ग्रन्थाः / श्रीश्रीगोविन्दभाष्यम्

०३ तृतीयोऽध्यायः

03 Tṛtīyo'dhyāyaḥ

श्रीश्रीगोविन्दभाष्यम् (Śrī-śrī-govinda-bhāṣyam)

कर्ता: श्री बलदेव विद्याभूषण

अधिकरणम् १ (पादः १, तद्-अनन्तर-प्रतिपत्त्य्-अधिकरणम्)

न विना साधनैर् देवो ज्ञान-वैराग्य-भक्तिभिः ।

ददाति स्व-पदं श्रीमान् अतस् तानि बुधः श्रयेत् ॥

पूर्वाध्याय-द्वयेन विश्वैक-हेतुं निर्दोष-गुण-रत्नाकरं सच्-चिद्-आनन्दात्मकं पुरुषोत्तमं मुमुक्षु-ध्येयतया सर्वो वेदान्तः प्रतिपादयतीत्य् एतत् सर्वाविरुद्धम् इत्य् उक्तेर् ब्रह्म-स्वरूपं निरूपितम् । अथास्मिन् तृतीयेऽध्याये तत्-प्रापकाणि साधनानि निरूप्यन्ते । तेषु मुख्यं तावत् प्राप्येतर-वैतृष्ण्यं प्राप्य-तृष्णा चेति तत्-सिद्धये पूर्व-पाद-द्वयम् आरभ्यते । तत्र प्रथमे पादे पञ्चाग्नि-विद्याम् आश्रित्य नानावस्थस्य जीवस्य लोक-गत्या गति-रूपा दोषाः प्रकाश्यन्ते लोक-विरागाय । द्वितीये तु प्राप्यानुराग-हेतवः तन्-महिमादयो गुणा वक्ष्यन्ते । छान्दोग्ये श्वेतकेतुर् हारुणेयः पाञ्चालानां समितिम् इयाय [छा.उ. ५.३.१] इत्य् आदिना पञ्चाग्नि-विद्या पठिता । तत्र जीवः पर-लोकं गच्छति तस्मात् पुनर् इमं लोकम् आगच्छतीति प्रतीयते । इह संशयः । पर-लोकं गच्छन् जीवः सूक्ष्म-भूतैर् वियुक्तः परिष्वक्तो वा गच्छतीति । तत्रापि तेषा सौलभ्याद् वियुक्तो गच्छतीति प्राप्ते—

तद्-अनन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्याम्

तच्-छब्देन देहः परामृष्टः । पूर्वं तस्य मूर्ति-शब्दितस्य प्रक्रमात् । देहाद् देहान्तर-प्राप्तौ भूत-सूक्ष्मैः सम्परिष्वक्तो जीवो रंहति गच्छति । कुतः ? वेत्थ यथेत्य् आदि-रूपात् प्रश्नात् । असौ वावेत्य् आदि-रूपात् तद्-उत्तराच् च । तत्रेयम् आख्यायिका । प्रवाहणो नाम क्षत्रियः पञ्चालाधिपतिर् निजान्तिका-गतं श्वेतकेतुं विप्र-कुमारं पञ्चार्थान् पप्रच्छ । कर्मिणां गन्तव्य-देशम्, पुनर्-आवृत्ति-प्रकारम्, अमुष्ज्ञान लोकस्याप्राप्तारं देवयान-पितृयानयोर् भेदकं रूपं च वेत्थेति वेत्थ यथा पञ्चम्य्-आहुता वापः पुरुष-वचसो भवन्ति [छा.उ. ५.३.३] इति च । स च कुमारः प्रश्न-पाराज्ञानाद् विमनाः पितरं गौतमम् उपेत्य परिदेवयामास । पिताप्य् अविदित-प्रष्टव्यस् तद्-बुभुत्सया प्रवाहणम् आगत्य कृतार्हणं वित्त-दित्सुं च तं प्रति तान् एव पञ्च प्रश्नान् विभिक्षे । स च तम् अन्तिमं प्रश्नं प्रति ब्रुवन्न् आह असौ वाव लोको गौतमाग्निः [छा.उ. ५.४.१] इत्य् आदि । तत्र हि द्यु-पर्जन्य-पृथिवी-पुरुषयोषाः पञ्चाग्नितया निरूपिताः । तेषु पञ्चस्व् अग्निषु श्रद्धा-सोम-वृष्ट्य्-अन्न-रेतो-रूपाः क्रमात् पञ्चाहुतयः पठिताः । होतारः सर्वत्र देवाः । होमस् तु भूत-सूक्ष्म-परिवेष्टितस्य जीवस्य स्वर्-भोगादि-लाभाय देवैः कृतो द्यु-लोकादिषु प्रक्षेपः । मृतस्य जीवस्य इन्द्रियाणि खलु देवाः कथ्यन्ते । ते हि द्यु-लोकाग्नौ हुतो वर्षं भवति । तच् च वर्षं भवतीत्य् उक्त्वाह -- इति तु पञ्चम्याम् आहुता वापः पुरुष-वचसो भवन्ति [छा.उ. ५.९.१] इति । इत्य् उक्त-क्रमेण रेतो-रूपायां पञ्चम्याम् आहुतौ हुतायाम् आपः पुरुष-वचसः पुरुष-शब्द-वाच्या देह-रूपा भवन्तीत्य् अर्थः । इह याभिर् अद्भिर् युक्तो दिवं गतस् तासाम् एवोक्त-रीत्या स्त्रीम् आपन्नानां पुरुष-रूपतेति प्रतीतेः सूक्ष्म-भूत-परिष्वक्तो रंहतीति सिद्धम् ॥३.१.१॥

रामपद चट्टोपाध्याय: ११।२२।३६, ३।३२।४३-४४, ६।१।५१, ११।२५।३५-३६, २।२।२३।

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३२।४३-४४।

नन्व् आपः पुरुष-वचस इत्य् उक्तेः सर्वेषां भूतानां परिष्वङ्गः कथम् इति तत्राह—

त्र्य्-अत्मकत्वात् तु भूयस्त्वात् ।

शङ्का-निवृत्तये तु-शब्दः । त्रिवृत्-कृतानाम् अपां त्रिभ्टीरूपत्वात् तासां गतौ त्रयाणाम् अपि गतिर् अनुमतेत्य् अर्थः । तथाप्य् अप्-शब्द-प्रयोगः । शुक्र-शोणित-रूपे देह-बीजे द्रव-भूम्ना तासां भूयस्त्वात् । तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमा [भा.पु. ३.२६.४१] इति स्मृतेश् च । भूम्ना हि व्यपदेशा भवन्ति ॥२॥

रामपद चट्टोपाध्याय: ३।२६।५३, ३।२६।४१

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।४१, ५।२०।२३।

प्राण-गतेश् च

देहान्तराप्तौ प्राणानां गतिः श्रूयते बृहद्-आरण्यके—तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति [बृ.आ.उ. ४.४.२] इत्य् आदिना । सा खलु निराश्रया न सम्भवेद् अतस् तद्-आश्रय-भूतानां भूतानां गतिः स्वीकार्येत्य् अर्थः ॥३॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१५।२४।

अग्न्य्-आदि-गति-श्रुतेर् इति चेन्, न, भाक्तत्वात्

ननु,

यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्य् एति, वातं प्राणश्, चक्षुर् आदित्यं, मनश् चन्द्रं, दिशः श्रोत्रं, पृथिवी शरीरम्, आकाशम् आत्मौषधीर् लोमानि, वनस्पतीन् केशा, अप्सु लोहितं च रेतश् च निधीयते [बृ.आ.उ. ३.२.१३] इति ।

तत्रैव वाग्-आदीनाम् अग्न्य्-आदीन् प्रति गति-श्रुतेर् न तेषां जीवेन सह गतिः । अत उक्त-श्रुतिर् अन्यथैव नेया, इति चेत्, न । कुतः ? भाक्तत्वात् । औषधीर् लोमनि वनस्पतीन् केशा इत्य् आदिना श्रुताया लोमादि-गतेः प्रत्यक्षेण बाधात् भाक्तेयम् अग्न्य्-आदि-गति-श्रुतिः । तत्-सहपाठात् न स्वार्थ-परेत्य् अर्थः । न हि लोमान्य् उत्प्लुत्यौषधीर् गच्छन्तीत्य् आदि दृष्टम् । ततश् च मृति-काले वाग्-आदीनाम् उपकार-निवृत्ति-मात्रापेक्षया तथोक्तिर् गतेर् अपि श्रुतत्वात् ॥४॥

भागवत-भाष्यम् (हरिदास शास्त्री): ४।२३।१३, ४।२३।१५।

प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः

ननु यद्य् आपः पञ्चाप्य् आहुतयः स्युस् तदा पञ्चम्याम् इति वाक्याद् अद्भिः परिष्वक्तो यातीति शक्यं वदितुम् । न च तथास्ति प्रथमेऽग्नौ तासाम् अहुतित्वाश्रवणात् । तत्र हि श्रद्धैवाहुतिर् उक्ता । तस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति [छा.उ. ५.४.२] इति तस्या मनो-वृत्ति-रूपत्वेन प्रसिद्धेर् नाप्त्वं सम्भवति । सोमादीनां च कथञ्चित् सम्भवेत्, अतो नास्माद् वाक्याद् भूत-परिष्वङ्गो गच्छतो मृतस्येति चेन्, न । हि यतः प्रथमेऽप्य् अग्नौ ता एवापः श्रद्धा-शब्देनोच्यते । कुतः ? उपपत्तेः प्रश्नोत्तरयोर् इति शेषः । वेत्थ यथेति प्रश्ने पञ्चस्व् अग्निष्व् आपो होम्या विवक्षिताः । तस्योत्तरारम्भे प्रथमेऽग्नौ श्रद्धा होम्योक्ता । तत्र श्रद्धा-शब्देन चेन् नापो वाच्यास् तदा तयोर् वैरूप्यापत्तिर् इत्य् अर्थः । अपां पञ्चम-होम-सम्बन्धो हीतर-होम-चतुष्टय-सम्बन्ध एवोपपद्यते । श्रद्धा-कार्यं च सोम-वृष्ट्य्-आदि स्यूलीभवद्-अब्-बहुलं वीक्ष्यते । कारणानुरूपं च कार्यम् इति श्रद्धाया अप्त्वे युक्तिश् च । तस्मात् तत्र श्रद्धा-शब्देनापो ग्राह्याः । श्रद्धा वा आप [कृ.य.वे. १.१.६.८] इति श्रुतेश् च । मनो-वृत्तिस् तु न स्यात्, मनसो निष्कृष्य तस्या होमानुपपत्तेः । तस्माद् अद्भिः परिष्वक्तो यातीति ॥५॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): १।१५।३९।

नन्व् आपो गच्छेयुः श्रुतत्वात् न तु तद्-युक्तो जीवः अश्रुतत्वाद् इत्य् आशङ्क्य परिहरति—

अश्रुतत्वाद् इति चेन् न इष्टादि-कारिणां प्रतीतेः

अश्रुतत्वम् असिद्धम् । तत्रैव छान्दोग्ये चन्द्रं प्रतीष्टादि-कृतां गति-प्रत्ययात् । अथ य इमे ग्राम इष्टा-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति [छा.उ. ५.१०.३] इत्य् आदिना, आकाशाच् चन्द्रमसम् एषा सोमो राजा [छा.उ. ५.१०.४] इत्य् अन्तेन । तत्रेष्टादि-कारिणां चन्द्रं प्राप्य सोम-राजाख्या भवन्तीत्य् अवगम्यते । तथा द्यु-लोकाग्नौ देवाः श्रद्धां जुह्वति । तस्याः आहुतेः सोमो राजा सम्भवति इत्य् अत्रापि तदैकार्थ्यात् श्रद्धा-शरीर-युक्तः सोम-शरीर-युक्तो भवतीति अवसीयते । शरीरस्य जीवैकाश्रयत्व-स्वाभाव्यात् तद्-वाचकस्य शब्दस्य जीवे पर्यवसानम् इति तत्-परिष्वक्तोऽसौ यातीति स्थिरम् ॥६॥

रामपद चट्टोपाध्याय: ३।३२।१-४, ७।१५।४०, ११।११।४६, ७।१५।२९।

ननु, एष सोमो राजा देवानाम् अन्नं तं देवा भक्षयन्ति [छा.उ. ५.१०.४] इति सोम-राज-शब्दितस्य देव-भक्ष्यत्व-श्रवणात् न स जीवः शक्यो वक्तुम् । तस्य भक्षयितुम् अशक्यत्वाद् इति चेत्, तत्राह—

भाक्तं वानात्मवित्त्वात्, तथा हि दर्शयति

वेति शङ्का-हानौ । सोम-राज-शब्दितस्य जीवस्य देवान्नत्वं भाक्तम् । अन्नवत् तद्-भोग-हेतुत्वाद् उपचरितम् इत्य् अर्थः । तद्-धेतुत्वं तत्-सेवकत्वात् । तच् चानात्मवित्त्वात् । श्रुतिर् अप्य् अनात्मज्ञस्य देव-सेवकतां दर्शयति । अथ योऽन्यां देवताम् उपास्ते अन्योऽसाव् अन्योऽहम् अस्मीति न स वेद, यथा पशुर् एव स देवानाम् [बृ.आ.उ. १.४.१०] इति बृहद्-आरण्यके । अयं भावः—अन्नवद्-भक्षण-सम्भवात् तद्वद् भोग-साधनत्वाच् च जीवस्य देवान्नत्वं तत्रोपचर्यते । विशोऽन्नं राज्ञां पशवोऽन्नं विशाम् इत्य् औपचारिक-प्रयोग-दर्शनाच् च । मुख्यत्वे तु ज्योतिष्टोमादि-विधि-वैयर्थ्यापत्तिः । देवाश् चेच् चन्द्रलोक-गतं भक्षयेयुः किम्-अर्थं जनस् तत्र गच्छेत्, किम्-अर्थं वा तत्-प्रापकं ज्योतिष्टोमादि-प्रयासं कुर्याद् इति । तस्माद् अद्भिः परिष्वक्तो यातीति सिद्धम् ॥७॥

रामपद चट्टोपाध्याय: ११।१०।२२, ११।१०।२५-२८, ११।२५।२०-२१, ११।२५।२९, ११।१०।३१-३२।

भागवत-भाष्यम् (हरिदास शास्त्री): ४।२९।४८, ४।२९।३१।

अधिकरणम् २ (कृतात्ययाधिकरणम्)

अयं य इमे ग्राम इत्य् आदिना केवल-कर्मिणां धूमादि-मार्गेण स्वर्ग-प्राप्तिम् अभिधाय तद्-अन्ते पुनर्-आवृत्तिः पठ्यते तत्रैव छान्दोग्ये— तस्मिन् यवात् संपातम् उषित्वाथैतम् एवाध्वानं पुनर् निवर्तन्ते [छा.उ. ५.१०.५] इति । तत्र संशयः—स्वर्गाद् अवरोहन् निरनुशयः सानुशयो वेति । यावत् सम्पातम् उषित्वेत्य् उक्तेः—प्राप्यान्तं कर्मणस् तस्य इत्य् आद्य्-उक्तेश् च निरनुशयोऽवरोहतीति । सम्पातः कर्म सम्पतन्त्य् अनेन स्वर्गम् इति व्युत्पत्तेः । अनुशयो भुक्त-शिष्टं कर्म । अनुशेते कर्तारं फल-भोगायेति व्युत्पत्तेः । तच् च कृत्स्न-फल-भोगे सति नावशिष्यते । एवं प्राप्ते पठति—

कृतात्ययेऽनुशयवान् दृष्ट-स्मृतिभ्याम्

चन्द्र-लोके सुख-भोगाय यत् कर्म कृतं तस्येष्टादेस् तत्र भोगेनात्यये क्षये सति तद्-भोग-क्षय-जात-शोकानल-विलीन-भोग-देहोऽनुशयवान् अवरोहति । कुतः ? दृष्टेति ।

तद् य इह रमणीय-चरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मण-योनिं वा क्षत्रिय-योनिं वा वैश्य-योनिं वाथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्व-योनिं वा सूकर-योनिं वा चाण्डाल-योनिं वा [छा.उ. ५.१०.७] इति तत्रैव दर्शनात् ।

रमणीय-चरणा रमणीय-कर्माणः । भुक्त-शिष्ट-पक्व-सुकृतवन्त इत्य् अर्थः । अभ्यासोऽभ्यागन्तारः अभ्यापूर्वादसेः क्विपि रूपम् । ह स्फुटम् । यद् यदा । तदेत्य् अर्थात् । इह पुनर् भवे ते उभय-शेषाभ्यां निविशन्ति इति स्मृतेश् च । तस्मात् सानुशयोऽवरोहति यावत् सम्पातम् इत्य् आदि वाक्यं तु फलार्पण-प्रवृत्त-कर्म-विशेष-परम् इत्य् अविरोधः ॥८॥

अवरोहे प्रकार-विशेषं दर्शयति—

यथेतम् अनेवं च

चन्द्राद् अवरोहन्न् अनुशायी यथेतम् अवरोहत्य् अनेवं च । यथेतं यथा-गतम् । अनेय्वं तद्-विपर्ययेण । धूमाकाशयोर् अवरोहेऽपि सङ्कीर्तनाद् यथेतम् इति प्रतीयते । रात्र्याद्य्-असङ्कीर्तनाद् अभ्राद्य्-उपसङ्ख्यानाच् चानेवं चेति ॥९॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१०।२६।

चरणाद् इति चेन् न तद्-उपलक्षणार्थेति कार्ष्णाजिनिः

ननु स्वर्गात् प्रच्युतोऽनुशयाद् योनिं प्राप्नोतीति न युज्यते । रमणीय-चरणा इत्य् आदि श्रुत्या चरणात् तदापत्त्य्-अभिधानात् । न चानुशय-चरण-शब्दयोर् ऐकार्थ्यम् । यथाकारी यथाचारी तथा भवति इति बृहद्-आरण्यके तयोर् भिन्नार्थत्वोक्तेः । कर्म-शेषोऽनुशयश् चरणं त्व् आचार इति चेन् नायं दोषः । यतोऽनुशयोपलक्षणार्थैषा चरण-श्रुतिर् इति कार्ष्णाजिनिर् मन्यते । कर्मणः सर्वार्थ-हेतुतया शास्त्रार्थ-प्रसिद्धेर् इति भावः ॥१०॥

रामपद चट्टोपाध्याय: ३।३०।३२-३३

भागवत-भाष्यम् (हरिदास शास्त्री): ४।२९।७४-७५, ४।२९।७८

आनर्थक्यम् इति चेन् न तद्-अपेक्षत्वात्

ननु कर्मणः सर्वार्थ-हेतुत्वे वैफल्यम् आचारस्य ततश् च तद्-विधिर् व्यर्थ इति चेन्, न । कुतः ? कर्मणोऽप्य् आचार-सापेक्षत्वात् । न हि सद्-आचार-विहीनः कर्मण्य् अधिक्रियते । सन्ध्या-हीनोऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु इत्य् आदि स्मृतेः । तथा च साचारस्य कर्मणः फल-हेतुत्वात् तया कर्मोपलक्ष्यते इति कार्ष्णाजिनेर् मतम् ॥११॥

रामपद चट्टोपाध्याय: ११।१८।४२-४३, ११।१८।४५।

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३१।३२

सुकृत-दुष्कृते एवेति तु बादरिः

तु-शब्दः पूर्व-मत-निरासाय । चरण-शब्देन सुकृत-दुष्कृत एव वाच्ये इति बादरिर् मन्यते । पुण्यं कर्माचरतीत्य् आदौ कर्मणि चरतेः प्रयोगात् । मुख्ये सम्भवति लक्षणा न युक्ता । चरणम् अनुष्ठानं कर्मेति अनर्थान्तरम् । आचारोऽपि कर्म-विशेष एव । तथापि भेदोक्तिः कुरु-पाण्डव-न्यायेन । इदं स्व-मतम् इत्य् एव-शब्दः । तथा च चरण-शब्देन कर्म-विशेषोक्तेः सानुशयोऽवरोहतीति सिद्धम् ॥१२॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३१।४२-४३

इष्टादि-कारिणश् चन्द्रं गत्वा सानुशयास् तस्माद् अवरोहन्तीत्य् उक्तम् । इदानीम् अनिष्टादि-कारिणां पापिनाम् आरोहावरोहौ परीक्ष्येते ।

असूर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशो. ३]

इतीशावास्ये पठ्यते । अग्र पापिनश् चन्द्र-लोकं गच्छन्त्य् उत यम-लोकम् इति सन्देहे पूर्व-पक्षं सूत्रयति—

अनिष्टादि-कारिणाम् अपि च श्रुतम्

इष्टादि-कृताम् इवानिष्टादि-कृताम् अपि चन्द्रे गमनं श्रुतम्—ये वै के चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्ति [कौ.उ. १.२] इति कौषीतक्य्-उपनिषदि सर्वेषाम् अविशेषेण गति-श्रवणात्, तेऽपि तं गच्छन्तीति । एवं सत्य् उक्त-वाक्यं दुराचार-निवृत्ति-परतया नेयम् ।

ननु पुण्यवतां पापिनां च समानं फलम् । मैवम् । पापिनां तत्र भोगाभावात् ॥१३॥

रामपद चट्टोपाध्याय: ---

अधिकरणम् ३ (संयमनाधिकरणम्)

एवं प्राप्ते सिद्धान्तयति—

संयमने त्व् अनुभूयेतरेषाम् आरोहावरोहौ तद्-गति-दर्शनात्

तु-शब्दः पूर्व-पक्ष-निरासार्थः । इतरेषाम् अनिष्टादि-कृतां संयमने यम-पुरे गमनम् । तत्र यम-दण्डम् अनुभूय पुनर् इहागमनं च स्यात् । एवं-भूतौ तेषाम् आरोहावरोहौ भवतः । कुतः ? तद् इति ।

न साम्परायः प्रतिभाति बालं
प्रमाद्यन्तं वित्त-मोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी
पुनः पुनर् वशम् आपद्यते मे ॥ [क.उ. १.२.६] इति ।

रामपद चट्टोपाध्याय: ३।३०।३२-३३।

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३०।३३, ३।३२।१९, ३।३२।२१।

स्मरन्ति च

तत्र तत्र पतन् श्रान्तो मूर्च्छितः पुनर् उत्थितः ।
पथा पापीयसा नीतस् तरसा यम-सादनम् ॥ [भा.पु. ३.३०.२३]

इत्य् आदौ, सर्वे चैते वशं यान्ति यमस्य भगवन् इत्य् आदिषु च पापिनां यम-वश्यतां मुनयः स्मरन्तीति ॥१५॥

रामपद चट्टोपाध्याय: ३।३०।१९-२१।

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३०।२३

अपि सप्त

रौरवोऽथ महांश् चैव वह्निर् वैतरणी तथा ।
कुम्भीपाकः इति प्रोक्तान्य् अनित्य-नरकानि तु ॥
तामिस्रश् चान्ध-तमिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।
इति सप्त प्रधानानि बलीयस्तूत्तरोत्तरम् ॥ इति भारते ।

पापिनां फल-भोग-भूमित्वेन सप्त नरकाणि स्मर्यन्ते । तानि ते यान्तीत्य् अर्थः । अपि-शब्दात् पञ्चमान्त-स्मृतानि पराणि गृह्यन्ते ॥१६॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ५।२६।७।

नन्व् एवम् ईश्वर-कर्तृक-सर्व-नियमोक्तित्वाधस् तत्राह—

तत्रापि च तद्-व्यापाराद् अविरोधः

चोऽवधारणे । तेषु यमादिषु दण्ड-कर्तृष्व् ईश्वर-कर्तृक-नियम-रूपाद् व्यापारात् तद्-उक्तेर् अबाध इत्य् अर्थः । ईश्वर-प्रयुक्ताः खलु यमादयः पापिनो दण्डयन्तीति पुराणेषु प्रसिद्धम् ॥१७॥

रामपद चट्टोपाध्याय: ५।२६।६, ४।२९।२३-३५, ४।२९।४७, १।२।१३, २।२।३६, २।३।१०, ४।३०।३२-३३, ३।१५।४९, १०।१४।८

भागवत-भाष्यम् (हरिदास शास्त्री): ५।२६।६।

ननु पापिनाम् अपि यम-दण्डानन्तरं चन्द्रारोहः स्यात् । ये वै के चास्माद् इत्य् आदौ सर्व-शब्दाद् इत्याक्षेप-निरासायाह—

