभागश् चेत् स्याल् लोकवत्
सूक्ष्म-शाक्तिकं ब्रह्मैवोपादानं तद् एव स्थूल-शाक्तिकम् उपादेयम् इति । तद् इदं युक्तं न वेति संशये इह भोक्त्रा जीवेन सह ब्रह्मण ऐक्यापत्तेर् अविभागः शक्तेः शक्तिमद्-ब्रह्म-भेदापत्तेर् द्वा सुपर्णा... जुष्टं यदा पश्यत्य् अन्यम् ईशम् इत्य् आदि श्रुति-सिद्ध-भेद-लोपस् ततो न युक्तम् इति चेत् तत्-परिहारः स्याल् लोकवत् । लोके यथा दण्डिनः पुरुषाभेदेऽप्य् अस्ति दण्ड-पुरुषयोः स्वरूपतो भेदस् तथा शक्तिमतो ब्रह्मणः शक्त्य्-अभेदेऽपि शक्ति-ब्रह्मणोः सोऽस्तीति न क्षतिः ॥१३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।९-११।
अधिकरणम् ९ (आरम्भणाधिकरणम्)
जगतो ब्रह्म-भेदम् अङ्गीकृत्य ब्रह्मणस् तद्-उपादानत्वं निरूपितम् असद् इति चेन् नेत्य् आदिना तम् एवाक्षिप्य समाधातुम् इदानीं प्रवर्तते । तत्रोपादेयं जगद्-उपादानात् ब्रह्मणो भिन्नम् अभिन्नं वेति वीक्षायां मृत्-पिण्ड उपादानं घट उपादेयम् इति धी-भेदात् । उपादानम् उपादेयम् इति शब्द-भेदात् । मृत्-पिण्डेन घटाय प्रवर्तते घटेन तु जलम् आनयेति प्रवृत्ति-भेदात् । पिण्डाकारम् उपादानं कम्बु-ग्रीवाद्य्-आकारम् उपादेयम् इत्य् आकार-भेदात् । पूर्व-कालम् उपादानम् उत्तर-कालम् उपादेयम् इति काल-भेदाच् च भिन्नम् एवोपादानाद् उपादेयम् । इतरथा कारक-व्यापार-वैयर्थ्य-प्रसङ्गाद् उपादानम् एव चेद् उपादेयं कृतं तर्हि तद्-व्यापारेण च सतोऽप्य् उपादेयस्याभिव्यक्तये तेन भाव्यं क्षोदाक्षमत्वात् । तथा हि, कारक-व्यापारात् प्राक् सा सती असती वा । नाद्यः तद्-व्यापार-वैयर्थ्यात् नित्योपलब्धि-प्रसङ्गाच् चोपादेयस्य । ततश् च नित्यानित्य-विभागो विलुप्येत । तथाभिव्यक्तेर् अभिव्यक्त्य्-अन्तरेऽङ्गीकृतेऽनवस्था । न चान्त्यः असत्-कार्यापत्तेः । तस्माद् असत उपादेयस्योत्पत्ति-हेतुत्वे नार्थवत्त्वं व्यापारस्येत्य् असत्त्वाद् एवोपादानात् भिन्नम् उपादेयम् इति वैशेषिकादि नयात् पूर्व-पक्षे प्राप्ते परिहरति—
तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः
तस्मात् जीव-प्रकृति-शक्ति-युक्तात् जगद्-उपादानात् ब्रह्मणः अनन्यद् एवोपादेयं जगत् । कुतः ? आरम्भनेति । आरम्भण-शब्द आदिर् येषां तेभ्यो वाक्येभ्यः । वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् [छा.उ. ६.१.४], सद् एव सौम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छा.उ. ६.२.१], तद् ऐक्षत बहु स्यां प्रजायेय [छा.उ. ६.२.३], सन्-मूलाः सौम्येमाः प्रजाः सदायतनाः सत् प्रतिष्ठाः [छा.उ. ६.८.६], ऐतदात्म्यम् इदं सर्वम् [छा.उ. ६.८.१] इत्य् एवं-विधानि छान्दोग्ये वाक्यानि सान्तराण्य् अप्य् अत्र विवक्षितानि । तानि हि चिज्-जडात्मकस्य जगतस् तद्-युक्तात् परस्मात् ब्रह्मणोऽनन्यत्वं वदन्ति । तथा हि कृत्स्नं जगत् तादृग् ब्रह्मोपादानकम् अतो ब्रह्माभिन्नम् इति हृदि विनिश्चित्योपादान-भूत-ब्रह्म-विज्ञानेनोपादेयस्य जगतः कृत्स्नस्य विज्ञानं भवतीत्य् आचार्यः प्रतिजज्ञे । स्तब्धोऽस्युत तम् आदेशम् अप्राक्ष्यः येनाश्रुतं श्रुतं भवति इत्य् आदिना । तद्-आशयम् अविदुषा शिष्येणान्य-ज्ञानाद् अन्य-ज्ञानम् न सम्भवतीति विमृश्य, कथं नु भगवः स आदेश इति परिपृष्टः स जगतो ब्रह्मोपादानकतां वदिष्यन् लोक-प्रतीति-सिद्धम् उपादेयस्योपादानाभेदं दर्शयति यथा सौम्यैकेन मृत्-पिण्डेनेत्य् आदिना । एकस्माद् एव मृत्-पिण्डोपादानात् जातं घटादि सर्वं तेनैव विज्ञान्तेन विज्ञानं स्यात् तस्य ततोऽनतिरेकात् । एवम् आदेशे ब्रह्मणि सर्वोपादाने विज्ञाते तद् उपादेयं कृत्स्नं जगत् विज्ञातं भवतीति तत्रार्थः ।
ननु धी-शब्दादि-भेदाद् उपादेयम् उपादानाद् अन्यत् स्याद् इति चेत् तत्राह वाचारम्भणम् इति । आरभ्यत इत्य् आरम्भणं कर्मणि ल्युट्, कृत्य-ल्युटो बहुलम् इति स्मरणात् । मृत्-पिण्डस्य कम्बु-ग्रीवादि-रूप-संस्थान-सम्बन्धे सति विकार इति नाम-धेयम् आरब्धं व्यवहर्तृभिः । किम्-अर्थं ? तत्राह—वाचेति । वाचा वाक्-पूर्वकेण व्यवहारेण हेतुना । फल-हेतुत्व-विवक्षया तृतीया । घटेन जलम् आनयेत्य् आदि वाक्-पूर्वक-व्यवहार-सिद्ध्य्-अर्थं मृद्-द्रव्यम् एव ज्ञान-संस्थान-विशेषं सत् घटादि-नाम-भाग्यवति । तस्य घटाद्यवस्यापि मृत्तिकेत्य् एव नाम-धेयं सत्यं प्रामाणिक्यम् । ततश् च घटाद्य् अपि मृद् द्रव्यम् इत्य् एव सत्यं, न तु द्रव्यान्तरम् इति । अतस् तस्यैव मृद्-द्रव्यस्य संस्थानान्तर-योग-मात्रेण धी-शब्दान्तरादि सम्भवति । यथैकस्यैव चैत्रस्यावस्था-विशेष-सम्बन्धात् बाल-युवादि-धी-शब्दान्तरादि सम्भवति मृद्-आद्य्-उपादाने तादात्म्येन सद् एव घटादि-दण्डादिना निमित्तेनाभिव्यज्यते न त्व् असद् उत्पद्यते इत्य् अभिन्नम् एव उपादेयम् उपादानात् । भेदे किलोन्मानद् वैगुण्यापत्तिः । मृत्-पिण्डस्य गुरुत्वम् एकं घटादेश् चैकम् इति तुलारोहे द्वि-गुणं तत् स्यात् । एवम् अन्यच् च । न तु शुक्ति-रूप्यादिवद् विवर्तो न च शुक्तेः सकाशात् स्वतोऽन्यत्र सिद्धं रूप्यम् इव भिन्नम् इत्य् एव-कारात् । एवम् इति शब्दानर्थक्यं कष्ट-कल्पनं च निरस्तम् । न चाभिव्यक्ति-पक्षस्य निर्मूलत्वं शक्यं वक्तुं,
कल्पान्ते काल-सृष्टेन योऽन्धेन तमसावृतम् ।
अभिव्यनक् जगद् इदं स्वयं-रोचिः स्वरोचिषे ॥
इत्य् आदि प्रमाण-सिद्धेः, न च सिद्ध-साधनतानवस्था वा दोषः । कारक-व्यापारात् पूर्वम् अभिव्यक्तेः, स त्वानङ्गीकारात् अभिव्यक्त्य्-अन्तरानङ्गीकाराच् च ।
नन्व् एवम् असत्क्पर्यतापत्तिः पूर्वम् असत्यास् तस्यास् तद्-व्यापारेणोत्पाद्यमानत्वाद् इति चेन्, मैवम् । तस्याः कार्यत्वाभावात् । स्वतन्त्राभिव्यक्तिमत्त्वं किल कार्यत्वं तच् च तस्यां नास्ति । आश्रयाभिव्यक्त्यैव तत् सिद्धेः । तद्-व्यापारेण संस्थान-योग-रूपाभिव्यक्तिर् नियताभिव्यङ्ग्येति प्रकृते न किञ्चिद् अवद्यम् । यत् तु असतः कार्यस्योत्पत्तिर् इति वदन्ति, तन् मन्दं क्षोदाक्षमत्त्वात् । तथा हि, व्यापारात् प्राग् असच् चेत् कार्यं, तर्हि सर्वस्मात् सर्वम् उत्पद्येत । सर्वत्र सर्वाभाव-सौलभ्यात् । तिलेभ्यस् तैलम् इव क्षीरादिकम् अप्य् उत्पन्नं स्यात् । अकर्तृका चोत्पत्तिः कायस्यासत्वात् । न च कारण-निष्टा शक्तिर् एव कार्यं नियच्छेद् इति वाच्यम् असता सहासम्बन्धात् । किं चोत्पत्तिर् उत्पद्यते न वा आद्येऽनवस्था अन्त्येऽप्य् असत्त्वात् नित्यत्वाद् वानुत्पत्तिर् इति पक्ष-द्वयम् असाधु । सर्वदा कार्यानुपलम्भोपलम्भ-प्रसङ्गात् ।
ननु उत्पत्तेः स्वयम् उत्पत्ति-रूपत्वात् किम् उत्पत्त्य्-अन्तर-कल्पनयेति चेत् समम् एतद् अभिव्यक्तौ इति हि वक्तव्यम् ॥१४॥
रामपद चट्टोपाध्याय : ६।४।२५, ७।६।१०, ७।९।१९, ७।९।४७, ८।३।३, १०।८५।४, १।५।२०, ११।५।२७, १०।१६।३७, १०।४६।३३, १०।८४।२२।
इतश् चोपादेयम् उपादानाद् अनन्यद् इत्य् आह—
भावे चोपलब्धे
घट-मुकुटाद्य्-उपादेय-भावे च मृत्-सुवर्णाद्य्-उपादानोपलब्धेः घतादेर् मृद्-आदित्वेन प्रत्यभिज्ञानाद् इत्य् अर्थः । ननु हस्त्य्-अश्वादौ कल्प-वृक्षादेः प्रत्यभिज्ञानं नास्तीति चेत्, न । तत्राप्य् उपादानस्य पृथिव्याः प्रत्यभिज्ञानात् । वह्नेर् निमित्तत्वात् धूमे तन् नास्ति । धूमोपादानं खलु वह्नि-संयुक्तम् आर्द्रेन्दनं गन्धैक्यात् विदितम् ॥१५॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२१।१९, १०।८७।१५।
सत्वाच् चावरस्य
अवर-कालिकस्योपादेयस्य प्राग् अपि तादात्म्येनोपादाने सत्त्वात् तस्माद् अनन्यत् तत् । श्रुतिश् च—सद् व सौम्येदम् अग्र आसीत् [छा.उ. ६.२.१] इत्य् आद्या । स्मृतिश् च—
ब्रीहि-बीजे यथा मूलं नालं पुत्राङ्कुरौ तथा ।
काण्डं कोशस् तु पुष्पं च क्षीरं तद्वच् च तण्डुलः ॥
तुषाः कणाश् च सन्तो वै यान्त्याविर्भावम् आत्मनः ।
प्ररोह-हेतु-सामग्रीम् आसाद्य मुनि-सत्तम ॥
तथा कर्म-स्वनेकेषु देवाद्याः समवस्थिताः ।
विष्णु-शक्तिं समासाद्य प्ररोहम् उपयान्ति वै ॥ [वि.पु. २.७.३७-३९] इति ।
तिलेभ्यस् तैलं सत्त्वाद् एवोपपद्यते, न तु सिकताभ्योऽसत्त्वाद् एव । उभयत्राप्य् एकम् एव सत्त्वं पारमार्थिकम् इति । उत्पत्त्य्-अन्तरम् उपादेये उपादान-तादात्म्यं पूर्वत्र प्रमाणितम् । नाशानन्तरम् उपादाने उपादेयाभेदः परत्रेति सूत्र-द्वये विवेचनम् ॥१६॥
रामपद चट्टोपाध्याय : ३।२६।१९, ७।९।४६।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२६।
असद् व्यपदेशान् नेति चेन् न, धर्मान्तरेण वाक्य-शेषात्
स्याद् एतत् असद् वा इदम् अग्र आसीत् [तै.उ. २.६.१] इति पूर्वम् असत्त्व-श्रवणाद् उपादाने उपादेयस्य सत्त्वं नास्थेयम् इति चेत्, न । यद् अयम् असद्-व्यपदेशो न भवद्-अभिमतेन तुच्छत्वेन, किन्तुधर्मान्तरेणैव सङ्गच्छते । एकस्यैव द्रव्यस्य उपादेयोपादानोभयावस्थस्य स्थौल्यं सौक्ष्म्यं चेत्य् अवस्थात्मकं धर्म-द्वयं सद्-असच्-छब्द-बोध्यम् । तत्र स्थौल्याद् धर्माद् अन्यत् सौक्ष्म्यं धर्मान्तरं तेनेति । एवं कुतः ? वाक्य-शेषात् । तदात्मानं स्वयम् अकुरुत [तै.उ. २.६.१] इति वाक्य-शेषेण सन्दिग्धार्थस्योपक्रम-वाक्यस्य तथैव व्याकर्तुम् उचितत्वात् । अन्यथासीद् अत्यात्मानम् अकुरुतेति च विरुध्येत । असतः कालेन सहासम्बन्धात् आत्माभावेन कर्तृत्वस्य वक्तुम् अशक्यत्वाच् च ॥१७॥
रामपद चट्टोपाध्याय : ७।९।३०, २।७।४६।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२८।
असत्त्वं धर्मान्तरम् इत्य् अत्र हेतुं दर्शयति—
युक्तेः शब्दान्तराच् च
मृत्-पिण्डस्य कम्बु-ग्रीवाद्य्-आकार-योगो घटोऽस्तीति व्यवहारस्य हेतुः । तद्-विरोधि-कपालाद्य्-अवस्थान्तर-योगस् तु घटो नास्तीति व्यवहारस्य । स्मृतिर् अप्य् एवम् एवाभिधत्ते—मृदि घटत्वं घटतः कपालिका कपालिकाच् चूर्ण-रजस् ततोऽणुर् इति । एतावतैव घटाद्य्-अभाव-व्यवहार-सिद्धेस् तद् अन्यः स न कल्प्यते, तत् न चोपलभ्यत इति युक्तिः । असच्-छब्दस्य पूर्वत्रोदाहृतत्वात् । ततोऽन्यः सच्-छब्दः । शब्दान्तरं सद् एव सौम्येदम् इति । एवं च युक्ति-सच्-छब्दाभ्याम् असत् सूक्ष्मम् इत्य् एवार्थः, न तु शश-विषाणादिवन् निरूपाख्यम् इति । उपमृदित-विशेषं जगत् परम-सूक्ष्मम् एव ब्रह्मणि विलीनं तदानीं सौक्ष्म्याद् असद् इत्य् उच्यते । तस्माद् उत्पत्तेः प्राग् अप्य् उपादान-वपुषा सत्त्वात् तद्-अभिन्नम् एवोपादेयम् इति सिद्धम् । यच् च नासद् उत्पद्यते असम्भवात्, नापि सत्-कारक-व्यापार-वैयर्थ्यात्, किन्तु अनिर्वाच्यम् एवेत्य् आह—तन् मन्दं सद् असद् विलक्षणताया दुरुपपादनत्वात् ॥१८॥
रामपद चट्टोपाध्याय : १०।८७।२५, १२।८।४३, ११।१२।१८।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३७।
अथ सत्-कार्य-वादे दृष्टान्तान् उदाहरति—
पटवच् च
पटो यथा सूत्रात्मना पूर्वं सन्न् एव प्राप्तव्यतिषङ्ग-विशेषेभ्यः सूत्रेभ्योऽभिव्यज्यते । तथा सूक्ष्म-शक्तिमद् ब्रह्मात्मना पूर्वं सन्न् एव प्रपञ्चः सिसृक्षोस् तस्माद् इति । बट-बीज-दृष्टान्त-सङ्ग्रहाय च शब्दः ॥१९॥
रामपद चट्टोपाध्याय : ११।१२।१९, १०।१५।३६, ६।३।१२।
भागवत-भाष्यम् (हरिदास शास्त्री): ६।३।१२, १०।१५।३५।
यथा च प्राणादिः
यथा प्राणापानादिः प्राणायामेन संयमितस् तद् अपि मुख्य-प्राण-मात्रतया सन्न् एव प्रवृत्ति-काले हृदयादि-स्थानानि मुख्ये भजति सति तस्मात् एव मुख्यात् स्वावस्थयाभिव्यज्यते, तथा प्रपञ्चोऽप्य् अमृदित-विशेषोऽपीतौ सूक्ष्म-शक्तिमति ब्रह्मणि तद्-आत्मना सन्न् एव सृष्टि-काले तस्मिन् सिसृक्षौ सति तस्मात् एव प्रधान-महद्-आदि-रूपः प्रादुर्भवति । उक्त-समुच्चयार्थश् च-शब्दः । असत्-कार्य-वादे तु दृष्टान्तो नास्ति । न हि बन्ध्या-पुत्रः क्वचिद् उत्पद्यमानो दृश्यते, वियत्-पुष्पं वा । तस्मात् एकम् एव जीव-प्रकृति-शक्तिमत् ब्रह्म जगद्-उपादानं, तद्-आत्मकम् उपादेयं चेति सिद्धम् । एवं कार्यावस्थत्वेऽप्य् अविचिन्त्यत्व-धर्म-योगाद् अप्रच्युत-पूर्वावस्थं चावतिष्ठते ।
ॐ नमो वासुदेवाय तस्मै भगवते सदा ।
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥ [वि.पु. १.१९.७८] इत्य् आदि स्मृतेः ॥२०॥
रामपद चट्टोपाध्याय : ५।११।१४।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२९, १०।४६।४३।
अधिकरणम् १० (इतर-व्यपदेशाधिकरणम्)
प्रकृतिश् च प्रतिज्ञेत्य् अस्मिन्न् अधिकरणे जगद् उपादानत्वं जगन् निमित्तत्वं ब्रह्मणो निरूपितम् । तत्राद्यम् उपक्षिप्तान् दोषान् परिहृत्य दृढीकृतं दृश्यते त्व् इत्य् आदिभिः । अथान्तिमं वाक्यान्तरात् प्रतीतम् अपि जीव-कर्तृत्व-पक्षं सण्दूष्य दृढीक्रियते । तथा हि कर्तारम् ईशम् इत्य् आदि श्रुतेर् ईश्वरो जगत्-कर्त्रेत्य् एके । जीवाद् भवन्ति भूतानीत्य् आदि श्रुतेर् अदृष्ट-योजज् जीवस् तत्-कर्तेति त्व् इतरे । तथेश्वरस्य तत्-कर्तृत्वेन् पूर्णतादि-विरोधापत्तेर् जीवस्यैव तद् इति वदन्ति । द्विविध-वाक्योपलम्भाद् अनिर्मयो वा स्याद् इत्य् एवं प्राप्ते—
इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः
इतरेषां केषांचित् यो जीव-कर्तृत्व-व्यपदेश इतरस्य वा जीवस्य यो जगत्-कर्तृत्व-व्यपदेशः परैः कैश्चित् स्वीकृतस् तस्मात् इतर-व्यपदेशिनां विदुषां तत्-कर्तरि जीवे हिताकरणादीनां दोषाणां प्रसक्तिः स्यात् । हिताकरणम् अहित-करणं श्रमादिकं च दूषणं प्राप्नुयात् । न हि कश्चित् स्वाधीनो धीमान् स्वस्य बन्धनागारं निर्मिमाणः कौशेय-कीटवत् तत्र प्रविशेत् । न वा स्वयं स्वच्छः सन्नत्यनच्छं वपुर् अपेयात् । न च केनचित् जीवेन साध्यम् इदं प्रधान-महद्-अहं-वियत्-पवनादि-कार्यम् । तच्-चिन्तयापि श्रमानुभवात् । तस्मात् दुष्टो जीव-कर्तृत्व-वादः ईश्वरस्य तु तत्-कर्तुः पूर्णतादि-विरोधः परिहरिष्यते ॥२१॥
रामपद चट्टोपाध्याय : ७।९।३९, ३।२६।६-७।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।४।२-४।
अधिकरणम् ११ (अधिकाधिकरणम्)
ननु ब्रह्मणोऽपि कार्याभिध्यान-तद्-अनुप्रवेशादि-श्रवणात् श्रम-हिताकरणादि-प्राप्तिः ? तत्राह—
अधिकं तु भेद-निर्देशात्
शङ्का-च्छेदाय तु-शब्दः । जीवाद् अधिकं ब्रह्म उरु-शक्तिकत्वात् तस्मात् अत्युत्कृष्टम् । तत् कुतः ? शास्त्रेषु तथैव भेद-निर्देशात् । मुण्डकादौ—
समाने वृक्षे पुरुषो निमग्नोऽ
नीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्य् अन्यम् ईशम्
अस्य महिमानम् इति वीत-शोकः ॥ [मु.उ. ३.१.२]
इति शोक-मोह-ग्रस्तात् जीवान् परमात्मनोऽखण्डितैश्वर्यादित्वेन भेदो निर्दिश्यते । स्मृतिषु च—
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [गीता १५.१६-१७] इति ।
प्रधान-पुरुष-व्यक्त-कालानां परमं हि यत् ।
पश्यन्ति सूरयः शुद्धं तद् विष्णोः परमं पदम् ॥ [वि.पु. १.२.१६]
विष्णोः स्वरूपात् परतो हि तेऽन्ये
रूपं प्रधानं पुरुषश् च विप्र ।
तस्यैव तेन्ऽन्येन धृते वियुक्ते
रूपान्तरं तद् द्विज काल-संज्ञम् ॥ [वि.पु. १.२.२४] इति ।
एतद् ईशनम् ईशस्य प्रकृति-स्थोऽपि तद्-गुणैः ।
न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥ [भा.पु. १.११.३९] इति च ।
एवम् आद्यासु तथैवासौ निर्दिष्टः । सम्भोग-प्राप्तिर् इत्य् आदिना प्राग् अप्य् एतद् अभिहितम् । तथा चाविचिन्त्योरु-शक्तिर् ईश्वरः स्व-सङ्कल्प-मात्रात् जगत् सृष्ट्वा तस्मिन् प्रविश्य विक्रीडति, जीर्णं च तत् संहरत्य् ऊर्णनाभिवद् इति, न पूर्वोक्त-दोष-गन्धः ।
ननु घटाकाशात् महाकाशस्येवैतज् जीवाद् ईश्वरस्याधिक्यम् इति चेत्, न । तद्वत् तस्य परिच्छेद-विषयत्वास्वीकारात् । न च जल-चन्द्रात् वियच्-चन्द्रस्येव तस्मात् तस्य तद् विभोर् निरूपस्य तस्य तद्वत् प्रतिबिम्बासम्भवात् । न च राज-पुत्रस्येवाप्त-दास-भ्रमस्यैकस्य ब्रह्मणो भ्रमात् जीवस्योत्कर्षापकर्षे सार्वज्ञ्य-श्रुति-विरोधात् ॥२२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।६।१५, ११।६।१७, १।११।३८।
अश्मादिवच् च तद्-अनुपपत्तिः
चेतनस्यापि जीवस्याश्मकाष्ठ-लोष्ट्रवद् अस्वातन्त्र्यात् स्वतः कर्तृत्वानुपपत्तिः । अन्तः प्रविष्टः शास्ता जनानाम् [तै.आ. ३.११.१०] इत्य् आदि श्रुतेः । ईश्वरः सर्व-भूतानां [गीता १८.६१] इत्य् आदि स्मृतेश् च ॥२३॥
रामपद चट्टोपाध्याय : ६।४।१८, ७।३।२७।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३०।
उपसंहार-दर्शनान् नेति चेन् न क्षीरवद् धि
ननु नाशादिवद् अकर्तृत्वं जीवस्य तस्यैव कार्योपसंहार-दर्शनात् । स हि यत् कार्यम् आरभते तत् समापयतीति दृष्टम् । न चायं भ्रमः बाधकाभावात् । नन्व् अस्तु जीवः कर्ता स चेशाधीन इति चेत्, न । ईश्वरः खल्व् अनुपलभ्यमानोऽपि कल्प्यः स च प्रेरक इत् गौरवात् । तस्मात् जीवस्यैव कर्म-द्वारकं कर्तृत्वं, न त्व् ईशस्येति चेत्, न । कुतः ? क्षीरवद् धि । हि यतः जीवे कार्योपसंहारः क्षीरवत् प्रवर्तते । तृत्यान्तात् वतिः । तेन तुल्य-क्रिया एत् वतिः इति सूत्रात् । यथा,
गवि दृश्यमानम् अपि क्षीरं प्राणाद् एव जायते ।
अन्नं रसादि-रूपेण प्राणः परिणमयत्य् असौ ॥ इति स्मृतेः,
तथा जीवे दृश्यमाणोऽपि सोऽस्वातन्त्र्यात् परेशाद् एवेत्य् अर्थः । वक्ष्यति चैवं—परात् तु तत् श्रुतेः [वे.सू. २.३.३९] इति ॥२४॥
रामपद चट्टोपाध्याय : १०।८५।४, १।१०।२४, १।५।६।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।१६।४२।
न चानुपलब्धि-विरोध इत्य् आह—
देवादिवद् इति लोके
षष्ठ्य्-अन्तादि वार्थे वतिः । अदृश्यमाणस्यापीन्द्रादेर् लोके वर्णनादि-कर्तृत्व-सिद्धेः । तथा चानुपलभ्यमानोऽपीश्वरो विश्व-कर्तेति ॥२५॥
रामपद चट्टोपाध्याय : ३।२३।११-१५, ९।६।३९-४०।
जीव-कर्तृत्व-पक्षे दोषान्तरम् आह—
कृत्स्न-प्रसक्तिर् निरवयव-शब्द-व्याकोपो वा
जीव-कर्तृत्वादिना जीव-स्वरूपस्य निरंशत्वात् कृत्स्नस्य तस्य सर्वस्मिन् कार्ये प्रसक्तिर् वाच्या । न च सा शक्या वक्तुम् अगुल्यादिना तृणोत्तोलनादौ तद्-अननुभवात् । कृत्स्नेन स्वरूपेण प्रवृत्तिः खलु कृत्स्न-सामर्थ्यापेक्षां करोति । सा यथा गुरुतर-दृषद्-उत्थापने स्यात् न तथा त्र्णोत्थापने सामर्थ्यांशानुभवात् । न च स्वरूपांशस्य तत्र प्रसक्तिर् वाच्या । जीव-स्वरूपस्य निरंशत्वात् । स्वीकृते त्व् अंशे निरंशत्व-श्रुति-व्याकोपः, एषोऽणुर् आत्मा इत्य् आदि वाक्य-बाध इत्य् अर्थः । जीवान् भवन्ति भूतानि इत्य् आदि वाक्यं तु ब्रह्म-परमेवेत्य् उक्तं प्राक् । तस्मात् मन्दो जीव-कर्तृत्व-पक्षः ॥२६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।८-९, ६।१६।२४।
अधिकरणम् १२ (शब्द-मूलाधिकरणम्)
अथैतौ दोषौ ब्रह्म-कर्तृत्व-पक्षे स्यातां न वेति वीक्षायां सर्वेषु कार्येषु कृत्स्नेन स्वरूपेण चेत् प्रवर्तते, तर्हि तृणोदञ्चनादौ कृत्स्नस्य प्रसक्तिर् न च सा सम्भवेद् अंशेन तत् सिद्धेः । क्वचिद् अंशेन चेत् प्रवर्तते, तर्हि निष्कलं निष्क्रियम् इत्य् आदि-श्रुति-व्याकोपापत्तिर् अतः स्याताम् इति प्राप्ते—
श्रुतेस् तु शब्द-मूलत्वात्