विद्या-कर्मणोर् इति तु प्रकृतत्वात्

तु-शब्दाद् अक्षेप-निवृत्तिः । नेत्य् आकृष्यम् । पापिनां चन्द्राप्तिर् नैवापपद्यते । कुतः ? देवयान-पितृयानयोः प्रतिपत्तौ विद्या-कर्मणोर् एव प्रकृतत्वात् । छान्दोग्ये तद् य इत्थं विदुः [छा.उ. ५.१०.१] इत्य् आदिना विद्यया देवयान-पन्थाः प्राप्यः प्रकीर्त्यते । अथ य इमे ग्राम [छा.उ. ५.१०.३] इत्य् आदिना तु कर्मणा पितृ-यानः पन्थाः प्राप्य इति । एवं सति स सर्व-शब्दोऽधिकृतापेक्षो भवेत् ॥१८॥

रामपद चट्टोपाध्याय: ७।१५।४२-४३

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३२।३, ३।३२।५-७

ननु चन्द्र-गत्य्-अभावे पापिनाम् इह देहोपलम्भो न स्यात् । तद्-धेतोः पञ्चमाहुतेर् असम्भवात् । तस्याश् चन्द्र-प्राप्ति-पूर्वकत्वात् । अतो देहोपलम्भाय सर्वेषां चन्द्र-गतिर् आवश्यकीति चेत्, तत्राह—

न तृतीये तथोपलब्धेः

तृतीये स्थाने देह-लाभाय तत्-पूर्वक-पञ्चमाहुत्य्-अपेक्षा नास्ति । कुतः ? तथेति । श्रुतौ तथा प्रत्ययात् । अयम् अर्थः । तत्रैव—

अथैतयोः पथोर् न कतरेणचन तानीमानि क्षुद्राण्य् असकृद्-आवर्तीनि भूतानि जीवन्ति । जायस्व म्रियस्वेत्य् एतत् तृतीयं स्थानम् । तेनासौ लोके न सम्पूर्यते [छा.उ. ५.१०.८] इति ।

यानि भूतान्य् उक्तयोः देवयान-पितृयानयोः पथोर् मध्ये कतरेणचन केनापि पथा न गच्छन्ति तानीमानि क्षुद्राणि दंश-मशक-कीटादीन्य् असकृद्-आवृत्तीनि जायस्व मिर्यस्वेति भवन्ति । पुनः पुनर् जायन्ते म्रियन्ते चेत्य् अर्थः । एतत् तृतीयं स्थानम् इति । दंशादि-देहाः पाप-कर्माणः कथ्यन्ते । स्थानत्वं स्थान-सम्बन्धात् । तृतीयत्वं तु पूर्व-निर्दिष्ट-ब्रह्म-लोक-द्यु-लोकापेक्षया । ततश् च ये विद्यया देव-याने पथि नाधिकृता नापि कर्मणा पितृ-याने तेषाम् एव क्षुद्र-जन्तूनां दंश-मशकाद्य्-असकृद्-आवृत्तीनां तृतीयः पन्थास् तेनासौ लोको न सम्पूर्यत इति तेषां द्यु-लोकारोहावरोहाभावेन तल्-लोकासम्पूर्त्य्-उक्तेस् तृतीये स्थाने देहारम्भाय पञ्चमाहुतिर् नापेक्ष्येति ॥१९॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३०।३०, ३।३०।३३-३४।

स्मर्यतेऽपि च लोके

लोके पुण्य-कर्मणाम् अपि द्रोण-धृष्टद्युम्नादीनाम् आहुति-सङ्ख्यानपेक्षो देहारम्भः स्मर्यते । अपि चेति किञ्चिद् अन्यद् उच्यत इत्य् अर्थः ॥२०॥

रामपद चट्टोपाध्याय: ---

दर्शनाच् च

येषां खल्व् एषां भूतानां त्रीण्य् एव बीजानि भवन्ति ।
अण्डजं जीवजम् उद्भिज्जम् [छा.उ. ६.३.१] इति ।

तत्रैव विनैवाहुति-सङ्ख्याम् उद्भिज्ज-स्वेदजयोर् भूतयोर् जन्म-श्रवणाच् च तद्-अनपेक्षोऽपि सः । तथा च येषां चन्द्रारोहावरोहौ सम्भवतस् तेषाम् एव तस्यां सत्यां तद्-आरम्भोऽन्येषां तु विनैव ताम् अद्भिर् एव स स्यात् प्रतिषेधकाभावाद् इति ॥२१॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): २।६।१५, २।१०।३९।

ननु स्वेदजो न श्रूयते त्रीण्य् एवेति वचनाद् इति चेत्, तत्र समादधाति—

तृतीय-शब्दावरोधः संशोकजस्य

उद्भिज्जम् इति तृतीय-शब्देन संशोकजस्य स्वेदजस्याप्य् अवरोधः सङ्ग्रहः कृतः । उभयोर् अपि भूम्य्-उदकोद्भेद-प्रभवत्वस्य साम्यात् । लोके भेदोक्तिस् तु जङ्गमत्वाद्य्-अवान्तर-भेदम् आदाय । तस्माद् अनिष्टादि-कारिणां चन्द्र-प्राप्तिर् नास्तीति सिद्धम् ॥२२॥

रामपद चट्टोपाध्याय: ३।७।२८, २।१०।३८

भागवत-भाष्यम् (हरिदास शास्त्री): ३।७।२७।

अधिकरणम् ४ (तत्-स्वाभाव्यापत्त्य्-अधिकरणम्)

इष्टादि-कृतः सूक्ष्म-भूत-युक्ताः सानुशयाश् चावरोहन्तीति दर्शितम् । तत्-प्रकारस् तु—

अथैतम् एवाध्वानं पुनर् निवर्तन्ते यथेतम् आकाशम् आकाशाद् वायुं वायुर् भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्य् अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति [छा.उ. ५.१०.५] इति ।

यथेतम् अनेवञ् चोक्तस् तत्रैव । इहावरोहतायाम् आकाशादि-भावः प्रतीयते । स किं तादात्म्यापत्तिर् उत सादृश्यापत्तिर् इति विषये सादृश्यापत्ति-पक्षे लक्षणाप्रसङ्गात् तादात्म्यापत्तिर् एवासाव् इति प्राप्ते—

तत्-स्वाभाव्यापत्तिर् उपपत्तेः

तत्-सादृश्यापत्ति-रूपः स मन्तव्यः । कुतः ? उपपत्तेः । चन्द्र-लोके यद् अम्मयं वपुर् आरब्धं भोगाय तत् किल चण्डकर-वृन्देन तुषार-खण्डम् इव भोग-क्षये क्षणजेन शोकाग्निना विलीयमानं सौक्ष्म्याद् आकाश-तुल्यं भवति, ततो वायोर् वशम् एति, ततो धूमादिभिः संपृच्यते इत्य् एवोपपद्यते । अन्यस्यान्य-भावायोगात् तत्त्वेऽवरोहासम्भवाच् च ॥२३॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२६।३४।

अधिकरणम् ५ (नातिचिरेणाधिकरणम्)

आकाशादि-प्रवर्षणान्तराद् अवरोहो विलम्बेन त्वरया वेति संशये नियम-हेत्व्-अभावात् विलम्बेनेति प्राप्ते—

नातिचिरेण विशेषात्

आकाशादितो नातिचिरेणावरोहः । कुतः ? विशेषात् । परत्र व्रीह्य्-आदि-भाव-प्राप्ताव् अतो वै खलु दुर्निष्प्रपतरम् इति विशेषोक्तेर् इत्य् अर्थः । त-लोपश् छान्दसः । दुर्निष्प्रपतरं दृश्सर्व-निष्क्रमणम् इत्य् अर्थः । व्रीह्य्-आदि-प्राप्तौ दृश्सर्व-निर्मोक्त्याकाशादि-प्राप्तौ त्वरया निर्गमो बोध्यते ॥२४॥

रामपद चट्टोपाध्याय: ७।१५।४१

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३०।३४।

अधिकरणम् ६ (अन्याधिष्ठिताधिकरणम्)

प्रवर्षणानन्तरं, त इह व्रीहि-यवा ओषधि-वनस्पतयस् तिलमाषा इति जायन्ते [छा.उ. ५.१०.६] इति तत्रैव श्रूयते । इह संशयः—व्रीह्य्-आदिष्व् अनुशयिनां मुख्यं जन्मेति संश्लेष-मात्रम् इति । जायन्त इत्य् उक्तेर् मुख्यं जन्मेति प्राप्तौ—

अन्याधिष्ठिते पूर्ववद् अभिलाषात्

अन्यैर् जीवैर् भोक्तृतयाधिष्ठिते व्रीह्य्-आदि-देहे तेषां संश्लेष-मात्रम् एव स्यात् । न तु ते भोगाय तत्र उत्पद्यन्ते । कुतः ? पूर्वेति । आकाशादि-भाववत् व्रीह्य्-आदि-भावस्याप्य् उक्तेर् इत्य् अर्थः । यथाकाशादिषु प्रवर्षणान्तेषु भोग-हेतुः कर्म नाभिलप्यते तथा व्रीह्य्-आदि-भावेऽपि । यत्र तु भागोऽभिमतस् तत्र, रमणीय-चरणा इत्य् आदिना तद् अभिलप्यते । तस्मात् संश्लेष-मात्रम् एव तत्, न तु मुख्यं जन्मेति ॥२५॥

रामपद चट्टोपाध्याय: ७।१५।४१

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३२।४४

अशुद्धम् इति चेन् न शब्दात्

नन्व् अन्यैर् अधिष्ठिते व्रीह्य्-आदि-देहे नौशयिनां संश्लेष-मात्रम् एव न तु भोगार्थं जन्म, भोग-हेतोः कर्मअर्णाभावात् इत्य् उक्तिर् अयुक्ता तद्-धेतोः सत्त्वात् । तथा हि, स्वर्गादि-फलकम् इष्टादि-कर्मैवाशुद्धम् अग्निसोमीयादि-पशु-हिंसा-मिश्रत्वात् । हिंसा तु पापम् एव । मा हिंस्यात् सर्वा भूतानि इति प्रतिषेधात् । ततश् च पूयांशः स्वर्गं दते पापांशस् तु व्रीह्य्-आदि-भावम् इति । शरीर-जैः कर्म-दोषैर् याति स्थावरतां नरः [मनु १२.९] इति स्मृतेश् च । अतो व्रीह्यादिषु मुख्यं जन्मेति चेन्, न । कुतः ? शब्दात् । अग्निषोमीयं पशुम् आलभेत इत्य् आदि-वेद-वाक्याद् इत्य् अर्थः । तथा च धर्मत्वाधर्मत्वयोर् वेदैक-गम्यत्वाद् उत्सर्गो हि सः । अग्निषोमीयम् इति त्व् अपवादः । उत्सर्गापवादयोर् व्यवस्थित-विषयत्वात् न किंचिच् चोद्यम् अस्ति । तस्माद् व्रीह्य्-आदिभिः संश्लेष-मात्रं जन्मेति ॥२६॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।५।१३।

अधिकरणम् ७

इतोऽपीत्य् आह—

रेतः सिग्-योगोऽथ

अथ व्रीह्य्-आदि-भावानन्तरम् अनुशयिनो रेतः-सिग्-योगस् तत्रैव श्रूयते । यो यो ह्य् अन्नम् अत्ति यो रेतः सिञ्चति तद् भूय एव भवति [छा.उ. ५.१०.६] इति । न च तस्य मुख्यं रेतः सिग्-रूपत्वम् । अन्यस्यान्य-रूपत्वासम्भवात् । तत्त्वे देहाप्त्य्-अयोगाच् च । तस्मात् संश्लेष-मात्रं तत्-स्वीकार्यम् । एवं सति व्रीह्यादाव् अपि तद् एवास्तु वैरूप्ये हेत्व्-अभावात् ॥२७॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३१।१।

योनेः शरीरम्

ल्यब्-लोपे कर्मणि पञ्चमी । पितृ-शरीरात् मातृ-योनिं प्रविश्य देहम् आप्नोत्य् अनुशय-फल-भोगाय, तद् य इह रमणीय-चरणाः [छा.उ. ५.१०.७] इत्य् आदेः । तस्माद् आकाशादि-प्राप्तिर् इव व्रीह्य्-आदि-प्राप्तिर् इति सिद्धम् । इत्थं च दुःख-सारे संसारे विरज्य हरिर् एवानन्द-मयो ध्येयः सुधियेति व्यञ्जितम् ॥२७॥

रामपद चट्टोपाध्याय: ३।३१।१-४

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३१।२

अधिकरणम् ८

॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥

अधिकरणम् ९ (पादः २, सन्ध्य्-अधिकरणम्)

वित्तिर् विरक्तिश् च कृताञ्जलिः पुरो

यस्याः परानन्द-तनोर् वितिष्ठते ।

सिद्धिश् च सेवा-समयं प्रतीक्षते

भक्तिः परेशस्य पुनातु सा जगत् ॥

अथास्मिन् पादे प्राप्यानुराग-हेतु-भूता भक्तिर् उच्यते । प्राप्यस्य ब्रह्मणोर् भक्त्य्-अर्हत्वाय स्वप्नादि-सृष्टि-कर्तृत्व-रूपो महिमा तदाविर्भावानाम् ऐक्यम् आत्म-मूर्तित्वं भजद्-भेदः प्रत्युक्त्वं तथापि भक्त्य्-एक-ग्राहत्वम् उभयाव् अभासित्वं परानन्दत्वं भावानुसारि-प्रकाशत्वं सर्व-परत्वं सर्व-दातृत्वं चेति गुण-निचयो निरूप्यते । भक्तीच्छुः खलु तत्-तत्-सम्प्रतीतौ तस्यां प्रवर्तते, नेतरथा । तत्रादौ स्वप्नादि-सृष्टि-कर्तृत्वम् उच्यते । तद्-इतरस्य तत्-कर्तृत्वे ब्रह्मणः सर्व-कर्तृत्व-बाधात् । किञ्चित् कर्तरि तस्मिन् भक्तिर् नोद्भवेद् अतस् तत्-कर्तृतया तन्-महिमा प्रदर्श्यते । बृहद्-आरण्यके श्रूयते—

न तत्र रथा न रथ-योगा न पन्थानो भवन्ति, अथ रथान् रथ-योगान् पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो भवन्ति, अथाऽऽनन्दान् मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति, अथ पुष्करिण्यः स्रवन्त्यः सृजते, स हि कर्ता [बृ.आ.उ. ४.३.१०] इति ।

तत्रेयं स्वाप्निकी रथादि-सृष्टिर् जीव-कर्तृका परमात्म-कर्तृका वेति संशयं जीव-कर्तृका स्यात् । तस्यापि प्रजापति-वाक्ये सत्य-सङ्कल्पत्व-श्रवणाद् इति प्राप्ते—

सन्ध्ये सृष्टिर् आह हि

सन्ध्यं स्वप्नः, सन्ध्यं तृतीयं स्वप्न-स्थानम् [बृ.आ.उ. ४.३.९] इति तत्रैव श्रवणात् । गागर-सुषुप्ति-मध्य-भवत्वाच् च । तत्र या रथादि-सृष्टिः सा परमात्म-कृतैव । कुतः ? हि यतः । स हि कर्ता इति श्रुतिर् एव स्वप्ने रथादि-सृष्टिं तत्-कृताम् आह । अयं भावः—अल्पाल्प-कर्मानुसारि-फल-भोगाय स्वप्न-द्रष्टृ-पुं-मात्रानुभाव्यांस् तावन्-मात्र-समयान् रथादीन् परमात्मा सृजति । तस्मात् स हि कर्तेति सत्य-सङ्कल्पस्याचिन्त्य-शक्तेः तादृश-कर्तृत्वं सम्भवत्य् एवेत्य् अर्थः । स्वप्नान्तम् इत्य् आदि श्रुत्य्-अन्तराच् चेति । जैवी सत्य-सङ्कल्पता तु मोक्षे स्याद् अतो न तया स्वप्न-सृष्टिः ॥१॥

भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५५।

निर्मातारं चैके पुत्रादयश् च

यत एके कठाः परमात्मानम् एव स्वाप्निकानां कामानां निर्मातारम् आमनन्ति, य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण [क.उ. २.२.८] इति । एषु जीवेषु ते च कामाः पुत्रादय एव न त्व् इच्छा-मात्रम् । सर्वान् कामान् छन्दत्तः प्रार्थयस्व शतायुषः पुत्र-पौत्रान् वृणीष्व [क.उ. १.१.२५] इति तेषाम् एव काम-शब्देन प्रकृतत्वात् । एतस्माद् एव पुत्रो जायते, एतस्माद् भ्राता । एतस्माद् भार्या, यद् एनं स्वप्ने नाभिहन्ति [गौपवन-श्रुति] इति स्मृत्य्-अन्तराच् च ॥२॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।३२।

स्वाप्निक-पदार्थ-निर्मातुर् भगवतः कारणम् आह—

माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात्

स्वप्न-सृष्टावतर्क्या मायैव करणम् । न तु पञ्चीकृतानि भूतानि चतुर्मुखादयश् च । कुतः ? कृत्स्न्येनेत्य् आदेः सर्वानुभाव्यतयानभिव्यक्तेर् इत्य् अर्थः । तस्मात् परमात्म-कृता स्वप्न-सृष्टिर् इति सिद्धम् ॥३॥

रामपद चट्टोपाध्याय : ७।१३।२३, ११।३।३६।

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।३२।

अधिकरणम् १० (स्वप्नाधिकरणम्)

अथ सा सत्योत मिथ्येति विशये बोधोत्तरं बाधात् मिथ्येति प्राप्तौ—

सूचकश् च हि श्रुतेर् आचक्षते च तद्-विदः

हि यतः स्वाप्नः पदार्थः शुभाशुभयोर् मन्त्रादेश् च सूचकोऽतः सत्यः स्वप्न-सर्गः । कुतस् तत्-सूचकत्वम् ? श्रुतेः ।

यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति ।
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्न-निदर्शने ॥ इति छान्दोग्यात् [५.२.९] ।

अथ स्वप्ने पुरुषं कृष्णं कृष्ण-दन्तं पश्यति स एनं हन्ति इति कौषीतकी-ब्राह्मणाच् च । तद्-विदः स्वप्न-ज्ञाश् च स्वप्नं शुभादि-सूचकम् आचक्षते । स्वप्ने गजारोहणं शुभस्य, खरारोहणं त्व् अशुभस्य सूचकम् इत्य् आदि ।

आदिष्टवान् यथा स्वप्ने राम-रक्षाम् इमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुध-कौशिकः ॥

इति स्वप्ने स्तोत्र-लाभं स्मरन्ति । एवं च भावि-सत्यार्थ-सूचकत्वे क्वचिन् मन्त्रौषधि-प्राप्ति-दर्शनेन सूचक-सत्यत्वे च सिद्धे सत्यता-प्रययात् साक्षात् स्वप्न-दृष्ट-कर्तृक-हनन-श्रवणाच् च जाग्रत्-सृष्टिर् इति सत्या स्वप्न-सृष्टिः ॥४॥

यत् तु बोधोत्तरं बाधान् मिथ्येत्य् उक्तम्, तत्राह—

पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ

परस्येश्वराभिध्यानात् सङ्कल्पात् तिरोहितं स्वाप्निकं रथादि, न तु शुक्ति-रजतवत् तस्य बाधः । हि यतोऽस्य जीवस्य ततः परेशाद् एव बन्ध-मोक्षौ भवतः । सम्षार-बन्ध-स्थिति-मोक्ष-हेतुर् इत्य् आदि-श्रुतेः । बन्ध-मोक्ष-कर्तुः स्वप्न-तत्-परिहार-कर्तृत्वं न चित्रम् इति भावः । ततश् च तस्यापि तस्माद् एवाविर्भाव-तिरोभावी मन्तव्यौ ।

स्वप्नादि-बुद्धि-कर्ता च तिरस्कर्ता स एव तु ।
तद्-इच्छया यतो ह्य् अस्य बन्ध-मोक्षौ प्रतिष्ठितौ ॥ इति स्मृतेश् च ।

तस्मात् सत्या स्वप्न-सृष्टिर् ऐश्वरीति ॥५॥

रामपद चट्टोपाध्याय : ३।२६।६-७, ११।११।३-४, ११।३।४१, ११।२०।३०।

अधिकरणम् ११ (देह-योगाधिकरणम्)

अथ जागर-कर्तृत्वम् ईश्वरस्यैवेत्य् उच्यते । कठ-वल्ल्यां पठ्यत्—

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति ॥ [क.उ. २.१.४] इति ।

तत्र जीवस्य श्रूयमाणो जागरः परेश-कर्तृको न वेति संशये कालाद्य्-अधीनत्व-दर्शनान् नेति प्राप्ते—

देह-योगाद् वा सोऽपि

देह-योगेन वा यो जागरः स परेशाद् एव स्वप्नान्तम् इत्य् आदि श्रुतेः कालादेर् जाड्याच् च । सुषुप्ति-मूर्च्छयोर् अप्य् अवस्थयोः सृष्टिर् ईश्वर-कर्तृकैवेत्य् अपि-शब्देन समुच्चितम् । तस्यैव सर्व-कर्तृकत्व-श्रवणात् ॥६॥

रामपद चट्टोपाध्याय : ११।११।१०, ११।१३।२४-२५, ३।३१।४३-४४।

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।३२।

अधिकरणम् १२ (तद्-अभावाधिकरणम्)

अथ सुषुप्ति-स्थानं चिन्त्यते । तत्रैताः सुषुपित्-विषयाः श्रुतयः । आसु तदा नाडीषु सृप्तो भवति [छा.उ. ८.६.१] इति छान्दोग्ये । ताभिः प्रत्यवसृप्य पुरीतति शेते [बृ.आ.उ. २.१.१९] इति । य एषोऽन्तर् हृदय आकाशस् तस्मिञ् शेते [बृ.आ.उ. ४.४.२२] इति च बृहद्-आरण्यके । एवम् अन्यत्र च । इह आकाश-शब्दो ब्रह्म-वाचकः । अत्र नाड्यः पुरीतद् ब्रह्म च सुषुप्त्य्-आधारतया श्रूयन्ते । किम् एषां विकल्पः समुच्चयो वेति वीक्षायां तुल्यार्थानां मिथोऽपेक्षादर्शनात्, तुल्यार्थस् तु विकल्पेरन् इति न्यायाच् च विकल्पः स्यात् । इति प्राप्ते—

तद्-अभावो नाडीषु तच्-छ्रुतेर् आत्मनि च

रामपद चट्टोपाध्याय : ११।१३।२६, ११।२५।१९, १२।११।१८-१९।

भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।५५-५६।

अतः प्रबोधोऽस्मात्

यतो ब्रह्मैव सुप्ति-स्थानं नाड्य्-आदीनां तु द्वार-मात्रतातोऽस्माद् ब्रह्मणः सकाशाद् एव स्वापोत्तरं प्रबोधः श्रूयते छान्दोग्ये—सतश् चागत्य न विदुः सत आगच्छामहे [छा.उ. ६.१०.२] इति । विकल्पे तु कदाचिन् नाडीभ्यः कदाचित् पूरीततः कदाचिच् च ब्रह्मणः स श्रूयते, न च तथास्ति । तस्माद् ब्रह्मैव तत् ॥८॥

रामपद चट्टोपाध्याय : ८।१।७, ८।१।९

अधिकरणम् १३ (कर्मानुस्मृति-शब्द-विध्य्-अधिकरणम्)

अथ सतश् चागत्य न विदुः [छा.उ. ६.१०.२] इत्य् अत्र विचारान्तरम् । सुप्त एवोत्तिष्ठेद् उतान्य एवेति संशये ब्रह्म-सम्पन्नस्य प्राचीन-देहादि-सम्बन्धासम्भवात् अन्य एवेति प्राप्ते—

स एव तु कर्मानुस्मृति-शब्द-विधिभ्यः

तु-शब्दः शङ्का-क्षेपाय । सुप्त एवोत्तिष्ठति नान्यः । कुतः ? कर्मादिभ्यः । सुप्ति-प्राग्-अनुष्ठित-शेष-लौकिक-कर्म-समापनं कर्मा-शब्दार्थः । अनुस्मृतिर् योऽहं सुप्तः स एव प्रतिबुद्धोऽस्मि प्रत्यभिज्ञा । शब्दस् तु--इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तदा भवन्ति [छा.उ. ६.१०.२] इति छान्दोग्य-श्रुतिः । व्याघ्रादयो जीवाः सुप्तेः प्राग् यद् यच् छरीरं प्राप्तास् त एव प्रतिबुद्धास् तत् तद् एवाप्नुवन्तीति तत्रार्थः । विधिश् च, आत्मानम् एव लोकम् उपासीत [बृ.आ.उ. १.४.१५] इति बृहद्-आरण्यक-दृष्टो मोक्ष-विषयः । सोऽपि सुप्तस्य मुक्तत्वेऽर्थकः स्यात् । अयं भावः—यथा लवणाम्बु-पूर्णः पिहित-मुखः कुम्भो गङ्गायां निक्षिप्तः पुनर् उद्ध्रियते, तथा वासनावृतो जीवः सुप्तो विरत-समस्त-करणो विश्वास-स्थानं ब्रह्म सम्पद्यापि पुन-भोगायोत्तिष्ठति । न च निर्वासनवत् तत्-सारूप्यम् उपैति । तद् एतच् च कर्मादिभ्योऽवगतम् इति ॥९॥

रामपद चट्टोपाध्याय : ११।३।४०, ११।१३।३१, ११।२८।१५, ११।२५।१९।

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।२७-२८, ११।३।३९

अधिकरणम् १४ (मुग्धाधिकरणम्)

प्रसङ्गद् इदं चिन्त्यते—मूर्च्छायां ब्रह्मणि सम्प्राप्तिर् अर्द्ध-प्राप्तिर् वा जीवस्येति विषये तस्याः सुप्ति-विशेषत्वात् तद्वत् सम्प्राप्तिर् एवेति प्राप्ते—

मुग्धेऽर्ध-सम्पत्तिः परिशेषात्

मुग्धे मूर्च्छिते सति पुरुषे तस्य ब्रह्मण्य् अर्ध-प्राप्तिर् भवति । कुतः ? परिशेषात् । दृश्सर्वानुसन्धानात् न सुप्तिवत् तत्-सम्प्राप्तिः । विषयादर्शनाज् जागरादिवन् नाप्राप्तिः । किन्तु पारिशेष्याद् अर्ध-प्राप्तिर् एवेत्य् अर्थः ।

हृदय-स्थात् पराज् जीवो दूरस्थो जाग्रद् एष्यति ।
समीपस्थस् तथा स्वप्नं स्वपित्य् अस्मिन् लयं व्रजन् ।
अत एवं त्रयोऽवस्था मोहस् तु पारिशेषतः ।
अर्ध-प्राप्तिर् इति ज्ञेयो दृश्सर्व-मात्रं प्रति स्मृतेः ॥ इति हि स्मृतिः ॥

दूरस्थोऽक्षिस्थः समीपस्थः कण्ठस्थः ।

ननु देहस्थस्य जीवस्य तिस्रोऽवस्थाः श्रूयन्ते । जागरः स्वप्नः सुषुप्तिर् इति । नातोऽन्या क्वचिद् ईक्षते । तस्मान् मूर्च्छा नाम पृथग्-अवस्था नास्तिति, तिसृणाम् अन्यतमैव सेति चेन् न, अन्यत्वात् । तथा हि, न तावज् जागरो मूर्च्छा इन्द्रियैर् विषयावीक्षणात् । नापि स्वप्नः निःसंज्ञत्व्त् । न च सुप्तिः मुख-प्रसाद-निष्कम्पत्वाद्य्-अभावात् । तस्माद् अवस्थान्तरम् एव परिशेषाद् अवसीयते । सा चेयं लोके वैद्यके च प्रसिद्धेति । तथा च जागर-स्वप्नादि-निखिल-कर्तृत्व-रूपो यस्य महिमा स हरिर् एव सेव्य इति प्रकरणाभिप्रायः ॥१०॥

रामपद चट्टोपाध्याय : वि।पु। ६।५।८४-८५

भागवत-भाष्यम् (हरिदास शास्त्री): ६।१६।६१-६२, ३।३०।२३, ३।३१।६

अधिकरणम् १५ (उभय-लिङ्गाधिकरणम्)

एवं निखिल-नियामकतया भगवतो महिमा दर्शितः । इदानीं बहुधावभातोऽप्य् ऐक्यं स्वस्मिन् न त्यजतीत्य् अविचिन्त्य स्वरूपता तस्य दर्श्यते । यद्यपि प्रकाशादिवन् नैवं परः इत्य् आदिना उक्तम् एतत् तथापि युगपद् बहु-भावेन भेद-प्रतीतो न समाहितम् अतोऽत्राचिन्त्यत्वेन तत्-समर्थनम् । एकोऽपि सन् बहुधा योऽवभाति इत्य् आदि श्रुतम् ।

तत्र संशयः—नाना-विधेषु स्थानेषु स्थितानि भगवतो बहूनि रूपाणि मिथो भिन्नानि न वेति । स्थान-भेदेन स्थानिनोऽपि भेदाद् भिन्नानि तानि । नहि मिथो विलक्षण-स्थान-संस्थान-गुणादीनि वस्तून्य् अभेदं लब्धुम् अर्हन्ति । एकोऽपि सन्न् इति तु सामान्याभिप्रायं भावि । ततश् च वस्तुनो भिन्नेषु बहुष्व् अनेकेश्वरतापत्तिस् तस्यां च सत्यां बहु-विषया भक्तिर् एकस्यासम्भाविनीति । एवं प्राप्ते—

न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र हि

परस्य भगवतः स्वरूपं स्थानतोऽपि नोभय-लिङ्गम् उभय-लक्षणम् । स्थान-भेदेऽपि स्थानि विशेष्यं न भिद्यते इत्य् अर्थः । हि यस्माद् एकम् एव स्वरूपम् अचिन्त्य-शक्त्या युगपत् सर्वत्रावभाति, एकोऽपि सन्न् इति श्रुतेः । स्थानानि भगवद्-आविर्भावास्पदानि तद्-विविध-लीलाश्रय-भूतानि संव्योम-शब्दितानि । विविध-भाववन्तो भक्ताश् च । तेषु सर्वेष्व् एकम् एव स्वरूपं विभाति ॥११॥

रामपद चट्टोपाध्याय : १।१०।२१-२२, १।१०।२४, १।९।३९, ८।१।११, ८।३।२४।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।३३।१९, १०।३३।१६, ३।३२।३३

अधिकरणम् १६

न भेदाद् इति चेन् न प्रत्येकम् अतद्-वचनात्

बहुधावभातस्यापि तात्त्विकत्वेन भेदाभेद-प्राप्तेः पूर्वोक्तं न युक्तम् इति चेन्, न । कुतः ? प्रतीत्य्-आदेः इन्द्रो मायाभिः पुरु-रूपः ईयते युक्ता ह्य् अस्य हरयः शतादशेत्य् अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि च तद् एतद् ब्रह्मापूर्वम् अनपरम् अनतरम् अबाह्यम् अयम् आत्मा ब्रह्म सर्वानुभूतिर् इत्य् अनुशासनम् [बृ.आ.उ. २.५.१९] इति बृहद्-आरण्यके सर्वेषां रूपाणाम् ऐक्योक्तेर् इत्य् अर्थः ॥१२॥

रामपद चट्टोपाध्याय : ८।१।१३-१४, ८।५।१९, ५।११।१२-१३

भागवत-भाष्यम् (हरिदास शास्त्री): १०।६९।२

अपि चैवम् एकम्

अपि चेति किं चेत्य् अर्थः । अमात्रोऽनन्त-मात्रश् च [माण्डूक्य-कारिका २९] इत्य् एके शाखिन एवम् अभेदेनानन्त-रूपत्वेन चैनं पठन्ति । अमात्रः स्वांश-भेद-शून्यः । अनन्त-मात्रोऽसङ्ख्येय-स्वांशः ।

एक एव परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते ॥ इति स्मृतेश् च ।

अयं भावः—यथैक एव वैदूर्य-मणिर् द्रष्टृ-भेदाद् रूप-भेदान् दधानोऽपि, यथा वाभिनेता नटः स्व-स्थितान् भावान् प्रकटयन् बहुधावभातोऽप्य् ऐक्यं स्वस्मिन् न विमुञ्चति, एवं ध्यातृ-भाव-भेदात् कार्य-भेदाच् चानेकतया प्रतीतोऽपि हरिः स्वरूपैक्यं स्वस्मिन् न मुञ्चति ।

मणिर् यथा विभागेन नील-पीतादिभिर् युतः ।
रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथाच्युतः ॥ [विष्णु-तन्त्र]
यत् तद् वपुर् भाति विभूषणायुधैर्
अव्यक्त-चिद्-व्यक्तम् अधारयद् धरिः ।
बभूव तेनैव स वामनो वटुः
सम्पश्यतोर् दिव्य-गतिर् यथा नटः ॥ [भा.पु. ८.१८.१२]

इत्य् आदि स्मृतिभ्यः । मणिर् अत्र वैदूर्यः । नटोऽभिनेता । तथा चैकस्यैव सतोऽविचिन्त्य-शक्तेर् विरुद्ध-गुणाश्रयस्य युगपद् बहुधावभासोऽपि तस्मिन् विरुद्ध-धी-विषयो गुण एवेति । तस्मिन्न् एकस्मिन्न् एवाविचिन्त्य-शक्तिके सर्वेश्वरे भक्तिर् उपपन्नेति ॥१३॥

रामपद चट्टोपाध्याय : ११।११।६-७

भागवत-भाष्यम् (हरिदास शास्त्री): ९।१८।१२।

अधिकरणम् १७ (अरूपवद्-अधिकरणम्)

अथात्म-विग्रहत्वं भगवतः प्रतिपाद्यते । विग्रहस्यात्मनो भेदे सत्यात्मोपसर्जने तस्मिन् भक्तिर् अप्य् उपसर्जनी-भावम् आसीद् इति चेन्, न चैवम् अस्ति । तत्रैव तस्या प्राधान्येनानुभवात् । तथा हि—सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे [गो.ता.उ. १.२], तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो.ता.उ. १.२९] इत्य् आद्कम् अथर्व-शिरसि श्रूयते । तत्र ब्रह्म विग्रहवन् न वेति संशये सच्-चिद्-आनन्दो रूपं यय्सेति बहुव्रीह्य्-आश्रयणाद् विष्णोर् मूर्तिर् इत्य् आदि व्यपदेशाच् च विग्रहवत् तद् इति प्राप्ते—

अरूपवद् एव हि तत्-प्रधानत्वात्

रूपं विग्रहस् तद्-विशिष्टं ब्रह्म न भवतीति, अरूपवद् इत्य् उच्यते विग्रहस् तद् इत्य् अर्थः । युक्ति-निरासार्थम् एव-शब्दः । कुतः ? तद् इति । तस्य रूपस्यैव प्रधानत्वाद् आत्मत्वात् । विभुत्व-ज्ञातृत्व-प्रत्यक्-वादि-धर्मित्वाद् इत्य् अर्थः ॥१४॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।२७।११।

ननु चिन्त्यमानेन ज्ञानानन्देन परमात्म-वस्तुना जड-दृश्सर्व-रूपत्वेन तद्-विरुद्धा प्रकृतिर् निवर्तेतैव तादृशि ब्रह्मणि विग्रहवत्त्वं सूत्र-कृता कथम् अब्युपेयते इति चेत्, तत्राह—

प्रकाशवच् चावैयर्थ्यात्

शङ्का-निरासाय च-शब्दः । सप्तम्य्-अन्ताद् इवार्थे वतिः । प्रकाशैक-रूपेऽपि रवौ विग्रहवत्त्वस्य यथा ध्यान-हेतुत्वाद् अवैयर्थ्यं तथा ज्ञानानन्दैक-रसेऽपि ब्रह्मणि तस्य तन् मन्तव्यम् । तद्-धेतुत्वाद् एव । इतरथा ध्यानानुपपत्तिः । ध्यायति कान्तं विरहिणी इत्य् आदौ विग्रह-विषयं तद् दृष्टम् ॥१५॥

रामपद चट्टोपाध्याय : २।७।४१, १०।१४।२९, १०।६३।३९, १।२।११

भागवत-भाष्यम् (हरिदास शास्त्री): १०।३।१३, १०।३।२४।

न च ध्यानार्थम् असद् एव तत्त्वं तत्र कल्प्यते । यत् तत्र प्रमाणम् अस्तीत्य् आह—

आह च तन्-मात्रम्

अवधृतौ मात्र-शब्दः । तं विग्रहम् एव यस्मात् परमात्मानम् आह श्रुतिर् अतः प्रमेयं तत्त्वम् इत्य् अर्थः । तत्रैव श्रूयते—

सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥ [गो.ता.उ. १.९]

अत्र पुण्डरीकाक्षत्वादि-धर्मा स-विग्रह एव ईश्वर इति विस्फुटम् । देह-देहि-भिदा चैव नेश्वरे विद्यते क्वचित् इति स्मृतिश् च । तथाह—अत्र देहाद् भिन्नो देहीत्य् एवं भिदेश्वर-वस्तुनि नास्ति । किं तु देह एव देहीति लब्धम् ॥१६॥

रामपद चट्टोपाध्याय : १०।१३।५४, १।१८।२३, १२।८।४३

दर्शयति चाथो अपि स्मर्यते

साक्षात्-प्रकृति-परो योऽयम् आत्मा गोपालः कथं त्व् अवतीर्णो भूम्यां हि वै [गो.ता.उ. २.२३] इति तत्रैवोत्तरत्र पठिता श्रुतिः परमात्मानम् एव विग्रहं दर्शयति । गोपाल-शब्दः खलु परम-कमनीय-पाद-मुखादि-संनिवेशिन्य् अभ्र-श्यामे सर्वेशे वस्तुनि मुख्यः । पूर्वत्र--गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम्, सत्-पुण्डरीक-नयनं [गो.ता.उ. १.८-९] इत्य् आदि श्रवणात् । स्मर्यते चात्मैव विग्रह इति ।

ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ इत्य् आदिभिः ।

अथो-शब्दः कार्त्स्न्ये । सूत्राभ्यां व्यतिहारो दर्शितः । विग्रह एवात्मा । आत्मैव विग्रह इति । तथा च श्रीय्-आदि-गम्येऽविचिन्त्येऽर्थे तर्कानवताराद् आत्म-विग्रहत्वं सिद्धम् । तेन परैव तत्र भक्तिः स्याद् इति । विज्ञानानन्दस्यात्मनो मूर्तत्वम् अलौकिक-वस्तुत्वात् श्रुति-मात्रात् प्रतिपत्तव्यम् । तन्-मूर्तत्वं खलु भक्ति-भावित्वेन हृदा ग्राह्यं गान्धर्व-वासितेन श्रोत्रेण राग-मूर्तित्वम् इव । अन्यथा विज्ञान-घनानन्द-घनेति श्रुतिर् व्याकुप्येत् । तद् एवं प्रत्यक्त्वादयो धर्माः श्रीइ-विग्रहस्यैव । तस्मिन्न् अन्यथा विभानं तु माययैव भवति ।

एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते ।
इच्छन् मुहूर्तान् नश्येयम् ईशोऽहं जगतो गुरुः ।
मात्रात्म ह्य् एषा मया सृष्टा यन् मां पश्यअसि नारद ।
सर्व-भूत-गुणैर् युक्तं नैव त्वं ज्ञातुम् अर्हसि ॥ इति स्मृतेः ।

नश्येयम् अदृश्यः स्याम् इत्य् अर्थः ॥१७॥

रामपद चट्टोपाध्याय : ८।३।२१, ८।३।२३, ७।९।४७, १०।२।३४-३७।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।१-२

अधिकरणम् १८ (उपमाधिकरणम्)

अथ भजद्भ्यो भजनीयस्य भेदः प्रतिपाद्यते । इतरथा स्वाभेदावभासे स्वस्मिन्न् आराध्यत्व-बुद्धेर् अनुदयाद् भक्तिर् नोपजायेत । यद्यपि जीवान्यत्वं बहुकृत्वः प्रतिपादितं, तथापि प्रतिबिम्ब-शास्त्र-विभ्रान्तः कश्चित् तद्-अभेदम् आचक्षीत तत्-परिहाराय विद्यान्तरम् एतत् ।

बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले ।
एवम् एवात्मका लोके परात्म-सदृशा मता ॥ इत्य् आदि श्रूयते ।

इह भवति संशयः । आनन्द-चिन्-मूर्तिः परमात्मा पूर्वं निरूपितः । स एव किं कयाचिद् अवस्थया जीवः किं वा जीवाद् अन्योऽसाव् इति किं प्राप्तम् ? स एव जीव इति । असयिवाविद्यायां प्रतिबिम्बितस्य जीव-रूपत्वात् । प्रतिबिम्बो हि बिम्बान् नार्थान्तरम् अन्वय-व्यतिरेकाभ्यां तथा निश्चयात् । अत उक्तं—

दर्पणाभिहिता दृष्टिः परावृत्त्य स्वम् आननम् ।
व्याप्नुवत्याभिमुख्येन व्यत्यस्तं दर्शयेन् मुखम् ॥ इति ।

तस्मात् परमात्मैविद्या-योगाज् जीव इति प्राप्ते प्रतिविधत्ते—

अत एव चोपमा सूर्यकादिवत्

यस्मात् परमात्मनोऽन्यो जीवोऽत एव सूर्यकादिवद् इति तस्योपमा श्रूयते । न ह्य् अभेदे बिम्ब-प्रतिबिम्ब-भावः । तथा सति वह्नि-च्छायया दाहः स्वङ्गाभासेन छेदश् च स्यात् । न च तस्मिन् सादृश्यं तस्य भेद-तन्त्रत्वात् । च-कारोऽन्यान् भेद-हेतून् समुच्चिनोति । तस्माज् जीव-विलक्षणः परमात्मेति ॥१८॥

रामपद चट्टोपाध्याय : ११।१८।३१, १०।५४।४४, ३।२८।४३।

भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।६, ६।१६।४६

नन्व् अस्तु तयोपमया जीव-परयोर् भेदः । किन्तु चिद्-आभासत्वं जीवस्य ततः प्राप्तम् । यथाम्बुनि सूर्यस्याभासः सूर्यक उच्यते, तथाविद्यायां परस्याभासो जीव इति । एतन् निरस्यति—

अम्बुवद् अग्रहणात् तु न तथात्वम्

तुर् अवधारणे । षष्ठ्य्-अन्तात् सप्तम्य्-अन्ताद् वा वतिः । अम्बुवद् बिम्ब-विप्रकृष्टस्योपाधेर् अग्रहणान् न तथात्वम् । परमात्मनो विभुत्वेन तद्-विदूर-पदार्थ-प्रसिद्धेर् उपमेय-कोटेर् उपमान-कोटि-तुल्यत्वं नेत्य् अर्थः । बिम्ब-विदूरे जलाद्य्-उपाधौ परिच्छिन्नस्य सूर्यादेर् आभासो गृह्यते, नैवं परमात्मनः तस्यापरिच्छेदात् । अतो न तथात्वम् इति वा, परमात्मनः प्रतिबिम्बो जीवो न भवति । अलोहितम् अच्छायम् इति श्रुतेः । किन्तु तद्वच् चेतन एव सः—नित्यो नित्यानां चेतनश् चेतनानाम् इति तदापत्तिः । न चात्र शब्दोऽपि दृष्टान्तः वैधर्म्यात् । तस्माद् विष्णोः प्रतिबिम्बो नेति ॥१९॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१।१४

अथ शास्त्रं सङ्गमयति—

वृद्धि-ह्रास-भाक्त्वम् अन्तर्भावाद् उभय-सामञ्जस्याद् एवम्

प्रतिबिम्ब-शास्त्रेण मुख्यया वृत्त्या नायं दृष्टान्तः प्रयुज्यते, किन्तु गुण-वृत्त्यैव वृद्धि-ह्रास-भाक्त्वम् । साधर्म्यांशम् आश्रित्य उपलक्षणम् एतत् । कुतः ? अन्तर्भावात् । एतस्मिन्न् एवांशे शास्त्र-तात्पर्य-परिसमाप्तेर् इत्य् अर्थः । एवं सत्य् उभय-सामञ्जस्यात् । उपमानोपमेययोः सङ्गतेर् इत्य् अर्थः । अयं भावः—पूर्व-सूत्रे बिम्ब-प्रतिबिम्ब-भावस्य मुख्यस्य निरासात् किञ्चित् साधर्म्यम् आदाय प्रकृते तद्-भावः प्रकीर्त्यते । तच् चेत्थं बोध्यं—सूर्यो हि वृद्धि-भाक् जलाद्य्-उपाधि-धर्मैर् असम्पृक्तः स्वतन्त्रश् च तत्- प्रतिबिम्बाः सूर्यकास् तद्-ध्रास-भाजो जलाद्य्-उपाधि-धर्म-योजिनः परतन्त्राश् च भवन्त्य् एवं परमात्मा विभुः प्रकृटि-धर्मैर् असम्पृक्तः स्वन्तन्त्रश् च, तद्-अंशकाः जीवास् त्व् अणवः प्रकृति-धर्म-योगिनः पर-तन्त्राश् चेति । तस्माद् इयम् उपमा तद्-भिन्नत्व-तद्-अधीनत्व-तत्-सादृश्यैर् एव धर्मैः सिद्धा । न तूपाधि-प्रतिफलित-रूपाभासत्वेन धर्मेणेति । अत एव निरुपाधि-प्रतिबिम्बो जीव इत्य् आह पैङ्गि-श्रुतिः ।

सोपाधिर् अनुपाधिश् च प्रतिबिम्बो द्विधेष्यते ।
जीव ईशस्यानुपाधिर् इन्द्रचापो यथा रवेः ॥ इति ॥२०॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।७।११

दर्शनाच् च

सिंहो देवदत्त इत्य् आदयः प्रयोगा विवक्षित-साधर्म्यांशम् आश्रित्य लोके प्रवृत्ता दृश्यन्ते । तस्माच् च गौण्यैव वृत्त्या शास्त्र-सङ्गतिर् इति भावः ॥२१॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।७।१६

ननु नैतद् उपपद्यते परमात्मवच् चेतनो जीव इति, किन्तु तद्-आभास एव सः । बृहद्-आरण्यके द्वे वाव [बृ.आ.उ. २.३.१] इत्य् आदिना तद्-अन्य-वस्तु-मात्र-प्रतिषेधात् । तथा हि—द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च इत्य् उपक्रम्य, द्वैराश्येन विभक्तानि पञ्च-भूतानि ब्रह्मणो रूपत्वेन परामृश्य, तस्य हैतस्य पुरुषस्य रूपं, यथा माहारजनं वासो यथा पाण्ड्व्-आविकं यथेन्द्रगोपो यथाऽअग्न्य्-अर्चिर् यथा पुण्डरीकं यथा सकृद्-विद्युत्तम् । सकृद् विद्युत्तेव ह वा अस्य श्रीर् भवति य एवं वेद [बृ.आ.उ. २.३.६] इत्य् अनेन पुनः पुरुष-शब्दोदितस्य तस्य माहारजनादीनि रूपाणि दर्शय्तिवेदम् आम्नायते—अथात आदेशो नेति नेति । न ह्य् एतस्माद् इति । नेत्य् अन्यत् परम् अस्ति । अथ नाम-धेयं सत्यस्य सत्यम् इति । प्राणा वै सत्यम् । तेषाम् एष सत्यम् इति । अस्यार्थः—अथ सप्रपञ्च-मूर्तामूर्तादि-रूप-निरूपणानन्तरं यस्मात् तत्-परिज्ञानान् निरतिशयं श्रेयो नास्ति, अतो नेति नेति इत्य् आदेशः । नेति नेतीत्य् उपदेश्यमानं ब्रह्मैव बोध्यम् इत्य् अर्थः । तत्र वासना-राशि-भूत-राश्योर् जड-चेतनयोर् वा तद्-अन्ययोः प्रतिषेधाय वीप्सा । आदेशार्थम् एवाह—न हीति । एतस्माद् ब्रह्मणोऽन्यन् न ह्य् अस्तीति नेतीत्य् उच्यते ।

ननु प्रपञ्चवद् ब्रह्मापि न स्यात् । नेत्य् आह—अन्यद् दृश्यात् प्रपञ्चाद् विलक्षणं परं स्वरूप्-भ्रमावधि-भूतं सन्-मात्रं ब्रह्म-स्वरूपम् अस्तीति । तथा च नेतीति ब्रह्मान्य-वस्तु-मात्र-निषेधात् तस्य भिन्नस् तद्वच् चेतनश् च जीव इति नोपयुक्ता भणितिर् इति तु ब्रह्मैवाविद्यायां प्रतिबिम्बितं जीव-रूपम् इति युज्यते । यत् तु जीव-परौ द्वाव् आत्मानौ भवतः तयोर् भेदे कारणम् अणुत्व-विभुत्वादि-धर्म-जातम् इत्य् उक्तं तत् किल घटाकाश-महाकाश-गतम् अल्पत्व-विभुत्वादिकम् इव तयोर् भेदाय नालं कल्पितत्वाद् इति चेत् तत्राह—