शङ्का-च्छेदाय तु-शब्दः । उपसंहार-सूत्रान् नेत्य् अनुवर्तते । ब्रह्म-कर्तृत्व-पक्षे लोक-दृष्टा दोषा न स्युः । कुतः ? श्रुतेः । अलौकिकम् अचिन्त्यं ज्ञानात्मकम् अपि मूर्तं ज्ञानवच् चैकम् एव बहुधावभातं च, निरंशम् अपि सांशं च, मितम् अप्य् अमितं च, सर्व-कर्तृ निर्विकारं च ब्रह्म इति श्रवणाद् एवेत्य् अर्थः । तथा हि—बृहच् च तद्-दिव्यम् अचिन्त्य-रूपम् इति मुण्डके अलौकिकत्वादि श्रुतम् । तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो.ता.उ. १.३३], बर्हापीडाभिरामाय रामयाकुण्ठ-मेधसे [गो.ता.उ. १.३६], एकोऽपि सन् बहुधा यो विभाति [गो.ता.उ. १.१९] इति गोपालोपनिषदि ज्ञानात्मकत्वाद् इति । अमात्रोऽनन्त-मात्रश् च द्वैतस्योपशमः शिवः इति माण्डूक्योपनिषदि निरंशत्वेऽपि सांशत्वम् । आसीनो दूरं व्रजति शयानो याति सर्वतः [क.उ. १.२.२१] इति काठके मितत्वेऽप्य् अमितत्वं च । द्याव्-आभूमी जनयन् देव एकः [श्वे.उ. ३.३], एष देवो विश्व-कर्मा महात्मा [श्वे.उ. ४.१७], स विश्व-कृद् विश्व-विद् आत्म-योनिर् [श्वे.उ. ६.१६], निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् [श्वे.उ. ६.१९] इति श्वेताश्वतर-श्रुतौ सर्व-कर्तृत्वेऽपि निर्विकारत्वं चेत्य् एतत् सर्वं श्रुत्य्-अनुसारेणैव स्वीकार्यं, न तु केवलया युक्त्या प्रतिविधेयम् इति ।
ननु श्रुत्यापि बाधितार्थकं कथं बोधनीयम् ? तत्राह—शब्देति । अविचिन्त्यार्थस्य शब्दैक-प्रमाणत्वाद् इत्य् अर्थः । तादृशे मणि-मन्त्रादौ दृष्टं ह्य् एतत् प्रकृते कैमुत्यम् आपादयति । इदम् अत्र निष्कृष्टम् । प्रत्यक्षानुमान-शब्दाः प्रमाणानि भवन्ति । प्रत्यक्षं तावत् व्यभिचारि दृष्टं माया-मुण्डावलोके चैत्रस्येदं मुण्डम् इत्य् आदौ । वृष्ट्या तत्-काल-निर्वापित-वह्नौ चिरम् अधिक-द्वित्वर-धूमे पर्वते वह्निमान् धूमाद् इत्य् अनुमानं च । आप्त-वाक्य-लक्षणः शब्दस् तु न क्वापि व्यभिचरति हिमालये हिमं, रत्नालये रत्नम् इत्य् आदिः । स हि तद्-अनुग्राही तन्-निरपेक्षस् तद्-अवगम्ये साधकतमश् च । दृष्ट-चर-माया-मुण्डस्य पुंसो भ्रान्त्या सत्येऽप्य् अविश्वस्ते तद् एवेदम् इत्य् आकाश-वाण्य्-आदौ । “अरे शीतार्ताः पान्था मास्मिन् वह्निं सम्भावयत दृष्टम् अस्माभिः स इदानीं वृष्ट्यैव निर्वाणः । किन्त्व् अमुष्मिन् धूमोद्गारिणि गिरौ स दृश्यते” इत्य् आदौ च तद्-उभयानुग्राहिता । मणि-कण्ठस् त्वम् असीत्य् आदौ तन्-निरपेक्षता, तद्-अवगम्ये ग्रह-चेष्टादौ साधकतमता चेति शब्दस्य सर्वतः श्रैष्ठ्ये स्थिते ब्रह्म-बोधकस् तु श्रुति-शब्द एव । नावेदविन् मनुते तं बृहन्तम् इत्य् आदि श्रवणात् । स्वतः-सिद्धत्वेन निर्दोषत्वाच् चेति ॥२७॥
रामपद चट्टोपाध्याय : २।६।१७-१८, १।८।१५, ६।९।३१, ६।९।३३, १०।८७।२४।
उक्तम् अर्थं दृष्टान्तेन ग्राहयति—
आत्मनि चैवं विचित्राश् च हि
यथा कल्प-द्रुम-चिन्तामण्य्-आदेर् ईश्वर-विभूति-भूतस्याचिन्त्य-शक्ति-मात्र-सिद्धा हस्त्य्-अश्वादयो विचित्राः सृष्टयो भवन्तीति शब्दात् प्रतीत्य श्रद्धीयते एवम् आत्मनश् च सर्वेश्वरस्य विष्णोर् देव-नर-तिर्यग्-आदयस् तास् तथाभूता भवेयुर् इति तस्माद् एव श्रद्धेयम् । अचिन्त्य-वस्तु-स्वभावस्य तद्-एक-गम्यत्वात् तत्र यथा कृत्स्नेन स्वरूपेण सृज्यन्ते स्वरूपांशेन वा व्यवस्थया वेति युक्तेर् नावकाशस् तथा प्रकृतेऽपीति । तस्मात् यथा-श्रुतम् एव स्वीकार्यम् । सप्तम्य्-अन्त-निर्देशः कार्याधारत्व-विवक्षया । दार्ष्टान्तिके कैमुत्य-द्योतनाय परश् च शब्दः । हि-शब्देन पुराणादि-प्रसिद्धिः सूच्यते । तस्मात् ब्रह्म-कर्तृत्व-पक्षः श्रेयान् ॥२८॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।९।१६।
स एव उपादेय इत्य् आह—
स्व-पक्षे दोषाच् च
स्वस्य तव जीव-कर्तृत्वादिनः पक्षे कृत्स्न-प्रसक्त्य्-आदेर् दोषस्य सत्त्वात् ब्रह्म-कर्तृत्व-पक्षे तस्य निरस्तत्वात् ॥२९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।४।३०।
अधिकरणम् १३ (सर्वोपेताधिकरणम्)
अथ विधान्तरैर् आशङ्क्य समादधति आवैषम्याधिकरणम् । ब्रह्मणः कर्तृत्वं युज्यते न वेति संशये सत्यं ज्ञानम् अनन्तं ब्रह्म, सद् एव सोम्येदम् अग्र आसीत् आत्मा वा इदम् [छा.उ. ६.२.२] इत्य् आदिषु शक्त्य्-अश्रवणात् न युज्यते । शक्तिमान् एव हि तक्षादिर् विचित्र-कार्याय क्षमो वीक्ष्यते नाशक्तिमान् इति प्राप्ते—
सर्वोपेता च तद्-दर्शनात्
च-शब्दोऽवधारणे । सर्वासां शक्तीनाम् उपेता प्राप्तासाव् आत्मा । तृच् प्रत्ययः । सर्व-शक्ति-विशिष्ट एव परमात्मा । कुतः ? तद्-दर्शनात् । देवात्म-शक्तिं स्व-गुणैर् निगूढां [श्वे.उ. १.३], य एकोऽवर्णो बहुधा शक्ति-योगात् [श्वे.उ. ४.१], परास्य शक्तिर् विविधैव श्रूयते [श्वे.उ. ६.८] इत्य् आदि श्रुतिषु तथा-दर्शनात् । विष्णु-शक्तिः परा प्रोक्ता इत्य् आदिका स्मृतिस् तूक्ता । अचिन्त्याश् चैताः । अपाणि-पादोऽहम् अचिन्त्य-शक्तिः, आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः इत्य् आदि स्मृतिभ्यः । तथा चाविचिन्त्य-शक्ति-योगात् ब्रह्मणः कर्तृत्वं युज्यत एवेति । सत्यम् इत्य् आदिषु स्वरूपं परामृष्टम् । देवात्मेत्य् आदिषु तु तस्य शक्तय इति । तस्माद् शक्तिमद् एव ब्रह्म-स्वरूपम् । अत एव तत्र तत्र सोऽकामयत इत्य् आदिना तद् ऐक्षत इत्य् आदिना च तस्यैव सङ्कल्पादयो निरूपिताः । उभयेषां वाक्यानां प्रामाण्येऽविशेषः श्रुतित्वाविशेषात् ॥३०॥
रामपद चट्टोपाध्याय : १०।१६।३६, ११।३।३८, ६।४।२३।
भागवत-भाष्यम् (हरिदास शास्त्री): ३।३३।३, ३।२।२१, २।४।१०।
अधिकरणम् १४ (विकरणत्वाधिकरणम्)
पुनर् आशङ्क्य समाधत्ते । कर्तृत्वं ब्रह्मणो न सम्भवत्य् अनिन्द्रियत्वात् । शक्तिमन्तोऽपि देवादयः सेन्द्रिया एव तत्-तत्-कार्य-क्षमा विज्ञायन्ते । ब्रह्म त्व् अनिन्द्रियं कथं विश्व-कार्याय क्षमं स्यात् ? श्रुतिश् च श्वेताश्वतरैः पठिता तस्येन्द्रिय-शून्यत्वम् आह—
अपाणि-पादो जवनो ग्रहीता
पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥ [श्वे.उ. ३.१९ ॥ इति ।
एवं प्राप्ते ब्रवीति—
विकरणत्वान् नेति चेत् तद् उक्तम्
अनिन्द्रियत्वात् ब्रह्मणः कर्तृत्वं नेति यद् उच्यते तद् उक्तम् उत्तरत्र स्वाभाविक-पर-शक्तिकतां दर्शयन्त्या श्रुत्यैव तत् समाहितम् इत्य् अर्थः । तथा हि तैर् एव पठ्यते—
तम् ईश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेशम् ईड्यम् ॥
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥
न तस्य कश्चित् पतिर् अस्ति लोके
न चेशिता नैव च तस्य लिङ्गम् ।
स कारणं करणाधिपाधिपो
न चास्य कश्चिज् जनिता न चाधिपः ॥ [श्वे.उ. ६.७-९ ॥ इति ।
अपाणीत्य् आदिना पाण्य्-आदि-वर्जितोऽप्य् असौ महा-पुरुषो ग्रहणादि-कार्य-भाग् भवतीत्य् उक्तं प्राक् । तत्र सन्दिहानान् प्रति पुनर् आह तम् इति । पुरुष-मात्र-नियन्तृत्वात् महा-पुरुषत्वं सिद्धम् । कार्यं प्राकृतं करणं च शब्दाद् वपुस् तस्य नास्ति । पर-शक्ति-मयं तु तत् तद् अस्त्य् एव । सा च शक्तिः स्वाभाविकी स्वरूपानुबन्धिन्य् एतेनास्य ज्ञान-बल-क्रिया च तथा । ईदृश-गुण-विरहान् न कोऽपि तस्य समः । अधिकस् तु नास्त्य् एवेत्य् आह न तस्य कश्चिद् इति । तथा च प्राकृत-करण-विरहेऽपि स्वरूपानुबन्धि-करणमत्त्वाद् अनुपपन्नं न वृत्तीनां नियमः प्रतिषिध्यते ।
सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ [श्वे.उ. ३.१६ ॥ इति तैर् एव पठितत्वात् ।
अङ्गानि यस्य सकलेन्द्रिय-वृत्तिमन्ति इति स्मरणाच् च । दृष्टं चेत्थं वन्य-भोजनावसरे । एतत्-पक्षे तस्य न किंचित् कार्यं साध्यम् अस्ति पूर्णत्वात् । अतः करुणं विधानं च न समानम् अन्यत् ॥३१॥
रामपद चट्टोपाध्याय : १०।१३।६, १०।४३।१४, १०।५०।३४, १०।५०।४१, १०।३३।३, १०।८०।८।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२८।
अधिकरणम् १५
सृष्टौ ब्रह्मणः प्रवृत्तिर् उपयुक्ता न वेति विषये पूर्व-पक्षम् आह—
न प्रयोजनवत्वात्
पूर्वतो नेत्य् अनुवर्तते । निषेधार्थकेन न शब्देन समासात् नात्र न लोपः । प्रवृत्तिर् नोपयुज्यते । कुतः ? तस्य पूर्णस्य प्रयोजनाभावात् । स्वार्था परार्था च प्रवृत्तिर् लोके दृष्टा । तत्र नाद्या सम्भवति पूर्ण-कामत्व-श्रुति-विरोधात् । नाप्य् अन्त्या समर्थो हि परानुग्रहाय प्रवर्तते न तु जन्म-मरणादि-विविध-यातना-समर्पणाय । ऋते प्रयोजनात् प्रवृत्तौ त्व् अप्रेक्ष्य-कारितापत्तिस् ततः सर्वज्ञ-श्रुति-व्याकोपः । तस्मान् नोपयुक्ता प्रवृत्तिर् इति ॥३२॥
अधिकरणम् १६ (लीला-कैवल्याधिकरणम्)
एवं प्राप्ते समाधत्ते—
लोकवत् तु लीला-कैवल्यम्
शङ्का-च्छेदाय तु-शब्दः । परिपूर्णस्यापि विचित्र-सृष्टौ प्रवृत्तिर् लीलैव केवला न तु स्व-फलानुसन्धि-पूर्विका । अत्र दृष्टान्तो लोकेति । षष्ठ्य्-अन्तात् वतिः । लोकस्य सुखोन्मत्तस्य यथा सुखोद्रेकात् फल-निरपेक्षा नृत्यादि-लीला दृश्यते तथेश्वरस्य । तस्मात् स्वरूपानन्द-स्वाभाविक्येन लीला । देवस्यैव स्वभावोऽयम् आत्म-कामस्य का स्पृहा इति मण्डूक-श्रुतेः ।
सृष्ट्य्-आदिकं हरिर् नैव प्रयोजनम् अपेक्ष्य तु ।
कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ॥
पूर्णानन्दस्य तस्येह प्रयोजन-मतिः कुतः ।
मुक्ता अव्याप्त-कामाः स्युः किम् उतास्य् अखिलात्मनः ॥ इति स्मरणात् ।
न चात्र दृष्टान्तेनासार्वज्ञ्यं प्रसक्तम् । विना फलानुसन्धिम् आनन्दोद्रेकेण लीलायत इत्य् एतावत् स्वीकारात् । उच्छ्वास-प्रश्वास-दृष्टान्तेऽपि सुषुप्त्य्-आदौ तद्-आपत्तेः । राज-दृष्टान्तस् तु तत्-तत्-क्रीडा-सम्भूतस्य सुखस्य फलत्वान् नोपात्तः ॥३३॥
रामपद चट्टोपाध्याय : ८।२२।२०, ११।२९।७, १०।२।३९, १।९।२९, ६।९।३९, ३।७।२-३, ३।७।९, ३।५।२४, ११।३।३, ३।७।१४, २।१०।४४।
भागवत-भाष्यम् (हरिदास शास्त्री): ३।७।२-३, १०।१४।२१।
अधिकरणम् १७ (वैषम्य-नैर्घृण्याधिकरणम्)
पुनर् आशङ्क्य परिहरति । ब्रह्म-कर्तृत्व-वादोऽसमञ्जसः समञ्जसो वेति वीक्षायां सुख-दुःख-भाजो देव-मनुष्यादीन् सृजति ब्रह्मणि वैषम्याद्यापत्तेर् असमञ्जसः । ततश् च निर्दोषतावादि-श्रुत्य्-उपरोधापत्तिर् इति प्राप्ते –
वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति
ब्रह्मणि कर्तरि वैषम्यं नैर्घृण्यं च दोषो न । कुतः ? सापेक्षत्वात् । स्रष्टुः कर्मापेक्षित्वात् । प्रमाणम् आह तथा हीति । एष एव साधु-कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष एवासाधु कर्म कारयति तं यम् अधो निनीयते ॥ इति बृहद्-आरण्यक-श्रुतिः । क्षेत्रज्ञानां देवादि-भाव-प्राप्तिम् ईश्वर-निमित्तां दर्शयन्ती मध्ये कर्म परामृत्शतीत्य् अर्थः ॥३४॥
रामपद चट्टोपाध्याय : १०।४६।२८, ८।२३।६, १०।३८।२१, १०।७२।६।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।२४।१३, १०।२४।१७।
अधिकरणम् १८ (न कर्माविभागाधिकरणम्)
न कर्माविभागाद् इति चेन् नानादित्वात्
ननु कर्मणा वैषम्यादि-परिहारो न स्यात् । कुतः ? कर्माविभागात् । सद् एव सौम्येदम् इत्य् आदिषु प्राक् सृष्टेर् ब्रह्म-विभक्तस्य कर्मणोऽप्रत्टेर् इति चेत्, न । कुतः ? कर्मणः क्षेत्रज्ञानां च ब्रह्म-वदनादित्व-स्वीकारात् । पूर्व-पूर्व-कर्मानुसारेणोत्तरोत्तर-कर्मणि प्रवर्तनात् न किञ्चिद् दूषणम् । स्मृतिश् च—
पुण्य-पापादिकं विष्णुः कारयेत् पूर्व-कर्मणा ।
अनादित्वात् कर्मणश् च न विरोधः कथञ्चन ॥ इति ।
कर्मणोऽनादित्वेनानवस्था तु न दोषः प्रामानिकत्वात् । न च कर्म-सापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् । द्रव्यं कर्म च कालश् चेत्य् आदिना कर्मादि-सत्तायास् तद्-अधीनत्व-स्मरणात् । न च घट्ट-कुड्यां प्रभातम् इति वाच्यम् । अनादि-जीव-स्वभावानुसारेण हि कर्म कारयति स्वभावम् अन्यथा-कर्तुं समर्थोऽपि कस्यापि न करोतीत्य् अविषमो भण्यते ॥३५॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।५।१७-१८, २।५।२०-२१।
अधिकरणम् १९ (भक्त-पक्ष-पाताधिकरणम्)
वैषम्यादिकं ब्रह्मणि परिहृतम् । भक्त-पक्षपात-रूपं तद् इदानीं तस्मिन्न् अङ्गीकरोति । भक्त-संरक्षणं तद्-वासना-निवारणी च परस्मिन् वैषम्यं न वेति विषये तद्-रक्षणादेर् अपि कर्म-सापेक्षत्वात् न स्याद् इति प्राप्ते—
उपपद्यते चाभ्युपलभ्यते च
भक्त-वत्सलस्यास्य प्रभोस् तत्-पक्षपातो वैषम्यम् एव तद् उपपद्यते सिध्यति । तद्-रक्षणादेः स्वरूप-शक्ति-वृत्ति-भूत-भक्ति-सापेक्षत्वात् । न च निर्दोषता-वादि-वाक्य-व्याकोपः । तद्-रूपस्य वैषम्यस्य गुणत्वेन स्तूयमानत्वात् । गुण-वृन्दम् अञ्जनम् इदम् इत्य् अपि श्रुतिर् आह । यद् विना सर्वे गुणा जनेभ्योऽरोचमानाः प्रवर्तका न स्युः । उपलभ्यते चैतत् श्रुतिषु च । यम् एवैष वृणुते तेन लभ्यस् तस्यैव आत्मा विवृणुते तनुं स्वाम् [क.उ. १.२.२२] इत्य् आद्याः श्रुतयः । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता ७.१४],
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥
अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥
क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ [गीता ९.२९-३१]
इत्य् आद्याः स्मृतयश् च ॥३६॥
रामपद चट्टोपाध्याय : ३।६।३, २।१०।१२, २।५।१४।
भागवत-भाष्यम् (हरिदास शास्त्री): ९।४।६३-६४, ९।४।६६, ९।४।६८।
अधिकरणम् २० (सर्व-धर्मोपपत्त्य्-अधिकरणम्)
सर्व-धर्मोपपत्तेश् च
अविचिन्त्य-स्वरूपे सर्वेश्वरे सर्वेषां विरुद्दानाम् अविरुद्दानां च धर्माणाम् उपपत्तेः सिद्धेश् च भक्त-पक्ष-पातोऽपि गुणः सुज्ञैर् आस्थेय एव । यथा ज्ञानात्मको ज्ञानवान् । स्यामश् चैवम् अविषमो भक्त-प्रेयान् इत्य् आदयो मिथो विरुद्धाः क्षान्त्य्-आर्जवादयो ऽविरुद्धाश् च परस्मिन्न् एव सन्ति । स्मृतिश् च—
ऐश्वर्य-योगात् भगवान् विरुद्धार्थोऽभिधीयते ।
तथापि दोषाः परमे नैवाहार्याः कथञ्चन ॥
गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः ॥ [कू.पु.] इति ।
तथा चाविषमोऽपि हरिर् भक्त-सुहृद् इति सिद्धम् ॥३७॥
रामपद चट्टोपाध्याय : ८।२३।६, १०।३८।२१, १०।४६।२८, १०।७२।६, १२।८।४३, १०।१६।३९, १०।१६।३६।
भागवत-भाष्यम् (हरिदास शास्त्री): ८।१७।९, १०।१६।३३-३४।
॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये द्वितीयाध्यायस्य प्रथमः पादः ॥
अधिकरणम् २१ (पादः २, रचनानुपपत्त्य्-अधिकरणम्)
कृष्ण-द्वैपायनं नौमि यः साङ्ख्याद्य्-उक्ति-कण्टकान् ।
छित्त्वा युक्त्य्-असिना विश्वं कृष्ण-क्रीडा-स्थलं व्यधात् ॥
स्व-पक्षे परैर् उद्भाविता दोषा निरस्ता प्रथमे पादे । द्वितीये तु पर-पक्षा दूष्यन्ते । इतरथा वैदिकं वर्त्म विहाय तेषु जानानां प्रवृत्तिः स्याद् अनर्थं च ते समीयुः । तत्र तावत् साङ्ख्यानां मतं निरस्यते । साङ्ख्याचार्यः कपिलस् तत्त्वानि सञ्जग्राह । सत्त्व-रजस्-तमसां साम्यावस्था प्रकृतिः प्रकृतेर् महान् महतोऽहङ्कारः, अहङ्कारात् पञ्च-तन्मात्राणि उभयम् इन्द्रियं स्थूल-भूतानि, पुरुष इति पञ्चविंशतिर् गुण इति । साम्येनावस्थितानि सत्त्वादीनि प्रकृतिः । तानि च सुख-दुःख-मोहात्मकानि क्रमाद् बोध्यानि । तत्-कार्ये जगति सुखादि-रूपत्व-वर्णनात् । तथा हि तरुणी रत्या पत्युः सुखदेति सात्त्विकी भवति, मानेन दुःखदेति राजसी विरहेणमोहदेति तामसी चेत्य् एवं सर्वे भावाद् द्रष्टव्याः । उभयम् इन्द्रियम् इति । दश बाहेन्द्रियाण्य् एकम् अन्तर्-इन्द्रियं मन इत्य् एकादशेत्य् अर्थः । नित्या विभ्वी च प्रकृतिः । मूले मूलाभावाद् अमूलं मूलम् । न परिच्छिन्नं सर्वोपादानम् । सर्वत्र कार्य-दर्शनात् विभुत्वम् इति सूत्रेभ्यः । महद्-अहङ्कार-पञ्च-तन्मात्राणि सप्त प्रकृति-विकृतयः, अहम्-आदेः प्रकृतयः, प्रधानादेस् तु विकृतय इति । एकादशेन्द्रियाणि पञ्च-भूतानि चेति षोडश विकृतय एव । पुरुषस् तु निष्परिमाणत्वान् न कस्यापि प्रकृतिर् न च विकृतिर् इति । एवम् एवेश्वर-कृष्णश् चाह—
मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त ।
षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ इति ।
सा खलु प्रकृतिर् नित्य-विकारा स्वयम् अचेतनाप्य् अनेक-चेतनाप्य् अनेक-चेतन-भोगापवर्ग-हेतुर् अत्यन्तातीन्द्रियापि तत्-कार्येणानुमीयते । एकैव विषम-गुणा सती परिणाम-शक्त्या महद्-आदि-विचित्र-रचनं जगत् प्रसूते इति जगन्-निमितोपादान-भूता सेति । पुरुषस् तु निष्क्रियो निर्गुणो विभुश् चित्-प्रतिकायं भिनः सङ्घात-परार्थाद् अनुमेयश् च सः । विकार-क्रिययोर् विरहात् कर्तृत्व-भोक्तृत्वयोर् विरहः । एवं स्थिते प्रकृति-पुरुषयोस् तत्त्वे सन्निधि-मात्रात् तयोर् मिथो धर्म-विनिमयः प्रकृतौ चैतन्यस्य पुरुषे तु कर्तृत्व-भोक्तृत्वयोर् अध्यासो भवति । इत्थम् अविवेकात् भोगो विवेकात् तु अपवर्गः । प्रकृत्य्-औदासीन्य-वपुर् इत्य् एवम् आदीन् अर्थान् सोपपत्तिकैः सूत्रैर् निबबन्ध । अस्यां प्रक्रियायां प्रत्यक्षानुमानागमान् प्रमाणानि मेने । त्रिविधं प्रमाणं तत्-सिद्धौ सर्व-सिद्धेर् नाधिक्य-सिद्धिर् इति । तत्र प्रत्यक्षागम-सिद्धेष्व् अर्थेषु नातीव विसंवादः । यत् तु परिमाणात् समन्वयात् । शक्तितश् चेत्य् आदि सूत्रैः प्रधानं जगत्-कारण्णम् अनिमितं तन्-निरस्यं भवति । तेनैव सर्व-तन्-मत-निरासात् । तत्र प्रधानं जगन्-निमित्तोपादानं भवेत् न वेति संशये प्रधानम् एव तथा जगतः सात्त्विकादि-रूपत्वात् प्रधानस्यैव सत्त्वादि-रूपस्य तद्-उपादानत्वेनानुमानात् । घटादि-कार्यस्योपादानं खलु तत्-सजातीयं मृद्-आद्य् एवं दृष्टम् । फलति वृक्षश् चलति जलम् इतिवत् जडस्यापि तस्य कर्तृत्वं च । तस्मात् प्रधानम् एव जगद्-उपादानं जगत्-कर्तृ चेत्य् एवं प्राप्ते—
रचनानुपपत्तेश् च नानुमानम्
अनुमीयते जगद्-धेतुतयेत्य् अनुमानं जडं प्रधानम् । तन् न जगद् उपादानं, न च तन्-निमित्तम् । कुतः ? रचनेति । विचित-जगद्-रचनायाश् चेतनानधिष्ठितेन जडेन तेनासिद्धेर् इत्य् अर्थः । न खलु चेतनानधिष्टितैर् इष्टकादिभिः प्रसादादि-रचना सिद्धा लोके । च-शब्देनान्वयानुपपत्तिः समुच्चिता । न हि बाह्या घटादयः सुखादि-रूपतयान्विताः । सुखादीनाम् आन्तरत्वात् घटादीनां सुखादि-हेतुत्वात् । तद्-रूपत्वाप्रतीतेश् च ॥१॥
प्रवृत्तेश् च
जडस्य चेतनाधिष्ठितत्वे सतीति शेषः । यस्मिन्न् अधिष्ठातरि सति जडं प्रवर्तते तस्यैव सा प्रवृतिर् इति निश्चितं रथ-सूतादौ । इत्थं च फलतीत्य् आदिकं प्रत्युक्तम् । तत्रापि चेतनाधिष्ठितत्वात् तच् चान्तर्यामि-ब्राह्मणात् । एतत् परत्र स्फुटीभावि । चोऽवधरणे । अहं करोमीति चेतनस्यैव प्रवृत्ति-दर्शनात् जडस्य कर्तृत्वं नेति वा ।
ननु प्रकृति-पुरुषयोः सन्निधि-मात्रेण मिथो धर्माध्यासात् जगद्-रचनोपपत्तिर् इति चेद् उच्यते अध्यास-हेतुः सन्निधिः किं तयोः सद्-भावः किं वा प्रकृति-पुरुष-गतः कश्चिद् विकार इति । नाद्यः मुक्तानाम् अप्य् अध्यास-प्रसङ्गात् । अन्त्योऽपि न तावत् प्रकृति-गतो विकारः अध्यास-कार्यतयाभिमतस्य तस्याध्यास-हेतुत्वायोगात्, न च पुरुष-गतः अस्वीकारात् ॥२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।९।३०।
ननु पयो यथा दधि-भावेन स्वतः परिणमते, यथा चाम्बु वारिदम् उक्तम् एक-रसम् अपि ताल-चूतादिषु मधुराम्लादि-विचित्र-रस-रूपेण तथा प्रधानम् अपि पुरुष-कर्म-वैचित्र्यात् तनु-भुवनादि-रूपेणेति चेत्, तत्राह—
पयोऽम्बुवच् चेत् तत्रापि
तयोः पयोऽम्बुनोर् अपि चेतअ-धिष्ठितयोर् एव प्रवृत्तिः, न तु स्वतः रथादि-दृष्टान्तेन तथानुमानात् । तयोस् तद्-अधिष्ठितत्वं चान्तर्यामि-ब्राह्मणात् सिद्धम् ॥३॥
रामपद चट्टोपाध्याय : ७।६।२०-२१, ८।३।३, १०।८५।४, ११।२।३९।
भागवत-भाष्यम् (हरिदास शास्त्री): ७।९।३०।
व्यतिरेकानवस्थितेश् चानपेक्षत्वात्