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः

न ह्य् एषा श्रुतिर् निर्विशेषम् एकम् एव ब्रह्मेति प्रतिपादयन्ती तद् अन्यद् वस्तु-मात्रं प्रतिषेधति । किं तर्हि रूप-विशिष्टं तद् ब्रुवन्टि प्रकृतैतावत्त्वं प्रतिषेधति । द्वे वाव [बृ.आ.उ २.४.१] इत्य् आदिना । यानि रूपाणि मूर्तामूर्तादीनि प्रकृतानि तैर् यद् ब्रह्मण एतावत्त्वम् इयत्ता तत् प्रत्याख्याति, न तु प्रकृतानि रूपाणीति । ततः प्रतिषेधानन्तरं भूयः प्रचुरं तस्य सत्य-नामादिकं रूपं ब्रवीति च । ततश् चायम् आदेश-वाक्यार्थः ।

अथ मूर्तादि-रूप-निरूपणानन्तरम् । यस्माद् अपरिमित-रूपं ब्रह्म, अतो नेति नेतीत्य् आदेशः । इति-शब्दस्य समाप्त्य्-अर्थकत्वात् । इति न पूर्वोक्त-मूर्तादि-लक्षणम् इयत्त्वावद् एव ब्रह्मणो रूपं नेत्य् अर्थः, किन्तु नेति स सत्य-नामादिकम् अनीयद् रूपम् अस्तीति । एतम् अर्थ्ं श्रुतिर् एव व्याचष्टे । न ह्य् एतस्माद् [बृ.आ.उ २.३.६] इत्य् आदिना ।

अस्यार्थः—एतस्मान् मूर्तादि-लक्षणाद् रूपात् परम् अन्यत् सत्य-नामादि-रूपम् इति इयद् एव न वाच्यम् । किं तर्हि ? नेति । तेन रूपान्तराणाम् उपलक्षणाद् अनियद् एव तद् वाच्यम् इत्य् अर्थः । तद् एव दिक्-प्रदर्शनार्थम् आह—अथ नाम-धेयम् इति, सत्यस्य सत्यम् इति । यन् नाम तच् च ब्रह्मणो रूपं ब्रवीति । तस्य निरुक्तिः प्राणो वै सत्यम् इति । प्राणाः प्राणिनः । रूपाण्य् अर विशेषाः । इह हि प्राकृताप्राकृतानन्त-विशेषण-वैशिष्ट्यं ब्रह्मणः प्रतिपाद्यते । न तु तद् अन्यत् वस्तु-मात्रं प्रतिषिध्यते । तत्र मूर्तामूर्तानि रूपाणि प्राकृतानि । माहारजनादीनि त्व् अप्राक्रियानीति बोध्यम् । प्राण-शब्दितानां जीवानां सत्य-शब्द-वाच्यत्वम् । खादिवत् स्वरूपान्यथाभावात्मक-परिणामाभावात् तेभ्योऽपि भाव्णोऽपि सत्यत्वं, तद्वज् ज्ञान-सङ्कोच-विकाशात्मकस्य परिणामस्य तस्मिन्न् अभावात् । तस्मान् नित्य-चैतन्यात्मको जीवस् तद्-विलक्षणोऽनन्त-कल्याण-गुण-गणः पूर्वात्मेत्य् उपपन्ना तस्मिन् भक्तिर् इति ।

इह रूप-मात्र-निषेधे श्रुत्य्-अभिमते सति माहारजनादि-सदृशं रूपम् अलोक-सिद्धं स्वयम् उपदिश्य पुनर् निषेध-कारिण्यास् तस्या उन्मत्त-प्रलपितापत्तिः । सूत्रकारोऽप्य् एतावत्त्वम् इति प्रयुञ्जानोऽसमीक्ष्य-कारितायै कल्प्यते । एतद्-रूपं प्रतिषेधतीत्य् एव सूत्रयेत् । तस्माद् यथोक्तम् एव साधीयः ॥२२॥

रामपद चट्टोपाध्याय : १०।२।२६, १०।१४।७, १०।८७।३७, ८।३।२४, ११।३।३६-३७, १२।६।२७, १०।३।२५

अधिकरणम् १९ (अव्यक्ताधिकरणम्)

अथ प्रत्यग्-रूपत्वं प्रतिपाद्यते । अन्यथा घटादिवत् सर्व-सौलभ्ये भक्तिस् तस्मिन् न स्यात् । तथा हि सच्-चिद्-आनन्द-रूपायेत्य् आदि श्रूयते । तत्र विग्रहात्मकं परं ब्रह्म ग्राह्यं प्रत्यग् वेति संशये सुरासुर-मनुष्य-प्रत्यक्षत्वात् ग्राह्यम् इति प्राप्ते—

तद् अव्यक्तम् आह हि

तद् ब्रह्म स्वतो व्यक्तं प्रत्यग् एव हि यस्मात्—न सदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् [क.उ. २.३.९] इति कठ-श्रुतिस् तथाह । अगृह्यो न हि गृह्यते [बृ.आ.उ ३.९.२६] इति श्रुत्य्-अन्तरं च । अव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् [गीता ८.२१] इति स्मृतिश् च ॥२३॥

रामपद चट्टोपाध्याय : ६।३।१६, १०।१०।३२

अधिकरणम् २० (संराधनाधिकरणम्)

अथ प्रतीचोऽपि तस्य ज्ञान-भक्ति-लभ्यत्वं दर्शयति । सर्वथा दौर्लभ्ये नैराश्येन भक्तेर् अनुदयः । तथा हि श्रूयते कैवल्योपनिषदि—श्रद्धा-भक्ति-ध्यान-योगाद् अवैति इति । अत्र श्रद्धालुर् भक्तिमान् हरिं ध्यायन् प्राप्नोतीति प्रतीयते । इह मानसेन प्रत्यक्षेण ग्राह्यो हरिर् उत चक्षुर्-आदिना वेति वीक्षायां मनसैवेदम् आप्तत्वम्, मनसैवानुद्रष्टव्यम् इति सावधारणाद् बृहद्-आरण्यक-वाक्यात् मानसेनैव तेन ग्राह्य इति प्राप्ते—

अपि संराधने प्रत्यक्षानुमानाभ्याम्

अपिर् अत्र गर्हायाम् । गर्हितोऽयं पूर्व-पक्षः । संराधने सम्यग् भक्तौ सत्यां चाक्षुषादिना प्रत्यक्षेण ग्राह्योऽसौ भवति । कुतः ? श्रुति-स्मृतिभ्याम् इत्य् अर्थः ।

पराञ्चि खानि व्यतृणत् स्वयम्भूस्
तस्मात् परां पश्यति नान्तरात्मन् ।
कश्चिद् धीरः प्रत्यग् आत्मानम् ऐक्षद्
आवृत्त-चक्षुर् अमृतत्वम् इच्छन् ॥ [क.उ. २.१.१] इति काठके ।
ज्ञान-प्रसादेन विशुद्ध-सत्त्वस्

ततस् तु तं पश्यते निष्कलं ध्यायमानः ॥ [मु.उ. ३.१.८] इति मुण्डाके च विद्वद्-भक्त-दृश्यत्व-श्रवणात् ।

नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥
भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ [गीता ११.५३-५४] इत्य् आदि स्मरणाच् च ।

तस्मात् सम्यग्-भक्त्या ग्राह्यः श्री-हरिर् इति सिद्धम् । चक्षुर्-आदीनि तु तया भावितानि । अतस् तैः स वेद्यः । एवं सति एव-कारोऽयोग-व्यवच्छेदी भवेत् ॥२४॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।९।११

प्रकाशादिवच् चावैशेष्यात्

नेत्य् अनुवर्तते । प्रकाशो वह्निः स यथा सूक्ष्म-रूपेणाव्यक्तः, स्थूल-रूपेण तु दृश्यते एवम् ईश्वर इति चेत्, न । कुतः ? अग्निवत् सौक्ष्म्य-स्थौल्य-विशेषाभावात्, अस्थूलम् अनण्व् अह्रस्वम् [बृ.आ.उ ३.८.८] इति श्रुतेः ।

स्थूल-सूक्ष्म-विशेषोऽत्र न कश्चित् परमेश्वरे ।
सर्वत्रैव प्रकाशोऽसौ सर्व-रूपेष्व् अजो यतः ॥ इति स्मृतेश् च ॥२५॥

रामपद चट्टोपाध्याय : १२।४।२९, ११।२८।३४-३५, ११।२०।२९-३०, ११।२५।२९-३५, ११।२।३४।

भागवत-भाष्यम् (हरिदास शास्त्री): ३।९।३

ननु सम्यग् भक्त्या साक्षात्कृतिर् अनुपपन्ना । तद्वत्स्व् अपि तद्-अदर्शनाद् इत्य् आशङ्क्याह—

प्रकाशश् च कर्मण्य् अभ्यासात्

शङ्का-च्छेदाय च-शब्दः । तद्-ध्यान-निर्मिते कर्मण्य् अर्चनादिकेऽभ्यासात् तत्-प्रकाशो भवेद् एव । ध्यान-निर्मथनाभ्यासाद् देवं पश्येन् निगूढवत् इति ब्रह्मोपनिषदि तथा दर्शनात् । अभ्यासेन स्नेहताम् आपद्यते । ततो दर्शनम् ।

न तम् आराधयित्वापि कश्चिद् व्यक्तीकरिष्यति ।
नित्याव्यक्तो यतो देवः परमात्मआ सनातनः ॥ इति ।

अत्र तु स्नेह-विहीनम् आराधनं बोद्यम् ॥२६॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।९।४

ननु प्रत्यङ्ङ् ईश्वरस् तस्य पुनर् अभिव्यक्तिर् इति इदम् अभिधानं विरुद्धम् । साक्षात्कार-साधनोक्ति-वैयर्थ्यात् प्रत्यक्त्व-प्रहाणाच् चेत्, तत्राह—

अतोऽनन्तेन तथा हि लिङ्गम्

अतः प्रत्य्क्त्वे ध्यातृ-गोचरत्वे च प्रमाण-लाभाद् अनन्तेनापरिच्छिन्नेन प्रतीचापि भगवता भक्ति-प्रसनेन स्व-भक्तेषु स्व-स्वरूपम् अभिव्यज्यते निजाचिन्त्य-कृपा-शक्ति-योगाद् इति स्वीकारणम् । इदं कुतः ? तत्राह—तथेति । विज्ञान-घन आनन्द-घनः सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो.ता.उ. २.७८] इत्य् अथर्व-श्रुति-लिङ्गाद् इत्य् अर्थः । कृपयैव भजत्सु व्यक्तिः ।

नित्याव्यक्तोऽपि भगवान् ईक्षते निज-शक्तितः ।
ताम् ऋते परमात्मानं कः पश्येतामितं प्रभुम् ॥ इति स्मृतेः ।

स्वयं चाप्य् एतद् व्यञ्जितम्—

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः ।
परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥ [गीता ७.२४] इति ।

प्रेम्णा गोचरेऽपि प्रत्यक्त्वं न हीयते । तस्य स्वरूप-शक्ति-वृत्तित्वात् । प्रेम-विहीनेषु त्व् आभास-रूपेणैव व्यक्तिः । नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति तद्-उक्तेः । अत एव परमानन्दादि-रूपस्य तस्य दारुणत्वादिनावभासः । तथा च प्रेमेतर-करणाग्राह्यत्वम् एव प्रत्यक्त्वम् ॥२७॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।९।५

१२। अहिकुण्डलाधिकरणम्

अथ स्वरूपाद् गुणनाम-भेदः प्रतिपाद्यते । भेदे हि तस्मात् तेषां गौण्यात् तद्-भक्तेर् अपि तत् स्यान् न चैवम् अस्ति तेषु तस्याः प्राधान्येनानुभवात् । विज्ञानम् आनन्दं ब्रह्म [बृ.आ.उ ३.९.२८], यः सर्वज्ञः सर्ववित् [मु.उ. १.१.९, २.२.७], आनन्दं ब्रह्मणो विद्वान् [तै.उ. २.२.९] इत्य् आदीनि वाक्यानि श्रूयन्ते । तत्र संशयः—भजनीयं ब्रह्म ज्ञानानन्दो ज्ञानानन्दि वेएति । द्विविध-वाक्य-दृष्टेर् अनिर्णयेन भाव्यम् इति प्राप्ते—

उभय-व्यपदेशात् त्व् अहि-कुण्डलवत्

ज्ञानानन्द-स्वरूपस्य ब्रह्मणो ज्ञानानन्दो धर्मत्वेन मन्तव्यः अहि-कुण्डलवत् । कुण्डलात्मनोऽप्य् अहेर् यथा कुण्डलं विशेषणत्वेन मन्यते तद्वत् । कुत एतत् तत्राह उभयेति । उक्त-श्रुतिषूभयाभिधानाद् इत्य् अर्थः । तु-शब्देन श्रुत्य्-एक-गम्यता दर्शिता । अविचिन्त्यत्वाद् इत्थं भाति । न च द्विविध-वाक्योपलम्भात् पाक्षिकं स्वरूपं, न वा स्वगत-भेदवद् इति ॥२८॥

रामपद चट्टोपाध्याय : २।१।३९, ४।९।१६, १०।३।१४, १।५।२०, ११।२।३९, २।३।१०।

भागवत-भाष्यम् (हरिदास शास्त्री): ४।११।३०, ३।२।१२

प्रकाशाश्रयवद् वा तेजस्त्वात्

ब्रह्मणस् तेजस्त्वाच् चैतन्य-स्वरूपत्वात् प्रकाशाश्रयवद् वा तस्य निर्णयः स्यात् । प्रकाशात्मा रविर् यथा प्रकाशाश्रयो भवत्य् एवं ज्ञानात्मा हरिर् ज्ञानाश्रय इत्य् अर्थः । अविद्या-विरोधि तिमिर-विरोधि च वस्तु तेजः कथ्यते ॥२९॥

पूर्ववद् वा

यथा पूर्वः काल इत्य् एक एवावच्छेद्योऽवच्छेदकश् च प्रतीयते तद्वज् ज्ञानानन्दोऽर्थो धर्मो धर्मी च प्रत्येतव्यः आनन्देन त्व् अभिन्नेन व्यवहारः प्रकाशवत् । पूर्ववद् वा यथा कालः स्वावच्छेदकतां व्रजेद् इति यथोत्तरं दृष्टान्ताः सूक्ष्माः ॥३०॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।३।१३

प्रतिषेधाच् च

चोऽवधारणे ।

मनसैवेदम् आप्तव्यं नेह नानाऽस्ति किंचन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ [क.उ. २.१.११]
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस् तान् एवानुविधावति ॥ [क.उ. २.१.१४] इति कठ-श्रुतौ ।
निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो
निश्चेतनात्मक-शरीर-गुणैश् च हीनः ।
आनन्द-मात्र-कर-पाद-मुखोदरादिः
सर्वत्र च स्व-गत-भेद-विवर्जितात्मा ॥ इत्य् आदि स्मृतौ च ।

गुण-गुणि-भेद-निषेधात् स्वरूपात् गुणा न भिद्यन्ते । अत एव ज्ञानादीनां धर्माणां भगवच्-छब्द-वाच्यता स्मर्यते—

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ इति ।

तथा चैकस्यैव द्वेधा भणितिर् अम्बु-वीचिवत् विशेषाद् भवति । एवं रसावस्थस्य तस्य रसानन्दश् च स्वोल्लास-वपुर् अभ्युपेयः । नित्यश् चैषः कर्म-नित्यत्व-विनिर्णयात् । विशेषस् तु भेद-प्रतिनिधिर् भेदाभावेऽपि भेद-कार्यस्य धर्म-धर्मि-भावादेर् व्यवहारस्य निर्वर्तकः । अन्यथा सत्ता सती कालः सर्वदास्ति, देशः सर्वत्रेत्य् आद्य् अबाधित-व्यवहारानुपपत्तिः । न च सत्ता सतीत्य् आदि बुद्धिर् भ्रमः, सन् घटः इत्य् आदिवद् अबाधात् । न चारोपः सिंहो देवदत्तो नेतिवत् । सत्ता सती नेति कदाप्य् अव्यवहारात् । न च सत्ताद्य्-अन्तराभावेऽपि स्वभावाद् एव तद्-व्यवहारः । तस्यैवात्र तच्-छब्देनोक्तेः । तत्-सिद्धस् त्व् अर्थापत्तेर् यथोदकम् इति वाक्य-बलाच् च बोध्या । इह भगवद्-गुणान् अभिधाय तद्-भेदः प्रतिषिध्यते । न हि भेद-प्रतिनिधेस् तस्याप्य् अभावे गुण-गुणि-भावो गुण-बहुत्वे युज्येत । स च वस्त्व्-अभिन्नः स्व-निर्वाहकश् चेति नानवस्था । तथात्वं तु तस्य धर्मि-ग्राहक-मान-सिद्धम् ॥३१॥

रामपद चट्टोपाध्याय : १०।८७।३७।

अधिकरणम् २१ (पराधिकरणम्)

इदानीं परानन्दादित्वं श्री-हरेर् निरूप्यते । जीवानन्दादि-साम्ये तत्र भक्ते अनुदयः । तथा हि धर्म-बोधकानि वाक्यानि विषयः । ब्राह्म्यम् आनन्दादि जैवानन्दादेर् विलक्षणं न वेति सन्देहे लौकिकानन्दादि-पद-वाच्यत्वाद् अविलक्षणं तत् । न हि घट-पद-वाच्यं घट-विलक्षणं स्याद् इति प्राप्ते—

परम् अतः सेतून्मान-सम्बन्ध-भेद-व्यपदेशेभ्यः

अतो जैवानन्दादेर् ब्रह्मानन्दादि परं जात्या परिमाणेन चोत्कृष्टम् । कुतः ? सेत्व् इत्य् आदेः । एष सेतुर् विधृतिर् [छा.उ. ८.४.१], य एष आनन्दः परस्य इति सेतुत्वस्य व्यपदेशात् । यतो वाचो निवर्तन्ते [तै.उ. २.८] इत्य् उन्मानस्य, एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [बृ.आ.उ ४.३.३२] इति सम्बन्धस्य ।

अन्यज् ज्ञानं तु जीवानाम् अन्यज् ज्ञानं परस्य च ।
नित्यानन्दाव्ययं पूर्णं परं ज्ञानं विधीयते ॥ इति भेदस्य च ।

न हि सेतुत्वादिकं लौकिकानन्दादाव् अस्ति ॥३२॥

रामपद चट्टोपाध्याय : ४।२।३०, १०।३।२१, ११।१४।१५, ९।४।४६।

ननु घट-पद-वाच्यं घट-विलक्षणं नेत्य् उक्तं, तत्राह—

सामान्यात् तु

तु-शब्दः शाङ्का-च्छेदाय । यथैक एव घट-शब्दो नाना-विधेषु घटेषु घटत्व-सामान्यम् आदाय वर्तते तथानन्दादि-शब्दोऽप्य् आनन्दत्वादि-सामान्यम् आदाय लौकिकालौकिकेष्व् आनन्दादिष्व् इति नैतावता व्यक्ति-सादृश्यं सर्वथा । अत एव,

पर-ज्ञान-मयोऽसद्भिर् नाम-जात्यादिभिर् विभुः ।
न योगवान् न युक्तोऽभून् नैव पार्थिव योक्ष्यति ॥

इति जीव-ज्ञानात् परं यज् ज्ञानं तन्-मय इत्य् उक्तम् ॥३३॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३५, १०।४७।१८

ननु जीव-जडात्मकात् प्रपञ्चाद् विलक्षणं चेद् धर्मि-भूतं ब्रह्म तर्हि सर्वं खल्व् इदं ब्रह्म तज्जलान् इति शान्त उपासीत [छा।उ। ३।१४।१] इत्य् उपदेशः कथं सङ्गच्छते ? तत्राह—

बुद्ध्य्-अर्थः पादवत्

सोऽयम् उपदेशो बुद्ध्य्-अर्थः । सर्वत्र तदीयत्व-ज्ञानार्थः पादवत् । पादोऽस्य विश्वा भूतानि [ऋ.वे. १०.९०.३] इत्य् अत्र यथा विश्वस्य भगवत्-पादत्वोपदेशस् तद्वत् । एवं हि द्वेष-निहीनं मनस् तत्-प्रवणं भवति । न चैवं राग-प्राप्तिर् निहीनत्व-बुद्धेर् बाधकत्वात् ॥३४॥

भागवत-भाष्यम् (हरिदास शास्त्री): १।६।१९

अधिकरणम् २२ (स्थान-विशेषाधिकरणम्)

अथ भक्ति-वैचित्र्याय भजनीयस्य श्री-हरेर् भान-वैचित्र्यं निरूप्यते । इतरथा भकि-वैचित्र्यानुपपत्तिः । भान-वैचित्र्यं तु स्थानानादित्वाद् अनादि-सिद्धम् । एकोऽपि सन् बहुधा यो विभाति इत्य् आदि श्रुतिम् आश्रित्य न स्थानतोऽपीत्य् आदि नाना-स्थानेषु स्थानी-भूतम् एकं ब्रह्म प्रकाशत इत्य् उक्तम् । अथ तेषु तत्-प्रकाशस्य तारतम्यं स्यान् न वेति वीक्षायां वस्त्व्-ऐक्यात् समान-शब्द-बुद्धि-बोध्यत्वाच् च न, इति प्राप्ते—

स्थान-विशेषात् प्रकाशादिवत्

यद्यप्य् एकम् एव ब्रह्म-स्वरूपं तथापि तत्-प्राकाट्य-स्थानानां तेषां धाम्नां भक्तानां च विशेषाद् ऐश्वर्य-माधुर्य-कृताच् छान्ति-दास्य-सख्यादि-कृताच् च तारतम्यात् तत्-प्राकट्यम् अपि तारतम्य-भाक् स्यात् प्रकाशादिवत् । यथा प्रकाशो द्वैपः स्फाटिकेषु कौरुबिन्देषु च मन्दिरेषु चाक्चिक्यारुण्याभ्यां तारतम्य-भाक्, यथा चैक-विधोऽपि शब्दः कम्बु-मृदङ्ग-वंश-प्रभृतिषु मन्द्रत्व-मधुरत्वादि-विशेष-भाक् तद्वद् इत्य् अर्थः । अयं भावः—यस्मिन् स्थाने भगवतः पारमैश्वर्याविष्कारस् तत्र तस्य भक्तिर् विधिना प्रवर्तते तया तीव्रः प्रकाशः स्फाटिक-निकेत-दीपवत् यत्र सत्य् अपि पारमैश्वर्ये माधुर्याविष्कारस् तत्र खलु रुच्या प्रवर्तते, तया मधुरः प्रकाशः कौरुबिन्द-निकेत-दीपवद् इति धाम्नां तच्-चिन्तकानां भक्तेश् च द्वैविध्यं साधितम् ॥३५॥

रामपद चट्टोपाध्याय : ६।४।२८, ८।३।८, ३।२४।३०।

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२४।३१, १०।४८।२०

उपपत्तेश् च

एवं सति यथा क्रतुर् इत्य् आदि वाक्यम् उपपद्यए नान्यथा । तथा चैकस्य भाव-तारतम्यं स्थान-तारतम्याद् युक्तम् ॥३६॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।२

अधिकरणम् २३ (अन्य-प्रतिषेधाधिकरणम्)

अथ भगवतः सर्व-परत्वम् उच्यते । ततोऽन्यस्य परत्वे तत्र भक्तिर् नोद्भवेत् । तथा हि श्वेताश्वतरैर् वेदाहम् एतम् [श्वे.उ. ३.८] इत्य् आदिना सर्वतो वरिष्ठं ब्रह्म-रूपं निरूप्य ततो यद् उत्तरतरम् इत्य् आदिना तस्माद् अपि परं वस्त्व् अस्तीति दर्शितम् । तत्र संशयः—उपास्याद् ब्रह्मणः परं वस्त्व् अस्ति न वेति । शब्द-स्वारास्याद् अस्तीति प्राप्ते—

तथान्य-प्रतिषेधात्

यथा ब्रह्मैव सर्वस्माच् छ्रेष्ठं न ततोऽन्यत् किञ्चित् । कुतः ? अन्येति ।

यस्मात् परं नापरम् अस्ति किंचिद्
यस्मान् नाणीयो न ज्यायोऽस्ति कश्चित् [श्वे.उ. ३.९] इति ।

तैर् एव तद् अन्यस्य श्रेष्ठस्य निराकरणात् । अयम् अर्थः—

वेदाहम् एतं पुरुषं महान्तम्
आदित्य-वर्णं तमसः परस्तात् ।
तम् एव विदित्वातिमृत्युम् एति
नान्यः पन्था विद्यतेऽयनाय ॥ [श्वे.उ. ३.८]

इति महा-पुरुष-ज्ञानम् अमृतस्य पन्थास् ततो नान्योऽस्तीत्य् उपदिश्य तत्-प्रतिपादनाय यस्मात् परं नापरम् अस्तीत्य् आदिना तस्यैव परतरत्वं तद्-अन्यस्य तद् असम्भवं चोपपाद्य,

ततो यद् उत्तरतरं तद् अरूपम् अनामयम् ।
य एतद् विदुर् अमृतास् ते भवन्ति अथेतरे दुःखम् एवापि यन्ति ॥ [श्वे.उ. ३.१०]

इति प्राग् उक्तम् एव निगमयन्ति, न तु ततोऽपि श्रेष्ठं वस्त्व् अस्तीति वदन्ति । तथा सति तेषां मृषाभासितापत्तेः । एवं च स्वयम् आह—मत्तः परतरं नान्यत् किंचिद् अस्ति धनंजय [गीता ७.७] इति ॥३७॥

रामपद चट्टोपाध्याय : १०।१४।१२, १०।१४।२२, १०।८७।३७, ११।१६।११, १०।१६।३९, १०।३।१७, ११।१४।१५, ९।४।४६, ११।१४।१५।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१५, २।९।३२

अधिकरणम् २४ (सर्व-गतत्वाधिकरणम्)

अथोपास्य-सान्निध्यं वक्तुं तस्य व्याप्तिर् निरूप्यते । अन्यथा सन्निहिते तस्मिन्न् अनुत्साहाद् भक्तेः शैथिल्यं स्यात् । एको वशी सर्वगः कृष्ण ईड्यः [गो.ता.उ. १.१९] इत्य् अदि श्रूयते । तत्र ध्येयो हरिः परिच्छिन्नो व्यापको वेति संशये मध्यमाकारतयानुभवात् प्रपञ्चान्यस्य तस्य तद्-व्यावृत्तत्वावश्यम्-भावाच् च परिच्छिन्न इति प्राप्ते—

अनेन सर्व-गतत्वम् आयाम-शब्दादिभ्यः

अनेन परेण पुंसा मधमाकारेणापि सर्वगतत्वम् अवाप्तम् । मध्यमाकार एव सर्व-व्यापीति । कुतः ? आयामेति । आयाम-शब्दो व्याप्ति-वाची । आदि-शब्दाद् अविचिन्त्यत्व-धर्म-योगस् तद्-बोधिका युक्तिश् च । तत्र एको वशी सर्वगः कृष्ण ईड्यः [गो.ता.उ. १.१९] इत्य् उत्तर-वाक्यात्,

यच् च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥

इति तैत्तिरीय-वाक्याच् च मध्यमस्यैव विभुत्वम् । मध्यमाकारस्यैव मम सर्वस्मात् परस्य सर्व-व्यापित्वम् अचिन्त्यैश्वर्य-शक्ति-योगाद् इति स्वयम् उक्तम् ।

मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना ।
मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ।
न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । [गीता ९.४-५] इति ।

न च प्रपञ्चान्यस्य तत्-प्रदेश-वृत्तेः परिच्छेदः । बहिर् अन्तश् च व्याप्ति-श्रुतेः । अतस् तिलेषु तैल्ं दधिनीव सर्पिर् इति निदर्शितम् । तस्माद् उपास्यो हरिः सर्वग इति सिद्धम् । निरूपितं चेत्थं दामोदर-चरिते । तादृशस्यापि तथात्वे युक्तिश् च पुराभिहिता । अर्भकौकस्त्वाद् इत्य् अस्य व्याख्याने ॥३८॥

रामपद चट्टोपाध्याय : १०।१।७, १०।७।३५-३६, १०।९।१३-१४, १०।४७।२९, १०।८७।४२।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।५५-५६

अधिकरणम् २५ (फलाधिकरणम्)

अथ सर्व-फलदत्वं तस्योच्यते । इतरथा-दातरि किञ्चिद् दातरि वा तस्मिन् कार्पण्याद् उपस्फुरणेन भक्तेर् अनुदयः स्यात् । तथा हि, पुण्येन पुण्यं लोकं नयति [प्र.उ. ३.७] इति श्रुतं बृहद्-आरण्यके । तत्र स्वर्गादि-फलं योगादेः परेशाद् वेति वीक्षायाम् अन्वय-व्यतिरेक-सिद्धे यागादेर् एव तत् फलम् इति प्राप्ते—

फलम् अत उपपत्तेः

स्वर्गादि-रूपं यागादि-फलम् अतः परेशाद् एव । कुतः ? उपपत्तेः । तस्यैव नित्यस्य सर्वज्ञस्य सर्व-शक्तेः महोदरस्य यागादिनाराधितस्य कालान्तरित-तत्-तत्-फल-प्रदत्वम् उपपद्यते । न तु जडस्य क्षण-ध्वंसिनः कर्मण इत्य् अर्थः ॥३९॥

रामपद चट्टोपाध्याय : १०।६।३९, ८।३।१९, ७।९।२६, ३।१३।४८, १०।८०।८, ६।१६।३०, १०।४८।२२, १०।६०।३७, ११।१५।३५।

भागवत-भाष्यम् (हरिदास शास्त्री): २।३।१०, २।४।१७

अत्र प्रमाणम् आह—

श्रुतत्वाच् च

विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् [बृ.आ.उ ३.९.२८], स वा एष महान् अज आत्मा अन्नादो वसुदानः [बृ.आ.उ ४.४.२४] इति तत्रैवाभ्युदय-फल-प्रदत्वं श्रूयते । दातुर् यजमानस्य । रातिः फल-प्रदम् ॥४०॥

मतान्तरम् आह—

धर्मं जैमिनिर् अत एव

अतः परेशाद् एव धर्मं जैमिनिर् मन्यते । यस्मात् फलं तत्-कर्मैवेश्वराद् भवति, एष एव साधु कर्म कारयति [कौ.उ. ३.८] इत्य् आदि श्रुतेः । तथा चान्वय-व्यतिरेकाभ्यां कर्मण एव फलार्पकत्वे सिद्धे न तद् ईश्वरस्य स्वीकार्यम् । तस्य कर्म-जनकत्वेनोपक्षीण-व्यापारत्वात् ।

ननु कर्मणः क्षण-विनाशिनः कालान्तर-भावि-फलानुपपत्तिः । अभावाद् भावोत्पत्त्य्-असम्भवाद् इति चेत्, न । विनश्यद् अपि कर्म स्व-कालम् एवापूर्वम् उत्पाद्य विनश्यति । तद् अपूर्वं कालान्तरे कर्मानुरूपं फलं पुरुषाय भोक्त्रे दास्यतीति कर्मैव फल-प्रदम् इति ॥४१॥

रामपद चट्टोपाध्याय : ११।१०।१४-१५, ११।१०।३३।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।२४।१४-१५

स्व-मतम् आह—

पूर्वं तु बादरायणो हेतु-व्यपदेशात्

शाङ्का-च्छेदाय तु-शब्दः । पूर्वोक्तं परेशम् एव भगवान् बादरायणः फल-प्रदं मन्यते । कुतः ? हेत्व् इति । पुण्येन पुण्यं लोकं नयति, पापेन पापम् इति तस्यैव फल-हेतुत्व-व्यपदेशाद् इत्य् अर्थः । कर्मणः करणत्वेनोपक्षयाच् च । कर्म-सत्तापि ब्रह्मायत्ता इत्य् उक्तम् । द्रव्यं कर्म च कालश् च इत्य् आदौ । तेन ब्रह्मैव कर्म-प्रवर्तकं सिद्धम् । यत् तु विनश्यद् अपि कर्मेत्य् आदि समाहितं तन् मन्दम् । काष्ठ-लोष्ट्रवद् अचेतनस्यादृष्टस्य तत्राक्षमत्वात् तस्याश्रवणाच् च ।

ननु यज्ञस्य देवार्चनत्वात् तद्-अर्चितानां देवतानां फलार्पकत्वम् अस्त्व् इति चेत्, उच्यते—पर-देवतया प्रयोज्यास् तास् तद् अर्पयन्तीति स्वीकार्यम् अन्तर्यामि-ब्राह्मणात् । अतः सैव तद्-अर्पिका । एवम् एवाह भगवान् पुण्डरीकाक्षः—

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥
स तया श्रद्धया युक्तस् तस्या राधनम् ईहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥ [गीता ७.२१-२२] इति ।

एवं च यागादिभिर् आराधितोऽभ्युदय-फलं ददातीत्य् उक्तम् । भक्त्या तोषितस् तु स्व-पर्यन्तं सर्वम् इति वक्ष्यति पुरुषार्थोऽतः शब्दाद् इति । तद् इत्थं जन्म-मरणादि-दृश्सर्वालयत्व-रूप-प्रपञ्च-दोषोक्त्या निखिल-निर्दोष-कीर्तनेन च निखिल-नियामकत्व-विशुद्ध-चिद्-विग्रहत्वादि-परमात्म-गुण-गण-निरूपणेन च ब्रह्म-तृष्णैव तद्-इतर-वितृष्णा-पूर्विका तत्-प्राप्ति-हेतुर् इति पादाभ्यां दर्शितं भवति ॥४२॥

भागवत-भाष्यम् (हरिदास शास्त्री): २।६।१४, ३।१०।१२, १०।४७।२६

अधिकरणम् २६

॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥

अधिकरणम् २७ (पादः ३, सर्व-वेदान्त-प्रत्ययाधिकरणम्)

परया निरस्य मायां गुण-कर्मादीनि यो भजति नित्यम् ।

देवश् चैतन्य-तनुर् मनसि ममासौ परिस्फुरतु कृष्णः ॥

भगवद्-गुणोपासनास्मिन् पादे प्रदर्श्यते । इयम् अत्र प्रक्रिया । स्वयंरूपे पर-ब्रह्मणि पुरुषोत्तमे अनादि-सिद्धानि विचित्राणि रूपाणि वैदूर्य-मणाव् इव नित्याविर्भूतानि विभान्ति । तत्-तद्-रूप-विशिष्टोऽसौ निर्विशेष-शुद्धि-पूर्ति-भाग् इति विज्ञाय तेष्व् एकतमेन निजाभीष्टेन रूपेण विशिष्टो येनोपास्यते तेन तद्-अन्यतमेन रूपेण विशिष्टे तस्मिन् पठिता गुणः स्वोपास्ये पठिताश् चेद् उपसंहार्या एव । येन तु मनः-प्रभृतीनि विभूति-रूपाणि ब्रमेत्य् उपास्यन्ते तेन शाखान्तरस्थाश् च तत्-तद्-उपासन-प्रकरण-पठिता एवोपसंहार्या नेतरे तद्-रूपम् अधिकृत्य तेषां पाठात् । अपरे त्व् एवम् आहुः—इदम् एव पारम्योपेतं ब्रह्म-स्थितांस् तत्-तद्-भावान् अभिनेतृ-दिव्य-नटवत् प्रकाश्य तत्-तन्-नाम-भाक् तत्-तद्-धामावच्छेद एव तत्-तद्-गुण-कर्माण्याविष्कारोतीत्य् एकत्र श्रुतानाम् अन्यत्रोपसंहारः सम्भवतीति ।

नन्व् एकस्मिन् प्रकाशे श्रुता गुणाअ अन्यस्मिंश् चिन्त्याः स्युर् एकस्यैव तथा तथाभावेन प्राकट्यात् । ननु माधुर्यैश्वर्य-भोग-शान्ति-तपः-क्रौर्यादीनां मिथो विरोधात् वंश-शाङ्खारि-शर-चापादेर् मीनादौ शृङ्ग-पुच्छ-सटा-दंष्ट्रादेश् च नृलिङ्गे विभावने,

योऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ [म.भा. १.६८.२६]

इति स्मृति-व्याकोपाद् विद्वद्-अनुभव्णनुपलम्भाच् च नोपसंहारो युक्त इति चेत् अत्रोच्यते । गुणानाम् उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् । एकस्मिन्न् उपासने पठितानाम् अन्यस्मिन्न् अपठितानां तेषां तत्र चिन्तनं सत्त्वेन धी-मात्रं वा । आद्यं स्व-निष्ठानाम् अन्तिमं त्व् एकान्तिकानाम् इति यावत् । परस्मिन् पादे स्व-निष्ठादयस् त्रिविधा विद्याधिकारिणो दर्शयिष्यन्ते । तेषु प्रायेणाधिकृताः स्वनिष्ठाः सर्वेषु रूपेषु समप्रीतयः । ते हि सर्वत्र सर्वान् गुणान् उपसंहरन्ति । न चैकस्मिन्न् अनेक-विरुद्ध-गुण-चिन्तनम् असमञ्जसम् । समय-भेदेन वैदूर्य-मणाव् इवैकत्र तस्मिन् रूप-भेदानां ग्रहीतुं शक्यत्वात् । परिनिष्ठिता निरपेक्षाश् चोभयेऽप्य् एकान्तिनो विषम-प्रीतयः । ते हि स्वेष्ट-रूपाभिव्यक्तान् एव गुणान् विचिन्तयन्ति पश्यन्ति च । तद्-अन्य-रूपाभिव्यक्तांस् तेभ्योऽन्यांस् तु तस्मिन् सत्त्वेन ज्ञातान् अपि न चिन्तयन्ति न च पश्यन्ति । तेषां तत्रानाभिव्यक्तेर् अनभीष्टत्वाच् चेति पराधिकरणे व्यक्तीभविष्यति । योऽन्यथेति तु चिन्-मात्र-वादि-क्षेपकम् ।

किं च, तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् [छा.उ. ८.१.६] इति ब्रह्म-गुणानां मुमुक्षु-मृग्यत्वाभिधानात्, आनन्दो ब्रह्मणो विद्वान् न बिभेति कुतश्चन [तै.उ. २.४.१] इति गुण-वेदिनोऽभय-फलोक्तेश् च सगुणे ब्रह्मणि शास्त्र-तात्पर्यम् । आनुवादिका व्यवहारिकाश् च गुणा इति तु कल्पनैव । मानान्तराप्राप्तानाम् अनुवादासम्भवात् व्यवहारिक-पदादर्शनाच् च । वाचं धेनुम् उपासीत इत्य् आदिवद् उपासनायै गुणाः कल्प्या इति च दुर्धीर् एव । तथा सत्यात्मेन्त्य् एवोपासीत इत्य् अत्रापि तद्-आपत्तेः । आनन्दादयः प्रधानस्य, व्यतिहारे विशिंषन्ति हीतरवत् इत्य् अत्रानन्दआदेर् जीवेशाभेदस्य चोपास्यत्वेऽपि तात्त्विकत्व-स्वीकाराच् च । निर्गुण-वाक्यं तु प्राकृत-गुण-निषेधकम् इत्य् उक्तम् । गुणानां गुण्य-भेदाभ्युपगमाच् च न किञ्चिच् चोद्यम् । ध्येया गुणा द्वेधा बोध्याः । अङ्गि-निष्ठत्वाद् अङ्ग-निष्ठत्वाच् चेति स्फुटीभावि । तत्रादौ गुणोपसंहार-सिद्धये भगवतः सर्व-वेद-वेद्यत्वं निगद्यते । तथा हि निखिलानि साधन-वाक्यान्य् अत्र विषयः । तत्र स्व-शास्त्रोक्तैः साधनैर् ब्रह्म वेद्यम् उत सर्व-शाखोक्तैस् तैर् इति संशये प्रतिशाखम् अर्थ-भेदात् स्व-शाखिओक्तैस् तैर् इति प्राप्ते--

सर्व-वेदान्त-प्रत्ययं चोदनाद्य्-अविशेषात्

इहान्त-शब्दो निश्चयार्थः । उभयोर् दृष्टोऽन्तः इत्य् अत्र तथा प्रत्ययात् । सर्व-वेद-निर्णयोत्पाद्य-ज्ञानं ब्रह्म । कुतः ? चोदनेति । आदि-शब्दाद् युक्तिर् गृह्यते । आत्मेत्य् एवोपासीत इत्य् आदि-विधेस् तद्-उक्त-युक्तेश् च सर्वत्र साम्यात् । यथा माध्यन्दिनानां विधिर् एष दृष्टस् तथा काण्वानां च ॥१॥

ननु क्वचिद् विज्ञानम् आनन्दं ब्रह्म इति क्वचन यः सर्वज्ञः सर्व-विद् इत्य् एवं प्रतिशाखम् अर्थ-भेदान् नैकाधिकारि-विषयाः सर्व-शाखाः स्युर् इति चेत् तत्राह—

भेदान् नेति चेन् नकस्याम् अपि ।

मैवम् । एकस्याम् अपि शाखायां सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्म इत्य् आदि दर्शनात् । तथा च सर्वत्र तैस् तैः शब्दैर् एकम् एव ब्रह्म-स्वरूपम् अभिहितं, अतो न विरोधः ॥२॥

र्प्द् : १०।४०।४-१० १०।१३।५४

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१३।५४

स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच् च ।

स्वाध्यायोऽध्येतव्यः इति विधेस् तथात्वेन सर्व-साधारण्येन प्रवृत्तेः वेदः कृत्स्नोऽधिगन्तव्यः स-रहस्यो द्विजन्मना इति स्मृतेश् च । समाचारे सर्वस्मिन् कर्मणि सत्यां शक्तौ सर्वेषाम् अधिकाराच् च । स्मृतिश् चैवम् आह—

सर्व-वेदोक्त-मार्गेण कर्म कुर्वीत नित्यशः ।
आनन्दो हि फलं यस्माच् छाखा-भेदो ह्य् अशक्तिजः ॥
सर्व-कर्म-कृतौ यस्माद् अशक्ताः सर्व-जन्तवः ।
शाखा-भेदं कर्म-भेदं व्यासस् तस्माद् अचीकॢपद् ॥ इति ।

तथा च सर्व-शाखोक्तैः साधनैर् ब्रह्म वेद्यं सत्यां शक्ताव् इति स्थितम् ॥३॥

व्यतिरेके दृष्टान्तम् आह—

सववच् च तन्-नियमः ।

सवाः सप्त सौर्यादयः शतौदन-पर्यन्ता होम-विशेषा यथार्वणिकानाम् एव नियम्यन्ते तद् उक्तैकाम्नि-सम्बन्धात् । एवं ब्रह्मोपासना सार्व-वैद्यानाम् इति । सलिलवच् चेति पाठे तु, यथा प्रतिबन्धाभावे सर्वाणि सलिलानि समुद्रं प्रयान्ति, तथा सर्वाण्य् अपि वचांसि ब्रह्मावेदयन्तीति नियमः शक्त्य्-अपेक्षया ।

यथा नदीनां सलिलं शक्त्या सागरतां व्रजेत् ।
एवं सर्वाणि वाक्यानि पुं-शक्त्या ब्रह्म-वित्तये ॥ इति स्मरणात् ॥४॥

र्प्द् : १०।४०।१०।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।७८।३१

वाचनिकम् आह—

दर्शयति च

सर्वे वेदा यत् पदम् आमनन्ति [क.उ. १.२.१५] इति श्रुतिः सर्व-वेद-वेद्यत्वं श्री-हरेर् दर्शयति । च-शब्दः सत्यां शक्ताव् इत्य् आह । तथा च शक्तैः सर्व-शाखोक्तैः साधनैर् ब्रह्मोपास्यम् । अशक्तैस् तु स्व-शाखोक्तैस् तैर् इति सर्व-वेद-वेद्यं तत् । यद्यपि तत् तु समन्वयात् [वे.सू. १.१.४] इत्य् अनैतत् प्राग् वर्णितं तथाप्य् अत्र गुणोपसंहारोपयोगाय विधान्तरेण प्रपञ्चितम् । स्थैर्य-फलकत्वाच् च पौनरुक्तं न दोषः ॥५॥

र्प्द् : १०।४०।४-१०, ४।७।४-५० ११।२१।४१, २।५।१५-१६, २।६।२५-२६।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१५

अधिकरणम् २८ (उपसंहाराधिकरणम्)

यद्-अर्थं सर्व-वेद-वेद्यत्वं समर्थितं तम् इदानीं गुणोपसंहारे दर्शयति । तथा हि अथर्व-शिरःसु क्वचिद् गोप-रूपं तमाल-श्यामलं पीतवासः कौस्तुभ-भूषणं पिञ्छावतंसं वंशकमनीयं गो-गोप-गोपी-विशिष्टं गोकुलाधिदैवतं ब्रह्म-स्वरूपं पठ्यते । तद् उ होवाच हैरण्यः । गोप-वेशम् अभ्राभं [गो.ता.उ. १.८] इत्य् आदिना । क्वचिज् जानकी-मण्डित-वाम-भागं कोदण्ड-करं दशास्य्-आदि-रक्षोघ्नम् अयोध्याधिपं तत् पठ्यते ।

प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ।
द्विभुजः कुण्डली रत्न-माली धीरो धनुर्धरः ॥ इत्य् आदिना ।
क्वचिद् अतिकराल-वक्त्रं वित्रासित-द्रुहिणादिकं नृसिंह-वपुस् तत् पठ्यते । तन्-मन्त्रस्थ-भीषण-पद-व्याख्याने, अथ कस्माद् उच्यते भीषणम् इति । यस्माद् यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते, स्वयं यतः कुतश्चिन् न बिभेति ।
भीषास्माद् वातः पवते, भीषोदेति सूर्यः ।
भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः ॥ [तै.उ. २.८] इत्य् अनेन ।

ऋचि तु त्रिविक्रम-रूपं पठ्यते ।

विष्णोर् नु कं वीर्याणि प्र वोचं
यः पार्थिवानि विममे रजांसि ।
यो अस्कम्भयद् उत्तरं सधस्थं
विचक्रमाणस् त्रेधोरुगायः ॥ [ऋ.वे. १.१५४.१] इति ।

अत्र द्रव्य-देवता-भेदात् याग-भेदवत् गुण-भेदाद् उपासनानि भिन्नानीति प्रतीयते ।

इह संशयः—एकस्मिन्न् उपासने श्रुता गुणाः परस्मिन्न् उपसंहार्या न वेति । एकत्र पठितैर् गुणैर् विद्योपकारकत्व-सम्भवाद् इतरत्रोक्तास् ते नोपसंहार्याः फलानतिरेकाद् विरोधाच् चेति प्राप्ते—

उपसंहारोऽर्थाभेदाद् विधि-शेषवत् समाने च

च-शब्दोऽवधारणे । उपासने समाने सति शुद्ध-ब्रह्मैक-विषयत्वेन तुल्य-रूप एव सत्य् एकत्रोक्तानां गुणानाम् इतरत्रोपसंहारः कार्यः । कुतः ? अर्थाभेदात् । अर्थस्य ब्रह्म-लक्षणस्योपास्यस्य सर्वत्राभेदाद् ऐक्यात् । अत्र दृष्टान्तो विधीयते । विधि-शेषाणाम् अग्निहोत्रादि-धर्माणां क्वचिद् उक्तानाम् अन्यत्रानुक्तानां च तेषां यथा भवेद् उपसंहारस् तद् एवेदम् अग्निहोत्रादि कर्म सर्वत्रेति तद्वत् । अथर्व-शिरसि, यो वै रामचन्द्रो स भगवान् ये मत्स्य-कूर्माद्य्-अवतारा भूर् भुवः स्वस् तस्मै नमो नमः इति श्री-रामचन्द्रे मत्स्यादि-रूपत्वम् उपसंहृतम् । एकोऽपि सन् बहुधा योऽवभाति इति श्री-कृष्णे रामादित्वम् । नमस्ते रघु-वर्याय रावणान्त-कराय च इत्य् आद्या स्मृतिर् अप्य् एवम् आह । इत्थम् अन्यत्र चान्यत् ॥६॥

भागवत-भाष्यम् (हरिदास शास्त्री): १।२।११, १।७।७, १०।४०।९-१०

अधिकरणम् २९ (अन्यथात्वाधिकरणम्)

ननु आत्मेत्य् एवोपासीत इत्य् आदि वाक्याद् अन्यथात्वम् उपसंहारस्य प्रतीतम् इति चेत्, तत्राह—

अन्यथात्वं शब्दाद् इति चेन् नाविशेषात्

अन्यथात्वं गुणोपसंहाराभावः स चात्मेत्य् एवेति वाक्यात् प्रतीयते इति चेत्, न । कुतः ? अविशेषात् । एते गुणा नोपास्या इति विशेष-वचनाभावात् । एवं सत् एव-कारोऽप्य् अनात्मत्वम् एव निवर्तयति, न तु गुणान्तराणि । न हि राजैव दृष्ट इत्य् उक्तौ तदीयं छत्रादि व्यावर्त्यते । तस्माद् यथा-शक्ति-गुणाश् चिन्त्या इति सिद्धस् तद्-उपसंहारः ।