अप्य्-अर्थे च-कारः । सृष्टेः प्राक् प्रधान-व्यतिरेकेण हेत्व्-अन्तरानवस्थितेर् अनपेक्षत्वान् न केवलस्य प्रधानस्य स्व-परिणाम-कर्तृत्वम् । प्रधान-व्यतिरिक्तस् तत्-प्रवर्तकस् तन्-निवर्तको वा हेतुर् आदि-सर्गात् पूर्वं नावतिष्ठते इति यत् स्वीकृतं तस्यापि पुनर् अपेक्षणात् । चैतन्यस्य सन्निधेर् हेत्व्-अन्तरस्याङ्गीकाराद् इति यावत् । तथा च केवल-जड-कर्तृत्व-वाद-भङ्गः । किं च, व्यतिरिक्त-हेत्व्-अभावात् सन्निधि-सत्त्वाच् च प्रलयेऽपि कार्योद्य-प्रसङ्गः । न च तदादृष्टोद्बोधनाभावात् कार्याभावः । तद्-उद्बोधस्यापि तदैवापाद्यमानत्वात् ॥४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।१।६
ननु लता-तृष्णा-पल्लवादि विनैव हेत्व्-अनरं स्वभावाद् एव क्षीराकारेण परिणमते तथा प्रधानम् अपि महद्-आद्य्-आकारेणेति चेत्, तत्राह—
अन्यत्राभावाच् च न तृणादिवत्
अवधृतौ च-शब्दः । नैतच् चतुरस्रम् । अन्यत्राभावात् । वईवर्दादि-भक्षिते तृणादिके ज्ञीर्-आकार-परिणामाभावाद् इत्य् अर्थः । यदि स्वभावाद् एव तृणादि क्षीरात्मना परिणमते तर्हि चवरादि-पतितेऽपि तथा स्यान् न चैवम् अस्य् अतो न स्वभाव-मात्रं हेतुः, किन्तु व्यक्ति-विशेष-सम्बन्धात् सर्वेश-सङ्कल्प एव तथेति ॥५॥
प्रधानस्य जाड्यात् स्वतः-प्रवृतिर् न समस्तीत्य् आपादितम् । अथ त्वन्-मुखोलासाय तां चेद् अभ्युपगच्छामस् तथापि न किञ्चित् तवाभीष्टं सिद्ध्येद् इत्य् आह—
अभ्युपगमेऽप्य् अर्थाभावात्
चतुर्षु नेत्य् अनुवर्तते । पुरुषो मां भुक्त्वा मद्-दोषान् अनुभूय मद्-औदासीन्य-लक्षणं मोक्षं प्राप्स्यति इति तद्-भोगापवर्गार्थां प्रधान-प्रवृत्तिं मन्यते । प्रधान-प्रवृत्तिः परार्था स्वतोऽप्य् अभोक्तृत्वाद् उष्ट्र-कुङ्कुम-वहनवद् इति । अकर्तापि पुरुषो भोक्तेति च मन्यते । अकर्तुर् अपि फलोपभोगोऽन्नादवद् इति । सैषा प्रवृत्तिर् न युक्ता मन्तुम् । कुतः ? तस्या स्वीकारे फलाभावात् । पुरुषस्य प्रकृति-दर्शन-रूपो भोगस् तद्-औदासीन्य-रूपो मोक्षश् च प्रवृत्तेः फलम् । तत्र भोगस् तावन् न सम्भवति । प्रवृत्तेः प्राक्चैतन्य-मात्रस्य निर्विकारस्याकर्तुः पुरुषस्य तद्-दर्शन-रूप-विकारायोगात् । न चापवर्गः । प्राग् अपि प्रवृत्तेस् तस्य सिद्धत्वेन तद्-वैयर्थ्यात् । सन्निधि-मात्रस्य भोग-हेतुत्वे तु मुक्तानां तद्-आपत्तिः, तस्य नित्यत्वात् ॥६॥
रामपद चट्टोपाध्याय : १०।८७।३४।
ननु यथा गति-शक्ति-रहितस्य दृक्-शक्ति-सहितस्य पङ्गु-पुरुषस्य सन्निधानात् गति-शक्तिमान् दृक्-शक्ति-रहितोऽप्य् अन्धः प्रवर्तते, यथा चाअस्कान्ताश्मनः सन्निधानाज् जडम् अप्य् अयश् चलति एवं चिन्-मात्रस्य पुंसः सन्निधानाद् अचेतनापि प्रकृतिस् तच्-छायया चेतनेव तद्-अर्थे सर्गे प्रवर्तेतेति चेत्, तत्राह—
पुरुषाश्मवद् इति चेत् तथापि
तथापि तेनापि प्रकारेण जडस्य स्वतः प्रवृत्तिर् न सिद्ध्यति । पङ्गोर् गति-वैकल्येऽपि वर्त्म-दर्शन-तद्-उपदेशादयोऽन्धस्य दृक्-शक्ति-विरहेऽपि तद्-उपदेश-ग्रहादयो विशेषाः सन्ति । अयस्कान्त-मणेश् चायः-सामीप्यादयः । पुरुषस्य तु नित्य-निष्क्रियस्य निर्धर्मकस्य न कोऽपि विकारः । सन्निधि-मात्रेण तस्मिन् स्वीकृते तस्य नित्यत्वान् नित्यं सर्गो मोक्ष्भावश् च प्रसज्येत । किं च पङ्ग्व्-अन्धाव् उभौ चेतनौ अयस्कान्तायसी च द्वे जडे इति दृष्टान्त-वैषम्यं विस्फुटम् ॥७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।६।१६, ७।५।१४
यत् तु गुणानाम् उत्कर्षापकर्ष-वशेनाङ्गाङ्गि-भावाद् विश्व-सृष्टिर् इति मन्यते तन् निरस्यति—
अङ्गित्वानुपपत्तेश् च
सत्त्वादीनां साम्येनावस्थितिः प्रधानावस्था । तस्या च निरपेक्ष-स्वरूपाणां तेषां कस्यचिद् एकस्याङ्गित्वं नोपपद्यते, इतरयोस् तत्-समत्वेन गुणीभावासम्भवात् । तथा च गुणानाम् अङ्गाङ्गि-भावासिद्धिः । न चेश्वरः कालो वा तत्-कृत् अस्वीकारात् । यथाह कपिलः—ईश्वरासिद्धेः मुक्त-बद्धयोर् अन्यतराभावान् न तत्-सिद्धिर् इति । दिक्-कालावकाशादिभ्य इति च । न च पुरुषस् तत्-कृत् तस्य तत्रौदासीन्यात् । तथा च गुण-वैषम्य-हेतुकः सर्गो नेति । किं चैवं हेत्व्-अभावात् प्रतिसर्गेऽपि ते वैषम्यं भजेरन् । आदि-सर्गे तु न भजेरन्न् इति ॥८॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।६।१७।
ननु कार्यानुरोधेन गुणा विचित्र-स्वभावा भवन्तीत्य् अनुमेयम् । तेन नोक्त-दोषावकाश इति चेत्, तत्राह—
अन्यथानुमितौ च ज्ञ-शक्ति-वियोगात्
विचित्र-शक्तिकतया गुणानाम् अनुमानेऽपि न दोषान् निस्तारः । कुतः ? ज्ञेति । ज्ञातृत्व-विरहाद् इत्य् अर्थः । इदम् अहम् एवं च सृजामीति विमर्शाभावाद् इति यावत् । ज्ञान-शून्याज् जडान् न सृष्टिर् इष्टकादेर् इव ऋते चेतनाधिष्ठानाद् इति ॥९॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।१।१।
उपसंहरति—
विप्रतिषेधाच् चासमञ्जसम्
पूर्वोत्तर-विरोधाच् चेदं कपिल-दर्शनम् असमञ्जसम् । निःश्रेयस-कामैर् हेयम् इत्य् अर्थः । तथा हि, प्रकृतेः पारार्थ्याद् दृश्यत्वाच् च तस्या भोक्ता द्रष्टाधिष्ठाता च पुरुष इति शरीरादि-व्यतिरिक्तः पुमान्, संहत-परार्थत्वात् इत्य् आदिभिर् अभ्युपगम्य तस्य पुनर् निर्विकार-निर्धर्मक-चैतन्यत्व-कर्तृत्व-शून्यत्वं कैवल्य-रूपत्वं चाभिहितम् । जड-प्रकाश-योगात् प्रकाशः, निर्गुणत्वान् न चिद्-धर्मा इत्य् आदिभिः । गुणाविवेक-विवेकौ पुंसौ बन्ध-मोक्षौ स्वीकृत्य तौ पुनर् गुणानाम् एव, न तु पुंस इत्य् उक्तम् । नैकान्ततो बन्ध-मोक्षौ पुरुषस्याविवेकाद् ऋते, प्रकृतेर् आञ्जस्यात् ससङ्गत्वात् पशुवत् इत्य् एवम् आदयोऽनेके विप्रतिषेधास् तत्-स्मृताव् एव मृग्याः ॥१०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ७।९।४९, ११।११।१
अधिकरणम् २२ (महद्-दीर्घाधिकरणम्)
अथारम्भ-वादो निरस्यते । तार्किका मन्यन्ते पार्थिवादयश् चतुर्विधाः परम्णवो निरवयवा रूपादिमन्तः पारिमाण्डल्य-परिमाणाः प्रलय-कालेऽनारब्ध-कार्यास् तिष्ठन्ति, सर्ग-काले तु जीवादृष्टादि-पुरःसराः सन्तः द्व्यणुकादि-क्रमेण सावयवं स्थूलतरं जगत्-कार्यम् आरभन्ते । तत्र द्वयोः परमाण्वोर् अदृष्ट-सापेक्षा क्रिया, तया संयोगे सति द्व्यणुकं ह्रस्वम् उत्पद्यते । तत्र समवाय्य् असमवायि-निमित्त-कारणानि क्रमात् परमाणु-युग्म-तत्-संयोग-जीवादृष्टानीत्य् एवम् अग्रेऽपि । ततस् त्रयाणां द्व्यणुकानां क्रियया संयोगे सति त्र्यणुकं महद् उत्पद्यते । न च द्वाभ्याम् अणुभ्यां त्र्यणुकारम्भः कारण-भूम्ना कार्य-महत्त्वोत्पादनात् । एवं चतुर्भिस् त्र्यणुकैश् चतुरणुकं, चतुरणुकैर् अपरं स्थूलतरं, तैश् च स्थूलतरं, तैश् च स्थूलतमम् इत्य् एवं-क्रमेण महती पृथिवी, महत्य् आपो, महत् तेजो, महान् वायुश् चोत्पद्यते । कार्य-गत-रूपादिकं तु स्वाश्रय-समवायि-कारण-गताद् रूपादेः । कारण-गुणा हि कार्य-गुणान् आरभन्ते । इत्थम् उत्पन्नान् पृथिव्य्-आदीन् ईश्वरे संजिहीर्षौ सति परमाणुषु क्रियया विभागात् संयोग-नाशेन द्व्यणुकेषु नष्टेष्व् आश्रय-नाशात् त्र्यणुकादि-नाश इति क्रमेण पृथिव्य्-आदेर् नाशः । यथा पटस्य तन्तु-नाशे तद्-गतस्य रूपादेस् तु स्वाश्रय-नाशेनैवेति जगद्-विलय-प्रकारः ।
किं च, परमाणुर् अत्र परिमण्डल-संज्ञस् तत्-समवेतं परिमाणं तु पारिमाण्डल्यम् अभिधीयते । द्व्यणुकम् अणु-संज्ञं तत्-समवेतं परिमाणं त्व् अणुत्वं ह्रस्वत्वं च । त्र्यणुकादि-परिमाणं तु महत्त्वं दीर्घत्वं चेति प्रक्रिया ।
तत्र संशयः—परमाणुभिर् जगद्-आरम्भः समञ्जसो न वेति । तत्रादृष्टवदात्म-संयोग-हेतुकं परमाणु-गताद्य्-अक्रिया-जन्य-तद्-युग्म-संयोगारब्ध-द्व्यणुकादि-क्रमेण सृष्टेः सम्भवात् समञ्जस इति प्राप्ते परिह्रियते—
महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्
इह वेति चार्थे । पूर्वतोऽसमञ्जसम् इत्य् अनुवर्तते । ह्रस्व-परिमण्डलाभ्यां द्व्यणुक-परमाणुभ्यां महद्-दीर्घ-त्र्यणुकवत् तन्-मतं सर्वम् असमञ्जसम् । परिमण्डलेभ्यो द्व्यणुकानि तेभ्यस् त्र्यणुकानि तेभ्यश् चतुरणुकादि-क्रमेण पृथिव्य्-आदीनाम् उत्पत्तिर् इतिवद् अन्यापि तत्-प्रक्रिया विरुद्धेत्य् अर्थः । तथा हि परमाणुभिः सावयवानि द्व्यणुकान्य् आरभ्यन्त इति न युक्तम् । सावयवैः षड्भिः पार्श्वैः संयुज्यमानानां तन्तूनाम् अवयवि-पटारम्भकत्व-दर्शनात् । तस्मात् सप्रदेशाः परमाणवोऽङ्गीकार्याः । इतरथा सहस्र-परमाणूनां संयोगेऽपि पारिमाण्डल्यानधिक-परिमाणतया प्रथिमानुपपत्तेर् अणुत्व-ह्रस्वत्व-महत्त्वाद्य्-असिद्धिः । न च कारण-भूमा कार्य-महत्त्वोत्पादकः मनः-कल्पन-मात्रत्वात् । तथाङ्गीकृतेऽपि प्रदेश-भेदे तेऽपि सांशाः स्वैर् अंशैस् तेऽपि पुनः स्वैर् इत्य् अनवस्था अंशानन्त्य-साम्येन मेरु-सर्षपयोस् तौल्य-प्रसङ्गश् च । तस्मात् महद्-दीर्घ-त्र्यणुकं ह्रस्व-द्व्यणुकोत्पन्नं ह्रस्व-द्व्यणुकं च परिमण्डलोत्पन्नम् इति रिक्तं वचः । न चैतत् सूत्रं स्व-दोष-निरासकतया व्याख्येयम् अस्य पादस्य पर-पक्षाक्षेपकत्वात् ॥११॥
रामपद चट्टोपाध्याय : ५।१२।९, ५।१२।११, १०।८७।२१।
भागवत-भाष्यम् (हरिदास शास्त्री): ३।११।१-२, ३।११।४१-४२, ५।१२।९
किम् अन्यद् असमञ्जसं ? तत्राह—
उभयथापि न कर्मातस् तद्-अभावः
परमाणु-क्रिया-जन्य-तत्-संयोग-पूर्वक-द्व्यणुकादि-क्रमेण तार्किकैर् जगद्-उत्पत्तिर् इष्यते । तत्र परमाणु-क्रिया किं परमाणु-गताद् दृष्ट-जन्या किं वात्म-गतादृष्ट-जन्येति । नाद्यः आत्म-पुण्यापुण्य-जन्यादृष्टस्य परमाणु-गतत्वासम्भवात् । नाप्य् अन्त्यः आत्म-गतेन तेन परमाणु-गत-क्रियोत्पत्त्य्-असम्भवात् । न च संयुक्त-समवाय-सम्बन्धात् सम्भविष्यति निरवयवानां परमाणूनां निरवयवेनात्मना संयोगानुपपत्तेः । तद् एवम् अनुभ्यथापि नाद्य-क्रिया-जनकम् अदृष्टम् । जाड्याच् च न ह्य् अचेतनं चेतनानधिष्ठितं स्वतः प्रवर्तते प्रवर्तयति चेति परीक्षितं प्राक् । न चात्मा वा तत्-प्रवर्तकः । तदानुतत्पन्न (सिच्)-चैतन्यस्य तस्यापि तत्त्वात् । न चादृष्टानुसारीश्वरेच्छा तत्-क्रिया-हेतुः तस्या नित्यत्वेन नित्यं तत्-प्रसङ्गात् । न चादृष्टोद्बोधाभावात् प्रतिसर्गे तद्-अभावः तस्यापि सामग्री-सत्त्वेऽनावश्यकत्वात् । ततश् च नियतस्य कस्यचित् क्रिया-हेतोर् अभावान् न सा । परमाणुषु तद्-अभावान् न तत्-संयोगः । तद्-अभावाच् च न द्व्यणुकादिकम् इत्य् अतस् तद्-अभावः सर्गाभावः स्यात् ॥१२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।२६।
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः
समवाय-स्वीकाराच् चासमञ्जसं तन्-मतम् । कुतः ? साम्याद् इति । परमाणूनां द्व्यणुकैः सह समवायः सम्बन्धस् तार्किकैर् अङ्गीकृतः । स खलु न सम्भवति । तस्यापि सम्बन्धित्व-साम्यात् । तत्रापि समवायापेक्षायाम् अनवस्थापत्तेः । तथा हि गुण-क्रिया-जाति-विशिष्ट-बुद्धिं जनयन् समवायस् तैः सम्बन्ध एव जनयेद् अन्यथाति-प्रसङ्गात् । तथा च समवायान्तराङ्गीकारेऽनवस्था । स्वरूपम् एव तत्र सम्बन्ध इति चेत्, तर्ह्य् अन्यत्रापि स एवास्तु, किं तेन ? न च युक्तः सोऽभ्युपगन्तुम् । तस्य स्वरूप-मात्रतया सर्वत्र सर्व-धर्म-प्राप्तेः ।
किं च, समवाय-वादिनां वायौ गन्धः, पृथिव्यां शब्दः, आत्मनि रूपं, तेजसि बुद्धिर् इत्य् आपद्येत । समवायस्यैकत्वेन तत्-तत्-समवायस्य तत्र सत्त्वात् । न च तन् निरूपितः स नास्तीति बोध्यम्, तत्-तन्-निरूपितत्वस्यापि स्वरूप-मात्रत्वेन तस्यापि तत्त्वात् । अतिरिक्तस्य च नियत-पदार्थ-वादेऽसम्भवात् । तस्माद् विरुद्धस् तर्क-समयः ॥१३॥
नित्यम् एव च भावात्
समवायस्य नित्यत्व-स्वीकारात् तत्-सम्बन्धिनोऽपि जगतो नित्यत्व-प्रसङ्गाद् असमञ्जसं तन्-मतम् ॥१४॥
रूपादिमत्वाच् च विपर्ययो दर्शनात्
पार्थिवाप्य् अतैजस-वायवीयानां परमाणूनां रूप-रस-गन्ध-स्पर्शवत्वाङ्गीकारात् तेषु नित्यत्व-निरवयवत्व-विपर्ययोऽनित्यत्व-सावयवत्व-प्राप्तिः स्यात्, रूपादिमति घटादौ तथा-दर्शनाद् इति स्वीकार-परित्यागाद् असमञ्जसं तन्-मतम् ॥१५॥
रामपद चट्टोपाध्याय : ५।१२।९-१०
उभयथा च दोषात्
परमाणूनां रूपाद्य्-अनङ्गीकारे स्थूल-पृथिव्यादेर् अपि तद्-अभावाप्तिः । तत्-परिजिहीर्षया रूपाद्य्-अज्ञीकारे तु प्राक्-उक्त-दोषः इत्य् उभयथा क्षोदाक्षमत्वाद् असमञ्जसं तन्-मतम् ॥१६॥
अपरिग्रहाच् चात्यन्तम् अनपेक्षा
कपिलादि-मतानां केनचिद् अंशेन शिष्टैर् मन्व्-आदिभिः परिग्रहात् कथञ्चिद् अपेक्षा स्यात् । अस्य तु परमाणु-कारण-वादस्य वेद-विरुद्धस्य तैः केनाप्य् अंशेनापरिग्रहाद् असङ्गतेश् च नात्र श्रेयोऽर्थिनाम् अपेक्षा स्याद् इति ॥१७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।१०
अधिकरणम् २३ (समुदायाधिकरणम्)
इदानीं बुद्ध-मतं निराक्रियते । तत्र बुद्ध-मुनेर् वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिकाख्याश् चत्वारः शिष्याः । तेषु बाह्यः सर्वोऽप्य् अर्थः प्रत्यक्ष इति वैभाषिकः । बुद्धि-वैचित्र्याद् अर्थोऽनुमेय इति सौत्रान्तिकः । अर्थ-शून्यं विज्ञानम् एव परमार्थसत् बाह्यार्थस् तु स्वाप्न-तुल्य इति योगाचारः । सर्वं शून्यम् इति माध्यमिकः । इत्य् एवं ते मतानि दध्रुः । भाव-पदार्थः सर्वत्र क्षणिकः । तत्राद्यौ भूत-भौतिकश् चित्त-चैत्त्यश् चेति समुदाय-द्वयं मन्येते । तथा हि रूप-विज्ञान-वेदना-संज्ञा-संस्काराख्याः पञ्च स्कन्धाः भवन्ति । तेषु खर-स्नेहोष्ण-चलन-स्वभावाः पार्थिवादयश् चतुर्विधाः परमाणवः पृथिवादि-भूत-चतुष्टय-रूपेण संहन्यन्ते । तच् चतुष्टयंच देहेन्द्रिय-विषय-रूपेणेति स एष भूत-भौतिकात्मा रूप-स्कन्धो बाह्य-समुदायः । अहं-प्रत्ययम् आरूढो ज्ञान-सन्तानो विज्ञान-स्कन्धः । स एष कर्ता भोक्ता चात्मा । सुख-वेदना दुःख-वेदना च वेदना-स्कन्धः । देवदत्तादि-नामधेयं संज्ञा-स्कन्धः । राग-द्वेष-मोहादिश् चैतसिको धर्मः संस्कार-स्कन्धः । ते एते चत्वार-स्कन्धाश् चित्त-चैत्तिकाः कथ्यन्ते । सर्व-व्यवहारास्पदत्वेन चान्तः संहन्यन्ते । तद् अयम् आन्तरः समुदायश् चतुः-स्कन्धी-रूपः । इदम् एव समुदाय-द्वयम् अशेषं जगत् । एतद् अन्यद् आकाशादिकम् अवस्तु-भूतम् इति ।
अत्र संशयः । एषा समुदाय-द्वय-कल्पना युक्ता न वेति । एतेनैव जगद्-व्यवहारोपपत्तेर् युक्तेति प्राप्ते प्रतिविधत्ते—
समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः
योऽयम् उभय-संघात-हेतुक उभय-विधः समुदायो निरूपितस् तस्मिन् स्वीकृतेऽपि तद्-अप्राप्तिर् जगद्-आत्मक-समुदायासिद्धिः । समुदायिनाम् अचेतनत्वात्, अन्यस्य च संहन्तुः स्थिर-चेतनस्याभावात् । तस्य च भाव-क्षणिकत्वाङीकारात् । स्वतः-प्रवृत्त्य्-उरीकृतौ तत् सातत्य-प्रसङ्गः । तस्माद् अयुक्ता तत्-कल्पना ॥१८॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।९, ६।१६।६, ६।१६।८।
ननु सौगत-समयेऽविद्यादयो मिथो हेतु-फल-भावम् आपन्नाः स्वीक्रियन्ते अप्रत्याख्येयाश् च ते सर्वेषाम् । तेषु च मिथस् तथा-भावेन घटीयन्त्रवत् सन्ततम् आवर्तमानेष्व् अर्थाक्षिप्तः सङ्घातस् तम् अन्तरेणैषाम् असिद्धेः । ए चाविद्या संस्कारो विज्ञानं नाम रूपं षड्-आयतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर् जरा मरणं शोकः परिवेदना दुःखं दुर्मनस् ता चेति, तत्राह—
इतरेतर-प्रत्ययत्वाद् इति चेन् नोत्पत्ति-मात्र-निमित्तत्वात्
प्रत्यय-शब्दो हेतु-वाची । अविद्यादीनां परस्पर-हेतुत्वाद् उपपन्नः संघातः इति यद् उक्तं तन् न । कुतः ? उत्पत्तीति । तेषां पूर्व-पूर्वम् उत्तरोत्तरस्योत्पत्ति-मात्रं प्रति निमित्तं स्यान् न तु सङ्घातं प्रति किञ्चित् तद् अस्तीति । किं च भोगार्थं सङ्घातः । न च क्षणिकेष्व् आत्मसु भोगः सम्भवति । तद्-धेतोर् धर्माधर्मादेस् तैः पूर्वम् असम्पादनात् । न च तत्-सन्तानेन स सम्पादितः । तस्य स्थायित्वे सर्व-क्षणिकत्व-प्रतिज्ञा-व्याकोपात् । क्षणिकत्वे प्राग्-उक्त-दोषानतिवृत्तेः । तस्माद् असङ्गतः सौगत-समयः ॥१९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।२२।३७।
इदानीम् अविद्यादीनां मिथो हेतुत्वं दूषयति—
उत्तरोत्पादे च पूर्व-निरोधात्
नेत्य् अनुवर्तते । क्षण-भङ्ग-वादिनो मन्यन्ते उत्तरस्मिन् क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्येत इति । उत्तर-क्षण-वर्तिनि कार्ये जायमाने सति पूर्व-क्षण-वर्ति कारणं विनश्यतीति तद्-अर्थः । न चैवम् उरीकुर्वताविद्यादीनां मिथो हेतु-हेतुमद्-भावः शक्यो विधातुं निरुद्धस्य पूर्व-क्षण-वर्तिनो निरुपाख्यत्वेनोत्तर-क्षण-वर्ति-हेतुतानुपपत्तेः । कारणं हि कार्यान्स्यूतं दृष्टम् ॥२०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।९।
असतः सद्-उत्पत्तिं ते मन्यन्ते । नानुपमर्दय प्रादुर्भावाद् इति । तां दूषयति—
असति प्रतिज्ञोपरोधो यौगपद्यम् अन्यथा
असत्य् उपादाने चेत् कार्यं तदा स्कन्ध-हेतुका समुदायोत्पत्तिर् इति प्रत्ज्ञा-भङ्गः । सर्वदा सर्वत्र सर्वं चोत्पद्येत उत्पन्नं चासत्, अन्यथोपादानाच् चेत् कार्यं, तर्हि यौगपद्यं कार्य-कारणयोः सहावस्थितिः स्यात् कार्यानुस्यूतस्योपादानत्वात् । तथा च भाव-क्षणिकत्व-मत-भङ्गः । तस्मान् नासतः सद्-उत्पत्तिः ॥२१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१६।११।
दीप्सयैव घटादेर् निरन्वयं विनाशं मन्यन्ते । तं दूषयति—
प्रतिसङ्ख्याप्रतिसङ्ख्या-निरोधा प्राप्तिर् अविच्छेदात्
भावानां धी-पूर्वको ध्वंसः प्रतिसङ्ख्या-निरोधः । तद्-विलक्षणस् त्व् अपर्तिसङ्ख्या-निरोधः । आवरणाभाव-मात्रम् आकाशम् । एतत् त्रयं निरुपख्यं शून्यम् इति यावत् । तद् अन्यत् सर्वं क्षणिकम् । यद् उक्तं—बुद्धि-बोध्यं त्रयाद् अन्यत् संस्कृतं क्षणिकं च इति । तत्राकाशं परत्र निराकरिष्यति । निरोधौ तावन् निराकरोति प्रतिसङ्ख्येति । एतयोर् निरोधयोर् अप्राप्तिर् असम्भवः स्यात् । कुतः ? अविच्छेदात् । सतो निरन्वय-विनाशाभावात् । अवस्थान्तरापत्तिर् एव सतो द्रव्यस्योत्पत्तिर् विनाशश् च । अवस्थाश्रयो द्रव्यं त्व् एकं स्थायीति । न च दीप-नाशस्य निरन्वयत्व-वीक्षणाद् अन्यत्रापि तथास्त्व् इति वाच्यम् अवस्थान्तरापत्तेर् एवान्यत्र नाशत्वे निश्चिते दीपेऽपि तस्या एव तत्त्वेन निश्चेयत्वात् । अनुपलम्भस् त्व् अतिसौक्ष्म्याद् एव । सद्-वस्तुनो निरन्ययश् चेद् विनाशस् तर्हि क्षणान्तरं विश्वं निरूपाख्यं पश्येस् त्वं च न भवेर् न चैवम् अस्ति । तस्माद् अनुपपन्नः सः ॥२२॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३०।
अथ तद्-अभिमतां मुक्त्ं दूषयति—
उभयथा च दोषात्
त्रिषु मण्डूक-प्लुत्या नेत्य् अनुवर्तते । योऽयं संहार-हेतोर् अविद्यादेर् निरोधो बौद्धैर् मोक्षोऽभिमतः, स किं साक्षात् तत्त्व-ज्ञानात् स्यात् स्वयम् एव वा । नाद्यः निर्हेतुक-विनाश-स्वीकार-वैयर्थ्यात् । नेतरः साधनोपदेश-नैरर्थक्याद् इत्य् उभयथापि विचारासहत्वात् तद्-अभिमतो मोक्षोऽपि न सिध्यति ॥२३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।६, १०।८७।२८, १।८।४२।
अथाकाशस्य निरूपाख्यत्वं निरस्यते—
आकाशे चाविशेषात्
आकाशे या निरूपाख्यताभिमता सा न सम्भवति । कुतः ? अविशेषात् । इह श्येन उत्पततीति प्रतीत्या तत्रापि पृथिव्य्-आदिवद् भाव-रूपत्वात् गन्धादि-गुणानां पृथिव्य्-आदि-वस्त्व्-आश्रयत्व-वीक्षणाच् छब्द-गुणस्याप्य् आकाशो वस्तु-भूत एवाश्रय इत्य् अनुमानाच् च । वायुर् आकाश-संश्रय इति त्वद्-उक्त्य्-असङ्गतेश् च । अपि च आवरणाभाव-मात्रम् आकाशम् इति न शक्यं वक्तुं क्षोदाक्षमत्वात् । तथा हि, न तावत् प्राग्-अभावादि-त्रयम् आकाशः । पृथिव्य्-आदेर् आवरणस्य सत्त्वेन तद्-अप्रतीति-प्रसङ्गात् विश्वं निराकाशं स्यात् । आकाशस्य सत्त्वेन पृथिव्य्-आद्य्-अप्रतीत्-प्रसङ्गाच् च । नाप्य् अन्योन्याभावः तस्य तत्-तद्-आवरण-गतत्वेन तन्-मध्याकाशापर्तीति-प्रसङ्गाद् इति यत् किञ्चिद् एतत् । यत्रावरणाभावस् तद् आकाशम् इति चेत्, तर्हि वस्तु-भूतम् एव तत् आवरणाभावेन विशेषितत्वात् । तस्मात् पृथिव्य्-आदिवद् भाव-भूतम् एवाकाशं, न तु निरुपाख्यम् ॥२४॥
रामपद चट्टोपाध्याय: ३।५।३२, ३।२६।३१।
अथ भावस्य क्षणिकत्वं दूषयति—
अनुस्मृतेश् च
पूर्वानुभूत-वस्तु-विषया धीर् अनुस्मृतिः । प्रत्यभिज्ञेति यावत् । समस्तं वस्तु तद् एवेदम् इति पूर्वानुभूतम् अनुसन्धीयतेऽतः क्षणिकत्वं भावस्य न । न च सेयं गङ्गा तद् इदं दीपार्चिर् इतिवत् सादृश्य-निबन्धना, न तु वस्त्व्-ऐक्य-निबन्धना सेति वाच्यम्, सादृश्य-ग्रहीतुर् एकस्य स्थायिनोऽभावेन तद्-अयोगात् । किं च बाह्ये वस्तुनि कदाचित् संशयः स्यात् तद् एवेदं तत्-सदृशं वेति आत्मनि तूपलब्धरि न कदाचित् अन्यानुभूतेऽन्य-स्मृत्य्-असम्भवात् । न च सन्तानैक्यं नियामकं स्थायि-सन्तान-स्वीकारे स एव स्थिर आत्मेति मतान्तरापत्तेः । अस्वीकारेऽन्यस्मृत्य्-असिद्धेः । अपि च किं नाम क्षणिकत्वम् । किं क्षण-सम्बन्धः किं वा क्षणेनैवोत्पत्ति-विनाशौ । न तावद् आद्यः स्थायिनः क्षण-सम्बन्ध-सत्त्वात् । न द्वितीयः प्रत्यक्ष-बोधात् । एतेन दृष्टि-सृष्टिर् अपि निराकृता । अत्राप्य् अर्थान् क्षणिकत्व-स्वीकारात् । तस्मान् न क्षानिको भावः ॥२५॥
रामपद चट्टोपाध्याय: ११।२२।५६, ११।२८।१३, ११।२२।४५-४६।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८५।७
स्वकीयं पीताद्य्-आकारं ज्ञाने समर्प्य विनष्टोऽप्य् अर्थो ज्ञान-गतेन पीताद्य्-आकारेणानुमीयते । अतोऽर्थ-वैचित्र्य-कृतम् एव ज्ञान-वैचित्र्यम् इति सौत्रान्तिक-मतं दूषयति—
नासतोऽदृष्टत्वात्
असतो विनष्टस्य पीताद्य्-अर्थस्य प्टिआदिर् आकारो ज्ञाने न सम्भवति । कुतः ? अदृष्टत्वात् । दृश्हिणि विनष्टे धर्मस्यान्यत्र सम्बन्धादर्शनात् । न चानुमेयो घटादिर् न तु प्रत्यक्ष इति शक्यं भणितुम् । प्रत्यक्षेण जानामीति प्रतीत्यैव तन्-निरासाद् इति सौत्रान्तिकासाधारणो दोषः । तस्मात् प्रत्यक्षो घटादिर् न तु ज्ञान-गतेन तद्-आकारेणानुमीयत इति ॥२६॥
रामपद चट्टोपाध्याय: ११।१३।२४।
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५७।
अथोभय-साधारण-दोषम् आह—
उदासीनानाम् अपि चैवं सिद्धिः
एवं भाव-क्षणिकतया असद्-उत्पत्तौ स्वीकृतायाम् उदासीनानाम् उपाय-शून्यानाम् अप्य् उपेय-सिद्धिः स्यात् । क्षण-भङ्ग-वादे भाव-मात्रस्य पर-क्षण-स्थित्य्-अभावादिष्टानिष्टाप्ति-परिहारयोर् लोक-दृष्ट्योर् अहेतुकत्वम् अतोऽनुपायवताम् अपि तत्-प्राप्तिः स्यात् । उपेय-लिप्सुः कश्चिद् अपि कुत्राप्य् उपाये न प्रवर्तेत । स्वर्गाय मोक्षाय वा न कोऽपि प्रयतेत । न चैवम् अस्ति सर्वस्याप्य् उपेयार्थिनः सोपायता तथैवोपेय-लाभश् च प्रतीयते । तस्मात् विश्व-प्रतारार्थम् एतयोः प्रवृत्तिः । यौ किल भाव-भूत-स्कन्ध-हेतुकां समुदायोत्पत्तिं स्वीकृत्यापि पुनर् अभावाद् भावोत्पत्तिम् ऊचतुः क्षणिकानाम् अप्य् आत्मनां स्वर्गापवर्ग-साधनान्य् उपादिदिशतुर् इति तुच्छस् तत्-सिद्धान्तः ॥२७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।६, ११।२३।५४।
अधिकरणम् २४ (अभावाधिकरणम्)
तद् एवं वैभाषिके सौत्रान्तिके च निरस्ते विञान-मात्र-वादी योगाचारः प्रत्यवतिष्ठते । बाह्ये वस्तुन्य् अभिनिवेश-मानात् कांश्चिच् छिष्यान् अनुरुध्य बाहार्थ-प्रक्रियेयं सुगतेन रचिता । तस्यां न तस्याशयः, विज्ञान-स्कन्ध-मात्र-तात्पर्यंआत् । तथा हि विज्ञेयो घटाद्य्-अर्थो विज्ञानान् नातिरिच्यते । तस्यैवार्थाकारत्वात् । न चार्थान् विना व्यवहारासिद्धिः तान् विनापि स्व्प्नवत् सिद्धेः । बाह्यार्थास्तित्व-वादिनापि ज्ञानेऽर्थाकारत्वं धर्मोऽवश्यं मन्तव्यम् । कथम् अन्यथा घट-ज्ञानं पट-ज्ञानम् इति व्यवहारोपपत्तिः । तथा च तेनैव तत्-सिद्धौ किम्-अर्थैः ।
ननु कथम् आन्तरं ज्ञानं घट-पर्वताद्य्-आकारकम् ? मैवं, ज्ञानं किल प्रकाशमानम् । निराकारस्य तस्य प्रकाशासम्भवात् साकारम् एव तत् ।
ननु कथम् असति बाह्येऽर्थे धी-वैचित्र्यम् ? वासना-वैचित्र्याद् भवेत् । वासना-हेतुकस्य तद्-वैचित्र्यस्यान्वय-व्यतिरेकाभ्याम् अवधारणात् । ज्ञान-ज्ञेययोः सहोपलम्भ-नियमाद् अपि न ज्ञेयं ज्ञानाद् भिन्नम् । किं तु ज्ञानात्मकम् एवेति ।
इह संशयः—सर्वं ज्ञानात्मकम् इति युज्यते न वेति ? स्वप्नवत् विनाप्य् अर्थान् ज्ञानेनैव व्यवहार-सिद्धेः पृथक् तद्-अङ्गीकारे फलानतिरेकाच् च युज्यत इति प्राप्ते—
नाभाव उपलब्धेः
बाह्यार्थस्याभावो न शक्यो वक्तुम् । कुतः ? उपलब्धेः । घटस्य ज्ञानम् इत्य् आदौ ज्ञानान्यस्यार्थस्योपलम्भात् । न चोपलब्धम् अपलपन् ग्राह्य-वाक् प्रेक्षावताम् । न च नाहम्-अर्थं नोपलभे अपि तु ज्ञानान्यं नोपलभे इति वाच्यम् । उपलब्धि-बलेनैव तद्-अन्यतायागले निपातनात् । घटम् अहं जानामीत्य् आदौ ज्ञा-धात्व्-अर्थं सकर्मकं सकर्तृकं च सर्वो लोकः प्रत्येति प्रत्याययति चान्यान् । तेन ज्ञान-मात्रं साधयन् सकलोपहास-हेतुर् इति भिन्नोऽर्थो ज्ञानात् ।
ननु ज्ञानान्यश् चेद् घटादिस् तस्य प्रकाशः कथं ज्ञाने चेत्, तर्हि एकस्मिन् सर्वस्य प्रकाशः स्यात् अन्यत्वाविशेषाद् इति चेन्, न । तद्-भिन्नेऽपि तस्मिन् यत्र विषयताख्यः सम्बन्धस् तयैव नान्यस्येति व्यवस्थानात् । पीत-रक्तादि-विषयक-समूहालम्बनस्य विरुद्ध-नाना-पीनाद्य्-आकारासम्भवाच् च । यत् तु सहोपलम्भ-नियमाद् अर्थो ज्ञानात्मेति तद् असत् साहित्यस्यार्थ-भेद-हेतुकत्वात् । ततश् च तयोस् तन्-नियमो हेतु-फल-भाव-निमित्तो मन्तव्यः । किं च, बाह्यम् अर्थं निरस्यता सौगतेन तस्य पृथक् सत्त्वं स्वीकृतम् । यत्-तद्-अन्तर् ज्ञेयं रूपं तद् बहिर्वद् अवभासते इति तद्-उक्तेः । अन्यथा वत् करणासम्भवः । न हि बन्ध्या-पुत्रवद् इति कश्चिद् आचक्षीत ॥२८॥
रामपद चट्टोपाध्याय: ११।१३।२३।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।४।
अथ बाह्यार्थान् विनापि वासना-हेतुकेन ज्ञान-वैचित्र्येण स्वप्ने यथा व्यवहार एवं सर्वं जागरेऽपि स्याद् इति दृष्टान्तेन साधितं दूषयति—
वैधर्म्याच् च न स्वप्नादिवद्
च-शब्दोऽवधारणे । स्वप्ने मनोरथे च यथा घटाद्य्-अर्थाकारक-ज्ञान-मात्र-सिद्धो व्यवहारः, तथा जागरेऽपि भवेद् इत्य् एतन् न सम्भवति । कुतः ? वैधर्म्यात् । स्वप्न-जागर-प्राप्तयोर् वस्तुनोर् असाधर्म्याद् एव । स्वप्ने खल्व् अनुभूतं स्मर्यते, जागरे तु प्रत्यक्षेणानुभूयते । स्वप्नोपलब्धं क्षण-द्वय-मात्रेणान्यद् अन्यद् भवति बाधितं च बोधे । जागरोपलब्धं तु वर्ष-शतानन्तरम् अपि तद्-धर्मकम् अबाधितं चेति । किं च, स्वप्नेऽनुभूतं स्मर्यत इति प्रत्युक्ति-मात्रं बोध्यम् । स्व-मतं तु स्व-मात्रानुभाव्यं तावन्-मात्र-समयं वस्तु स्वप्ने परेशः सृजतीति । सन्ध्ये सृष्टिर् आह हि इत्य् आदिना वक्ष्यते ॥२९॥
रामपद चट्टोपाध्याय: ११।२८।१५, ३।७।१०।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१२।३७
यत् तूक्तं विनाप्य् अर्थान् वासना-वैचित्र्याज् ज्ञान-वैचित्र्यम् उपपद्यत इति तन्-निरासायाह—
न भावोऽनुपलब्धे
वासनानां भावो न सम्भवति । कुतः ? अनुपलब्धेः । त्वन्-मते बाह्यार्थाप्राप्तेः । अर्थ-मूला किल वासनार्थान्वय-व्यतिरेक-सिद्धा । तव त्व् अर्थानङ्गीकारात् सा न सम्भवेत् ॥३०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२७।४
किं च, वासना नाम संस्कार-विशेषः । स च स्थिरम् आश्रयं विना न समस्तीत्य् आह—
क्षणिकत्वाच् च
नेत्य् अनुवर्तते । वासनाश्रयः स्थिरः पदार्थो नैव तेऽस्ति । कुतः ? क्षणिकत्वात् । प्रवृत्ति-विज्ञानस्यालय-विज्ञानस्य च सर्वस्य क्षणिकत्वाङ्गीकारात् । न हि त्रिकाल-स्थिर-सम्बन्धिनि चेतनेऽसति देश-काल-निमित्त-सापेक्ष-वासनाध्यान-स्मरणादि-व्यवहारः सम्भवेत् । तथा चाश्रयाभावान् न सा तद्-अभावाच् च न तद्-वैचित्र्यम् इति तुच्छो विज्ञान-मात्र-वादः ॥३२॥
रामपद चट्टोपाध्याय: ११।१३।३१, ३।२६।३।
भागवत-भाष्यम् (हरिदास शास्त्री): ४।२९।७९।
अधिकरणम् २५ (सर्वथानुपपत्त्य्-अधिकरणम्)
सर्वथानुपपत्तेश् च
नेत्य् अनुवर्तनीयम् । शून्यम् इति वदन् भावम् भावं भावाभावं वा प्रतिपादयेत् । सर्वथा नाभिमत-सिद्धिः । कुतः ? अनुपपत्तेर् अयुक्तत्वात् । तथा हि । आद्येऽनिष्ठापत्तिः । द्वितीये प्रतिपाद्यितुर् भावस्य तत्-साधनस्य च सत्त्वात् सर्व-शून्यता-हानिः । तृतीये तु विरोधोऽनिष्ठता चेति । किं च येन प्रमाणेन शून्यं साध्यं तस्य शून्यत्वे शून्य-वाद-हानिः तस्य सत्यत्वे सर्व-सत्यता-प्रसङ्गश् चेति दुष्टः शून्य-वादः । एवं मिथो विरुद्ध-त्रिमती-निरूपणाज् जगत्-प्रतारकता बुद्धस्यावसीयते । लोकायतिकादि-मतानि त्व् अतितुच्छत्वाद् भगवता सूत्रकारेण प्रत्याख्यातुं नोट्टङ्कितानीति वेदितव्यम् । एतेन बौद्ध-निरासेन तत्-सदृशो मायी च निरस्तः । क्षणिकत्वम् अनुसृत्य दृष्टि-सृष्टि-वर्णनात् शून्य-वादम् आश्रित्य विवर्त-निरूपणाच् च तस्य तत्-सादृश्यम् ॥३२॥
रामपद चट्टोपाध्याय: ९।९।४०, १०।८७।२५, १०।१६।३९, १०।१६।३६, ८।३।२२, ८।३।२४,
भागवत-भाष्यम् (हरिदास शास्त्री): १।२।११।
अधिकरणम् २६ (एकस्मिन्न् असम्भवाधिकरणम्)
अथ जैना दूष्यन्ते । ते मन्यन्ते पदार्थो द्विविधो जीव अजीवश् चेति । तत्र जीवश् चेतनः काय-परिमाणः सावयवः । अजीवः पञ्च-विधः । धर्माधर्म-पुद्गल-कालाकाश-भेदात् । गति-हेतुर् धर्मः । स्थिति-हेतुर् अधर्मश् च व्यापकः । वर्ण-गन्ध-रस-स्पर्शवान् पुद्गलः । स च द्विविधः परमाणुस् तत्-संघातश् च । वाय्व्-अग्नि-जल-पृथिवी-तनु-भुवनादिकः ।
पृथिव्य्-आदि-हेतवः परमाणवो न चतुर्विधाः, किं त्व् एक-स्वभावाः । स्वभाव-परिणामात् तु पृथिव्य्-आदि-रूपो विशेषः । कालस् त्व् अतीतादि-व्यवहार-हेतुर् अणुश् च । आकाशस् त्व् एकोऽनन्त-प्रदेशश् चेति । तद् एवं षड् अमी पदार्था द्रव्य-रूपास् तद्-आत्मकम् इदं जगत् । तेषु चाणु-भिन्नानि पञ्च द्रव्याण्य् अस्तिकाया इत्य् आख्यायन्ते । जीवास्ति-कायो धर्मास्ति-कायोऽधर्मास्ति-कायः पुद्गलास्ति-काय आकासास्ति-काय इति । अस्ति-काय-शब्दोऽनेक-देश-वर्ति-द्रव्य-वाची । जीवस्य मोक्षोपयोगितया बोध्यान् सप्त-पदार्थान् वर्णयन्ति । जीवाजीवास्रव-संवर-निर्जर-बन्ध-मोक्षा इति । तेषु जीवः प्राग्-उक्तो ज्ञानादि-गुणकः । अजीवस् तद्-भोग्य-जातम् । आस्रवत्य् अनेन जीवो विषयेष्व् इत्य् आस्रव इन्द्रिय-सङ्घातः । संवृणोति विवेकादिकम् इति संवरोऽविवेकादिः । निःशेषेण जीर्यत्य् अनेन काम-क्रोधादिर् इति निर्जरः केशोल्लुञ्चन-तप्त-शिलारोहणादिः । कर्माष्टकेनापादितो जन्म-मरण-प्रवाहो बन्धः ।
तद् अष्टकं चैवं—चत्वारि घाति-कर्माणि पाप-विषय-रूपाणि यैर् ज्ञान-दर्शन-वीर्य-सुखानि स्वभाविकान्य् अपि जीवस्य प्रतिहन्यन्ते । चत्वारि त्व् अघाति-कर्माणि पुण्य-विषय-रूपाणि, यैर् देह-संस्थान-तद्-अभिमान-तत्-कृत-सुख-दुःखापेक्षोपेक्षा-सिद्धिः । स्व-शास्त्रोक्त-साधनैस् तद्-अष्टकाद् विमुक्तस्याविर्भूत-स्वाभाविकात्म-रूपस्य जीवस्य सदोर्ध्व-गतिर् अलोकाकाश-स्थितिर् वा मुक्तिः । सम्यग्-ज्ञान-दर्शन-चारित्र्याख्यं रत्न-त्रयं तत्-साधनम् । तान् एतान् पदार्थान् सप्त-भङ्गिना न्यायेनावस्थापयन्ति । स यथा स्याद् अस्ति, स्यान् नास्ति, स्याद् अस्ति च नास्ति च, स्याद् अवक्तव्यः, स्याद् अस्ति चावक्तव्यश् च, स्यान् नास्ति चावक्तव्यश् च, स्याद् अस्ति च नास्ति चावक्तव्यश् चेति । स्याद् इति कथञ्चिद् इत्य् अर्थेऽव्ययम् । सप्तानां नियमानां भङ्गा विद्यने यस्मिन् प्रतिपाद्यतयेति सप्त-भङ्गी । सत्त्वं, असत्त्वं, सद्-असत्त्वं, सद्-असद्-विलक्षणं, सत्त्वे सति तद्-विलक्षणत्वं, असत्त्वे सति तद्-विलक्षणत्वं, सद्-असत्त्वे सति तद्-विलक्षणत्वं, इति वादि-भेदेन पदार्थ-विषयाः सप्त नियमा भवन्ति । तद्-भङ्गार्थम् अयं न्यायः । स च सर्वत्रावश्यकः सर्वस्य पदार्थस्य सत्वासत्त्व-नित्यत्वानित्यत्व-भिन्नत्वाभिन्नत्वादिभिर् धर्मैर् अनैकान्तिकत्वात्। तथा हि यद्य् एकान्ततो वस्त्व् अस्त्य् एव तर्हि सर्वदा प्राप्तस्याप्राप्तत्वात् हेय-हानासम्भवाच् च । अनेकान्त-पक्षे तु कथञ्चित् कदाचित् कुत्रचित् कश्चित् केनचिद् रूपेण सत्त्वे हानोपादान-सम्भवात् । प्रवृत्तिर् निवृत्तिश् चोपपद्येत । द्रव्य-पर्यायात्मकं किल् सर्वं वस्तु । तत्र द्रव्यात्मना सत्त्वादिकम् उपपद्येत । पर्यायात्मना त्व् असत्त्वादिकम् । पर्यायास् तु द्रव्यावस्था-विषयाः । तेषां भावाभावात्मकतया सत्त्वासत्त्वादेर् उत्पत्तिर् इति । इह सन्दिह्यते—आर्हतोक्ता जीवादयः पदार्थास् तथा युज्यन्ते न वेति । सप्त-भङ्गिनो न्यायस्य साधकस्य सत्त्वात् युज्यन्ते इति प्राप्ते परिहरति—
नैकस्मिन्न् असम्भवात्
नैते पदार्थास् तेन न्यायेनात्मानम् उपलब्धुं क्षमाः । कुतः ? एकस्मिन्न् इति । एकस्मिन्न् धर्मिणि युगपत् सत्त्वादि-विरुद्ध-धर्म-समावेशायोगाद् एवेत्य् अर्थः । न ह्य् एकं वस्त्व् एकदा शैत्योष्ण्य-भाग् वीक्षते क्वापि । किं च अनेकान्त-पक्षे स्वर्ग-नरक-मोक्षाणां मिथः सङ्कीर्णत्वात् स्वर्गाय नरक-हानाय मोक्षाय च साधन-विधिर् व्यर्थः स्यात् । एवं घटादीनाम् अपि तथात्वाद् उदकार्थी वह्निना प्रवर्तेत गृहार्थी तु वायुना । न च तत्र भेदस्यापि सत्त्वाद् उदकाद्य्-अर्थिनो वह्न्य्-आदितो निवृत्तिर् उपप्दयेतेति वाच्यम् अभेदस्यापि सत्त्वेन प्रवृत्तेर् अप्य् आवश्यकत्वात् । अपि च निर्धार्याः पदार्थाः निर्धार-साधनानि, भङ्गा निर्धारको जीवो निर्धारश् च तत् फलं, सर्वम् एतत् स्याद् अस्तीत्य् आदि विकल्पपन्यासेन सत्त्वासत्त्वादि-धर्मकतया निश्चित-वपुर् भवेद् इति लूता-तन्तुवत् त्रुट्यमानोऽसौ न्यायः । किम् अस्य परीक्षया ॥३३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।४।३२।
अथात्मनो देह-परिमाणत्वं प्रत्याचष्टे—
एवं चात्माकार्त्स्न्यम्
यथैकस्मिन् सत्त्वासत्त्वादि-विरुद्ध-धर्म-योगो दोष एवम् आत्मनोऽकार्त्स्न्यं च सः । तथा हि—देह-परिमाणो जीव इति मतम् । तस्य बाल-देह-परिमितस्य युवादि-देहे पर्याप्तिर् न स्यात् । मनुष्य-देह-परिमितस्य तस्यादृष्ट-विशेष-लब्धेक-शरीरे च तथा सर्वाङ्गीण-सुख-दुःखानुपलम्भश् च पुनर् मशक-देहेऽसमावेशश् चेति ॥३४॥
रामपद चट्टोपाध्याय: ११।३।३९, १०।५४।४४।
भागवत-भाष्यम् (हरिदास शास्त्री): ५।११।१२।
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः
नन्व् अनन्तावयवस्य जीवस्य बाल-युवादि-देहान् करितुर् अगादि-देहान् वा भजतः क्रमाद् अवयवापगमोपगमाभ्यां वैपरीत्येन च तत्-तद्-देह-परिमितत्वम् अविरुद्धम् इति चेत्, न । कुतः ? विकारादिभ्यः । तथा सति जीवे विकारानित्यता प्रसङ्गात् । कृत-हान्य्-अकृताभ्यां चेति यत् किञ्चिद् एतत् । यत् तु मुक्ति-कालिकेन देहाघटितेन नित्येन परिमाणेन विशिष्टे जीवे न विकारादिर् इति वदन्ति तच् च मन्दम् । तस्य जन्यत्वाजन्यत्व-सत्त्वासत्त्वादि-विकल्पैः स्थैर्यासम्भवात् ॥३५॥
रामपद चट्टोपाध्याय: १०।५४।४५-४६।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।३८
अथ जैनाभिमतां मुक्तिं दूषयति—
अन्त्यावस्थितेश् चोभय-नित्यत्वाद् अविशेषात्
न चेत्य् अनुवर्तते । अन्त्यावस्थितेर् मोक्षावस्थायाश् चाविशेषात् । संसारावस्थातो विशेषाभावान् न युक्तो जैन-सिद्धान्तः । अविशेषः कुतः ? उभयेति । सदोर्ध्व-गतिर् अलोकाकाश-स्थितिश् च मुक्तिर् उक्ता । तयोर् उभयोर् मुक्तित्वेन नित्यत्वाङ्गीकारात् । न हि सदोर्ध्वं गच्छन् निराश्रयतया वा तिष्ठन् कश्चित् सुखी भवति । न च स-देहस्य तथात्वं दुःखाय, न तु निर्देहस्येति वाच्यम् । तद्वयवस्य च देहवद् भारवत्वात् । न च सा सा च नित्येति शक्यं वक्तुं क्रियात्वेन विनाश-ध्रौव्यात् । तस्मात् तुच्छम् एतज् जैन-मतं हास-पाटवम् अवगाहयति लोकान् इति । एतेन विश्वं सद्-असद्-भिन्नम् औपनिषदम् अपि ब्रह्म सर्व-शब्दावाच्यम् इत्य् आदि-विरुद्धं जल्पन् जैन-सखो मायी च दूषितः ॥३६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।६, ६।१६।९।
अधिकरणम् २७ (पत्य्-अधिकरणम्)
इदानीं पाशुपतादि-मतानि प्रत्याख्याति । तत्र पाशुपता मन्यन्ते । कारण-कार्य-योग-विधि-दुःखान्ताः पञ्च पदार्थाः पशु-पाशा-विमोक्षणायेश्वरेण पशुपतिनोपदिष्टाः । तत्र पशुपतिः निमित्त-कारणं, महद्-आदि कार्यं, ओंकार-पूर्वको ध्यानादिर् योगः, त्रिसवण-स्नानादिर् विधिः, दुःखान्तो मोक्ष इति । एवं गणपतिर् दिनपतिश् चेश्वरो निमित्त-कारणं तस्मात् तस्माच् च प्रकृति-काल-द्वारा विश्व-सृष्टिः तद्-उपासनया तद्-अन्तिकम् उपागतस्य जीवस्य दुःखात्यन्त-निवृत्तिर् मोक्ष इति गाणेशाः सौराश् चाहुः । तत्र संशयः—पाशुपतादि-सिद्धान्तो युक्तो न वेति । घटादि-कर्तृणां कुलालादीनां निमित्तत्वस्यैव दर्शनात् तद्-उक्त-साधनैर् मोक्षस्यापि सम्भवात् युक्त इति प्राप्ते—
पत्युर् असामञ्जस्यात्
नेत्य् अनुवर्तते । पत्युः सिद्धान्तो नोपयुज्यते । कुतः ? असामञ्जस्यात् वेद-विरोधात् । वेदः खल्व् एकस्यैव नारायणस्य विश्वैक-हेतुतां तद्-अन्यस्य ब्रह्म-रुद्रादेस् तत्-कार्यताम् अभिधत्ते तद्-अर्पित-वर्णाश्रम-धर्म-ज्ञान-भक्ति-हेतुकं मोक्षं च । तथा ह्य् अथर्वसु पठ्यते—
तद् आहुर्—एको ह वै नारायण आसीन् न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्याव्-आपृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमते । तस्य ध्यानान्तः-स्थस्य यज्ञ-स्तोमम् उच्यते । तस्मिन् पुरुषाश् चतुर्दश जायन्ते । एका कन्या । दशेन्द्रियाणि मन एकादशं तेजः । द्वादशोऽहङ्कारः । त्रयोदशकः प्राणः । चतुर्दश आत्मा । पञ्चदशी बुद्धिः । भूतानि पञ्च तन्-मात्राणि । पञ्च महा-भूतानि [महोपनिषत् १] इत्य् आदि ।
तस्य ध्यानान्तस्थस्य ललाटात्र्यक्षः शूलपाणिः पुरुषो जायते बिभ्रच् छ्रियं सत्यं ब्रह्मचर्यं तपो वैराग्यम् इत्य् आदि । तत्र ब्रह्मा चतुर्मुखोऽजायत इत्य् आदि च । तेष्व् एवान्यत्र ।
अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेय इत्य् आरभ्य, नारायणाद् ब्रह्मा जायते नारायणाद् रुद्रो जायते नारायणात् प्रजापतिः प्रजायते नारायणाद् इन्द्रो जायते नारायणाद् अष्टौ वसवो जायन्ते नारायणाद् एकादश-रुद्रा जायन्ते नारायणाद् द्वादशादित्या जायन्ते इत्य् आदि ।
ऋक्षु च—
अहं रुद्रेभिर् वसुभिश् चराम्य्
अहम् आदित्यैर् उत विश्वदेवैः । [ऋग्वेद १०.१२५.१]
यं कामये तं तम् उग्रं कृणोमि
तं ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥
अहं रुद्राय धनुर् आ तनोमि
ब्रह्म-द्विषे शरवे हन्तवाउ ।
अहं जनाय समदं कृणोम्य्
अहं द्याव् आपृथिवी आविवेश ॥ [ऋग्वेद १०.१२५.६-७] इत्य् आदि ।
अथ यजुःषु तम् एतं वेदान्वचनेन इत्य् आदि । विज्ञाय प्रज्ञां कुर्वीत, आत्मा वा अरे द्रष्टव्यः इत्य् आदि च । स्मृतयोऽपि वेदानुसारिण्योऽसकृद् एतद्-अर्थम् आहुः । ये तु पशुपत्य्-आदयः शब्दाः स्व-वाच्यानां सर्वेशतां सर्व-कारणतां च प्रकाशयन्तः क्वचिद् उपलभ्यन्ते, ते किल नारायणात्मक-तादृश-स्व-वाच्य-वाचिन एव स्युर् उक्त-श्रुत्य्-अविरोधात् । समन्वय-लक्षण-निर्णयाच् चेति सर्वम् अवदातम् ॥३७॥