इदम् उक्तं भवति । परस्मिन् ब्रह्मणि वैदूर्य-वदनादि-सिद्धानि बहूनि रूपाणि सन्ति । तत्-तद्-रूप-विशिष्टं तत् पूर्णं शुद्धं च भवति । क्वचित् कृत्स्नान् गुणान् प्रकटयति क्वचित् त्व् अकृत्स्नान् इति तत्त्ववित् तत् सर्व-रूपे तस्मिन् यत्र क्वापि पठितान् गुणान् विचिन्तयेद् इति स्व-निष्ठस्य तद्-उपसंहारो निरूपितः ॥७॥

र्प्द् : १०।२।२९, १०।२।३४, १०।१४।२०, १०।३३।३६, ११।१।१०

भागवत-भाष्यम् (हरिदास शास्त्री): ५।११।१३-१४

अधिकरणम् ३० (प्रकरण-भेदाधिकरणम्)

अथैकान्तिनोऽधीत-बहु-शाखा अपि परिशीलित-स्वेष्टोपनिषदस् तद्-व्यक्तान् एव गुणान् ध्यायन्ति, न तु ज्ञातान् अप्य् अन्यान् इति पूर्वापवादेनारभ्यते । इह श्री-गोपालादि-तापिन्या विषयः । तत्रैवं सन्देहः । एकान्त्य्-उपासने सर्व-गुणोपसंहारः स्यान् न वेति । सम्भवति सामर्थ्ये श्लाघ्यत्वात् स्याद् एवेति प्राप्ते—

न वा प्रकरण-भेदात् परोवरीयस्त्वादिवत्

वेति निश्चये । ये यस्मिन् रूपे एकान्तिनस् ते तद्-अन्य-रूप-व्यक्तान् गुणान् नोपसंहरन्ति । यथा कृष्णादि-रूपैकान्तिनो नृसिंहादि-निष्ठान् सटा-दंष्ट्रा-भीषणत्वादीन् । यथा च नृषिंहाद्य्-एकान्तिनः कृष्णादि-निष्ठान् वंश-वेत्र-चन्द्रकादीन् इति । कुतः ? प्रेति । प्रकरणं प्रकृष्ट-क्रिया । तद्-एक-तात्पर्या भक्तिर् इति यावत् । तस्या भेदाद् विशेषाद् इत्य् अर्थः । स्व-निष्ठ-भक्तेर् एकान्ति-भक्तिर् गाढावेशाद् वरीयसी । दृष्टान्तम् आह—पर इति । यथादित्यान्तर्वर्ति हिरण्मय-पुरुषैकान्तिनः स्वोपास्ये तस्मिन् परोवरीयस्त्वादीन् गुणान् उद्गीथ-निष्ठान् अपि नोपसंहरन्ति, तद्वत् । परस्मात् परश् च वराच् च वरीयान् इति परोवरीयान् उद्गीथस् तस्य भावस् तत्त्वं तदादिवद् इत्य् अर्थः ॥८॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।४७-४८

अधिकरणम् ३१ (संज्ञातोऽधिकरणम्)

ननूभयेषां ब्रह्मोपासकादि-संज्ञा समैवात् एकान्तिभिर् अपि स्व-निष्ठैर् इव सर्वे गुणाः सर्वत्र चिन्त्याः स्युः, यथा विप्र-संज्ञानां गायत्र्य्-उपासना निर्विशेषा दृष्टेति चेत् तत्राह—

संज्ञातश् चेत्, तद् उक्तम्, अस्ति तु तद् अपि

शङ्का-निवारकस् तु-शब्दः । संज्ञैक्यात् सर्व-गुणोपसंहारो युक्त इत्य् अत्र यद् उत्तरं, तत् तु न वा प्रकरण-भेदाद् इत्य् अनेनवोक्तम् । सामान्य-संज्ञापेक्षया विशेष-भूतैकान्तितायाः श्रैष्ठ्यान् न तैस् ते सर्वे विचिन्त्या इत्य् अर्थः । इतरथा श्रैष्ठ्य-क्षतिः । रूप-विशेषाभिशक्त-चित्तत्वेन ह्य् एकान्तिनः साधारणेभ्यः स्व-निष्ठेभ्यो ज्येष्ठा भवन्ति । न च निखिल-गुणान् उपसंहर्तुं स्व-निष्ठोऽपि क्षमः । विष्णोर् नु कं वीर्याणि प्रावोचम् [ऋ.वे. १.१५४.१] इत्य् आदि श्रुतेः । नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भव-पाद्म-मुख्याः [भा.पु. १.१८.१४] इत्य् आदि स्मरणाच् च । संज्ञैकस्य हेतोर् अन्वय-व्यभिचारं दर्शयति अस्तीति । प्रमित-भेदेष्व् अपि परोवरीयो हिरण्मयाद्य्-उपासनेषूद्गीथोपासनम् इति संज्ञैक्यम् अस्तीत्य् अर्थः । तथा च स्व-निष्ठाः सर्वान् गुणान् उपसंहृत्योपासीरन्न् एकान्तिनस् तु गुण-विशेषान् इत्य् अधिकरणाभ्यां निर्णीतम् ॥९॥

र्प्द् : १।१८।१४, ११।४।२, १०।९।२१, ११।१४।१९-२०, १०।२९।३२ (यत् पत्य्-), ११।२९।६।

भागवत-भाष्यम् (हरिदास शास्त्री): १।१८।१५, ८।२३।२९

अथ बाल्यादीन् गुणान् भगवत्य् उपसंहर्तुम् आरभते । तास्व् एव, कृष्णाय देवकी-नन्दनाय ॐ तत् सद् भूर् भुवः स्वस् तस्मै नमो नमः [गो.ता.उ. २.८९] इति । कृष्ण-शब्दस् तु तमाल-नील-त्विषि यशोदा-स्तनधये रूढिर् इति नाम-कौमुदी-कारः ।
ॐ चिन्-मयेऽस्मिन् महा-विष्णौ जाते दाशरथे हरौ ।
रघोः कुलेऽखिलं राति राजते यो मही-स्थितः ॥

इति चैवम्-आदिषु बाल्यादयो ब्रह्म-धर्माः श्रूयन्ते । स्मर्यन्ते च तथा स्मृतिषु । ते किं चिन्त्या न वेति वीक्षायां तैर् विग्रहे न्यूनाधिक्य-भावापत्तेर् ऐकरस्य-श्रुति-व्याकोपान् न चिन्त्या इति प्राप्ते—

व्याप्तेश् च समञ्जसम्

बाल्यादि-धर्मिणस् तस्य भगवतो व्याप्तेर् विभुत्वाद् बाल्यादिना तद्-भावाभावात् समञ्जसं तत्र तद् इत्य् अर्थः । प्रपञ्चितं चैतद् अनेन सर्व-गतत्वम् इत्य् आदिना । न चैवं जन्माख्यो विकारः । अजायमानो बहुधा विजायत इति पुरुष-सूक्तात् । जनि-शून्यस्यैवाभिव्यक्ति-मात्रं जन्मेति तद्-अर्थः । च-कारात् रसो वै सः इति रसात्मक-श्रवणात् । स्वोपासकानां यादृशेन रूपेण लीला-रसानुभवस् तादृशं रूपम् अचिन्त्यया शक्त्या प्रकटयतीति समुच्चितम् । तद्-उपासकाश् च नित्यम् उक्तादयोऽनन्ताः । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्य् आदि श्रुति-सिद्धा बोध्याः । एक एव नाना-वयांसि तत्-तद्-उपासकेषु युगपद् व्यनक्ति । सुर-मनुष्यासुरेषु दशाब्दतैव नानार्थान्य् इत्य् अन्ये । तथा च बाल्यादिमतोऽपि विभुत्वेनैकरस्याच् चिन्त्यास् तत्र बाल्यादय इति ॥१०॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।१, १०।९।१३-१४

अधिकरणम् ३२ (सर्वाभेदाधिकरणम्)

ननु बाल्यादि-कर्मणाम् अपि भगवद्-धर्मत्वान् नित्यत्वं तेषु तत्-तत्-परिकर-योगेन च भाव्यम् इति वाच्यम् । तत्रैकस्य तत्-परिकरस्य पूर्वोत्तर-भावेनानेक-कर्म-सम्बन्धोऽभिमतः । पूर्वस्य कर्मणो नित्यत्वे तत्-सम्बन्धिनः परिकरस्यापि तत्र नित्य-सम्बन्धो वाच्यः । तम् अन्तरा तत्-स्वरूपासिद्धेः । एवं सत्य् उत्तर-कर्म-सम्बन्धस् तस्य दुरुपपादः । उत्तरस्मिन् सम्बन्धे स्वीकृते तु पूर्वस्य नित्यत्वं व्याहन्येत । नित्यत्वे चोत्तर-कर्म-सम्बन्धिनस् तस्यान्यत्वं भवेत् । तद् इदम् अनुभवेन शास्त्रेण च निरूप्यते । तथा कर्म खलु पूऋवापरि-भूतांशं प्रत्यंशम् अप्य् आरम्भ-समाप्तिभ्यां सिद्ध्येद् वीक्ष्यते । ते विना न तत् स्वरूपं सिद्ध्येत् । न च तेन क्रमेण रसानुभवः । ततः कथं तन् नित्यत्वं ? चित्र-लिखितवत् सदैक-रस्ये हि नित्यता प्रतीता । किं च, प्रकाश-भेदैर् आरम्भे प्रत्येकं बहुत्वात् स्याद् अविच्छेदः । पृथग्-आरम्भाद् अन्यत्वं तु दुर्निवारम् । ततश् च तद् एवेदम् इति प्रतीत्य्-अनुदयात् कथं तन् नित्यत्वं प्रत्येतव्यम् ? तस्मात् कर्म-नित्यत्वम् असमाधेयम् इत्य् एवं प्राप्ते तन्त्रेणोत्तरम् आह—

सर्वाभेदाद् अन्यत्रेमे

ये हरि-तत्-परिकरास् तत्-कर्मांचा वा पूर्वस्मिन् काले कर्माणि वा सन्ति त एवेमेऽन्यत्रोत्तरस्मिन् कर्मणि काले वा स्युर् इति मन्तव्यम् । कुतः ? सर्वाभेदात् । सर्वेषां पूर्वोतर-वर्तिनां हरि-तत्-परिकर-प्रकाशानां तत्-कर्मांशानां वा भेदाभावाद् इत्य् अर्थः । एकस्य हरेर् बहुत्वं, एकोऽपि सन् बहुधा योऽवभाति, एकानेक-स्वरूपाय इति श्रुति-स्मृति-सिद्धम् । एकस्य तत्-परिकरस्य च तन् मन्तव्यम् । भूम-विद्यायां मुक्तस्य तद्-उक्तेः । महिष्य्-उद्वाहादौ यथा स्मरणात् च । तुल्यात्मनां कर्मणां काल-भेदेनोदितानाम् अप्य् ऐक्यम् । द्विः पाकोऽनेन कृतो न तु द्विधा पाकः कृतः इति विद्वत्-प्रतीतेः । द्विर् गो-शब्दोऽयम् उच्चरितो न तु द्वौ गो-शब्दौ इति शब्दैक्यवत् । इत्थं च श्री-हरेस् तज्-जनानां तद्-धाम्नां च प्रकाश-बाहुल्यात् तद्-विशेषैः कर्मणाम् आरम्भात् समाप्तेश् च पृथग्-आख्यानां तेषाम् ऐक्याच् चस्वरूप-नित्यत्वे सिद्धे । तत्-क्रमानुभव-हेतुको विचित्र-रसोदयश् चैतेनैव व्याख्यातः । न चैतद् अमूलं, यद् गतं भवच् च भविष्यच् च इति बृहद्-आरण्यकात्, एको देवो नित्य-लीलानुरक्तः इत्य् अथर्व-वाक्यात् । जन्म कर्म च मे दिव्यं [गीता ४.९] इत्य् आदि भगवद्-वाक्याच् च । ईदृक्-प्रत्ययः खलु तत्-कृपयैव ।

यावान् अहाम् यथा-भावो यद्-रूप-गुण-कर्मकः ।
तथैव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् ॥ [भा. २.९.३५] इति तद्-उक्तेः ।

तस्मान् नित्यं तत्-कर्मेति । किं च स्वरूपेण चिच्-छक्त्या च कृतं कर्म नित्यं, तेन पोरकृति-कालाभ्यां च कृतं त्व् अनित्यम् । तच् च स्वर्गादिकम् एवान्यथा लयोक्ति-व्याकोपः ॥११॥

र्प्द् : १०।६९।११, १०।६९।२०, १०।६९।२६, १०।१४।१८, २।९।३१, १०।१४।२८, ३।१५।४९, १०।१४।३०, ६।११।२३, १०।१६।३७,

भागवत-भाष्यम् (हरिदास शास्त्री): १०।६९।१

अधिकरणम् ३३ (आनन्दाद्य्-अधिकरणम्)

अथेदं विचारयति । वेदान्तेषु पूर्णानन्दादयो ब्रह्म-धर्माः श्रूयन्ते । ते सर्वेषु तद्-उपासनेषूपसंहार्या न वेति वीक्षायाम् अनारभ्याधीतानाम् उपसंहारे प्रमाणाभावाद् आराभ्याधीतानाम् एवोपसंहारः । सर्व-गुणोपसंहार्यानियमाच् च । तस्मान् नोपसंहर्यास् त इति प्राप्ते—

आनन्दादयः प्रधानस्य

प्रधानस्य धर्मिणः परमात्मनो ये पूर्णानन्द-बोध-स्वाश्रित-वात्सल्यादयो धर्माः श्रूयन्ते ते सर्वत्रोपसंहार्यास् तत्-तृष्णा-हेतुत्वात् ॥१२॥

र्प्द् : १०।८७।१६, १०।१३।५४, ४।१३।७, १०।१६।३६, ७।९।४७।

भागवत-भाष्यम् (हरिदास शास्त्री): २।१।३९, १०।१३।५४

अधिकरणम् ३४ (प्रिय-शिरस्त्वाद्य्-अप्राप्त्य्-अधिकरणम्)

आनन्द-मयस्य श्री-विष्णोः प्रिय-शिरस्त्वादयो धर्माः श्रुताः । तस्य प्रियम् एव शिरः [तै.उ. २.५.२] इत्य् आदिना । तेऽपि सर्वत्रोपसंहार्या न वेति विषये आनन्दादीनां सर्वत्रोपसंहार्य-त्वाभिधानात् तेषाम् अप्य् आनन्दत्वाविशेषात् स्यात् सर्वत्रोपसंहार इति प्राप्ते—

प्रिय-शिरस्त्वाद्य्-अप्रापितिर् उपचयापचयौ हि भेदे

प्रिय-शिरस्त्वादीनां धर्माणाम् अप्राप्तिः सर्वत्रोपसंहारो न स्यात् । आनन्द-मयस्य विष्णोः पुरुष-विधस्य पक्षि-रूपत्वाभावात् । किं च तस्मिन् वाक्ये प्रमोद-मोद-शब्दाभ्यासानन्द-गताव् उपचयापचयौ वृद्धि-ह्रासौ प्रतीतौ । तौ च भेदे सति सम्भवेताम् । न चैवम् अस्ति । स्वगत-भेदस्यापि प्रत्याख्यानात् । तस्मान् नोपसंहार्यास् ते ॥१३॥

र्प्द्, भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१७

इतरे त्व् अर्थ-सामान्यात्

तस्माद् वा एतस्माद् [तै.उ. २.१] इत्य् आदिना सोऽकामयत [तै.उ. २.६] इत्य् आदिना भीषास्माद् [तै.उ. २.८] इत्य् आदिना च तस्माद् वाक्यात् प्राग् ऊर्ध्वं च ये प्रिय-शिरस्त्वादिभ्य इतरे विभुत्व-चित्-सुखत्व-जगत्-कारणत्व-पारमैश्वर्यादयस् तस्यानन्द-मयस्य ब्रह्मणो धर्माः पठ्यन्ते तेतूपसंहार्या एव । कुतः ? अर्थेति । फलैक्याद् इत्य् अर्थः । वेदान्तोदितैर् वीर्य-सम्भूति-सर्व-सौहृद-शारणत्व-मोचकत्वादिभिश् चिन्तितैर् गुणैर् यो मोक्ष-लक्षणेऽर्थस् तस्यैव एतैर् अपि तथा-भूतैः सम्भवाद् इत्य् अर्थः ॥१४॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।२८।१५, ४।१७।३३

ननु आनन्द-मयस्य ब्रह्मणः पक्षि-भावेन रूपकं किम्-अर्थम् ? अन्यत्र हि—आत्मानं रथिनं विद्धि [क.उ. १.३.३] इत्य् आदिभिर् उपासकस्य तच्-छरीरादेश् च रथि-रथादि-भावेन रूपकम् उपास्त्य्-उपकरण-शरीरेन्द्रियादि-वशीकारार्थं दृष्टम् । न चात्र तादृशं किञ्चित् फलं दृश्यते । न हि फलम् अनुद्दिश्य तथात्वेन रूपके वेदस्य प्रवृत्तिर् युक्ता वक्तुम् इत्य् आशङ्क्य तस्य फलम् आह—

आध्यानाय प्रयोजनाभावात्

प्रयोजनस्यान्यस्याभावाद् आध्यानायैव रूपकोपदेशः कृतः । आध्यानं सम्यग् अनुचिन्तनम् । अयम् अर्थः—ब्रह्मविद् आप्नोति परं [तै.उ. २.१] इत्य् उपक्रान्तम् एकं ब्रह्म स्वयं-रूपत्वेन विलासत्वादिना च द्वेधावतिष्ठते । तच् च स्वयं-भगवान् नारायण-वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-संज्ञं स्वरूपतो गुणतो नामादितश् च विभु-चित्-सुखात्मकं स्थूल-धियाम् आदौ दुर्विभाव्यम् अतस् तद् एकम् आनन्द-मयं ब्रह्म प्रिय-मोदादि-रूपेण विभज्य शिरः-पक्षादि-भावेन रूपयित्वोपदिश्यते, तेषां सुबोधत्वाय । इत्थं च तस्य बुद्ध्य्-आरोहणे सति वेदन-शब्दोदितं ध्यानं सम्यग् भवति । यथा ह्य् अन्नयमयस्य पुरुषस्यास्य देहस्य शिरः पक्षादि-रूपकेण बुद्धावरोहणं, तस्येदम् एव शिरः इत्य् आदिना । यथा च प्राण-मय-मनोमय-विज्ञान-मयानां तथा-रूपकेण तत् क्रियते, तस्य प्राण एव शिरः इत्य् आदिभिः ।

तथैवैतेभ्योऽर्थान्तर-भूतस्यानन्द-मयस्य च पुरुषस्य तेन तत्, तस्य प्रियम् एव शिरः इत्य् आदिना । तथा च पञ्चावयव-विशुद्ध-ब्रह्मोपलक्षणार्थत्वात् तेषां सर्वत्रोपसंहारो नेति सुष्ठूपपादितम् । न चैवम् एव ब्रह्म पञ्चावयवम् इत्य् अमूलम् । एकोऽपि सन् बहुधा योऽवभाति [गो.ता.उ. १.१९] इति, एकं सन्तं बहुधा दृश्यमानं इति, स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छः इति च श्रुत्य्-अन्तरात् ।

शिरो नारायणः पक्षो दक्षिणः सव्य एव च ।
प्रद्युम्नश् चानिरुद्धश् च सन्देहो वासुदेवकः ।
नारायणोऽथ सन्देहो वासुदेवः शिरोऽपि वा ।
पुच्छं सङ्कर्षणः प्रोक्तः एव एव तु पञ्चधा ॥
अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ।
ऐश्वर्यान् न विरोधश् च चिन्त्यस् तस्मिन् जनार्दने ।
अतर्क्ये हि कुतस् तर्कस् त्व् अप्रमेये कुतः प्रमा ॥ इति ॥१५॥

र्प्द् : ८।१७।५, १०।२।३५-३७, १०।१४।१९, १०।४०।४, १०।४०।१०।

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२४।३१, १०।४०।१३

आत्म-शब्दाच् च

आत्मानन्द-मय इति तस्यात्म-शब्देन निर्देशाद् आत्मनः पक्षिवत् पुच्छादिकम् असम्भवीत्य् अतः सौबोध्याय रूपक-मात्रं तद् इत्य् अवगम्यते ॥१६॥

रामपद चट्टोपाध्याय : १०।१३।२७, १०।२।२३, १०।१०।३०, १०।१४।२२, १०।१४।५५, १०।२७।११।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।५५

अधिकरणम् ३५

आत्म-गृहीतिर् इतरवद् उत्तराद्

ननु, अन्योऽन्तर आत्मा वा प्राण-मयः [तै.उ. २.२] इत्य् आदिषु जडाणु-चेतनेष्व् अप्य् आत्म-शब्दस्य प्रयोगात्, अन्योऽन्तर आत्मानन्द-मयः [तै.उ. २.५] इत्य् अत्र तस्य विभु-चेतन-परत्वं कथं निश्चितम् इति चेद् इहोच्यते । तत्रात्म-शब्दः परमात्मानम् एव विभु-चेतनं गृह्णाति इतरवत् । आत्मा वा इदम् एक एवाग्र आसीत् [बृ.आ.उ १.४.१] इत्य् आदि वाक्ये यथा । एतच् च कुतः ? उत्तरात् । सोऽकामयत बहु स्याम् इत्य् आदिकानन्द-मयात्म-विषयाद् उत्तरस्माद् वाक्याद् इत्य् अर्थः । न चानन्द-मयाद् इत्य् अर्थः । न चानन्द-मयात्मनः परमात्मत्वाभावे तद् इदम् अभिध्यानं सङ्गच्छते । तस्य तद्-असाधारणत्वात् ॥१७॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।४०।३, १०।४०।१२

अधिकरणम् ३६

अन्वयाद् इति चेत्, स्याद् अवधारणात्

ननूत्तर-वाक्यात् तत्रात्म-शब्देन विभु-चेतनो निश्चेतुं न शक्यते । पूर्वत्र प्राण-मयादिषु जडाणु-चेतनेष्व् आत्म-शब्दान्वयाद् इति चेत् स्यात् तत्रात्म-शब्देन विभु-चेतनस्य परमात्मनो निश्चयः स्याद् एव । कुतः ? अवेति । पूर्वं तस्माद् वा एतस्माद् आत्मनः इति तस्यैव बुद्ध्यावधारितत्वात् । इतरथानन्द-मय-विषयकम् अभिध्यान-वचनं पीड्येत । प्राण-मयादिष्व् आत्मस्व् अवतीर्णापि पूर्वावधारिता परमात्म-बुद्धिर् आनन्द-मय एव विश्राम्यति । तद् अन्यस्यात्मनोऽनिरूपणात् । तस्माद् अरुन्धती-दर्शन-न्यायम् आश्रित्य पूर्व-पूर्व-परित्यागेनोत्तरत्रैव तस्मिंस् तद्-बुद्धेः पर्यवसितिर् अत उत्तरस्माद् वाक्यात् तस्य तत्-परत्वं निश्चेयम् इति सर्वं निरवद्यम् ॥१८॥

रामपद चट्टोपाध्याय : १०।८७।१३।

अधिकरणम् ३७ (अपूर्वाधिकरणम्)

अथ पितृत्वादीन् धर्मानुपसंहर्तुम् आरभते । माता पिता भ्राता निवासः शरणं सुहृद् गतिर् नारायणः इति श्रूयते । जितन्ते-स्तोत्रेऽप्य् एवं स्मरन्ति—

पिता माता सुहृद् बन्धुर् भ्राता पुत्रस् त्वम् एव मे ।
विद्या धनं च कामश् च नान्यत् किञ्चित् त्वया विना ॥ इत्य् आद्येऽध्याये ।
जन्म-प्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ।
त्वं च स्वामी गुरुर् माता पिता च मम माधव ॥ इति मध्येऽन्ते च ।

तत्रैवं संशयः । पितृत्व-पुत्रत्व-सखित्व-स्वामित्व-रूपं धर्म-जातं भगवति चिन्त्यं न वेति । आत्मेत्य् एवोपासीतेति श्रुतेर् न चिन्त्यम् इति प्राप्ते—

कार्याख्यानाद् अपूर्वम्

पूर्वं पूर्णानन्दत्वादि । तत्-सदृशम् अपूर्वं पितृत्वादि । तच् चिन्त्यम् एव तत्-तद्-उपासकैः । कुतः ? कार्याख्यानात् । कार्यस्य तत्-तद्-भाव-वश्यता-लक्षणस्य फलस्य भाव-ग्राह्यम् अनीडाख्यम् इत्य् अनेनाभिधानाद् इत्य् अर्थः । आह चैवं श्री-भगवान् येनाहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टः इति । तस्मात् पूर्णानन्दत्वादिवत् पितृत्वादिकम् अपि तस्मिन् विचिन्त्यं भावुकैः । आत्मेत्य् एवेत्य् एतत् तु प्राग् एव समाहितम् ॥१९॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।६।३८, ११।१२।८