अथ वेद-विरोधिनां तेषाम् अनुमानेनैव निमित्त-मात्रेश्वर-कल्पना । अनुमानिके तथा सति लोक-दृष्ट्य्-अनुसारेण सम्बन्धादि-वाच्यम् । तच् च विकल्पासहम् इत्य् आह—
सम्बन्धानुपपत्तेश् च
पत्युर् जगत्-कर्तृत्व-सम्बन्धो नोपपद्यते अदेहत्वाद् एव । सदेहस्यैव कुलालादेर् मृदादि-सम्बन्ध-दर्शनात् सम्बन्धोऽनुपपन्नः ॥३८॥
अधिष्ठानानुपपत्तेश् च
इयम् अप्य् अदेहत्वाद् एव । सदेहो हि कुलालादि-धराद्य्-अधिष्ठानः कार्यं कुर्वन् दृश्यते ॥३९॥
रामपद चट्टोपाध्याय: ३।१०।११।
भागवत-भाष्यम् (हरिदास शास्त्री): २।६।३१
नन्व् अदेहस्यैव जीवस्य देहेन्द्रियादि यथाधिष्ठानम् एवं पत्युर् अपि तादृशस्य प्रधानं तत् स्याद् इति चेत्, तत्राह—
करणवच् चेन् न भोगादिभ्यः
प्रलये प्रधानम् अस्ति । तच् च करणम् इव क्रियोपकारकम् अधिष्ठाय पतिर् जगत् कुर्याद् इति न शक्यं वक्तुम् । कुतः ? भोगादिभ्यः । करण-स्थानीय-प्रधानोपादान-हानादिना जन्म-मरण-प्राप्त्या सुख-दुःख-भोगान् ईश्वरत्व-प्रसङ्गात् ॥४०॥
रामपद चट्टोपाध्याय: १०।८७।२४।
ननु अदृष्टानुरोधेन पत्युः किञ्चिद् देहादिकं कल्प्यम् । दृश्यते ह्य् उग्र-पुण्यो राजा सदेहः साधिष्ठानश् च राष्ट्रस्येश्वरः । न तु तद्-विपरीत इति चेत् तत्र दूषणं दर्शयति—
अन्तवत्वम् असर्वज्ञता वा
एवं सति देहादि-सम्बन्ध-घटितम् अन्तवत्त्वं तस्य जीववत् स्यात् असार्वज्ञ्यं च । न हि कर्माधीनस्य सार्वज्ञ्यं युज्यते । तथा चाविनाशी सर्वज्ञश् चेत्य् अभ्युपगम-क्षतिः । न चैवं ब्रह्म-वादे कोऽपि दोषः तस्य श्रुति-मूलत्वात् । दर्शितं चेदं श्रुतेस् तु शब्द-मूलत्वात् इत्य् अत्र । पतीनां स्वातन्त्र्यम् इह निरस्तम् । तदीयत्वेन सत्कारस् त्व् अङ्गीक्रियते । एवं च पाशुपतादि-त्रिमतीपरिहारार्थम् एषा पञ्च-सूत्री परिहार-हेतु-सामान्यात् । अतः पत्युर् इत्य् अविशेषोल्लेखः । तार्किकादि-सम्मतेश्वर-कारणता-निरासार्थं सेत्स्यन्ते ॥४१॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।६।३३।
अधिकरणम् २८ (उत्पत्त्य्-असम्भवाधिकरणम्)
अथ शक्ति-वादं दूषयति । सार्वज्ञ्य-सत्य-सङ्कल्पादि-गुणवती शक्तिर् एव विश्व-हेतुर् इति शाक्ता मन्यन्ते । तत्-सम्भवेन् न वेति विचिकित्सायां तादृश्या तया विश्व-सृष्ट्य्-अनुपपत्तेः सम्भवेद् इति प्राप्ते प्रत्याचष्टे –
उत्पत्त्य्-असम्भवात्
नेत्य् आकर्षणीयम् । इहापि वेद-विरोधाद् अनुमानेनैव शक्ति-कारणता कल्पनीया । तेन लोक-दृष्ट्यैव युक्तिर् वक्तव्या । ततश् च शक्तिर् विश्व-जनयित्रीति नोपपद्यते । कुतः ? केवलायास् तस्यास् तद्-उत्पत्त्य्-अयोगात् । न हि पुरुषाननुगृहीताभ्यः स्त्रीभ्यः पुत्रादयः सम्भवन्तो वीक्ष्यन्ते लोके । सार्वज्ञ्य्-आदिकं त्व् अप्रेक्षाभिहितं लोकेऽदर्शनात् ॥४२॥
रामपद चट्टोपाध्याय: १०।८७।२७।
भागवत-भाष्यम् (हरिदास शास्त्री): २।६।३९।
अधिकरणम् २९
न च कर्तुः करणम्
एवं सति देहादि-सम्बन्ध-घटितम् अन्तवत्त्वं तस्य जीववत् स्यात् असार्वज्ञं च । न् अहि कर्माधीनस्य सार्वज्ञ्यत्वं युज्यते । तथा चाविनाशी सर्वज्ञश् चेत्य् अभुय्पगम-क्षतिः । न चैवं ब्रह्म-वादे कोऽपि दोषस् तस्य श्रुति-मूलत्वात् । दर्शितं चेदं श्रेतुस् तु शब्द-मूलत्वाद् इत्य् अत्र । पतीनां स्वातन्त्र्यम् इह निरस्तम् । तदीयत्वेन सत्-कारस् त्व् अङ्गीक्रियते । एवं च पाशुपतादि-त्रिमती-परिहारार्थम् एषा पञ्च-सूत्री परिहार-हेतु-सामान्यात् । अतः पत्युर् इत्य् अविशेषोल्लेखः । तार्किकादि-सम्मतेश्वर-कारणता-निरासार्थं सेत्य् अन्ये ॥४१॥
अधिकरणम् ३०
ननु पुरुषस्त्य नित्य-ज्ञानेच्छादि-करणम् अस्तीति चेत् तत्राह—
विज्ञानादि भावे वा तद्-अप्रतिषेधः
तस्य पुरुषस्य नित्य-ज्ञानेच्छादि-करणम् अस्तीति चेत् तर्हि तद्-अप्रतिषेधो ब्रह्म-वादान्तर्भावः । तत्र तादृशात् पुरुषाद् विश्व-सृष्ट्य्-अङ्गीकारात् ॥४४॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।६।१।
अधिकरणम् ३१
शक्ति-मात्र-कारणता-वादस् तु निःश्रेयस-कामैर् अनारदणीय एवेत्य् उपसंहरति—
विप्रतिषेधाच् च
सर्व-श्रुति-स्मृति-युक्ति-विरोधात् तुच्छः शक्ति-वादः ।
श्रुतयः स्मृतयश् चैव युक्तयश् चेश्वरं परम् ।
वदन्ति तद्-विरुद्धं यो वदेत् तस्मान् न चाधमः ॥ [प.पु.] इति हि स्मृतिः ।
च-शब्देनोत्पत्त्य्-असम्भवाद् इति हेतुः समुच्चितः । तद् एवं साङ्ख्यादि-वर्त्मनां दोष-कण्टक-वैशिष्ट्यात् तद्-रहितं वेदान्त-वर्त्मैव श्रेयोऽर्थिभिर् आस्थेयम् इति ॥४५॥
रामपद चट्टोपाध्याय: १।५।६।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।५०।
॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥
अधिकरणम् ३२ (पादः ३, वियद्-अधिकरणम्)
व्योमादि-विषयां गोभिर् विमतिं विजघान यः ।
स तां मद्-विषयां भास्वान् कृष्णः प्रणिहनिष्यति ॥
प्रधानादि-वादानां युक्त्याभासमयता द्वितीये पादे प्रदर्शिता । तृतीये तु सर्वेश्वरात् तत्त्वानाम् उत्पत्तिस् तेनैव तेषां विलयो, जीवानां त्व् अनुत्पत्तिर् ज्ञान-वपुषां तेषां ज्ञानाश्रयत्वं परमाणुता ज्ञान-द्वारा व्याप्तिः कर्तृत्वं ब्रह्मांशता, मत्स्याद्य्-अवताराणां साक्षाद् ईश्वरत्वम् अदृष्टादि-हेतुका जीव-वैचित्री चेत्य् अयम् अर्थ-निचयो विरोधि-वाक्य-परिहारेणोपपाद्यते । इह प्रधान-महद्-अहङ्कार-तन्-मात्रेन्द्रिय-वियद्-आदि-रूपेण सृष्टी-क्रमः सुबालादि-श्रुति-सिद्धो मुख्यः । तैत्तिरीयादि-क्रमेण वियद्-आदितस् तद्-विचारस् तु विसम्ंवाद-विनाशायेति स्पष्टम् उपरिष्टाद् भविष्यति । छान्दोग्ये—सद् एव सौम्येदम् अग्र आसीत् [छा.उ. ६.२.१] इत्य् उपक्रम्य, तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजत [छा.उ. ६.२.३], तत् तेज ऐक्षत बहु स्यां प्रजायेयेति, तद्-अपोऽसृजत । ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नम् असृजन्त [तै.उ. २.१.३] इति पठ्यन्ते । अत्र तेजोऽवन्नानि प्रजातानीत्य् उक्तम् । इह भवति विमर्शः । वियत् प्रजायते न वेति संशये श्रुत्य्-अभावान् न प्रजायत इति शङ्कते ।
न वियद् अश्रुतेः ।
नित्यं वियन् न प्रजायते । कुतः ? अश्रुतेः । छान्दोग्य-गत-भूतोत्पत्ति-प्रकरणे तस्याश्रवणात् । तत्र तद् ऐक्षतेत्य् आदिना त्रयाणाम् एव तेजोऽब्-अन्नानाम् उत्पत्तिः श्रूयते, न तु वियतोऽतस् तन् नोत्पद्यत इत्य् अर्थः ॥१॥
रामपद चट्टोपाध्याय: २।२।२८, ११।११।२८, ११।१५।१९।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।३
अधिकरणम् ३३ (वियद्-उत्पत्त्य्-अधिकरणम्)
एवं प्राप्तौ निरस्यति—
अस्ति तु
तु-शब्दः शङ्कापनोदनार्थः । अस्त्य् उत्पत्तिर् वियतः । छान्दोग्ये तस्याश्रवणेऽपि तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः आकाशाद् वायुर्, वायोर् अग्निर्, अग्नेर् आपोऽद्भ्यो महती पृथिवीति [तै.उ. २.१] तैत्तिरीयके श्रवणात् ॥२॥
पुनः शङ्क्यते—
गौण्य-सम्भवाच् छब्दाच् च
न खलु वियद् उत्पत्तिः सम्भावयितुम् अपि शक्या जीवत्सु श्रीमत्-कण-भक्षाक्ष-चरण-चरणोपजीविषु । या तूत्पत्तिः श्रुतिभिर् उदाहृता सा किल, कुर्व् आकाशं जातम् आकाशम् इत्य् आदि-लोकोक्तिवद् गौणी भविष्यति । कुतः ? असम्भवात् । नहि निराकारस्य विभोर् वियतः सम्भवेद् उत्पत्तिः कारण-सामग्री-विरहाच् छब्दाच् च । वायुश् चान्तरीक्षं चैतद् अमृतम् इति बृहद्-आरण्यक-वाक्याच् च तस्योत्पत्तिर् नास्तीति मन्तव्यम् ॥३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।३
यदि कश्चिद् ब्रूयाद् एक एव सम्भूत-शब्दोऽग्नि-प्रभृताव् अनुवर्तमानो मुख्य आकाशे पुनर् गौणः कथम् ? इति । तं प्रत्य् आह—
स्याच् चैकस्य ब्रह्म-शब्दवत् ।
यथा भृगु-वल्ल्यां तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म [तै.उ. ३.२.१] इत्य् एकस्मिन्न् एव वाक्ये एकस्यैव ब्रह्म-शब्दस्य ब्रह्म-विज्ञान-साधने तपसि गौणत्वं विज्ञेये, ब्रह्मणि तु मुख्यत्वम् । एवं सम्भूत-शब्दस्यापि स्यात् । तस्माच् छान्दोग्याश्रवणाद् इतः क्वाचित्की वियद् उत्पत्ति-श्रुतिर् बाध्यते ॥४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।१४
अधिकरणम् ३४ (प्रतिज्ञा-हान्य्-अधिकरणम्)
एवं प्राप्तौ पुनः परिहरति—
प्रतिज्ञा-हानिर् अव्यतिरेकाच् छब्देभ्यः ।
येनाश्रुतं श्रुतं भवति इत्य् आदि छान्दोग्य-श्रुत्या कृता या प्रतिज्ञा तस्या अहानिः कृत्स्नस्यार्थस्य ब्रह्माव्यातिरेकात् सम्पद्यते । व्यतिरेके तु सति सा विहीयेतैव । तद् अव्यतिरेकस् तु तद्-उपादानकत्व-निबन्धनः । तस्माद् एक-विज्ञानेन सर्व-विज्ञानं प्रतिजानन्त्या तया वियद्-उत्पत्तिर् अङ्गीकृता । तथा शब्देभ्यश् च, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् ऐतदात्म्यम् इदं सर्वम् इत्य् आदिभ्यस् तद्-गतेभ्यः प्राक् सर्गाद् एकत्वं परत्र तादात्म्यं च निरूपयद्भ्यः सा स्वीकार्या ॥५॥
भागवत-भाष्यम् (हरिदास शास्त्री): १।२।३०-३१
ननु वाचकाभावात् कथम् अत्र सा वक्तुं शक्या ? तत्राह—
यावद्-विकारं तु विभागो लोकवत् ।
तु-शब्दः शङ्का-प्रहाणाय । ऐतदात्म्यम् इदं सर्वम् इत्य् अत्र यावद्-विकारं विभागो निरूपितः । प्रधान-महद्-आदयो यावन्तो विकाराः सुबालादि-श्रुत्य्-अन्तरोक्तास् तेषां सर्वेषाम् एव विभागस् तयापि बोधित इत्य् अर्थः । दृष्टान्तम् आह—लोकेति । लोके यथैते सर्वे चैत्रात्मजा इत्य् उक्त्वा तेषु केषाञ्चिद् एव चैत्राद् उत्पत्तौ कीर्तितायां तस्माद् एव सर्वेषाम् उत्पत्तिर् विदिता स्यात् तथेहाप्य् ऐतदात्म्यम् इदं सर्वम् इत्य् अनेन सर्वाणि प्रधान-महद्-आदीनि तत्त्वानि सद्-उत्पन्नान्य् उक्त्वा तेषु तेजोऽब्-अन्नानां सत उत्पत्तौ कीर्तितायां सर्वेषां तेषां तस्माद् उत्पत्तिर् विदिता भवति इति । तथा च वाचकाभावेऽप्य् आर्थिकी वियद्-उत्पत्तिर् अत्र गम्येति । विभाग उत्पत्तिः । यत् तु गौण्य-सम्भवाच् छब्दाच् चेत्य् उक्तं, तन् न अचिन्त्य-शक्तेर् उत्पादक-सामग्र्याः श्रवणात् । अमृतत्वं त्व् आपेक्षिकम् एवोत्पत्ति-विनाश-श्रवणात् । एवम् अनुमानाच् च तस्योत्पत्ति-विनाशौ निश्चिनुमः । वियद् उत्पद्यते भूतत्वात् । विनश्यति चानित्य-गुणाश्रयत्वाद् अग्निवद् इत्य् उभयत्रान्वय-दृष्टान्तः । यन् नैवं तन् नैवं यथात्मेत्य् उभयत्र व्यतिरेक-दृष्टान्तश् च । एतेन स्याच् चैकस्येत्य् अपि निरस्तम् । तस्मान् नव्यो न व्योम-जन्माभ्युपगमः ॥६॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।४।३०
अधिकरणम् ३५ (मातरिश्वाधिकरणम्)
वायौ पूर्वोक्तम् अर्थम् अतिदिशति—
एतेन मातरिश्वा व्याख्यातः ।
एतेन वियज्-जन्म-व्याख्यानेन मातरिश्वा तद्-आश्रितो वायुर् अपि कार्यतयोक्त इत्य् अर्थः । इहाप्य् एवम् अङ्गानि बोध्यानि । वायुर् नोत्पद्यते छान्दोग्येऽनुक्तेः । अस्त्य् उत्पत्तिर् आकाशाद् वायुर् इत्य् उक्तेस् तैत्तरीयके । गौण्य् उत्पत्तिर् अमृतत्व-श्रुतेः । प्रतिज्ञानुपरोधाद् ऐअदात्म्यम् इदं सर्वम् इति सर्वेषां ब्रह्म-कार्यत्वोक्तेश् च छान्दोग्येऽपि वायोर् उत्पत्तिर् बोध्येति सिद्धान्तः । अमृतत्वं त्वापेक्षिकम् इत्य् उक्तम् । योग-विभागस् तेजः-सूत्रे मातरिश्व-परामर्शार्थः ॥७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।३५
अधिकरणम् ३६ (असम्भवाधिकरणम्)
अथ सद् एव सौम्येदम् इत्य् आदौ सन्देहान्तरम् । सद् ब्रह्माप्य् उत्पद्यते न वेति । कारणानाम् अपि प्रधान-महद्-आदीनाम् उत्पत्त्य्-अभिधानात् सद् अप्य् उत्पद्यते तस्यापि कारणत्वाविषयाद् इत्य् एवं प्राप्तौ—
असम्भवस् तु सतोऽनुपपत्तेः
तु-शब्दः शङ्का-च्छेदे निश्चये वा । सतो ब्रह्मणः सम्भवः उत्पत्तिर् नैवास्ति । कुतः ? अनुपपत्तेः । हेतु-विरहिणस् तस्य तद्-अयोगाद् इत्य् अर्थः । अत एवं श्रुतिर् आह—
स कारणं करणाधिपाधिपो
न चास्य कश्चिज् जनिता न चाधिपः ॥ [श्वे.उ. ६.९] इति ।
न च कारणत्वाद् उत्पत्तिमद् इत्य् अनुमातुं शक्यं श्रुत्यानुमान-बाधात् । मूल-कारणस्य स्वीकार्यत्वात् तद्-अभावेऽनवस्थापाताच् च । यन् मूल-कारणं तत् त्व् अमूलम् एव । मूले मूलाभावाद् इति । इह ब्रह्मोत्पत्ति-शङ्का-परिहारेणैवं ज्ञाप्यते । ब्रह्मैव परम-कारणत्वाद् उत्पत्ति-शून्यं तद् अन्यद् अव्यक्त-महद्-आदिकं तु सर्वम् उत्पत्तिमद् एव । खादि-जन्म-निरूपणं तूदाहरणार्थम् इति ॥८॥
भागवत-भाष्यम् (हरिदास शास्त्री):
अधिकरणम् ३७ (तेजोऽधिकरणम्)
एवं प्रासङ्गिकं समाप्य तेजो-विषयकं श्रुति-विरोधं परिहरति । तत् तेजोऽसृजत इति ब्रह्मअजत्वं तेजसः श्रुतम् । वायोर् अग्निर् इति तु वायुजत्वम् । तत्र वायोर् इति पञ्चम्या आनन्तर्यार्थत्वस्यापी सम्भवात् ब्रह्मजं तद् इति प्राप्ते—
तेजोऽतस् तथा ह्य् आह
अतो मातरिश्वनः सकाशात् तेज उत्पद्यते । तथा हि श्रुतिर् आह—वायोर् अग्निर् इति । इदम् अत्र बोध्यम् । अनुवर्तमान-सम्भूत-शब्दान्वितत्वेन वायोर् इति पञ्चम्या अपादानार्थत्वम् एव मुख्यं कॢप्तत्वात् । आनन्तर्यार्थत्वं तु भाक्तं कल्प्यत्वात् । ततश् च मुख्यम् एव न्याय्यत्वाद् ग्राह्यम् । एवम् अपि वक्ष्यमाण-युक्त्या ब्रह्मजत्वं च न विरुध्यते ॥९॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।२५।६३
अधिकरणम् ३८ (अब्-अधिकरणम्)
अथापाम् उत्पत्तिम् आह । तत्र यद्य् उभयत्राप्य् अग्नेर् एव तद्-उत्पत्तिर् उक्ता तथापि विरुद्धात् तस्मात् सा न युज्येतेति कस्यचित् शङ्का स्यात् । ताम् अपनेतुं सूत्रारम्भः—
आपः
अतस् तथाह्याहेत्य् अनुवर्तते । आपोऽतस् तेजस उत्पद्यन्ते । हि यतस् तथा श्रुतिर् आह । तद् अपोऽसृजतेत्य् अग्नेर् आप इति च । न हि वाचनिकेऽर्थे न्यायोऽवतरति । छान्दोग्ये तूपपादिका युक्तिर् अपि दृश्यते । तस्मात् यत्र क्व च शोचति स्वेदते वा पुरुषस् तेजस एव तद् अध्य् आपो जायन्ते इति ॥१०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।४७, ४।२५।६३
अधिकरणम् ३९ (पृथिव्य्-अधिकरणम्)
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नम् असृजन्त [छा.उ. ६.२.४] इति विचारान्तरम् । किम् अनेनान्न-शब्देन यवादिकं ग्राह्यं किं वा पृथिवीति । तस्मात् यत्र क्वचन वर्षति तद् एव भूयिष्ठम् अन्नं भवत्य् अद्भ्य एव तद्-अध्यन् नाद्यं जायत इति तत्रैव युक्ति-प्रदर्शनाद् रूढेश् च यवादिकम् इति प्राप्ते—
पृथिव्य्-अधिकार-रूप-शब्दान्तरेभ्यः
पृथिव्य् एव ग्राह्या, न तु यवादि । कुतः ? अधिकारेत्य् आदेः । तत् तेजोऽसृजत इति महा-भूतानाम् एवाधिकारात् यत् कृष्णं तद् अन्नस्येति पार्थिव-रूपत्वात् अद्भ्यः पृथिवीति श्रुत्य्-अन्तराच् चेत्य् अर्थः । एवं सति तस्माद् यत्र क्वचनेत्य् आदिकं तु हेतु-फलयोर् ऐक्य-विवक्षया सङ्गमनीयम् ॥११॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।४४, ४।२५।६२
अधिकरणम् ४० (तद्-अभिध्यानाधिकरणम्)
वियद्-आदि-क्रमेण तत्त्व-सृष्टि-विमर्शो विसंवाद-परिहारायैव कृतः । प्रधान-महद्-आदि-रूपेण तद्-विमर्शस् तु जन्मादि-सूत्रेणैव सिद्धः । अथ तस्मिन् विशेषं वक्तुम् आरभते । सुबालोपनिषदि पठ्यते—तद् बाहुः किं तदासीत् तस्मै सहोवाच न सन्न् आसन् न सद् असद् इति तस्मात् तमः सञ्जायते तस्माद् भूतादिर् भूतादेर् आकाशम् आकशाद् वायुर् वायोर् अग्निर् अग्नेर् आपोऽद्भ्यः पृथिवी तद्-अण्डम् अभवत् इति । इह तम-आकाशयोर् अन्तरालेऽक्षराव्यक्त-महद्-भूतादि-तन्-मात्रेन्द्रियाणि क्रमेण बोध्यानि । सन्दग्धा सर्वाणि भूतानि पृथिव्य्-अप्सु प्रलीयते । आपस् तेजसि लीयन्ते । तेजो वायौ विलीयते । वायुर् आकाशे विलीयते । आकाशम् इन्द्रियेष्व् इन्द्रियाणि तन्-मात्रेषु तन्-मात्राणि भूतादौ विलीयन्ते । तम एकीभवति परस्मिन् । परस्मात् न सन् नासन् न सद् असत् इत्य् अग्रिम-लय-वाक्यानुरोधात् । एतच् चापाततो वस्तुतस् तु भूतादि-शब्देनाहङ्कारस् त्रिविधः । तस्मात् सात्त्विकात् मनो देवताश् च । राजसाद् इन्द्रियाणि । तामसात् तु तन्-मात्र-द्वाराकाशादीनीति बहु-व्याख्यानुसारान् । श्री-गोपालोपनिषदि च—पूर्वं ह्य् एकम् एवाद्वितीयं ब्रह्मासीत् तस्माद् अव्यक्तम् अव्यक्तम् एवाक्षरं तस्माद् अक्षरात् महत् तत्त्वं महतो वै अहंकारस् तस्माद् एवाहंकारात् पञ्च तन्-मात्राणि तेभ्यो भूतानि तैर् आवृतम् अक्षरं भवति [२.५२] इति । तत्र संशयः—प्रधानाद् इति स्वानन्तर-तत्त्वाद् उपजायन्ते उत साक्षाद् एव सर्वेश्वरात् ? इति । शब्द-स्वारस्यात् स्वानन्तर-तत्त्वाद् एवेति प्राप्ते—
तद्-अभिध्यानाद् एव तु तल्-लिङ्गात् सः
शङ्का-च्छेदाय तु-शब्दः । स तम आदि-शक्तिकः सर्वेश्वर एव प्रधानादीनां पृथिव्य्-अन्तानां कार्याणां साक्षाद्-धेतुः । कुतः ? तद्-अभीति । सोऽकामयत बहु स्यां प्रजायेय इत्य् आदौ तस्यैव तच्-छक्तिकस्य प्रधानादि-बहु-भवन-सङ्कल्पात् लिङ्गात् ब्रह्मैव तमः-प्रभृतीनि प्रविश्यः प्रधानादि-रूपेण तानि परिणमयति । यस्य पृथिवी शरीरम् इत्य् आदि-श्रुतेर् अन्तर्यामि-ब्राह्मणाच् च ॥१२॥
अधिकरणम् ४१
विपर्ययेण तु क्रमोऽत उपपद्यते च
तु-शब्दोऽवधारणे ।
एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च ।
स्वं वायुर् ज्योतिर् आपश् च पृथिवी विश्वस्य धारिणी ॥
इति मुण्डक-श्रुतौ सुबाल-श्रुत्य्-आदि-दृष्टात् प्रधान-महद्-आदि-क्रमात् विपर्ययेण यः क्रमः साक्षात् सर्वेश्वरानन्तर्य-रूपः सर्वेषां प्राणादि-पृथिव्य्-अन्तानां प्रतीयते स खल्व् अतः सर्वेश्वराद् एव तत्-तद्-वस्तु-शक्तिकात् तत्-तत्-कार्योत्पत्तेर् उपपद्यते । अन्यथा शब्द-स्वारस्य-भङ्गः । सर्वेश्वरस्य सर्वोपादानत्वं सर्व-स्रष्टृत्वं तद्-विज्ञानेन सर्व-विज्ञानं व्याकुप्येत् । जडैः प्रधानादिभिस् तत्-तत्-परिणामासम्भवश् चेति च-शब्दात् । तस्मात् स एव सर्वत्र साक्षाद् धेतुर् इति ॥१३॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।४८।१८-१९।
आशङ्क्य परिहरति—
अन्तरा विज्ञान-मनसी क्रमेण तल्-लिङ्गाद् इति चेन् नाविशेषात् ।
विज्ञान-शब्देनात्मेन्द्रियाणि भण्यन्ते । सर्वेषां तत्त्वानां साक्षात् सर्वेशाद् उत्पत्तिर् अभिध्यान-लिङ्गाद् अवगता एतस्माद् इति श्रुत्या निश्चीयते इति न सम्भवति, तस्याः क्रम-विशेष-परत्वात् । आकाशादिषु श्रुत्य्-अन्तर-सिद्धः क्रमस् तयापि खं वायुर् इत्य् आदिना प्रतीयते । तल्-लिङ्गात् तैः सह पाठ-लिङ्गात् । भूत-प्राणयोर् अन्तराले तेनैव क्रमेण विज्ञान-मनसी च प्रजायेते इत्य् अवबुद्ध्यते । अतस् त्वया श्रुत्या सर्वेषां तत्त्वानां साक्षात् सर्वेशाद् उत्पत्तिर् निश्चेतुं न शक्येति चेन् न । कुतः ? अविशेषात् । तस्यां सर्वेषां प्राणादि-पृथिव्य्-अन्तानां साक्षात् सर्वेश-जातत्वाभिधानस्य समानत्वाद् इत्य् अर्थः । एतस्माद् इत्य् अनेन हि सर्वे प्राणादयः सम्बध्यन्ते । अयं भावः । सोऽकामयत बहु स्याम् इत्य् आदेर् एतस्मात् जायते प्राण इत्य् आदेश् च श्रवणात् । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०.९],
तत्र तत्र स्थितो विष्णुस् तत्-तच्-छक्तिं प्रबोधयेत् ।
एक एव महा-शक्तिः कुरुते सर्वम् अञ्जसा ॥ इत्य् आदि स्मृतेश् च ।
सर्वाणि प्रधानादीनि साक्षात् सर्वेशोद्भवानीति मन्तव्यम् । न चैवं सुबाल-श्रुत्यादि-दृष्ट-क्रम-विरोधः । तम-आदि-शक्तिमान् प्रधानादि-कार्य-हेतुर् इति तत्र विवक्षितत्वात् । तथा चोभयं सूपपन्नम् । तद् एवं सति तत्-तेजोऽसृजतेत्य् अत्र तत् तमः प्रभृति-शक्तिकं ब्रह्म प्रधानादि-वाय्व्-अन्तं सृष्ट्वा तेजोऽसृजतेति तस्माद् वा इत्य् अत्र तत् तस्मात् तमः-प्रभृति-शक्तिकात् सम्भावित-प्रधानादिकाद् आत्मनः सर्वेशाद् आकाशः सम्भूत इति सङ्गमनीयम् ॥१४॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।७०।३८।
अधिकरणम् ४२ (चराचर-व्यपाश्रयाधिकरणम्)
नन्व् एवं सर्वेश्वरो हरिर् एव चेत् सर्वात्मकस् तर्हि सर्वेषां चराचर-वाचिनां शब्दानां तद्-वाचकतापत्तिः । न च सा तेषां समस्ति चराचरेषु मुख्य-व्युत्पन्नत्वात् । स्वीकृतायां च तस्यां गौणी तेषां तस्मिन् प्रवृत्तिर् इत्य् आशङ्क्याह—
चराचर-व्यपाश्रयस् तु स्यात्
तद्-व्यपदेशोऽभाक्तस् तद्-भाव-भावितत्वात्
तु-शब्दः शङ्का-निरासार्थः । चराचर-व्यपाश्रयस् तद्-व्यपदेशो जङ्गम-स्थावर-शरीर-वाचकस् तत्-तच्-छब्दो भगवत्य् अभाक्तो मुख्यः स्यात् । कुतः ? तद्-भावेति । तद्-भावस्य सर्वेषां शब्दानां भगवद्-वाचक-भावस्य शास्त्र-श्रवणाद् ऊर्ध्वं भविष्यत्त्वात् । तद्-बुद्धेर् उदेष्यत्त्वाद् इति यावत् । श्रुतिश् चैवम् आह—सोऽकामयत बहु स्यां [तै.उ. २.६], स वासुदेवो न यतोऽन्यद् अस्ति [गो.ता.उ. १.*] इत्य् आदिना । स्मृतिश् च—
कटक-मुकुट-कर्णिकादि-भेदैः
कनकम् अभेदम् अपीष्यते यथैकम् ।
सुर-पशुम् अनुजादि-कल्पनाभिर्
हरिर् अखिलाभिर् उदीर्यते तथैकः ॥ इत्य् आद्या ।
अयं भावः—शक्ति-वाचकाः शब्दाः शक्तिमति पर्यवस्यन्ति शक्तीनां तद्-आत्मकत्वाद् इति ॥१५॥ (१७)
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८६।५६, १०।६।८, १०।१६।४३
अधिकरणम् ४३ (आत्माधिकरणम्)
सर्वं यस्माद् उत्पद्यते यस्य मूल-कारणत्वाद् उत्पत्तिर् नास्ति स परमात्मेतीश्वरो निरूपितः । अथ जीवं निर्णेतुम् उपक्रमते । तस्य तावद् उत्पत्तिर् निरस्यते । यतः प्रसूता जगतः प्रसूतिस् तोयेन जीवान् व्यससर्ज भूम्याम् इति तैत्तिरीयके । सन्-मूलाः सौम्येमाः सर्वाः प्रजा इति चान्यत्र श्रूयते । अत्र जीवस्योत्पत्तिर् अस्ति न वेति संशये चिज्-जडात्मकस्य जगतः कार्यत्वावगमात् व्यतिरेके प्रतिज्ञा-भङ्गाच् चास्तीति प्राप्ते—
नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः
आत्मा जीवो नैवोत्पद्यते । कुतः ? श्रुतेः ।
न जायते म्रियते वा विपश्चिन्
नायं कुतश्चिन् न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ [क.उ. १.२.१८] इति काठके ।
ज्ञाज्ञौ द्वाव् अजाव् ईशानीशाव् इति श्वेताश्वतर-श्रुतौ चाजत्व-श्रवणात् । तथा ताभ्यः श्रुति-स्मृतिभ्यो नित्यत्व-प्रतीतेश् च । चेतनत्वं च-शब्दात् । तास् तु, नित्यो आनांइन्द्रिय्चेतनश् चेतनानां, अजो नित्यः शाश्वतोऽयं पुराणः इत्य् आद्याः । एवं सति जातो यज्ञदत्तो मृतश् चेइति योऽयं लौकिको व्यवहारो, यश् च जात-कर्मादि-विधिः, स तु देहाश्रित एव भवेत् । स वा अयं पुरुषो जायमानः शरीरम् अभिसम्पद्यमानः स उत्क्रामन् म्रियमानः इति बृहद्-आरण्यकात् । जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति छान्दोग्याच् च । कथं तर्हि श्रुति-प्रतिज्ञानुपरोधः । इत्थं जीवस्यापि कार्यत्वात् तद्-उत्पत्तिर् इति । सूक्ष्मोभय-शक्तिकं ब्रह्मैवावस्थान्तरापन्नं कार्यं नाम । इयांस् तु विशेषः । प्रधानादेर् अचेतनस्य भोग्य-जातस्य स्वरूपेणान्यथाभावो जीवस्य तु भोक्तुर् ज्ञान-सङ्कोच-विकाशात्मनेति । उभयत्रापि कार्य-हेत्वोर् ऐक्यात् सा नोपरुध्यए । श्रुतयश् चाञ्जस्य भुजीरन् तस्माज् जीवस्योत्पत्तिर् नेति ॥१६॥ (१८)
रामपद चट्टोपाध्याय : ११।३।३९, ११।२२।१०, ११।२२।४५, १०।८५।२२, ११।२८।२५, ५।११।१२-१३, ११।२८।३७।
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।९।
अधिकरणम् ४४ (ज्ञाधिकरणम्)
अथास्य स्वरूपं विचारयति । यो विज्ञाने तिष्ठन् इति, सुखम् अहं स्वाप्सं न किञ्चिद् अवेदिषम् इति च श्रूयते । तत्र ज्ञान-मात्र-स्वरूपो जीव उत ज्ञान-ज्ञातृ-स्वरूप इति संशये ज्ञान-मात्र-स्वरूपः सः, यो विज्ञाने तिष्ठन्न् इत्य् अत्र तथैव प्रत्ययात् । ज्ञानं तु बुद्धेर् एव धर्मस् त्वया सम्बन्धे तत्राध्यस्यते सुखम् अहम् अस्वाप्सम् इति । एवं प्राप्ते—
ज्ञोऽत एव
ज्ञ एवात्मा, ज्ञान-रूपत्वे सति ज्ञातृ-स्वरूप एव । एष हि द्रष्टा स्प्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः इति षट्-प्रश्नी-श्रुतेर् एवेत्य् अर्थः । श्रुति-बलाद् एव तथा स्वीकृतम्, न तु युक्ति-बलात् । श्रुतेस् तु शब्द-मूलत्वाद् इति हि नः स्थितिः । ज्ञाता ज्ञान-स्वरूपोऽयम् इति स्मृतेश् च । न चात्मा ज्ञान-मात्र-स्वरूपः सुखम् अहं सुप्तोत्थित-परामर्शानुपपत्तेः ज्ञातृत्व-श्रुति-विरोधाच् च । तस्मात् ज्ञान-स्वरूपो ज्ञातेति ॥१७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।१०।
अधिकरणम् ४५ (उत्क्रान्ति-गत्य्-अधिकरणम्)
अथास्य परिमाणं चिन्तयति । मुण्डके, एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [मु.उ. ३.१.९] इति पठ्यते । इह संशयः । जीवो विभुर् अणुर् वेति । तत्र विभुर् एव जीवः । तं प्रकृत्या महान् इति श्रुतेस् तथैव वादिभिर् अभ्युपगमाच् च । अणुत्वं तु बुद्धि-गतं तत्रोपचर्यते । एवं प्राप्तौ—
उत्क्रान्ति-गत्य्-आगतीनाम्
अत्राणुर् इति पदम् ऊह्यं परत्र नाणुर् इति पूर्व-पक्षत्वात् । पञ्चम्य्-अर्थे षष्ठी । परमाणुर् एवायं जीवो न विभुः । कुतः ? उत्क्रान्त्य्-आदिभ्यः ।
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीर-देशेभ्यः [बृ.आ.उ. ४.४.२] इति ।
अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ।
तास् ते प्रेत्याभिगच्छन्त्य् अविद्वासोऽबुधा जनाः ॥ [बृ.आ.उ. ४.४.११] इति ।
प्राप्यान्तं कर्मणस् तस्य यत् किं चेह करोत्य् अयम् ॥
तस्माल् लोकात् पुनर् ऐत्य् अस्मै लोकाय कर्मणः [बृ।आ।उ। ४।४।६]
इति च बृहद्-आरण्यक-श्रुत्या जीवस्योत्क्रान्त्य्-आदयो निगदिताः । न च सर्व-गतस् तस्य ताः सम्भवेयुः ।
अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास्
तर्हि न शस्यतेति नियमो ध्रुव नेतरथा । [भा.पु. १०.८७.३०] इत्य् आदिका स्मृतिः ।
परेशस्य तु विभोर् अपि गत्य्-आदिकम् अचिन्त्यत्वात् न विरुद्धम् ॥१८॥
रामपद चट्टोपाध्याय : ११।१६।११, १।३।३२, ३।३२।३।
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।९, ६।१६।६, ६।१६।८।
अत्र विभोर् अचलतोऽप्य् उत्क्रान्तिर् देहाभिमान-निवृत्ति-मात्रेण ग्राम-स्वाम्य्-अनिवृत्तिवत् कदाचित् सम्भाव्येत गत्यागती तु नाचलतः सम्भवेताम् इत्य् आह—
स्वात्मना चोत्तरयोः
चोऽवधारणे उत्तरयोर् गत्य्-आगत्योः स्वात्मनैव सम्बन्धो वाच्यः कर्तृ-स्थ-क्रियात्वात् । सत्योश् च तयोर् उत्क्रान्तिर् अपि देह-प्रवेशाद् एव मन्तव्या । तेन प्रद्योतेनेत्य्-आदि श्रवणात् ।
शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥ [गीता १५.८] इत्य् आदि-स्मरणाच् च ।
यत् तूत्क्रान्त्य्-आदिकम् उपाध्य्-उत्क्रान्त्य्-आदिभिर् व्यपदिष्टम् इत्य् उच्यते तन् मन्दम् । स यदास्मात् शरीरात् समुत्क्रामति सहैवैतैः सर्वैर् उत्क्रामति इति कौषीतकी-ब्राह्मण-श्रुत-सह-शब्द-विरोधात् । स हि प्रधानाप्रधानयोः समानाम् एव क्रियां बोधयति । पुत्रेण सह पिता भुङ्क्ते इतिवत् । वायु-दृष्टान्ते ग्रहि-ग्राहयोर् असामञ्जस्याच् च । एतेन घटाकाशवद् अज्ञ-दृष्टम् अभिप्रायम् एतद् इति बाल-कोलाहलोऽपि निरस्तः ॥१९॥
नाणुर् अतच् छ्रुतेर् इति चेन् नेतराधिकारात्
ननु नाणुर् जीवः बृहद्-आरण्यके, स वा एष महान् अज आत्मा इति तद्-विपरीतस्य महत् परिणामस्य श्रुतत्वाद् इति चेन्, न । कुतः ? इतरेति । तत्रेतरस्य परमात्मनोऽधिकारात् । यद्यपि, योऽयं विज्ञानमयः प्राणेषु इति जीवस्योपक्रमस् तथापि, यस्यानुवित्तः प्रतिबुद्ध आत्मा इति मध्ये जीवेतरं परेशम् अधिकृत्य महत्त्व-प्रतिपादनात् तस्यैव तत्त्वं न जीवस्येति ॥२०॥
रामपद चट्टोपाध्याय : ४।७।४०, १०।१४।११।
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।९।
स्व-शब्दोन्मानाभ्यां च
स्व-शब्दोऽणुत्व-वाची शब्दः श्रूयते एषोऽणुर् आत्मा [मु.उ. ३.१.९] इति । तथोन्मानं च परमाणु-तुल्यम् । वस्तु-निदर्श्य-तन्-मानत्वं जीवस्योच्यते ।
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ [श्वे.उ. ५.९] इति श्वेताश्वतरैः ।
ताभ्याम् आणुर् एव सः । आनन्त्य-शब्दो मुक्त्य्-अभिधायी । अन्तो मरणं तद्-राहित्यम् आनन्त्यम् इत्य् अर्थात् ॥२१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१६।११।
नन्व् अणोर् एक-देश-स्थस्य सकल-देह-गतोपलब्धिर् विरुध्येतेति चेत् तत्राह—
अविरोधश् चन्दनवत्
एकदेशस्थस्य हरि-चन्दन-बिन्दोः सकल-देहाह्लादवद् अनुभूतस्यापि तस्य सा न विरुद्ध्यअ इत्य् अर्थः । स्मृतिश् च—
अणु-मात्रोऽप्य् अयं जीवः स्व-देहं व्याप्य तिष्ठति ।
यथा व्याप्य शरीराणि हरि-चन्दन-विप्रुषः ॥ इति ॥२२॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३०।
अवस्थिति-वैशेष्याद् इति चेन् नाभ्युपगमात् हृदि हि
ननु तद् बिन्दोः शरीरैक-देशोऽवस्थिति-विशेषः प्रत्यक्ष-सिद्धो न तु जीवस्य न चानुमेयोऽसौ स्वादि-दृष्टान्तेन विपरीतानुमानस्यापि सम्भवाद् अतो विषमो दृष्टान्त इति चेन्, न । कुतः ? अभीति । तद्वज् जीवस्यापि तद्-एक-देशे तद्-विशेष-स्वीकाराद् इत्य् अर्थः ।
ननु कोऽसौ देशो यत्र जीवस् तिष्ठतीति चेत् तत्राह—हृदि हीति । हृदि ह्य् एष आत्मा [प्र.उ. ३.६] इति षट्-प्रश्नी-श्रुतेर् एवेत्य् अर्थः ॥२३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।६, १०।८७।२८, १।८।४२।
सिद्धायां चाणुतायाम् इत्थम् अप्य् अविरोधः स्याद् इति मुख्यं मतम् आह—
गुणाद् वा आलोकवत्
अणुर् अपि जीवश् चेतयितृत्व-लक्षणेन चिद्-गुणेन निखिल-देह-व्यापी स्यात् आलोकवत् । यथा सूर्यादिर् आलोक एक-देशस्थोऽपि प्रभया कृत्स्नं ख-गोलं व्याप्नोति तद्वत् । आह चैवं भगवान् ।
यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ [गीता १३.३३]
न च सूर्यात् विशीर्णाः परमाणवः सूर्य-प्रमेति वाच्यम् । तथा सति तस्य ह्रास-प्रसङ्गात् । पद्म-रागादि-मणयोऽपि प्रभया निज-परिसारान् रञ्जयन्तो दृष्टाः । न च तेभ्यः परमाणवश् च्यवन्ते इति शक्यं वक्तुं, अत्यन्तासम्भवात्, उन्मान-हान्यापत्तेश् च । इत्थं च गुण एव प्रभा ॥२४॥
गुणस्य गुण्य्-अतिरेके देशे वृत्तिर् उक्ता । तां दृष्टान्तेन बोधयति—
व्यतिरेको गन्धवत् तथा हि दर्शयति
यथा कुसुमादि-गुणस्य गन्धस्य गुण-व्यतिरेके प्रदेशे वृत्तिर् भवेद् एवं चेतयितृत्वस्य जीव-गुणस्य तत्-प्रदेशे हृद्-व्यतिरिक्ते शिरोऽङ्घ्र्य्-आदौ वृत्तिः स्यात् । तथा हि दर्शयति । प्रज्ञया शरीरं समारुह्य इति कौषीतक्य्-उपनिषत् । गन्धः खलु दूरं प्रसर्पन्न् अपि स्वाश्रयात् न भिद्यते मणि-प्रभावत् ।
उपलभ्याप्सु चेद् गन्धं केचिद् ब्रूयुर् अनैपुणाः ।
पृथिव्याम् एव तं विद्याद् अपो वायुं च संश्रितम् ॥ इति स्मृतेः ॥२५॥
रामपद चट्टोपाध्याय : ११।१०।८, ११।१३।३१।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८५।७।
अधिकरणम् ४६ (पृथग्-उपदेशाधिकरणम्)
एष हि द्रष्टा इत्य्-आदौ संशयः । जीवस्य धर्म-भूतं ज्ञानम् अनित्यं नित्यं वेति । पाषाण-कल्पे जीवे मनसा संयुक्ते ज्ञानम् उत्पद्यते । सुखम् अहम् इत्य्-आदि-श्रुतेः । ज्ञानत्वं तस्य ज्ञान-सम्बन्धात् बोध्यम् । वह्नित्वम् इव वह्नि-सम्बन्धाद् अयसः । यदि ज्ञानं नित्यं तर्हि सुषुप्त्य्-आदौ तत्र स्यात् करण-व्यर्थता चेति प्राप्ते—
पृथग् उपदेशात्
धर्म-भूतं ज्ञानं नित्यम् । कुतः ? पृथग् इति । एष हीत्य् आदि-वाक्यात् पृथग्-भूते, अविनाशी वा अरेऽयम् आत्मानुच्छित्ति-धर्मा [बृ.आ.उ. ४.५.१४] इत्य् आदि बृहद्-आरण्यक-वाक्ये तत्त्वेन तस्योपदेशात् । न च मनसा संयोगाद् आत्मनि ज्ञानोत्पत्तिः निरवयवयोस् तयोः संयोगासिद्धेः । भगवद्-वैमुख्येनावृतम् इदं तत्-सांमुख्येन तस्मिन् विनष्टे सत्याविर्भवतीति स्मृतिर् आह—
यथा न क्रियते ज्योत्स्ना मल-प्रक्षालनान् मणेः ।
दोष-प्रहाणात् न ज्ञानम् आत्मनः क्रियते तथा ॥
यथोदपान-खननात् क्रियते न जलान्तरम् ।
सद् एव नीयते व्यक्तिम् असतः सम्भवः कुतः ॥
तथा हेय-गुण-ध्वंसाद् अवरोधादयो गुणाः ।
प्रकाश्यन्ते न उच्यन्ते नित्या एवात्मनो हि ते ॥ इति ॥२६॥
रामपद चट्टोपाध्याय : ११।१३।३१
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५७।
यो विज्ञाने तिष्ठन्न् इत्य् आदि श्रुतेर् गतिम् आह—
तद्-गुण-सारत्वात् तद्-व्यपदेश-प्राज्ञवत्
ज्ञातुर् अपि जीवस्य ज्ञान-स्वरूपत्वेन व्यपदेशः । कुतः ? तद्-गुणेति । स ज्ञान-लक्षणो गुणः सारो यत्र तथात्वात् । सारो व्यभिचार-रहितः स्वरूपानुसन्दीति यावत् । प्राज्ञवत् यथा यः सर्वज्ञः सर्वविद् इति प्राज्ञत्वेनोक्तस्य विष्णोः सत्यं ज्ञानम् इति ज्ञान-स्वरूप-व्यपदेशस् तद्वत् । अत्र ज्ञाता ज्ञान-स्वरूपो निर्दिष्टः ॥२७॥
रामपद चट्टोपाध्याय : ११।२३।४०, ११।३।३९।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।६, ११।२३।५४।
अथ ज्ञान-स्वरूपो ज्ञाता निर्देश्य इत्य् आह—
यावद् आत्माभावित्वाच् च न दोषस् तद्-दर्शनात्
ज्ञान-स्वरूपो जीवो ज्ञातेति व्यपदेशो न दोषः, निर्दोष इत्य् अर्थः । कुतः ? यावद् इति । तथा प्रतीतेर् आत्म-समान-काल-भावित्वान् न स बाध्यत इत्य् अर्थः । आत्मा खल्व् अनाद्य्-अन्त-कालः सम्प्रतिपन्नः प्रकाश-रूपोऽपि रविः प्रकाशयितेति वीक्षणाच् च । यावद् रविर् भावी ह्य् एष व्यपदेशः, निर्भेदेऽपि वस्तुनि द्वेधा भाति, विशेषाद् इत्य् आहुः ॥२८॥
रामपद चट्टोपाध्याय : १०।८५।२२, ११।१०।८
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।४।
ननु गुण-भूतं ज्ञानं नात्मनो नित्यं सुषुप्ताव् असत्त्वाज् जागरे सामग्र्याः सम्भवाच् चेति चेत्, तत्राह—
पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्ति-योगात्
तु-शब्दः शङ्का-च्छेदार्थः । नेत्य् अनुवर्तते । सुषुप्ताव् असतो ज्ञानस्य जागरे सम्भव इति न । कुतः ? अस्येति । अस्य ज्ञानस्य सुषुप्तौ सत एव जागरेऽभिव्यक्तेर् इत्य् अर्थः । दृष्टान्तः पुंस्त्वादिवत् । बाल्ये जीवात्मना सत एव पुंस्त्वादेः कैशोरे यथाभिव्यक्तिस् तद्वत् । सुषुप्तौ ज्ञान-प्रसङ्गस् तु श्रुत्यैव परिहृतः । सुषुप्तं प्रकृत्य बृहद्-आरण्यके पठ्यते—
यद् वै तन् न विजानाति विजानाति, विजानन् वै तन् न विजानाति, न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यतेऽविनाशित्वात्, न तु तद् द्वितीयम् अस्ति, ततोऽन्यद् विभक्तं यद् विजानीयात् [बृ.आ.उ. ४.३.३०] इति ।
इह तदा सद् अपि ज्ञानं विषयतया नाभ्युदेति विषयाभावाद् एवेति प्रतीयते । इतरथा सुषुप्तौ स्थितस्यापरामर्श-प्रसङ्गः स्यात् । इन्द्रिय-संयोग-रूपा कारण-सामग्री तु तद्-अभिव्यञ्जिका । असतः सम्भवे तु क्लीब् अस्यापि तद्-आपत्तिः । तस्मात् ज्ञान-स्वरूपोऽणुर् जीवो नित्य-ज्ञान-गुणकः सिद्धः ॥२९॥
रामपद चट्टोपाध्याय : ११।१३।३१।
अधिकरणम् ४७ (नित्योपलब्धि-प्रसङ्गाधिकरणम्)
अथैतत् प्रतिपक्ष-भूतान् साङ्ख्यान् दूषयति । अत्र ज्ञान-मात्रो विभुर् आत्मेति युक्त न वेति विषये सर्वत्र कार्योपलम्भात् युक्तं तत् । अणुत्वे सर्वाङ्गीण-सुख-दुःखानुपलम्भः । मध्यमत्वे त्व् अनित्यतापत्तिः । कृत-हन्य-कृताभ्यगमश् चेत्य् एवं प्राप्ते—
नित्योपलब्ध्य्-अनुपलब्धि-प्रसङ्गोऽन्यतर-नियमो वान्यथा
अन्यथा ज्ञान-मात्रो विभुर् आत्मेति मते नित्यम् उपलब्ध्य्-अनुपलब्ध्योः प्रसङ्गः स्यात् । अन्यतरस्य नियमः प्रतिबन्धो वा नित्यं स्यात् । अयम् अर्थः—लोक-सिद्धोपलब्धिर् अनुपलब्धिश् चास्ति । तयोर् विभुर् आत्मा चिन्-मात्रश् चेत् कारणं, तर्हि नित्यं युगपच् च ते सर्वस्य लोकस्य प्राप्नुयाताम् । अथोपलब्धेर् एवे चेत् कारणं, तदा कस्यापि कुत्रापि अनुपलब्धिर् न स्यात् । अनुपलब्धेर् एवे चेत् तर्हि कस्यापि कुत्राप्य् उपलब्धिर् न स्याद् इति । न च करणायत्ता तयोर् व्यवस्था । आत्मनो विभुत्वेन करणैः सर्वदा संयोगात्, किं च, तन्-मते सर्वात्मनां विभुतया सर्व-शरीरैर् योगात् सर्वत्र भोग-प्राप्तिः । एतेनादृष्ट-विशेषात् भोग-व्यवस्थेति सङ्कल्प-विशेषाद् अदृष्ट-व्यवस्थेति प्रत्युक्तम् । मतान्तरेऽप्य् एतत् समं दूषणम् । अस्माकं त्व् आत्मनाम् अणुत्वेन प्रति-शरीरं भेदान् न कश्चिद् अधिक्षेपः । अणोर् अपि सर्वत्र कार्य-क्रमेणैव न युगपद् इत्य् अदोषः सर्वाङ्गीण-सुखाद्य्-उपलम्भस् तु गुणेन व्याप्तेर् इत्य् उक्तम् ॥३०॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।११।९।
अधिकरणम् ४८ (कर्त्र्-अधिकरणम्)
इदम् इदानीं विचारयति । विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपि च [तै.उ. २.५.१] इति तैत्तिरीयाः पठन्ति । इह सन्देहः । विज्ञान-शाब्दितो जीवः कर्ता न वेति ।
हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ [कठ.उ. १.२.१९]
इति कठ-श्रुत्या तस्य कर्तृत्व-प्रतिषेधान् न स कर्ता, किन्तु प्रकृतिर् एव कर्त्री ।
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥ [गीता ३.२७]
कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते ।
पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥ [गीता १३.२०] इत्य् आदि स्मृतिभ्यश् च ।
तस्मान् न जीवस्य कर्तृत्वं प्रकृति-गतं तत्त्व-विवेकात् स्वस्मिन् सोऽध्यस्यति भोक्ता तु कर्म-फलानाम् इति प्राप्ते—
कर्ता शास्त्रार्थवत्त्वात् ।
जीव एव कर्ता, न गुणाः । कुतः ? शास्त्रेति । स्वर्ग-कामो यजेतात्मानम् एव लोकम् उपासीत इत्य् आदि शास्त्रस्य चेतने कर्तरि सति सार्थक्यात् गुण-कर्तृत्वेन तद्-अनर्थक्यं स्यात् । शास्त्रं किल फल-हेतुता-बुद्धिम् उत्पाद्य कर्मसु तत्-फल-भोक्तारं पुरुषं प्रवर्तयते । न च तद्-बुद्धिर् जडानां गुणानां शक्योत्पादयितुम् ॥३१॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।१०।
वास्तवम् एव कर्तृत्वं जीवस्येत्य् आह—
विहारोपदेशात् ।
स तत्र पर्येति जक्षन् क्रीडन् रममाण [छा.उ. ८.१२.३] इत्य् आदिना मुक्तस्यापि क्रीडाभिधानाद् इत्य् अर्थः । अतः कर्तृत्वम् अत्र न दुःखावहं, किन्तु गुण-सम्बन्धम् एव, तस्य स्वरूप-ग्लानि-करत्वात् ॥३२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।११।
उपादानात् ।
स यथा महाराज इत्य् उपक्रम्य, एवम् एवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथा-कामं परिवर्तत [बृ.आ.उ. २.१.१८] इति श्रुतौ, गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् [गीता १५.७] इति स्मृतौ च जीव-कर्तृकस्य प्राणोपादानस्याभिधानात् लोकाकर्षक-मणेर् इव चेतनस्यैव जीवस्य कर्तृत्वं बोध्यम् । अन्य-ग्रहणादौ प्राणादि करणं, प्राण-ग्रहणादौ तु नान्यद् अस्तीति तस्यैव तत् ॥३३॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।३२।
युक्त्य्-अन्तरं चाह—
व्यपदेशाच् चक्रियायां न चेन् निर्देश-विपर्ययः