अधिकरणम् ३८ (समानाधिकरणम्)

अथ विग्रहत्वं ब्रह्मण्य् उपसंहर्तुम् आरभते । आत्मेत्य् एवोपासीत [बृ.आ.उ १.४.७], आत्मानम् एव लोकम् उपासीत [बृ.आ.उ १.४.१५] इति क्वचित् पठ्यते, क्वचित् तु तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितं तद् इह श्लोका भवन्ति सत्-पुण्डरीकं [गो.ता.उ. १.८-९] इत्य् आदि, चिन्त्ययंश् चेतसा कृष्णं मुक्तो भवति संसृतेः [गो.ता.उ. १.११] इत्य् अन्तम् ।

इह संशयः—आत्म-मात्रत्वेनात्म-विग्रहत्वेन वोपासनया मुक्तिर् इति । किं प्राप्तम् ? आत्म-मात्रत्वेनोपासनयेति, तस्यैवैकरस्यात् । एक-रसात्मोपासनया खलु मुक्तिर् उक्ता । विग्रहस्य तु मिथो विलक्षण-चक्षुर्-आदि-वैशिष्ट्येनानैकरस्यान् नासौ तद्-उपासनयेत्य् एवं प्राप्ते—

समान एवं चाभेदात्

अप्य्-अर्थे च-शब्दः । एवम् अपि चक्षुर्-आदीनां वैलक्षण्येन भानेऽपि समान एक-रसः स एव हिरण्य-प्रतिमादिवद् भगवान् बोध्यः । कुतः ? अभेदात् । चक्षुर्-आदीनाम् आत्मानतिरेकाद् इत्य् अर्थः । तस्माद् विग्रह-भूतात्मोपासनयैव मोक्षः । एवं च चिन्तयंश् चेतसा एत्य् आदि-वाक्य-व्याकोपः । सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा.पु. १०.१३.५४] इति स्मृतिस् तु वैचित्र्या विभातस्य तद्-विग्रहस्यैकरस्यम् आह । अरूपवद् इत्य् अनेन चिन्तितम् अप्य् एतद्-विधान्तरेण चिन्तितम् । कृपालुर् आचार्यो दुष्प्रवेशम् अर्थम् असकृद् विमृशति सुप्रवेशत्वाय ॥२०॥

रामपद चट्टोपाध्याय: १०।१३।५४, १०।१४।२१-२२

तद् एवं साक्षाद्-रूपेषु भगवद्-आविर्भावेषु तत्-तद्-गुणोपसंहृतिर् उक्ता । अथ जीव-भूतेष्व् आवेशावतारेषु सा विमृश्यते । अधीहि भगव इति होपससाद सनत्कुमारं नारदस् तं होवाच [छा.उ. ७.१.१] इति । तं मां भगवान् शोकस्य पारं तारयतु [छा.उ. ७.१.३] इति चैवम्-आदि छान्दोग्यादौ पठितम् । अत्र भगवतो ज्ञान-शक्त्यादि-निज-धर्मैर् आविष्टाः कुमारादयो जीवास् तस्यावेशो भवन्तीति भगवच्-छब्दात् प्रतीयते । तेषु तद्-भक्तैर् निखिल-भगवद्-धर्मा उपसंहार्या न वेति संशये विकल्पं स्थापयति । तत्रादौ विधि-पक्षम् आह—

सम्बन्धाद् एवम् अन्यत्रापि

अन्यत्र भगवद्-आविष्टेषु कुमारादिष्व् एवं निखिल-तद्-धर्मोपसंहारो भवति । कुतः ? सम्बन्धात् । अयः पिण्डेषु वह्नेर् इव तेषु तस्यावेशात् ॥२१॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१०।३४

अथ निषेध-पक्षम् आह—

न वा विशेषात्

न तेषु निखिल-भगवद्-धर्मोपसंहारो भवति । कुतः ? अविशेषात् । सत्य् अपि तद्-आवेशे जीवत्व-लक्षणे धर्मे विशेषाभावात् । वा-शब्दात् तत्-प्रेष्ठत्वादिना तत्रादर-विशेषात् ॥२२॥

दर्शयति च

तं मां भगवान् इत्य् आद्या श्रुतिस् तद्-आविष्टस्यापि श्री-नारदस्य जिज्ञासुतां दर्शयति । अतो न तत्र सर्व-धर्मोपसंहारः ॥२३॥

र्प्द् : ११।२।३७-३८।

सम्भृति-द्यु-व्याप्त्य् अपि चातः

सम्भृतिश् च द्यु-व्याप्तिश् च तयोः समाहारस् तथा । एतच् च तेषु नोपसंहार्यम् । इह पूर्वोक्तं हेतुम् अतिदिशति—अत इति । जीवत्वाद् एवेत्य् अर्थः । अयम् अर्थः—एणायनीयानां खिलेषु पठ्यते । ब्रह्म-ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवम् आततान । ब्रह्म-भूतानां प्रथमं तु जज्ञे । तेनार्हति ब्रह्मणा स्पर्धितुं कः इति । अत्र वीर्य-सम्भृत्-द्यु-व्याप्ति-प्रमुखो ब्रह्म-महिमा प्रकीर्तितः । न स तेषु जीवेषूपसंहार्यस् तस्य परेश-साधारणत्वाद् इति ॥२४॥

भागवत-भाष्यम् (हरिदास शास्त्री): ७।९।२०, ७।९।८

अनुपसंहारे हेत्व्-अन्तरम् आह—

पुरुष-विद्यायाम् इव चेतरेषाम् अनाम्नात्

कुमाराद्य्-उपाख्यानेष्व् इतरेषां सर्व-भूतोपादानत्व-सर्व-नियामकत्वादीनां धर्माणाम् अनाम्नानाच् च न तेषु सर्व-तद्-धर्मोपसंहारः । व्यतिरेकी दृष्टान्तः पुरुषेति । पुरुष-सूक्तेषु च-शब्दात् गोपाल-तापिन्य्-आदिषु यथा ते निरूप्यते न तथा तद्-उपाख्यानेष्व् इत्य् अर्थः । इदम् अत्र निष्कृष्टम् । ईशाविष्टेषु तप्तायः-पिण्डवद्-अंश-द्वयम् अस्ति । ये वह्न्य्-अंशम् इवेशांशं पश्यन्ति ते निखिल-तद्-धर्मास् तेषु भावयन्ति । ये खल्व् अयोऽंशम् इव जीवांशं ते तु न, किन्तु तत्-प्रेष्ठत्वादीन् धर्मास् तेषु चिन्तयन्ति । ईशस् तु स्व-प्रेष्ठानुवृत्ति-परितुष्टस् तान् स्वीकरोति । श्री-भगवतादिभिर् अपि शास्त्रैस् तेषु भगवद्-आदि-शब्दाः प्रयुज्यन्ते । जीव-धर्माश् च दैत्याभिधानेन प्रकाश्यन्ते । तत्राप्य् एवम् एव सङ्गतिर् इति ॥२५॥

र्प्द् : १०।४०।२, १०।४०।१०, १०।४०।१३, १०।४०।२९, ३।१५।४९।

अधिकरणम् ३९ (वेधाद्य्-धिकरणम्)

स्व-शाखोक्त-गुण-विशिष्टं ब्रह्मोपास्यम् इत्य् उक्तम् । अथ तद्-उक्ता अपि केचिद् गुणा मुमुक्षुणा नोपासाया इत्य् उच्यते । अग्ने त्वं यातुधानस्य भिन्द तं प्रत्यञ्चम् अर्चिषा विध्य मर्म इति श्रुतम् अथर्वणि । इह वेधादि-गुण-जातम् उपास्यं न वेति संशये दुष्ट-निग्रहस्यापेक्षत्वाद् उपास्यम् इति प्राप्ते—

वेधाद्य्-अर्थ-भेदात्

नेत्य् अनुवर्तते । वेधादिकं तेनोपास्यं न । कुतः ? अर्थ-भेदात् । अर्थः फलम् । हिंसात्मके तस्मिन् निवृत्ताधिकाराद् इत्य् अर्थः । यद् उक्तं—श्री-भगवता । अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् इति । निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् इति च ॥२६॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१०।४, ११।११।३२, ११।११।३९

अधिकरणम् ४० (हान्य्-अधिकरणम्)

श्वेताश्वतराः पठन्ति—

ज्ञात्वा देवं सर्व-पाशापहानिः
क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः ।
तस्याभिध्यानात् तृतीयं देह-भेदे
विश्वैश्वर्यं केवल आप्त-कामः ॥ [श्वे.उ. १.११] इति ।

अत्र देव-ज्ञानाद् देह-गेहादि-ममता-पाश-हानिर् भवति । जन्म-मृत्यु-कृत-क्लेशाभावात् तत्-प्रहाणिश् चेति शास्त्रेण देव-ज्ञान-महिमोक्तेः । ततो ज्ञात-अयतिआथात्म्यस्य तस्य देवस्याभिध्यानान् निरन्तर-विचिन्तनाद् देह-भेदे लिङ्ग-क्षये सति चान्द्र-ब्राह्मोभयापेक्षया तृतीयं भागवतं पदं देवज्ञो विन्दति । कीदृशं तत् ? विश्वैश्वर्यं पूर्ण-विभूतिकम् । केवलम् अमायिकम् । तत आप्त-कामः पूर्ण-मनोरथो भवतीति । अत्र शास्त्रीय-ज्ञान-गम्यत्वं देवस्योक्तम् । तच् चिन्तनं नियतम् ऐच्छिकं वेति वीक्षायां परिनिष्ठा-विवृद्धया मनो-निवेश-हेतुत्वान् नियतं तद् इति प्राप्ते—

हानौ तूपायन-शब्द-शेषत्वात्,

कुशा-च्छन्दः-स्तुत्य्-उपगानवत् तद् उक्तम्

पूर्व-पक्ष-निरासार्थस् तु-शब्दः । देव-ज्ञानेन पाश-हानौ सत्यां देवानुरक्तस्य विदुषः तच्-छास्त्र-गम्यत्व-रूप-देव-धर्म-चिन्तनं कुशाच् छन्द-स्तुत्य्-उपगानवद् उक्तम् । यथा नियत-स्वाध्यायानन्तरं कुश-ग्रहण-पूर्वकम् आच्छन्देन सम्यग्-ईषद्वेच्छया स्तुत्य्-उपगानं भवति तद्वत् तद्-धर्म-चिन्तनम् । तस्याभिध्यानाद् इत्य् अनेन तथैव व्यञ्जनाद् इत्य् अर्थः । तत्र हेतुर् उपायनेति । उपायनं सामीप्य-लाभस् तद्-अनुरक्तिर् इति यावत् । तच्-छन्दस् तद् आवेहि वाक्यम् । तच्-छेषत्वात् तद्-अनुयायित्वात् सर्वेषां वाक्यानाम् । यद् उक्तं—तम् एव धीरः इत्य् आदि ।

पूर्तेन तपसा यज्ञैर् दानैर् योगैः समाधिना ।
ब्राह्मं निश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ [भा.पु. ३.९.४०] इत्य् आदि ।

तस्माद् ऐच्छिकं तच्-चिन्तनम् । अयं भावः—दुरधिगमार्थक-श्रुति-युक्तिभ्यां दुष्करस् तत्रापि बहु-विषयकत्वेन बहु-शाखश् च तत्त्व-विमर्शः । स चानन्द-रूप-भगवद्-विभावनोपनत-मार्दवे तद्-एकानुरक्ते चेतसि नावृत्तिम् अर्हति कार्कश्य-करत्वात् । किन्तु वैयुत्थानिक एव कदाचित् तद्-भावानुभावतया प्रवर्तत इति ॥२७॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।९।३१, ३।९।२२, ३।९।४१

तत्र युक्तिं प्रमाणं चाह—

साम्पराये तर्तव्याभावात् तथा ह्य् अन्ये

सम्परायो भगवान् सम्परायन्ति तत्त्वान्य् अस्मिन्न् इति व्युत्पत्तेः । तद्-विषयकः प्रेमा साम्परायः कथ्यते । तत्र भव इत्य् अण् स्मरणात् । तस्मिन् सत्यैच्छिकस् तत्त्व-विमर्शो न नियतः । कुतः ? तर्तव्याभावात् । तदानीं तेन तरणीयस्य छेद्यस्य पाशस्याभावात् । तथा ह्य् अन्ये वाजसेयिनः पठन्ति—

तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद् बहूञ् शब्दान् वाचो विग्लापनं हि तत् ॥ [बृ.आ.उ. ४.४.२१] इति ।

एवम् एवोक्तं श्री-भगवता—

तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भा. ११.२०.३१] इति ॥२८॥

भागवत-भाष्यम् (हरिदास शास्त्री): १।७।४, ११।२०।३१

अधिकरणम् ४१ (उभयाविरोधाधिकरणम्)

ब्रह्मोपासनं गुणवद् इत्य् उक्तम् । तद् इदानीं द्विविधम् इति दर्शयितुम् आरभते । तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं [गो.ता.उ. १.८] इत्य् आदेः, प्रकृत्या सहितः श्यामः [रा.ता.उ. १.४.७] इत्य् आदि, स वा अयम् आत्मा सर्वस्य वशी सर्वस्येशानः [बृ.आ.उ ४.४.२२] इत्य् आदि च श्रूयते । अत्र क्वचिन् माधुर्य-ज्ञान-प्रवृत्त्या रुचि-भक्तिस् तत्-प्राप्ति-हेतुः प्रतीयते । क्वचित् त्व् ऐश्वर्य-ज्ञान-प्रवृत्ता विधि-भक्तिश् चेति । ततश् च विषय-वैलक्षण्येन तत्-तद्-भक्तेर् अपि वैलक्षण्यात् कतमा सा तद्-धेतुउर् इत्य् अनिश्चयात् तल्-लिप्सोस् तत्र प्रवृत्त्य्-असम्भवः स्याद् इति प्राप्ते—

छन्दत उभयाविरोधात्

मण्डूक-प्लुत्या नेत्य् अनुवर्तते । छन्दतस् तादृश-सत्-प्रसङ्गानुयायि-भगवत्-सङ्कल्पाद् एवोभय-विधानां जीवानाम् उभय-विधायां भक्ताव् आस्थेति न प्रवृत्त्य्-असम्भवः । एवं कुतः ? तत्राहोभयेति । उभय-विधयोर् वाक्ययोर् अनुरोधाद् इत्य् अर्थः । अयं भावः—अनादि-सिद्ध-द्विविध-भगवद्-गुणोपासना खलु तन् नित्य-पार्षद्-वृन्दाद् आरभ्य साधकेभ्यः सुरसरित्-प्रवाहवत् प्रचरति । तस्माद् विश्व-वर्तिनां जीवानां यादृच्छिके सत्-प्रसङ्गे सति तद्-देशिक-सद्-उपास्येषु स्व-गुणेषु भक्ति-रसिकः श्री-हरिः सत्-प्रसङ्गिनस् तान् प्रवर्तयितुम् इच्छति ते तु तेन वर्त्मना तम् अनुवर्तन्त इति । अनुग्राही साधकस् तु मध्यमो ग्राह्यः ।

ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ [भा.पु. ११.२.४६] इत्य् उक्तेः ।

इत्थं च श्री-हरौ वैषम्याद्य्-अप्रसङ्गः ॥२९॥

अधिकरणम् ४२

गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः

एवं स्वीकारे सति गतेस् तत्-प्राप्तेर् उभयथार्थवत्त्वम् । माधुर्य-गुणक-भगवत्-कर्मतया पारमैश्वर्य-गुणक-तत्-कर्मकतया च सार्थत्वम् । अर्थः पुरुषार्थः पुरुषोत्तमस् तद्-विशिष्टम् इत्य् अर्थः । अन्यथेत्थम् अस्वीकारे विरोधस् तयोर् वाक्ययोर् व्याकोपापत्तिः स्यात् । हि-शब्दस् तयोः समं प्रामाण्यं सूचयति । न चोपसंहार-सूत्राद् उभयोः प्राप्त्योर् व्यतिकरः । एकान्तिषु स्वेष्टेतर-गुणाप्रकाशात् । वक्ष्यति चैवम् उपरिष्टात् । व्यतिरेकस् तद्-भावेत्य् आदि ॥३०॥

भागवत-भाष्यम् (हरिदास शास्त्री): ७।१।२९-३०

अधिकरणम् ४३ (उपपन्नाधिकरणम्)

अथ रुचि-भक्तेः श्रैष्ठ्यं प्रतिपादयति । विधि-वर्त्मनानुवृत्तः श्रेष्ठ उत रुचि-वर्त्मनेति संशये विधि-परिष्कारेणाभ्यर्हणाद् विधि-वर्त्मनानुवृत्तः श्रेष्ठ इति प्राप्ते—

उपपन्नस् तल्-लक्षणार्थोपलब्धेर् लोकवत्

रुचि-वर्त्मना हरिं भजन्न् उपपन्नः श्रैष्ठ्यम् उपेतस् तस्मिन्न् उपपत्ति-युक्तो वा । कुतः ? तद् इति । तत् तादृशास्व् अभक्तैकरतत्वं लक्षणं यस्य स चासाव् अर्थश् च माधुर्य-गुणकः पुरुषोत्तमः । तस्योपलब्धेः स्वाधीनत्वेन लाभाद् इत्य् अर्थः । दृष्टान्तेन विशदयति लोकेति । लोके यथा सर्वाधिकस्यापि राज्ञः स्वजनानुवृत्ति-रसिकस्य कश्चिज् जनस् तद्-एक-हित-निपुणस् तं स्वाधीनं कुर्वन् प्रशस्येत् तद्वत् । न च प्रभोः पारतन्त्र्यं दोषः । तादृशस्य स्वीय-स्नेहाधीनताया गुणत्वात् । अयं भावः—पुरुषोत्तमः खलु प्रीति-रसिको रुचि-भक्तेषु स्व-माधुर्यं प्रकाश्य तद्-अनुरक्तैस् तैः कृतं स्वार्पणं स्वीकुर्वन् परिक्रीतस् तान् तत्-प्रीत्या प्रधानीकरोति स्व-समनुभवाय । तम् अन्यथा तथानुभवितुं न ते प्रभवः । यद् आह श्रीमान् शुकः—

नायं सुखापो भगवान् देहिनां गोपिका-सुतः ।
ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ [भा.पु. १०.९.२१] इत्य् आदि ।

यद्यपि सर्व-भक्त-साधारणी तस्य वश्यता तथापि एषु तस्याः पराकाष्ठेति सर्व-श्रैष्ठ्य-सिद्धिः । तस्माद् रुचि-वर्त्मनानुवृत्तः श्रेयान् इति ॥३१॥

रामपद चट्टोपाध्याय : ९।४।४६, ९।४।४८, ३।२९।११, ३।२५।२९, ३।१३।४८, ४।९।१०, ६।११।२३, १०।१६।३७, ३।१५।४९, ३।१५।४३।

अधिकरणम् ४४ (अनियमाधिकरणम्)

अथेदम् उपासनम् एकानेकाङ्गतया द्विविधम् इति दर्शयितुम् आरभते । अथर्व-शिरःसु—ओं मुनयो ह वै ब्रह्माणम् ऊचुः इत्य् आदिना, सकलं परं ब्रह्म इत्य् अन्तेनाष्टादशार्ण-स्वरूपं निरूप्य पठ्यते । एतद् यो ध्यायति रसति भजति, सोऽमृतो भवति इति । तत्र संशयः—ध्यानादीनि समुदित्य मोक्ष-साधनानि प्रत्येकं वेति तान्य् उक्त्वामृतत्वोक्तेः समुदित्येति प्राप्ते—

अनियमः सर्वेषाम् अविरोधः शब्दानुमानाभ्याम्

ध्यानादीनां सर्वेषां समुदितानां मुक्ति-साधनेनेति न नियमः किन्तु प्रत्येकं तत्-साधनतेति । कुतः ? शब्दानुमानाभ्यां सह, तस्याः श्रुतेर् अविरोधात् ।

चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ [गो.त.उ. १.११]
पञ्च-पदं जपन् पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्-रूपतया ब्रह्म सम्पद्यते [गो।त।उ। १।१२] इत्य् आदि श्रुत्या,
कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् [भा।पु। १२।३।५१]
एकोऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर् न तुल्यः ।
दशाश्वमेधी पुनर् एति जन्म
कृष्ण-प्रणामी न पुनर्-भवाय ॥ [नार्.पञ्., भ.र.सि. १.२.१२९]

इत्य् आदि स्मृत्या च साकम् एतद् यो ध्यायतीत्य् आदि श्रुतेर् विरोधाभावात् । इतरथा प्रतिभक्ति-मुक्ति-विरोधिकाभ्यां ताभ्यां सहासौ विरुध्येत । इत्थं च सोऽमृतो भवतीत्य् अस्य ध्यायतीय् आदिषु प्रत्येकं सम्बन्धः । समुदितानां तथात्वे तु कैमुत्यं व्यक्तम् । उपलक्षणम् अदः श्रवणादीनां नवानां च ।

ननु ध्यानोत्तरैव मुक्तिः श्रूयते । आत्मा वा अरे द्रष्टव्यः इत्य् आदिषु । कथम् अत्र जपाद्य्-उत्तरा साम्भुपगतेति चेद् उच्यते । जपादिकं ध्यानं च मिथोऽनुस्यूतम् । जपादौ ध्यानं, ध्याने च जपादीति प्राग् उक्तं सुस्थिरम् ॥३२॥

अधिकरणम् ४५

ननु ब्रह्म-विद्यायां सत्यां विमुक्तिर् इत्य् अयुक्तम् । सिद्ध-विद्यानाम् अपि ब्रह्म-रुद्रेन्द्रादीनां चिरं प्रपञ्चावस्थिति-भगवत्-प्रातिकूल्यादि-दर्शनाद् इति चेत् तत्राह—

यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम्

न खलु सर्वेषां ब्रह्म-विदां विद्यासिद्धौ सत्यां विमुक्तिर् इत्य् अस्माभिर् उच्यते । किन्तु येषां सञ्चितस्य कर्मणो विद्यया विनाशः, क्रियमाणस्य तया विश्लेषः, शरीरारम्भकस्य तु तस्य भोगेन सङ्क्षयस् तेषाम् एव तस्यां सेति । ब्रह्मादीनां त्व् आधिकारिकाणां विनष्ट-विश्लिष्ट-सञ्चित-क्रियमाण-कर्मणाम् अप्य् अधिकारारम्भकं कर्म यावद् अधिकारं न क्षीयतेऽतस् तेषां तावत् प्रपञ्चेऽवस्थितिर् भवेत् । तद्-आरम्भकस्य तस्य समाप्तौ तु ते विमुच्य परं पदं विशन्तीति । इदं तु बोध्यं—अचिराधिकारा मघवादयोऽधिकारान्ते चिराधिकारं ब्रह्माणं गच्छन्ति । तद्-अधिकारान्ते तस्मिन् विमुक्ते तेन सह विमुच्यन्त इति । वक्ष्यति चैवम्—कार्यात्यये तद्-अध्येक्षेण इत्य् आदिना । भगवति तेषां प्रातिकूल्यं तु तल्-लीला-पोषात् तद्-इच्छानुगुणम् एवेत्य् अदोषः । विषयावेशोऽप्य् एषाम् आभास-रूप एव विद्या-निष्ठत्वात् । तस्माद् अधिकारि-भिन्नानां तत्त्व-विदां विद्याधिगमे विमुक्तिर् इति न कापि शङ्का ॥३३॥

भागवत-भाष्यम् (हरिदास शास्त्री): ५।१७।२३, ११।२९।६

अधिकरणम् ४६ (अक्षराधिकरणम्)

अथास्थौल्यादि-धर्मानुपसंहर्तुम् आरभते—एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् [बृ.आ.उ. ३.८.८] इत्य् आदि श्रूयते । अथ परा यया तद् अक्षरम् अधिगम्यते यत् तद् अद्रेश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुः-श्रोत्रम् इत्य् आदि च । इह भवति वीक्षा । अक्षर-शब्दित-पर-ब्रह्म-विषयाः स्थौल्यादि-प्रतिषेध-बुद्धयः सर्वासूपासनासु नेया न वेति । समान एवं चाभेदात् इत्य् त्र विग्रहात्मक-ब्रह्मोपासनाया निरूपणात् तादृशे ब्रह्मण्य् एतासाम् असम्भवान् न, इति प्राप्ते—