विज्ञानं यज्ञम् [तैत्त्.उ. २.५] इत्य् आदिना वैदिक्यां लौकिक्यां च क्रियायां मुख्यत्वेन व्यपदेशात् जीवः कर्ता । अथ चेत् विज्ञान-शब्देन जीवो नाभिधीयते, किन्तु बुद्धिर् एव, तर्हि निर्देश-विपर्ययः स्यात् । विज्ञानम् इति प्रथमान्त-कर्तृ-निर्देशस्य विज्ञानेनेति तृतीयान्त-करण-निर्देशो भवेत् । बुद्धेः करणत्वात् । न चात्र तथास्ति । किं च, बुद्धेः कर्तृत्वे तस्याः करणम् अन्यत् कल्प्यं सर्वस्य करणस्यैव कर्मसु प्रवृत्ति-दर्शनात् । ततश् च नाम-मात्रेण विसंवादः, करणाभिन्नस्य कर्तृत्व-स्वीकारात् ।
ननु जीव-कर्तृत्वे हितस्यैव, न तु अहितस्य सृष्टिः स्यात्, स्वतन्त्रस्य कर्तृत्वात् । मैवम् । हितम् एव सिसृक्षोर् अपि सहकारि-कर्म-वैचित्र्येण क्वचिद् अहितस्याप्य् आपातात् । तस्मात् जीव एव कर्ता । एवं सति क्वचिद् अकर्तृत्व-वचनम् अस्वातन्त्र्यात् । कर्तृत्वे क्लेश-सम्बन्ध-दर्शनात् न तत्र श्रुतेस् तात्पर्यम् इत्य् आदिक-सृष्टायस् तु दर्श-पौर्णमासादिष्व् अप्य् अतात्पर्यापत्त्यादिभिर् निरसनीयाः ॥३४॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।३।३८
अथ प्रकृति-कर्तृत्वादे दोषान् दर्शयति—
उपलब्धिवद् अनियमः
आत्मनो विभुत्वाद् उपलब्धेर् अनियमो दर्शितः प्राक् । तथा प्रकृतेर् अपि विभुत्वेन सर्व-पुरुष-साधारण्यात् कर्मणोऽप्य् अनियमः स्यात् सर्वं कर्म सर्वस्य भोगाय, यथा स्यात् नैव वा स्यात् । न चासन्निधिकृता व्यवस्था, विभूनाम् आत्मनां सर्वत्र सान्निध्यात् ॥३५॥
रामपद चट्टोपाध्याय : ११।३।६-७।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३१
शक्ति-विपर्ययात्
प्रकृतेः कर्तृत्वे पुरुष-निष्ठाया भोक्तृत्व-शक्तेर् विपर्ययात् प्रकृति-गामितापत्तेः पुरुषोऽस्ति भोक्तृ-भावात् [साङ्ख्य-कारिका, २७] इत्य् अभिमत-हानिर् इति शेषः । कर्तुर् अन्यस्य भोक्तृत्वासम्भवात् तच् छक्तिर् अपि प्रकृति-गता मन्तव्या ॥३६॥
रामपद चट्टोपाध्याय: ११।३।६-७, ११।१०।१६, ११।१०।२२, ११।१०।२६-२७, १०।८७।२०।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।२७।
समाध्य्-अभावाच् च
मोक्ष-साधनस्य समाधेर् अप्य् अभावाच् च दुष्टः प्रकृति-कर्तृत्व-वादः । प्रकृतेर् अन्योऽहम् अस्मीत्य् एवं-विधः खलु समाधिः । स च न सम्भवति स्वस्य स्वान्यत्वाभावात् जाड्याच् च । तस्माज् जीव एव कर्ता सिद्धः ॥३७॥
भागवत-भाष्यम् (हरिदास शास्त्री): ११।१६।३३।
अथ तस्य कर्तृत्वं करण-योगेन स्व-शक्त्या चास्तीति दृष्टान्तेन बोधयति—
यथा च तक्षोभयथा ।
तक्षा यथा तक्षणे वास्यादिना कर्ता वास्यादि-धारणे तु स्व-शक्त्यैवेत्य् उभयथापि कर्ता भवेद् एवं जीवोऽप्य् अन्य-ग्रहणादौ प्राणादिना कर्ता । प्राणादि-ग्रहणे तु स्व-शक्त्यैवेत्य् अर्थः । इत्थं प्राकृत-देहादिना यत् कर्तृत्वं तत् किल शुद्धाद् एव पुरुषात् प्रवृत्तम् ऐप् गुण-वृत्ति-प्राचुर्यात् तद्-धेतुकम् इत्य् उपचर्यते । कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु इति तत्रैवोक्तेः । एतेन गुण-कर्तृत्व-वचांसि व्याख्यातानि । मौढ्याद्य्-उक्तिस् तु पञ्चापेक्षेऽपि स्वैकापेक्ष-मननात् । न चैषाम् अपात-विभातोऽर्थः शक्यो नेतुं तत्रत्य-मोक्ष-सादनोक्ति-विरोधात् । नायं हन्ति न हन्यते इत्य् आदि वाक्यं तु हन्ति फलम् एव च्छेदं प्रतिषेधेति नित्यस्यात्मनस् तद्-अयोगात् । न तु कर्तृत्वम् अपि, तस्य पूर्वं सिद्धेः । एवं च भागवतानां यद् इहामुत्र च तद्-अर्चनादि-कर्तृत्वं तन् निर्गुणम् एव पूर्वत्र गुणान् विमर्द्य चिच्-छक्ति-वृत्तेर् भक्तेः प्राधान्यात् परत्र कैवल्यात् । एतद् अभिप्रेत्योक्तं श्री-भगवता—
सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ [भा.पु. ११.२५.२६]
भोक्तृत्वं तु शुद्धस्य पुंसः । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते [गीता १३.२०] इत्य् आदि स्मृतेः । गुण-सङ्गेनापि भवतस् तस्य संवेदन-रूपत्वात् चिद्-रूप-पुं-प्राधान्यं न तु गुण-प्राधान्यं तत्त्वेन तद्-विरोधित्वात् । स्वरूप-संवेदन-सुखादौ तु सुसिद्धं तत् । स्वस्मै स्वयं प्रकाशत्वाद् इति । तस्मात् तद् उभयं जीवस्यैव मन्तव्यम् । एष हि द्रष्टा स्प्रष्टा श्रोता इत्य् आदि श्रुतेश् च । तक्ष-दृष्टान्तेन कर्तृत्वं सातत्यं च निरस्तम् ॥३८॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।८।
अथ तत्रैव विमर्शान्तरम् । इदं जीवस्य कर्तृत्वं स्वायत्तं परायत्तं वेति संशये, स्वर्ग-कामो यजेत, तस्माद् ब्राह्मणः सुरां न पिबेत् पापम्नोत्संसृज इत्य् आदि विधि-निषेध-शास्तार्थवत्त्वात् स्वायत्तं तत् । स्व-बुद्ध्या प्रवर्तितुं निवर्तितुं च शक्तो हि नियोज्यो दृश्यते । तत्राह—
परात् तु तच्-छ्रुतेः ।
तु-शब्दः शङ्काच् छेदार्थः । तत्-कर्तृत्वं जीवस्य परात् परेशाद् अपि हेतोः प्रवर्तने । कुतः ? तच्-छ्रुतेः । अन्तः-प्रविष्टः शास्ता जनानां [तै.आ. ३.१.१०], य आत्मनि तिष्ठन् आत्मानम् अन्तरो यमयति [बृ.आ.उ. ३.७.२२], एष एव साधु कर्म कारयति [कौ.उ. ३.९] इत्य् आदौ तथा श्रवणात् ॥३९॥
रामपद चट्टोपाध्याय: ८।३।१३-१४, ५।११।१३, ४।९।६, ८।५।१८,
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।५-७।
स्याद् एतत् । परेशायत्ते कर्तृत्वे विधि-निषेध-शास्त्र-वैयर्थ्यं स्यात् । स्व-धिया प्रवृत्ति-निवृत्ति-शक्तस्य शास्त्राविनियोज्यत्वाद् इति चेत् तत्राह—
कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः
तु-शब्दाच् छङ्का निरस्यते । जीवेन कृतं धर्माधर्म-लक्षणं प्रयत्नम् अपेक्ष्य परेशस् तं कारयत्य् अतो नोक्त-दोषावतारः । धर्माधर्म-वैषम्याद् एव विषमाणि फलानि पर्जन्यवन् निमित्त-मात्रः सन्न् अर्पयति । यथा साधारण-स्व-बीजोत्पन्नस्य तरु-लतादेः पर्ज्यन्यः साधारणो हेतुः । न ह्य् असति वारिदे तस्य रस-पुष्पादि-वैषम्यं सम्भवेत् । नाप्य् असति बीजे । तद् एवं तत्-कर्मापेक्षः शुभाशुभान्य् अर्पयतीति श्लिष्टम् । तथा च, कर्तापि पर-प्रेरितः करोतीति कर्तृत्वं जीवस्य न निवार्यते । एवं कुतस् तत्राह विहितेति । आदिना निग्रहानुग्रह-वैषम्यादि-परिहारोपपत्ति-ग्रहः । एवं हि विध्य्-आदि-शास्त्रस्य वैयर्थ्यं न स्यात् । यदि विधौ निषेधे च परेश एव काष्ठ-लोष्ट्र-तुल्यं जीवं नियुञ्ज्यात् तर्हि तस्य वाक्यस्य प्रामाण्यं हीयेत कृतिमतो नियोज्यत्वात् । उन्निनीषया साधु-कर्मणि प्रवर्तनम् अनुग्रहः । अधो निनीषया असाधु-कर्मणि प्रवर्तनं तु निग्रहः । तौ चैतौ जीवस्य तथात्वेनोपपद्येते, वैषम्यादि-दोष-परिहारश् च न स्यात् । तस्माज् जीवः प्रयोज्य-कर्ता परेशस् तु हेतु-कर्ता तद्-अनुमतिम् अन्तरासौ कर्तुं न शक्नोतीति सर्वम् अवदातम् ॥४०॥
रामपद चट्टोपाध्याय: ११।१०।४।
अधिकरणम् ४९ (अंशाधिकरणम्)
पूर्वार्थ-स्थेम्ने जीवस्य ब्रह्मांशत्वम् उच्यते । द्वा सुपर्णा [मु.उ. ३.१.१] इत्य् आदीनि वाक्यानि श्रूयन्ते । तत्रैक ईशो द्वितीयस् तु जीव इति प्रतीयन्ते । इह संशयः किम् ईश एव मायया परिच्छिन्नो जीवः । किं वा, रवेर् अंशुर् इव तद्-भिन्नस् तत्-सम्बन्धापेक्षी तस्यांश इति । किं प्राप्तं मायया परिच्छिन्न ईश एव जीव इति ?
घट-संवृतम् आकाशं नियमाने घटे यथा ।
घटो नीयते नाकाशं तद्वज् जीवो नभोपमः ॥ इत्य् अथर्वा-श्रुतेः ।
एवं च तत्त्वम् अस्यादि वाक्यान्य् अनुगृहीतानि स्युः । एवं प्राप्ते—
अंशो नाना-व्यपदेशाद् अन्यथा चापि
दास-कितवादित्वम् अधीयत एके
परस्यांशो जीवः अंशुर् इवांशुमतः तद्-भिन्नस् तद्-अनुयायी तत्-सम्बन्धापेक्षीत्य् अर्थः । कुतः ? नानेति । उद्भवः सम्भवो दिव्यो देव एको नारायणो माता पिता भ्राता निवासः शरणं सुहृद् गतिर् नारायणः [सुबा.उ. ६] इति सुबाल-श्रुतौ, गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् [गीता ९.१८] इत्य् आदि स्मृतौ च स्रष्ट्र्-सृज्यत्व-नियन्तृ-नियम्यत्वाधाराधेयत्व-स्वामि-दासत्व-सखा-सखित्व-प्राप्य-प्राप्तृत्वादि-रूप-नाना-सम्बन्ध-व्यपदेशात् । अन्यथा अन्यया च विधया तद्-व्याप्यतयैनं जीवं तद्-आत्मकम् एके आथर्वणिका अप्य् अधीयन्ते—ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाः इत्य् आदिना । न ह्य् एते व्यपदेशाः स्वरूपाभेदे सम्भवेयुः । न हि स्वयं स्वस्य सृज्यादिर् व्याप्यो वा । न वा चैतन्य-घनस्य दासादि-भावः । तथा सति वैराग्योपदेश-व्याकोपात् । न चेशस्य मायया परिच्छेदः, तस्य तद्-अविषयत्वात् । न च टङ्क-च्छिन्न-पाषाण-खण्डवत् तच्-छिन्नस् तत्-खण्डो जीवः अच्छेद्यत्व-शास्त्र-व्याकोपात् विकाराद्य्-आपत्तेश् च । तस्मात् तत् सृज्यत्वादि-सम्बन्धवांस् तद्-भिन्नो जीवस् तद्-उपसर्जनत्वात् तद्-अंश उच्यते । तत्त्वं च तस्य तच्-छक्तित्वात् सिद्धम् । तच् च विष्णु-शक्तिर् इत्य् आदौ, क्षेत्रज्ञाख्या तथापरा [वि.पु. ६.७.६१] इति स्मृतेः । चन्द्र-मण्डलस्य शतांशः शुक्र-मण्डलम् इत्य् आदौ दृष्टं चैतत् । एक-वस्त्व् एक-देशत्वम् अंशत्वम् इत्य् अपि न तद् अतिक्रामति । ब्रह्म खलु शक्तिमद् एकं वस्तु ब्रह्म-शक्तिर् जीवो ब्रह्मैक-देशत्वात् ब्रह्मांशो भवतीति तद्-उपसृष्टत्वं सुघटम् । घटेत्य् आदि-वाक्यं तूपाधि-हानौ तयोः सायुज्यं ब्रुवन् सङ्गतम् । तत्त्वम् असीत्य् एतद् अपि परस्य पूर्वायत्त-वृत्तिकत्वादि बोधयति पूर्वोक्त-श्रुत्य्-आदिभ्यो न त्व् अन्यत् । तस्मात् ईशात् जीवस्यास्ति भेदः । स च नियन्तृत्व-नियम्यत्व-विभुत्वाणुत्वादि-धर्म-कृतत्वेन प्रत्यक्ष-गोचरत्वान् नान्यथा-सिद्धेः ॥४१॥ (४३)
रामपद चट्टोपाध्याय :११।११।४, ४।२४।६१, ८।६।१५।
भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।४
अथ वाचनिकम् आह—
मन्त्र-वर्णात्
पादोऽस्य विश्वा भूतानि [ऋ.वे. १०.९०.३] इति मन्त्र-वर्णोऽपि जीवस्य ब्रह्मांशत्वम् आह । अंश-पाद-शब्दौ तु ह्य् अनर्थान्तर-वाचकौ । इह सर्वा भूतानीति बहुत्वे श्रौते सूत्रे अंश-शब्दो जात्य्-अभिप्रायेणैक-वचनान्तो बोध्यः । एवम् अन्यत्रापि ॥४२॥ (४४)
अपि स्मर्यते
ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.७] इति श्री-भगवता इह सनातनत्वोक्त्या जीवस्यौपाधिकत्वं निरस्तम् । तस्मात् तत्-सम्बन्धापेक्षी जीवस् तद्-अंश इति । तत्-कर्तृत्वादिकम् अपि तद् आयत्तम् । स्मृतिश् च जीव-स्वरूपं विशिष्याह—
ज्ञानाश्रयो ज्ञान-गुणश् चेतनः प्रकृतेः परः ।
न जातो निर्विकारश् च एकरूपः स्वरूप-भाक् ॥
अणुर् नित्यो व्याप्ति-शीलश् चिद्-आनन्दात्मकस् तथा ।
अहम् अर्थोऽव्ययः क्षेत्री भिन्न-रूपः सनातनः ॥
अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च ।
एवम् आधि-गुणैर् युक्तः शेष-भूतः परस्य वै ॥
म-कारेणोच्यते जीवः क्षेत्र-ज्ञः परवान् सदा ।
दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ इति ।
एवम् आदीत्य् आदि-पदात् कर्तृत्व-भोक्तृत्व-स्वस्मै-स्वयं-प्रकाशत्वानि बोध्यानि । प्रकाशः खलु गुण-द्रव्य-भेदेन द्विभेदः । प्रथमः स्वाश्रयस्य स्फूर्तिः । द्वितीयस् तु स्व-पर-स्फूर्ति-हेतुर् वस्तु-विशेषः । स चात्मैव । दीपश् चक्षुः प्रकाशयन् स्वरूप-स्फूर्तिं च स्वयम् एव करोति, न तु घटादि-प्रकाशवत् तद्-आदि-सापेक्षः । तस्माद् यं स्वयं प्रकाशः । तथापि स्वं प्रति न प्रकाशते स्वस्मिन् जाड्यात् । आत्मा तु स्वयं परं च प्रकाशयन् स्वं प्रति प्रकाशते । अतः स्वस्मै स्वयं प्रकाशः यद् असौ चिद्-रूप इति ॥४३॥ (४५)
रामपद चट्टोपाध्याय: ११।११।४, १०।८७।१६, १२।४।३१।
अधिकरणम् ५० (मत्स्याद्य्-अधिकरणम्)
प्रसङ्गाद् इदं विचिन्त्यते—एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा योऽवभाति [गो.ता.उ. १.१९] इति गोपाल-तापिन्यां पठ्यते । स्मृतौ च एकानेक-स्वरूपाय [वि.पु. १.२.३] इत्य् आदि । अत्रांशि-रूपेणैव्कोऽंश-कला-रूपेण तु बहुधेत्य् अर्थः प्रतीयते । तत्र जीवांशान् मत्स्याद्य्-अंशस्य विशेषोऽस्ति न वेति संशये अंशत्वाविशेषात् नास्तीति प्राप्ते—
प्रकाशादिवन् नैवं परः
अंश-शब्दितत्वेऽपि परो मत्स्यादिर् न एवं जीववन् न भवति । तत्र दृष्टान्तम् आह प्रकाशेति । यथा तेजोऽंशो रविः खद्योतश् च तेजः-शब्दितत्वेऽपि नैकरूप्य-भाक् । यथा जलांशः सुधा-मद्यादिश् च जल-शब्दितत्वेऽपि न साम्यं लभते, तद्वत् ॥४४॥
रामपद चट्टोपाध्याय: ३।२८।४१, ८।३।२२-२३, १०।१४।९, ६।९।३९।
भागवत-भाष्यम् (हरिदास शास्त्री): १।७।४-५।
स्मरन्ति च
स्वांशाश् चाथ विभिन्नांश इति द्वेधांश इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः ॥
तद् एव नाणु-मात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्प-शक्तिः स्यात् किञ्चित् सामर्थ्य-मात्र-युक् ॥ इति ।
सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः इति च ।
अयं भावः—एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भा.पु. १.३.२८] इत्य् आदौ कृष्णाख्यस्य वस्तुनः स्वयं-रूपस्य ये मत्स्यादयोऽंशाः स्मृताः, न ते जीववत् ततो भिद्यन्ते, तस्यैव वैदूर्यादिवत् तत्-तद्-भावाविष्कारात् । सर्व-शक्ति-व्यक्त्य्-अव्यक्ति-सव्यपेक्षो हि तत्-तद्-व्यपदेशः । यः कृष्णः कृत्स्न-षाड्गुण्य-व्यञ्जकोऽंशी, स एवाकृत्स्न-तद्-व्यञ्जको द्व्य्-एक-व्यञ्जको वांशः कला चेत्य् उच्यते । यथैकः कृत्स्न-षट्-शास्त्र-प्रवक्ता सर्वविद् उच्यते, स एव क्वचिद् अकृत्स्न-तद्-वक्ता द्व्य्-एक-शास्त्र-वक्ता च सर्ववित्-कल्पोऽल्पज्ञश् चेति । पुरुष-बोधिन्य्-आदि-श्रुता राधाद्याः पूर्णाः शक्तयो दशमादि-स्मृता गुणाश् च सर्वातिशयि-प्रेम-पूर्ण-परिकरत्व-द्रुहिणादि-विद्वत्तम-विस्मापक-वंश-माधुर्य-स्व-पर्यन्त-सर्व-विस्मापक-रूप-माधुर्य-निरतिशय-कारुण्यादयो यशोदा-स्तनन्धये कृष्ण एव नित्याविर्भूताः सन्ति, न तु मत्स्यादित्वे सतीति तस्यैव तत्-तद्-भावाविष्कारान् न मत्स्यादेर् जीववत् तत्त्वान्तरत्वं, किन्तु तद्-आत्मकत्वम् एवेति ॥४५॥
रामपद चट्टोपाध्याय: १०।१०।३४।
भागवत-भाष्यम् (हरिदास शास्त्री): १।३।२८।
युक्त्य्-अन्तरेण विशेषं दर्शयति—
अनुज्ञा-परिहारौ देह-सम्बन्धात् ज्योतिर्-आदिवत्
सत्य् अपि ब्रह्मांशत्वेऽनाद्य्-अविद्या-विजृम्भितान् देह-सम्बन्धात् जीव-रूपस्यांशस्य परेश-कृताव् अनुज्ञा-परिहारौ श्रूयते, नैवं मत्स्यादि-रूपस्य, किन्तु देह-सम्बन्ध-राहित्यं साक्षात् परेशत्वं च तस्य श्रूयते, अतो महान् विशेषः । अनुज्ञानुमतिः साध्वसाधु-कर्म-प्रेरणेति यावत् । एष एव साधु-कर्म कारयति [कौ.उ. २.९] इत्य् आदि श्रुतिः । परिहारश् च ततो निवृत्तिर् मोक्ष इति यावत् । तम् एव विदित्वा [श्वे.उ. ३.८] इत्य् आदि श्रुतेः । तत्र दृष्टान्तम् आह—ज्योतिर् इति । ज्योतिश् चक्षुस् तस्य यथा सूर्यांशस्यापि देह-सम्बन्धात् नाना-विधत्वं तद्-अनुग्राह्यत्वं तत्-प्रवृत्ति-निवृत्ती च तद्-धेतुके एव, नैवं स्वस्थस्य सूर्यांशस्यापि, तत्-प्रकाशस्य तस्य सूर्यात्मकत्वात्, तद्वत् ॥४६॥
रामपद चट्टोपाध्याय: १०।५४।४५, ११।२८।१४, ११।२८।५।
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५७-५८
असन्ततेश् चाव्यतिकरः
जीवस्यासन्ततेर् अपूर्णत्वाद् अव्यतिकरः । पूर्णेन मत्स्यादिना साम्यं नेत्य् अर्थः । बालाग्र-शत-भागस्य [श्वे.उ. ५.९] इत्य् आद्या श्रुतिर् जीवस्यापूर्तिम् आह । पूर्णम् अदः पूर्णम् इदम् इत्य् आद्या तु मत्स्यादेः पूर्तिम् ॥४७॥
रामपद चट्टोपाध्याय: ११।२८।१७, १०।८७।३८।
भागवत-भाष्यम् (हरिदास शास्त्री): १।७।४-६।
हेतुं दूषयति—
आभास एव च
अंश-शब्दितत्वाविशेषाद् इति यो हेतुर् मत्स्याद्य्-अंशस्य जीवांशेन साम्यं बोधयितुम् उपन्यस्तः, स त्व् आभास एव सत्-प्रतिपक्षाख्यो हेत्व्-आभास एव । वैषम्य-साधकस्य पूर्त्यादेर् हेत्व्-अन्तरस्य सत्त्वात् । च-कारो दृष्टान्त-सूचनाय । न हि द्रव्यत्वेन पृथिवी-नभसोः साम्य-पारम्यं साधनीयम् । न वा पदार्थत्वेन भावाभावयोस् तत् । तथा च मत्स्यादाव् असर्व-व्यञ्जकत्वं जीवे तु तद्-उपसर्जनत्वम् अंशत्वम् इति ॥४८॥
रामपद चट्टोपाध्याय: १०।१।४३।
भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।४६, १०।७०।५।
अधिकरणम् ५१ (अदृष्टानियमाधिकरणम्)
एवं प्रासङ्गिकं समाप्य प्रकृतं चिन्तयति—
नित्योऽनित्यानां चेतनश् चेतनानां
एको बहूनां यो विदधाति कामान् । [क.उ. २.२.१३]
इत्य् आदीनि वाक्यानि काठकादिषु श्रूयन्ते । तत्र नित्य-चेतनतया प्रतीता बहवो जीवाः साम्य-भाजो न वेइ सन्देहे विशेषाप्रतीतेः साम्य-भाज इति प्राप्ते—
अदृष्टानियमात्
मण्डूक-प्लुत्या नेत्य् अनुवर्तते । नैव ते साम्य-भाजः । कुतः ? स्वरूप-साम्येऽपि तद्-अदृष्टानाम् अनियमात् नाना-विधत्वात् । अदृष्टं त्व् अनादि ॥४९॥
भागवत-भाष्यम् (हरिदास शास्त्री): १०।६।३०।
नन्व् इच्छा-द्वेषादिभिर् वैषम्यं स्यान् नेत्य् आह—
अभिसन्ध्यादिष्व् अपि चैवम्
तेष्व् अपि वैचित्र्य-हेतुतयाङ्गीकृतेष्व् एवं हेत्व्-अन्तरापेक्षापत्तेस् तेऽप्य् अदृष्टाद् एवेत्य् अर्थः । च-कारः प्रतिक्षण-वैचित्रीं समुच्चिनोति ॥५०॥
रामपद चट्टोपाध्याय: ११।२८।३१, ५।१४।५, ११।१३।३६, ११।१३।२५, ६।१।४७-४८।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।२४।१६।
ननु स्वर्ग-भूम्य्-आदि-प्रदेश-वैशेष्यात् वैचित्र्यं स्यान् नेत्य् आह—
प्रदेशाद् इति चेन् नान्तर्भावात्
तत्-प्राप्तेर् अप्य् अदृष्टापेक्षत्वेनादृष्टान्तर्भावात् प्रदेशाद् एकदेश-स्थितानाम् अपि वैचित्री-दर्शनाच् च ॥५१॥
रामपद चट्टोपाध्याय: ६।१।४१, ६।१६।३, ४।२९।२४-२६, १०।२९।९।
भागवत-भाष्यम् (हरिदास शास्त्री): १०।२३।९।
॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये द्वितीयाध्यायस्य तृतीयः पादः ॥
अधिकरणम् ५२ (पादः ४, प्राणोत्पत्त्य्-अधिकरणम्)
त्वज्-जाताः कलितोत्पाताः मत्-प्राणाः सन्त्य् अमित्रभित् ।
एतान् शाधि तथा देव यथा सत्-पथ-गामिनः ॥
भूत-विषयः श्रुति-विरोधः परिहृतस् तृतीय्-पादे । चतुर्थे तु प्राण-विषयः स परिह्रियते । गौण-मुख्य-भेदेन द्विविधाः प्राणाः । गौणाश् चक्षुर्-आदीन्य् एकादशेन्द्रियाणि मुख्यास् तु प्राणापानादयः पञ्चेति । तेषु गौणः परीक्ष्यन्ते । एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च इत्य् आदि श्रूयते । इम् अत्र जीववद् इन्द्रियाणाम् उत्पत्तिर् उत खादिवद् इति संशये—असद् वा इदम् अग्र आसीत् तद् आहुः किं तद् आसीद् इति ऋषायो वाव ते असद् आसीत् तद् आहुः के ते ऋषयः इति प्राणा वाव ऋषयः [शतपथ-ब्राह्मण ६.१.१] इत्य् अत्र ऋषि-प्राण-शब्दितानाम् इन्द्रियाणां सृष्टेः प्राक्-सत्त्व-श्रवणात् जीववद् इति पठति—
तथा प्राणाः
यथा खादयः परस्माद् उत्पद्यन्ते तथा प्राणा इन्द्रियाणि चेत्य् अर्थः । प्राक्-सृष्टेर् एकत्वावधारणात्, मनः सर्वेन्द्रियाणि चैतस्मात् जायन्त इति श्रुतेश् च । अ च जीवोत्पत्तिवद् इन्द्रियोत्पत्तिर् भवितुम् अर्हति जीवानां चैतन्य-रूपाणां शब्दाभ्यां भाविव तत्र ग्राह्यम्, तयोः सार्वज्ञ्य-प्राणनाभिधायित्वात् ॥१॥
रामपद चट्टोपाध्याय: २।५।३१, ११।२४।७, २।१०।१५
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।१५
ननु ऋषयः प्राणा इति बहुत्वानुपपतिः, तत्राह—
गौण्य्-असम्भवात्
बहुत्व-श्रुतिर् गौणी । कुतः ? स्वरूप-नानात्वाभावेन बह्व्-अर्थासम्भवात् । तथा च स्पर्शाभिप्रायं तत्र बहुत्वं भविष्यति । एक एवासौ वैदूर्यवद् अभिनेतृ-नटवच् च बहुधावभासते । एकं सन्तं बहुधा दृश्यमानं, एकानेक-स्वरूपाय [वि.पु. १.२.३] इत्य् आदि श्रुति-स्मृतिभ्यश् च ॥२॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।३६।
तत् प्राक् श्रुतेश् च
न च तदानीम् अनपीताः कतिचित् पदार्थाः स्यु तैर् बहुत्वोपपत्तिर् इति शक्यं शङ्कितुं सृष्टेः पूर्वम् एकत्वावधारण-श्रवणात् । अतश् च सा गौणीत्य् अर्थः ॥३॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।४३-४४।
प्राण-शब्दस्य ब्रह्म-परत्वे युक्तिम् आह—
तत् पूर्वकत्वाद् वाचः
वाचः सूक्ष्म-शक्ति-ब्रह्मान्य-विषयस्य नाम्नः प्रधान-महद्-आदि-सृष्टि-पूर्वकत्वात् तदा नाम-रूपताम् अभावेन तद्-उपकरणाम् इन्द्रियाणाम् अप्य् अभावात् प्राण-शब्दस् तत्र ब्रह्माभिधायीत्य् अर्थः । तद् धेदं तर्हि [बृ.आ.उ. १.४.७] इति श्रुतिः सृष्टेः पूर्वं नाम-रूपिणाम् अभावम् आह । तस्माद् इन्द्रियाणि खादिवद् उत्पन्नानीति ॥४॥
रामपद चट्टोपाध्याय: २।५।३१, ११।२४।७, ३।६।७ ६।४।२८, २।१०।३५।
भागवत-भाष्यम् (हरिदास शास्त्री): १।२।३३।
अधिकरणम् ५३
एवम् इन्द्रिय-विषयकं श्रुति-विरोधम् निरस्य तत्-सङ्ख्या-विषयकं तं निरस्ययति ।
सप्त प्राणाः प्रभवन्ति तस्मात्
सप्तार्चिषः समिधः सप्त होमाः ।
सप्त इमे लोका येषु चरन्ति प्राणा
गुहाशया निहिताः सप्त सप्त ॥ [मु.उ. २.१.८] इति मुण्डके ।
दशेमे पुरुषे प्राणा आत्मैकादशः [बृ.आ.उ. ३.९.४] इति च बृहद्-आरण्यके श्रूयते । तत्र सप्तैव प्राणा उतैकादशेति संशये पूर्वपक्षम् आह—
सप्त गतेर् विशेषितत्वाच् च
प्राणाः सप्तैव । कुतः ? गतेः । समानम् एव जीवेन सह सञ्चार-रूपाया गतेः श्रवणात् ।
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश् च न विचेष्टते ताम् आहुः परमां गतिम् ॥ [क.उ. २.३.१०]
इति काठके योग-दशायां ज्ञानानीति विशेषितत्वाच् च । श्रोत्रादि-पञ्चक-बुद्धि-मनांसि सप्तैव जीवस्येन्द्रियाणि भवन्ति । यानि तु वाक्-पाण्य्-आदीनि श्रूयन्ते, तेषां जीवेन सह गत्य्-अश्रवणाद् ईषद्-उपकार-मात्रेणेन्द्रियत्व-भणितिर् गौणीति ॥५॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।६।७, ३।६।९।
अधिकरणम् ५४ (हस्तादयाधिकरणम्)
एवं प्राप्ते सिद्धान्तयति—
हस्तादयस् तु स्थितेऽतो नैवम्
तु-शब्दश् चोद्य-निरासार्थः । हस्तादयः सप्तातिरिक्ताः प्राणा मन्तव्याः । कुतः ? जीवे देह-स्थिते तेषाम् अपि तद्-भोग-साधनत्वात् कार्य-भेदाच् च । तथा च बृहद्-आरण्यके पठ्यते—हस्तौ वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति [बृ.आ.उ. ३.२.८] इत्य् आदि । अतः सप्तातिरेकाद् एव हेतोर् नैवं मन्तव्यं सप्तैवेति किन्तु पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकम् अन्तर् इन्द्रियम् इत्य् एकादशैवेन्द्रियाणि ग्राह्याणि । आत्मैकादशेत्य् अत्रात्मान्तर्-इन्द्रियं प्रकरणात् । इदम् अत्र बोध्यम् । शब्द-स्पर्श-रूप-रस-गन्ध-विषयाः पञ्च-ज्ञान-भेदास् तद्-अर्थानि पञ्च ज्ञानेन्द्रियाणि श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि । वचनादान-विहरणोत्सर्गानन्दाः पञ्च कर्म-भेदाः, तद्-अर्थानि च पञ्च कर्मेन्द्रियाणि वाक्-पाणि-पाद-पायूपस्थाख्यानि । सर्वार्थ-विषयं त्रि-काल-वर्त्य्-अन्तः-करणम् एकम् अनेक-वृत्तिकम् । तद् एव सङ्कल्पाद्यवसायाभिमान-चिन्ता-रूप-कार्य-भेदात् क्वचिद् भेदेन व्यपदिश्यते मनो बुद्धिर् अहङ्कारश् चित्तं चेति । तथा चैकादशैवेन्द्रियाणीति ॥६॥
रामपद चट्टोपाध्याय: ११।२२।१४-१५, २।५।३०-३१।
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।१२-१३।
अधिकरणम् ५५ (प्राणाणुत्वाधिकरणम्)
प्राणानां परिमाणं चिन्तयति । प्राणा व्यापिनोऽणव वेति संशये दूर-श्रवण-दर्शनाद् एवानुभवाद् व्यापिन एवेति प्राप्ते—
अणवश् च
चो निश्चये । अणव एवैकादश प्राणाः । दूर-श्रवणादिकं तु गुण-प्रसारात् सिद्धम् । जीवस्येव शिरोऽङ्घ्रि-व्यापित्वम् । एतेन प्राण-व्याप्ति-वादिनः साङ्ख्या निरस्ताः ॥७॥
रामपद चट्टोपाध्याय: ११।३।४०
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।३१, ३।२६।३४, ३।२८।५, ३।२८।३, ३।२८।९
अधिकरणम् ५६ (प्राण-श्रेष्ठाधिकरणम्)
अथ एतस्माज् जायते प्राणः [मु.उ. २.१.३] इत्य् अत्र मुख्यः प्राणः परीक्ष्यते । श्रेष्ठः प्राणो जीववद्य् उत्पद्यते स्वादिवद् वेति विषये, नैव प्राण उदेति नास् तम् एति इत्य् आदि श्रुतेः ।
यत् प्राप्तिर् यत् परित्याग उत्पत्तिर् मरणं तथा ।
तस्योत्पत्तिर् मृतिश् चैव कथं प्राणस्य युज्यत ॥
इति स्मृतेश् च जीववद् इति प्राप्ते—
श्रेष्ठश् च
श्रेष्ठः प्राणोऽपि खादिवद् उत्पद्यते, जायते प्राणः [मु.उ. २.१.३] इति श्रुतेः । स इदं सर्वम् असृजत इति प्रतिज्ञानुपरोधाच् चेति शेषः । एवं सत्य् अनुत्पत्तिर् आपेक्षिकी । श्रैष्ठ्यं चास्य काय-स्थिति-हेतुत्वात् वदन्ति । पृथग्-योग-करणम् उत्तर-चिन्तार्थम् ॥८॥
रामपद चट्टोपाध्याय: ७।९।४७, २।१०।१५
भागवत-भाष्यम् (हरिदास शास्त्री): २।१।२४, २।१०।१५
अधिकरणम् ५७ (वायु-क्रियाधिकरणम्)
अथ तस्य स्वरूपं परीक्ष्यते । स किं वायुर् एव केवलः किं वा तत् स्पन्द-रूपा क्रियाथवा देशान्तर-गतो वायुर् इति विचिकित्सा । किं प्राप्तम् ? बाह्यो वायुर् एवेति । योऽयं प्राणः स वायुः [बृ.आ.उ. ३.१.५] इति बृहद्-आरण्यक-श्रुतेः । वायु-क्रिया वा प्राणः उच्छ्वास-निश्वास-रूपायां तत्-क्रियायां तच्-छब्दस्य प्रसिद्धेः । वायु-मात्रे तस्या प्रसिद्धेश् चेति प्राप्ते—
न वायु-क्रिये पृथग्-उपदेशात्
श्रेष्ठः प्राणो न वायुर् न च तत्-स्पन्दः । कुतः ? पृथग् इति । एतस्माज् जायते प्राणः [मु.उ. २.१.३] इत्य् आदौ वायोः सकाशात् प्राणस्य पृथग्-उक्तेः । यदि वायुर् एव प्राणस् तर्हि तस्मात्, तस्य सा न स्यात् । यदि वा वायु-स्पन्दः प्राणस् तदापि वायोः सकाशात् तत्-क्रिया-रूपस्य प्राणस्य न सा सम्भवेत् । न ह्य् अग्न्य्-आदेः क्रिया तेन साकं पृथग्-उक्ता दृश्यते । योऽयं प्राणः स वायुः [बृ.आ.उ. ३.१.५] इति तु वायुर् एव किञ्चित् विशेषम् आपन्नः प्राणो, न तु ज्योतिर्-आदिवत् तत्त्वान्तरम् इति ज्ञापनार्थम् । यत् तु सामान्य-करण-वृत्तिः प्राणाद्या वायवः पञ्च [साङ्ख्य-कारिका २९] इति साङ्ख्यैः सर्वेन्द्रिय-व्यापारः प्राण इत्य् उक्तं तन् न एक-रूप-प्राणस्य विजातीय-नानेन्द्रिय-व्यापारत्वायोगात् ॥९॥
रामपद चट्टोपाध्याय: ७।९।४७,
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।१५-१७
अधिकरणम् ५८ (जीवोपकरणत्वाधिकरणम्)
सुप्तेषु वाग्-आदिषु प्राण एको जागर्ति, प्राण एको मृत्यु-नानाप्तः, संवर्गो वाग्-आदीन् संवृङ्क्ते [छा.उ. ४.३.३], प्राण इतरान् प्राणान् रक्षति मातेव पुत्रान् इति बृहद्-आरण्यके पठ्यते । तत्र संशयः—मुख्यः प्राणो जीव एवास्मिन् देहे स्वतन्त्र उत जीवोपकरणम् इति । बहु-विभूति-श्रवणात् स एव स्वतन्त्र इति प्राप्ते—
चक्षुर्-आदिवत् तु तत् सह शिष्ट्य्-आदिभ्यः
तु-शब्दः शङ्का-हानाय । प्राणेऽपि चक्षुर्-आदिवत् जीव-करणम् एव । कुतः ? तत्-सहेति । प्राण-संवादेषु तैश् चक्षुर्-आदिभिर् जीव-करणैः सह प्राणस्य शासनात् । समान-धर्माणां हि सह-शासनं युक्तं बृहद्रथान्तरादिवत् । आदि-शब्दात्—अथ यत्र वायं मुख्यः प्राणः स एवायं मध्यमः प्राणः इत्य् आदिना प्राण-शब्द-परिगृहीतेष्व् इन्द्रियेषु विशिष्याभिधानं गृह्यते । संहतत्वादि च स्वातन्त्र्य-निराकृति-हेतुः ॥१०॥
रामपद चट्टोपाध्याय: ११।१४।३२, ३।२८।५-७
भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।३९
ननु चक्षुर्-आदिवज् जीवोपकरणत्वे प्राणस्याङ्गीकृते तद्वज् जीवोपकार-क्रियापि स्यात्, न च तादृशी काचिद् अस्ति यद्-अर्थ-मयं द्वादशः प्राणस् ततो न चक्षुर्-आदि-तौल्यम् इत्य् आक्षिप्य समाधत्ते—
अकरणत्वाच् च न दोषस् तथा हि दर्शयति
आक्षेप-निरासाय च-शब्दः । करणं क्रिया । अक्रियत्वात् जीवोपकार-क्रिया-विरहात् यो दोषः सम्भाव्यते, स न स्यात् शरीरेन्द्रिय-धारणादि-लक्षण-परमोपकार-सत्त्वाद् इति भावः हि यतस् तथा छान्दोग्य-श्रुतिर् दर्शयति—अथ ह प्राणा अहं श्रेयसि व्यूदिरे [छा.उ. ५..७] इत्य् आदिना । तस्माज् जीवोपकरणम् एव मुख्यः प्राणः । जीवस्य कर्तृत्वं च भोक्ट्र्त्वं च प्रति चक्षुर्-आदीनि राज-पुरुषवत् करणानि । प्राणस् तु राज-मन्त्रिवत् सर्वार्थ-साधकतया मुखोपकरणम् इति नास्य स्वातन्त्र्यम् ॥११॥
रामपद चट्टोपाध्याय: ३।२६।३०-३१
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।३१
अधिकरणम् ५९ (पञ्च-वृत्त्य्-अधिकरणम्)
यः प्राणः स वायुः । स एष वायुः पञ्च-विधः प्राणोऽपानो व्यान उदानः समान [बृ.आ.उ. १.५.३] इति श्रुतम् । तत्र किम् एते अपानादयः प्राणाद् भिद्यन्ते उत तद्-वृत्तय एवेति वीक्षायां संज्ञा-भेदान् कार्य-भेदाच् च भिद्यन्त इति प्राप्ते—
पञ्च-वृत्तिर् मनोवद् व्यपदिश्यते
एक एव प्राणो हृदयादिषु स्थानेषु पञ्चधा वर्तमानो विलक्षणानि कृतार्याञ् आवहतीति पञ्च-वृत्तिः । स एव तथा व्यपदिश्यते । तस्मात् प्राण-वृत्तय एव ते, न ततो भिद्यन्ते । कार्य-भेद-निमित्तः संज्ञा-भेदः । स्वरूप-भेदस् तु नास्त्य् अतः पञ्चस्व् अपि प्राण-शब्दः । प्राणोऽपानो व्यान उदान समान इति । एतत् सर्वं प्राण एव [बृ.आ.उ. १.५.३] इति वचनाच् च । बृहद्-आरण्यके मनोवत्—कामः सण्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [बृ.आ.उ. १.५.३] इति । तत्रैव संज्ञा-भेदे कार्य-भेदेऽपि यथा कामादयो मनसो न भिद्यन्ते, किन्तु तस्य वृत्तय एव तद्वत् बहु-वृत्तित्व-मात्रेणायं दृष्टान्तः । योग-शास्त्रे मनोऽपि पञ्च-वृत्तिकम् उक्तम् । तद्-अभिप्रायेण वा निदर्शनम् इत्य् एके ॥१२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।६।७-८
अधिकरणम् ६० (श्रेष्ठाणुत्वाधिकरणम्)
श्रेष्ठः प्राणो विभुर् अणुर् वेति वीक्षायां, सम एभिस् त्रिभिर् लोकैः इत्य् आदि श्रुतेर् विभुर् इति प्राप्ते—
अणुश् च
श्रेष्ठोऽप्य् अणुर् एव उत्क्रान्ति-श्रुतेः । व्याप्ति-श्रुतिस् तु सर्वेषां प्राणिनां प्राणाधीन-स्थितिकतया नेया ॥१३॥
अधिकरणम् ६१ (ज्योतिर्-आद्य्-अधिकरणम्)
सुप्तेषु वाग्-आदिषु प्राण एको जागर्तीत्य् आदौ मुख्य-प्राणस्य प्रवृत्तिः श्रूयते । सप्त इमे लोका येषु चरन्ति प्राणा [मु.उ. २.१.८] इत्य् आदौ गौण-प्राणानां च तत्र तानि स-प्राणानि इन्द्रियाणि स्व-स्व-कार्याय स्वयं प्रवर्तेरन्न् उतैषां प्रेरकोऽन्योऽस्ति । स च देवता-गणो जीवः परो वेति वीक्षायां स्वयम् एव तानि प्रवर्तेरन् कार्य-शक्ति-योगात् देवता-गणो वा तत्-प्रवर्तकोऽस्तु । अग्निर् वाग् भूत्वा मुखं प्राविशत् [ऐ.उ. १.२.४] इत्य् आदि श्रुतेः । जीवो वा तद्-भोग-साधनत्वाद् इत्य् एवं प्राप्ते—
ज्योतिर्-आद्य्-अधिष्ठानं तु तद्-आमननात्
तु-शब्दः शङ्का-निरासार्थः । ज्योतिर् ब्रह्मैव तेषाम् आद्य्-अधिष्ठानं मुख्य-प्रवर्तकम् । कर्तरि ल्युट् । कुतः ? तद् इति । अन्तर्यामि-ब्राह्मणे तस्यैव प्राणेन्द्रिय-प्रवर्तकत्वावगमात् । बृहद्-आरण्यके—यः प्राणेषु तिष्ठन् इत्य् आदिषु देवानां जीवस्य च तत्-प्रयोज्यानाम् एव प्रयोजकता न निवार्यते । स्वतः प्रवृत्तिस् तु न भवेत् जाड्यात् ॥१४॥
भागवत-भाष्यम् (हरिदास शास्त्री): ४।९।६-७
जीवस् तु तानि भोगार्थम् अधितिष्ठतीत्य् आह—
प्राणवता शब्दात्
प्राणवता जीवेन तानि स-प्राणानीन्द्रियाणि सङ्गृह्यन्ते भोगाय । एवं कुतः ? शब्दात् । स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथा-कामं परिवर्तेतैवम् एवैष एतत् प्राणान् गृहीत्वा स्वे शरीरे यथा-कामं परिवर्तते [बृ.आ.उ. २.१.१८] इति तत्रैव श्रवणात् । अयम् अत्र निष्कर्षः—परमात्मनाधिष्ठिता देवा जीवाश् चेन्द्रियानि अधितिष्ठन्ति । पूर्वे तत् प्रवर्तन-मात्राय, परे तु तैर् भोगाय । तत्रैव तत् सङ्कल्पाद् इति ॥१५॥
न चैतत् कदाचित् व्यभिचरतीत्य् आह—
तस्य च नित्यत्वात्
तस्य सर्व-कर्मक-परमात्माधिष्ठानस्य तत् स्वरूपानुबन्धित्वेन नित्यत्वात् तत्-सङ्कल्पाद् एव तेषाम् अधिष्ठातृत्वम् । मुख्याधिष्ठातृत्वं तु तस्यैवेति मन्तव्यम् अन्तर्यामि-ब्राह्मणात् ॥१६॥
रामपद चट्टोपाध्याय: १०।८७।४२
भागवत-भाष्यम् (हरिदास शास्त्री): ४।९।६
अधिकरणम् ६२ (इन्द्रियाधिकरणम्)
अथ पूर्वस्मिन् विषये विमर्शान्तरम् । तत्र प्राण-शब्दिताः सर्वे इन्द्रियाण्य् उत श्रेष्ठेतरे इति संशये प्राण-शब्द-बोध्यत्वात् जीवोपकारित्वाच् च सर्व इति प्राप्ते—
त इन्द्रियाणि तद्-व्यपदेशाद् अन्यत्र श्रेष्ठात्
ते प्राण-शब्दिताः श्रेष्ठेतरे एवेन्द्रियाणि । कुतः ? तद् इति । एतस्माद् इत्य् आदि श्रुतौ मुख्य-प्राणाद् इतरेषु श्रोत्रादिष्व् इन्द्रियत्व-वचनात् । इन्द्रियाणि दशैकं च [गीता १३.५] इत्य् आदौ स्मृतौ च । तथा प्राणो मुख्यः स त्व् अनिन्द्रियम् इति श्रुत्य्-अन्तराच् च ॥१७॥
रामपद चट्टोपाध्याय: ३।६।९
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।१६
ननु हन्तास्यैव से रूपम् असामेत्य् एतस्यैव सर्वे रूपम् अभवत् इति बृहद्-आरण्यकात् मुख्य-प्राणस्य वृत्ति-भेदानन्यान् प्राणान् अवधारयामस् तत् कथम् उक्त-व्यवस्थेति, तत्राह—
भेद-श्रुतेः
प्राणो मनः सर्वेन्द्रियाणि च इति प्राणाद् इन्द्रियाणां भेद-श्रवणात् तत्त्वान्तराणि तानीत्य् अर्थः । न च भेद-श्रुतेर् मनसोऽनिन्द्रियत्वं शङ्क्यम् । मणः षष्टानीन्द्रियाणि [गीता १५.७] इति इन्द्रियाणां मनश् चास्मि [गीता १०.२२] इति च स्मृतेः ॥१८॥
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।१५
वैलक्षण्याच् च
सुप्तौ प्राणस्य वृत्त्य्-उपलम्भो न तु श्रोत्रादीनाम् । तस्य देहेन्द्रिय-धारणं तेषां तु ज्ञान-कर्म-साधनत्वम् इति स्वरूपतः कार्यतश् च वैसादृश्यात् तानि तथा । मुख्य-प्राण-रूपता चैषां तद्-अधीन-वृत्तिकत्वादिना व्यपदिश्यते, यथा ब्रह्म-रूपता जीवानाम् ॥१९॥
रामपद चट्टोपाध्याय: ६।३।२-४
भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।१६
अधिकरणम् ६३ (संज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्)
भूतेन्द्रियादि-समष्टि-सृष्टिर् जीव-कर्तृका च परस्माद् इत्य् उक्तम् । इदानीं व्यष्टि-सृष्टिः कस्माद् इति परीक्ष्यते । छान्दोग्ये तेजोऽब्-अन्न-सृष्टिम् अभिधाय उपदिश्यते—
सेयं देवतैक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति । तासां त्रिवृतं त्रिवृतम् एकैकां करवाणीति सेयं देवतेमास् तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत् ॥ [छा.उ. ६.३.२-४] इति ।
इह नाम-रूप-व्यतिक्रिया जीव-कर्तृका स्याद् उतेश-कर्तृकेति विचिकित्सायां जीव-कर्तृकेति प्राप्तम् । अनेन जीवेन प्रविश्य व्याकरवाणीति तथा प्रत्ययात् । न च सहार्थेयं तृतीया । सम्भवन्त्यां कारक-विभक्त्याम् उपपद-विभक्तेर् अन्याय्यत्वात् । न च करणार्था सत्य-सङ्कल्पेश्वर-कार्ये जीवस्य साधकतमत्वाभावात् । न च प्रवेशो जीव-कर्तृकोऽस्तु व्याक्रिया त्व् ईश्वर-कर्तृका क्त्वा-प्रत्ययेनैक-कर्तृकत्व-बोधनात् । न चैतस्मिन् पक्षे व्याकरवाणीत्य् उत्तम-पुरुषानुपपत्तिः । चारेणानुप्रविश्य पर-सैन्यं सङ्कलयानीतिवद् उपपत्तेः । न चैतत् कपोल-कल्पनं, विरिञ्चो वा इदं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद् धीमे रूप-नामनी इति श्रुत्य्-अन्तरात् । नाम-रूपं च भूतानाम् इत्य् आदि स्मरणाच् च । तस्मात् जीव-कर्तृका सेति प्राप्तौ—
संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात्
तु-शब्दाद् आक्षेपो व्यावृत्तः । संज्ञा-मूर्तौ नाम-रूपे तयोः कॢप्तिर् व्याक्रिया त्रिवृत् कुर्वतः परमेश्वरस्यैव कर्म, न तु जीवस्य । कुतः ? उपदेशात् । तस्यैव तत्-कॢप्ति-निगदात् । त्रिवृत्-करण-नाम-रूप-व्याकरणयोर् एक-कर्तृकत्वेनोक्तेर् इत्य् अर्थः । त्रिवृत्-करणं चोक्तम्—
त्रीण्य् एकैकं द्विधा कुर्यात् त्र्य्-अर्धानि विभजेद् द्विधा ।
तत्-तन्-मुख्यार्धम् उत्सृज्य योजयेच् च विरूपता ॥
पञ्चीकरणस्योपलक्षणम् एतत् । न च त्रिवृत्-कृतिश् चतुर्मुखस्य शक्त्या वक्तुम् । त्रिवृत्-कृत-तेजोऽब्-अन्न-निर्मिताण्ड-मध्य-जातत्वात् तस्य । तथा च स्मृतिः—तस्मिन्न् अण्डेऽभवद् ब्रह्मा सर्व-लोक-पितामहः [म.सं. १.९] इत्य् आद्या । तस्मात् सेयम् इत्य् अत्र नाम-रूप-व्याकृति-त्रिवृत्-कृत्योर् एक-कर्तृकत्वं विवक्षितं, न तु पौर्वापर्यम् अर्थ-क्रमेण पाठ-क्रमस्य बाधात् । पूर्वां त्रिवृत्-कृतिर् उत्तरा तु नाम-रूप-व्याकृतिर् इति । न चात्रिवृत्-कृतैस् तेजोऽब्-अन्नैर् अण्डोत्पत्तिः । अत्रिवृतां तेषां तत्रासामार्थ्यात् । तथा हि स्मृतिः—
यदैतेऽसङ्गता भावा भूतेन्द्रिय-मनो-गुणाः ।
यदायतन-निर्माणे न शेकुर् ब्रह्म-वित्तम ॥
तदा संहत्य चान्योन्यं भगवच्-छक्ति-चोदिताः ।
सद्-असत्त्वम् उपादाय चोभयं ससृजुर् ह्य् अदः ॥ [भा. २.५.३२-३३] इत्य् आद्या ।
इह पञ्ची-करणम् उक्तम् । तच् चेत्थं बोध्यम्—विभज्य द्विधा पञ्च-भूतानि देवस् तद्-अर्धानि पञ्चब्धि-भागानि कृत्वा तद्-अन्येषु मुख्येषु भागेषु तत् तन् नियुञ्जन् स पञ्चीकृतिं पश्यअति स्म । अन्नम् अशितं त्रिधा विधीयते [छा.उ. ६.५.१] इत्य् आदौ तु पृथिव्यादेर् एकैकस्य त्रेधा परिणामो वर्ण्यते, न तु त्रिवृत्-कृतिः । न चानेन जीवेनेति जीवस्य नाम-रूप-निर्मातृत्वं बोधयेद् इति वाच्यम् । आत्मना जीवेनेति सामानाधिकरण्येन जीव-शक्तिमतस् तद्-व्यापिनो ब्रह्मण एव तत्त्वाभिधानात् । एतेन विरिञ्चो वा इत्य् आदिकं व्याख्यातम् । एवं च प्रविश्योत्तम-पुरुषयोर् अकष्टता मुख्यार्थता च स्यात् । तथा च प्रवेश-व्याकरणयोर् एक-कर्तृकता च । तस्माद् ईश-कर्तृकैव तद्-व्याकृतिः । सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते [तै.आ. ३.१२.१६] इति तैत्तिरीयकाच् च ॥२०॥
रामपद चट्टोपाध्याय: २।५।३२-३३, २।१०।३, २।६।३०, २।५।११, २।५।२१, २।५।१४, २।६।१५, १०।८५।६, ४।७।४९, १।१०।२२, ६।४।२८।
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।१९-२०।
अथ मूर्ति-शब्दितो देहः परीक्ष्यते । शरीरं पृथिवीम् अप्येति इति श्रुतेः पार्थिवो देहः अद्भ्यो हीदम् उत्पद्यते आपो वाव मांसम् अस्थि च भवन्त्य् आपः शरीरम् आप एव्दं सर्वम् इति श्रुतेर् आप्यः, स अग्नेर् देव-योन्या इत्य् आदि श्रुतेस् तैजसश् च । इह भवति संशयः—देहः पार्थिवः आप्यस् तैजसश् च स्याद् उत सर्वोऽपि त्र्य्-आत्मक इति त्रविध्य-श्रवणाद् अनिर्णयेन भाव्यम् इति प्राप्ते—
मांसादि-भौमं यथा-शब्दम् इतरयोश् च
मांसाद्य् एव हेहस्य भौमं भूमेः कार्यं भवति । तथेतर्योर् जल-तेजसोश् च कृत्यम् असृग्-अस्थ्य्-आदिकं तत्रास्ति । तद् एतत् यथा शब्दम् अभ्युपेयम् । शब्दश् च, यत् कठिनं सा पृथिवी, यद् द्रवं तद् आपो, यद् उष्णं तत् तेजः इति गर्भोपनिषत् । तथा च सर्वो देहस् त्रिरूपः ॥२१॥
ननु सर्वं चेद् भूत-भौतिकं त्रि-रूपं तर्हि किं निमित्तोऽयं व्यपदेशः इदं तेज इमा आप इयं पृथिवीति तैजसम् आप्यं पार्थिवं च शरीरम् इति । तत्राह—
वैशेष्यात् तु तद्-वादस् तद्-वादः
शङ्काच्छेदाय तु-शब्दः । सत्य् अपि सर्वत्र त्रैरूप्ये क्वचित् कस्यचिद् भूतस्य वैशेष्याद् आधिक्यात् तद्-वाद इत्य् अर्थः । पदाभ्यासोऽध्याय-पूर्तये ॥२२॥
भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।४४, ३।२६।४८
वर्धस्व कल्पाग समं समन्तात्
कुरुष्व ताप-क्षतिम् आश्रितानाम् ।
त्वद्-अङ्ग-सङ्कीर्णिकराः परास् ता
हिंस्रा लसद्-युक्ति-कुठारिकाभिः ॥
अधिकरणम् ६४
इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये द्वितीयाध्यायस्य चतुर्थः पादः