अक्षर-धियां त्व् अवरोधः सामान्य-तद्-भावाभ्याम्

औपसदवत्, तद् उक्तम्

तु-शब्दात् पूर्व-पक्षो निवर्त्यते । अक्षर-ब्रह्म-सम्बन्धिनीनाम् आसाम् अस्थौल्यादि-धियां सर्वासु तास्व् अवरोधः सङ्ग्रहः कार्यः । कुतः ? सामान्येति । सर्वे वेदा यत् पदम् आमनन्ति इति श्रुतेः । सर्वत्रोपास्यस्य ब्रह्म-स्वरूपस्य सामान्याद् ऐकरूप्यात् । तत्र विग्रहेऽस्थौल्यादीनां भावाच् च ।

अयं भावः—ज्ञात्वा देवम् इत्य् आदि श्रुतेर् ज्ञानान् मोक्षः । तच् च ज्ञानं तम् असाधारण्येन गृह्णीयात्, न तु साधारण्येन । अन्यत्रातिप्रसङ्गात् । ततश् चास्थौल्यादि-विशेषित-विभु-ज्ञानानन्दाभिन्न-विग्रह-रूपत्वेन ज्ञानम् असाधारण्याय स्यात् तद्-इतर-निखिल-भेदानुमापकत्वात् । इत्थं च सकल-हेय-प्रत्यनीकत्वं तद्-विग्रहस्य सिद्धम् ।

स वै न देवासुर-मर्त्य-तिर्यङ्
न स्त्री न षण्डो पुमान् न जन्तुः ।
नायं गुणः कर्म न सन् न चासन्
निषेध-शेषो जयतद् अशेषः ॥

इति स्थौल्यादि-विहीनत्वेनाभ्यर्थितं वस्तु तादृग्-विग्रहात्मनाविर्भूतम् इति स्मर्यते, हरिर् आविरासीत् इति । अत्रैतादृशाविर्भावम् अर्थयमाने गजेन्द्रे येन रूपेणाविर्भूतं तत् खलु तादृग् एव भवेद् इति विस्फुटं तत्त्वम् । इतरथा ज्ञान-मात्रं तच् चेतस्य् अवभासते । इह प्रापञ्चिकं देवत्वादि प्रतिषिध्यते । स्वरूप-निष्ठं देवत्वं पुरुषत्वं चास्त्य् एव तथैव प्राकट्यात् । गुणानां प्रधानानुगामित्वे निदर्शनम् औपसदवद् इति । उपसदाख्य-कर्माङ्ग-भूत-मन्त्रवद् इत्य् अर्थः । यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्स्व् अग्नेर् वै होत्रम् इत्य् आदिकाः पुरोडाश-प्रदान-मन्त्राः साम-वेद-पठिता अपि प्रधानानुगामितया याजुर्वेदिकैर् अध्वर्युभिर् अहिसम्बध्यन्ते । तत्-प्रदानस्य तत्-कार्यत्वात् । एवं क्वाचिक्योऽपि तद्-बुद्धयः प्रधानेनाक्षरेण सह सर्वत्र सम्बध्यन्ते । तासां तद्-अनुगामित्वाद् इति । तद् उक्तं विधि-काण्डे—गुण-मुख्य-व्यतिक्रमे तद्-अर्थत्वान् मुख्येन वेद-संयोगः इति ॥३४॥

भागवत-भाष्यम् (हरिदास शास्त्री): ८।३।२४, ८।३।२६, ८।३।३०

ननु तादृक् विग्रहत्वादि-धर्म-जातम् इव, सर्व-कर्मा सर्व-गन्धः इत्य् आदि प्रतिपन्नं सर्व-कर्मत्वादिकम् अप्य् अवश्यं सर्वत्र चिन्त्यं स्याद् इति चेत्, तत्राह—

इयद् आमननात्

इयद् एव तादृक् विग्रहत्वादि-गुण-वृन्दम् एव तस्यावश्यं सर्वत्र चिन्तनीयम् । कुतः ? आमननात् । आमननम् आभिमुख्येन चिन्तनं तस्मात् । इयत्ता गुण-जातेन तस्यानुचिन्तनं भवेद् अतस् तद् अवश्यम् अनुचिन्त्यम् । सर्व-कर्मत्वादिकं तु चिन्तित-स्वरूपे तस्मिन्न् अनुवर्तेत तस्मान् न तच्-चिन्ता नियतेति ॥३५॥

अधिकरणम् ४७ (अन्तराधिकरणम्)

अथ स्वात्मकाधिष्ठानत्वं धर्मम् उपसंहर्तुम् आरभते । मुण्डके श्रूयते—

यः सर्वज्ञः सर्व-विद्यस्य ज्ञान-मयं तपः ।
तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायाते ॥ [मु.उ. १.१.९] इत्य् आदि ।

ब्रह्मैवेदं विश्वम् इदं वरिष्ठम् इत्य् अन्तम् । तत्र संशयः—संव्योम-शब्दाभिहितं ब्रह्म-पुरं किं सामर्थ्यैश्वर्य-पर्यायस् तन्-महिमैव भवेद् उत विचित्र-प्रासाद-गोपुर-प्राकारादि-रूपं तद् इति । किं प्राप्तं तादृशस् तन् महिमैव तद् इति । स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि [छा.उ. ७.२४.१] इति स्व-महिमाधारत्व-श्रवणात् । तस्मान् महिमैव पुरत्वेन निरूपितः संव्योम-शब्दितश् च सः, तस्यानन्त्यात् । न खलु विभोर् अधिष्ठानं सम्भवेद् इत्य् उक्तं ब्रह्मैवेत्य् आदिना । एवं प्राप्ते पठति—

अन्तरा भूत-ग्रामवत् स्वात्मनः

अन्तरा संव्योम-पुर-मध्ये स्वात्मनो भूत-ग्रामवद् विभाति । स्वात्मनः स्वीयत्वेन वृतस्य भक्तअस्ययेत्य् अर्थः । यम् एवैष वृणुते तेन लभ्यः [क.उ. १.२.२२] इत्य् आदि श्रुतेः । तत्रत्यं वस्तु-जातं ब्रह्मात्मकम् अपि पृथिव्यादि-निर्मितवत् स्फुरतीत्य् अर्थः । वच्-छब्देन भूत-ग्रामत्वं तस्य निरस्तम् । किन्तु स्वात्मकत्वम् उक्तम् ।

ब्रह्मैवेदम् अमृतं पुरस्तात् पश्चाच् च ।
ब्रह्म दक्षिणतश् चोत्तरेणाधश् चोर्ध्वं प्रसृतम् ॥
ब्रह्मैवेदं विश्वम् इदं वरिष्ठम् ॥ [मु.उ. २.२.११] इति ।

यथा विज्ञानानन्दे परमात्मनि पाणि-पाद-नखर-कुन्तलादि-मयं वैचित्र्यं तद्-भक्तस्य स्फुरति, तथा तद्-आत्म-भूते तल्-लोकेऽपि भूतोयादि-रूपं त्द् इत्य् अर्थः । एकम् अपि विचित्रं चन्द्रकादिवद् विभातीति ॥३६॥

रामपद चट्टोपाध्याय : ३।१५।४७-४८, १०।२८।१४-१५, २।९।९-१७।

भागवत-भाष्यम् (हरिदास शास्त्री): ११।९।२१, ११।३।३७, १०।७०।४३, ४।२९।४६

अन्यथा भेदानुपपत्तिर् इति चेन्, नोपदेशान्तरवत्

अन्यथा भेदाभावे सत्य् अधिष्ठानाधिष्ठातृ-भेदानुपपत्तिर् इति चेन्, नैष दोषः । कुतः ? उपदेशान्तरवद् उपपत्तेः । आनन्दं ब्रह्मणो विद्वान् इत्य् आद्य् उपदेशान्तरे यथा सत्य् अप्य् अभेदे विशेष-बलाद् भेद-कार्यम् उपपद्यते तद्वद् इत्य् अर्थः ॥३७॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।२२, १०।१३।५४

अधिकरणम् ४८

व्यतिहाराधिकरणम्

लोक-लोकिनोर् उपास्य-भावं समम् इति व्यञ्जयति—

व्यतिहारो विशिंषन्ति हीतरवत् ।

आत्मानम् एव लोकम् उपासीत् [बृ.आ.उ. १.४.१५] इत्य् आद्याः श्रुतयो हि यस्माल् लोकत्वेन परमात्मानं विशिंषन्ति परमात्मत्वेन लोकम् । च अतो व्यतिहारः सिद्धः । परमात्मैव लोको, लोकः परमात्मेति । इतरवत् यथेतराः सत्-पुण्डारीक-नयनम् इत्य् आद्याः, साक्षात्-प्रकृति-परोऽयम् आत्मा गोपालः इत्य् आद्याश् च श्रुतयो विग्रहं परमात्मत्वेन विशिंषन्ति परमात्मानं च विग्रहत्वेनेति तद्वत् । तथा चानन्द-चिद्-विग्रहो हरिर् अचिन्त्य-शक्त्या स्वयं विचित्रस् तादृश-लोक-रूपश् च स्वभक्तस्य स्फुरति नान्यस्येति तद्-वत्सोऽपि ध्येय इति सिद्धम् ॥३७॥

रामपद चट्टोपाध्याय : ९।५।३, ९।११।११, १०।८३।४, ११।६।३२, १२।५।१२।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१३।५३-५४

अधिकरणम् ४९ (सत्याधिकरणम्)

अथोक्तार्थ-स्थैर्याय इदम् आरभ्यते । विशेष-बोधकानि वचांसि विषयः । विशेषा मायिकाः स्वाभाविका वेति संशयः । नेह नानास्ति किञ्चन । अथात आदेशो नेति नेति इत्य् आदि श्रवणान् मायिकास् त इति प्राप्ते पठ्यते—

सैव हि सत्यादयः ।

परास्य शक्तिर् इत्य् आदौ विष्णु-शक्तिः परा इत्य् आदौ च मायेतरा वह्न्य्-उष्णतेव स्वाभाविकी या पराख्या स्वरूप-शक्तिर् उक्ता, सैव हि यस्मात् सत्यादयो विशेषा भवन्त्य् अतस् तेन मायिका अपि त्व् आत्मानुबन्धिनः स्युर् इत्य् अर्थः । सत्यादीनां गुणानां परात्वे वक्ष्यमाणवायतनौ हेतू द्रष्टव्यौ । अत एव नेह नानास्ति किञ्चन इत्य् उक्तम् । अथात इत्य् आद्य् अर्थस् तु प्राग्-विवृतः । आदि-शब्दात् शौच-दया-क्षान्त्य्-आदयः सार्वज्ञ-सार्वैश्वर्यानन्द-सौन्दर्यादयश् च बोध्याः । अत एव श्रीमान् पराशरो भगवच्-छब्दस्य शुद्धो महा-विभूति-धर्मी परमात्मा वाच्य इत्य् उक्त्वा सम्भृतत्वादीन् पूर्णैश्वर्यादींश् च धर्मान् व्यस्त-समस्त-भूतस्य तस्य वाच्यान् अवोचत् । समस्तस्य तस्य पुनः शेष-ज्ञानादीन् धर्मान् वाच्यान् अभ्यधात्—

शुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि शब्द्यते ।
मैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे ॥ इत्य् आदिना ।
सम्भर्तेति तथा भर्ता भ-कारोऽर्थ-द्वयान्वितः ।
नेता गमयिता स्रष्टा ग-कारार्थस् तथा मुने ॥
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञान-वैराग्ययोश् चापि षण्णां भग इतीङ्गना ॥
वसन्ति यत्र भूतानि भूतात्मन्य् अखिलात्मनि ।
स च भूतेष्व् अशेषेषु व-कारार्थस् ततोऽव्ययः ॥
ज्ञान-शक्ति-बलैश्वर्य इत्य् आदिना च ।

तथा च तत्-स्वरूपाभिन्ना परैव तत्र सत्यादयो विशेषा भवन्तीति ध्येयं धर्मि-निर्भेदम् इति सिद्धम् ॥३९॥

अधिकरणम् ५० (कामाद्य्-अधिकरणम्)

अथ श्री-वैशिष्ट्यं गुणम् उपसंहर्तुम् आरम्भः । श्रीश् च लक्ष्मीश् च पत्नी [शु.य. ३१.२२] इति यजुषि श्रूयते । इह श्री रमा-देवी । लक्ष्मीर् भागवती सम्पद् इत्य् एके । श्रीर् वाग्-देवी, लक्ष्मीस् तु रमा-देवीत्य् अपरे । अथर्व-शिरसि च—कमला-पतये नमः रमामानस-हंसाय गोविन्दाय नमो नमः इति । रमाधाराय रामाय इति चैवम् आदि । अत्र भवति वीक्षा श्रीर् इयं प्राकृतत्वाद् अनित्योतपरात्वान् नित्येति । अथात आदेशो नेति नेति इति परमात्मनि निःशेष-विशेष-प्रतिषेधात्, न तत्र श्र्य्-आदि-रूपः कश्चिद् विशेषः सम्भवी । किन्तु स्वीकृत-मायो विशुद्ध-सत्त्व-मूर्तिस् तादृश्यापि श्रिया युज्यते इत्य् अनित्या तस्य श्रीर् इति प्राप्ते—

कामादीतरत्र तत्र चायतनादिभ्यः

सैवेति पूर्वतोऽनुवर्तते । सैव परैव श्रीः सती तत्र प्रकृत्य्-अस्पृष्टए संव्योम्नि तस्माद् इतरत्र प्रपञ्चान्तर्गते तत्-प्रकाशे च स्वनाथस्य परमात्मनः कामादि वितनोतीति नित्य-श्रीकः सः । कामोऽत्र श्र्ङ्गाराभिलाषः । आदिना तद्-अनुगुणा तत्-परिचर्या च । श्रीः परैवेति । कुतः ? आयेति । आयाद् व्याप्तेः । तनाद् भक्त-मोक्षानन्द-विस्ताराच् च । उभयत्र सत्यादिवद् इति दृष्टान्तः । आदिना परैक्य-वाक्यं गृह्यते । तत्र परास्य शक्तिर् इत्य् आदौ स्वाभाविकीति परमात्माभेदाभिधानात् परा विभ्वी सैव हीति ज्ञान-कारुण्यादि-रूपत्वोक्तेर् मोक्षदा च । तद्-अभेदाद् एव श्रीश् च तथा । स्मृतं चैवं श्री-विष्णु-पुराणे—

नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी ।
यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ [वि.पु. १.८.१५] इति ।
आत्म-विद्या च देवि त्वं विमुक्ति-फल-दायिनी [वि.पु. १.९.११८] इति च ।

न च भेदे सतीदं द्वयं शक्यं वक्तुम् अपसिद्धान्तापत्तेः । श्रियः परैक्यं च स्मृतं तत्रैव ।

प्रोच्यते परमेशो यो यः शुद्धोऽप्य् उपचारतः ।
प्रसीदतु स नो विष्णुर् आत्मा यः सर्व-देहिनाम् ॥ इति ।

अत्र परैव मेति विस्फुटम् । आयादीनि प्रकृतेर् न सम्भवन्तीति तद्-अन्यत्वं श्रियः सुव्यक्तम् । तस्मात् परैव श्रीर् अतो नित्या सेति ॥४०॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।५३।३७, १०।३३।१६, १०।३३।६, १०।३२।१४,

ननु परैव चेत् श्रीस् तर्हि तद्-भक्तेर् विलोपापत्तिः । न हि स्वस्मिन् स्व-भक्तिः सम्भवेद् इति चेत् तत्राह—

आदराद् अलोपः

सत्य् अप्य् अभेदे विचित्र-गुण-रत्नाकरत्वेन स्वमूलत्वेन च शिर्यः परस्मिन्न् आदरात् तद्-भक्तेर् अलोपः । न खलु वृक्षम् अनाद्रियमाणा शाखास्ति, न च चन्द्रं तत्-प्रभा । तद्-भक्तिश् चोक्त-श्रुतिभ्यः प्रतीयते—श्रीर् यत्-पदाम्बुज-रजश् चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्ट [भा.पु. १०.२९.३७] इत्य् आदि स्मृतिभ्यश् च ॥४०॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८९।३७

ननु रवि-विषयाश्रय-भावेनालम्बन-विभाव-भेदे सति शृङ्गाराभिलाषः सम्भवेत् । निर्भेदे तु तत्त्वे नासौ सम्भावयितुं शक्य इति चेत् तत्राह—

उपस्थितेऽतस् तद्-वचनात्

उपस्थितम् इति भावे निष्ठा । यद्यपि शक्ति-तद्-आश्रययोर् अस्त्य् अभेदस् तथापि शक्याश्रयस्य पुरुषोत्तमत्वेन शक्तेश् च युवती-रत्नत्वेनोपस्थितौ सत्यां स्वारामत्व-पूर्त्य्-आद्य्-अनुगुणं कामादि समुदेत्य् अतः सिद्धं तत् । इदं कुतः ? तद्-वचनात् । यो ह वै कामेन कामान् कामयते स कामी भवति । यो ह वै त्व् अकामेन कामान् कामयते सोऽकामी भवति [गो.ता.उ. २.२१] इत्य् अथर्व-शिरसि तादृश-कामाद्य्-अभिधानाद् इत्य् अर्थः । अकामेनेति सादृश्ये नञ् । काम-तुल्येन प्रम्णेत्य् अर्थः । तेनात्मानुभव-लक्षणेन विषय-कामानां खलु स्वारामत्वं पूर्णतां च नातिक्रामतीति । स्वात्मक-श्री-स्पर्शाद् उदग्रानन्दस् तु स्व-सौन्दर्य-वीक्षणादेर् इव बोध्यः । एतद् उक्तं भवति—पराख्य-स्वरूप-शक्ति-विशिष्टं खलु पर-तत्त्वं श्रुत्य्-आदिषु प्रतिपन्नं स्व-प्राधान्येन स्फुरत् तत् पुरुषोत्तम-संज्ञम् । पराख्य-शक्ति-प्राधान्येन स्फुरत् तु धर्मादि-संज्ञम् । परैव खलु ज्ञान-सुख-कारुण्यैश्वर्य-माधुर्याद्य्-आकरेण स्फुरन्ती धर्म-रूपा । शब्दाकारेणाह्वयोक्ति-रूपा । धराद्य्-आकारेण धाम-रूपा । ह्लादिनी-सार-समवेत-संविद्-आत्मक-युवती-रत्नत्वेन तु राधादि-श्री-रूपा चेति सामस्त्येन परेत्य् उक्ता । तथा चाभेदे सत्य् अपि विशेष-विजृम्भितेन भेद-कार्येण विभाव-वैलक्षण्य-विभानात् तद्-अभिलाषः सिद्ध इति । धर्मादि-रूपता तु न पश्चात्तनी किन्तु अनादि-सिद्धमतीति नकापि क्षतिर् अस्ति । तस्मात् परं तत्त्वं श्रीमद् एव ध्येयं तज्-जनानुयायिभिः ॥४२॥

रामपद चट्टोपाध्याय : ११।२।३८, ७।४।२९-३१।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।२९।१३, १०।३३।२, १०।३३।१९, १०।३३।७

अधिकरणम् ५१ (तन्-निर्धारणानियमाधिकरणम्)

तत्रैव श्रूयते—तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेत् तं भजेद् इति ॐ तत् सद् इति [गो.ता.उ. १.४८] । अत्र संशयः । श्री-कृष्णत्वेन गुणेन श्री-हरेर् उपासनं नियतं न वेति । अवधारण-स्वारस्यात्तेन तन् नियतम् इति प्राप्ते—

तन्-निर्धारणानियमस् तद्-दृष्टेः पृथग् घ्य् अप्रतिबन्धः फलम्

तेन निर्धारणेनानियमः श्री-कृष्णत्वेनैव धर्मेण श्रीहरिर् उपास्यो नान्येन श्री-रामत्वादिना इति नियमो नेत्य् अर्थः । श्री-कृष्णत्वं यशोदा-स्तनन्धयत्वे सति विभु-विज्ञानानन्द-वस्तुत्वम् । एवं कुतः ? तद्-दृष्टेः ।

यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥
चतुः-शब्दो भवेद् एको ह्य् ओंकारस्यांशकैः कृतः ॥ इति ।

तत्रैव श्री-कृष्णात्म-भूतानां बलदेवादीनाम् अपि तद्वद् उपास्यत्व-प्रतीतेर् इत्य् अर्थः । तर्हि कृष्ण एवेत्य् अवधारणं विफलम् । तत्राह पृथग् इति । हि यस्मात् तत्-फलं पृथग् अस्तीत्य् अर्थः । तथा च शक्तौ रुचौ च सत्यां समुच्चित्योपासनं तद्-अभावे तु तेनैवेति स्थिरम् ॥४३॥

रामपद चट्टोपाध्याय : ११।२।४३, ११।२।३९, ११।२९।३२, ११।२९।१७-१८, १२।८।४६, १०।४०।४-१०, ११।१।१०, ११।१।६, १०।३२।२, १०।३२।१३, १०।३२।२१, १०।३८।१३, ११।२९।४८, ३।११।३४-३७, ३।११।२२-२३, ६।६।२७।

भागवत-भाष्यम् (हरिदास शास्त्री): १।३।२८, २।३।३०, १०।४०।९-१०।

अधिकरणम् ५२ (प्रदानाधिकरणम्)

अथ गुरु-गम्यत्वं गुणम् उपसंहर्तुम् आरभ्यते । विद्या-प्रदेशेषु श्रूयते ।

यस्य देवे परा भक्ति यथा देवे यथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाह् प्रकाशन्ते महात्मनः ॥ [श्वेत्. उ. ६.२५ ॥

इति श्वेताश्वतरोपनिषदि । आचार्यवान् पुरुषो वेद [छा.उ. ६.१४.२] इति । तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेद् [मु.उ. १.२.१२] इति चान्यत्र । इह संशयः । गुरु-लब्धाच् छ्रवणाद् इतः फलं गुरु-प्रसाद-सहितात् तस्माद् वेति । तत्र श्रवणादितः फलाभिधानात् किं तत्-प्रसादेनेति प्राप्ते—

प्रदानवद् एव तद् उक्तम्

यथा प्रसन्नेन गुरुणा ब्रह्माप्ति-हेतुः श्रवणादि-साधनं दत्तं तथैव तत्-प्राप्ति-रूपं फलं भवति । न तु श्रवणादि-मात्रेणेत्य् आवश्यकम् । तत्-गुर्व्-अनुग्रहावेक्षणम् उक्तम् । प्र-शब्दः प्रसादं व्यञ्जयति । आह चैवं श्री-भगवान् अरविन्दाक्षः । आचार्योपासनं शौचम् इति । तथा च तद्-अनुग्रह-सहिताच् छ्रवणादितस् तत्-प्राप्तिर् इति ॥४३॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१०।५, ११।१२।२४, ११।१७।२७, ११।१७।२८, १०।८७।३३

अधिकरणम् ५३ (लिङ्ग-भूयस्त्वाधिकरणम्)

अथ स्व-प्रयत्नो बलवान् श्री-गुरु-प्रसादो वेति सन्देहेऽकृते प्रयत्ने तत्-प्रसादस्याकिंचित्करत्वात् स्व-प्रयत्नो बलवान् इति प्राप्ते—

लिङ्ग-भूयस्त्वात् तद् धि बलीयस् तद् अपि ।

ऋषभादिभ्यो ब्रह्म-श्रुतवता सत्य-कामेन भगवांस् त्व् एव मे कामं ब्रूयात् इति श्री-गुरुः प्रार्थ्यते । तथाग्निभ्यः श्रुत-विद्येनोपकोशलेन चेत्य् आदि-छान्दोग्यादि-दृष्ट-गुरु-प्रसादन-लिङ्ग-बाहुल्यात् तत्-प्रसादनम् एव बलिष्ठम् । तर्हि तावतालम् इत्य् अपि न मन्तव्यम् । किं तर्हि तद् अपि श्रवणादि च कर्तव्यम् । यस्य देवे परा भक्तिः, श्रोतव्यो मन्तव्यः इत्य् आदि श्रुतेः ।

गुरु-प्रसादो बलवान् न तस्माद् बलवत्तरम् ।
तथापि श्रवणादिश् च कर्तव्यो मोक्ष-सिद्धये ॥ इति स्मृतेश् च ॥४५॥

रामपद चट्टोपाध्याय : ११।३।४९, १०।८७।३३।

अधिकरणम् ५४ (पूर्व-विकल्पाधिकरणम्)

एवं गुणादि-विशिष्टस्य भगवत उपासनाद् देशिकानुग्रह-सह-कृतात् फलम् इत्य् आपादितम् । अथैतद् विरोधि-वाक्यार्थ-समाधिना परिपुष्यते । गोपाल-तापन्यां मुनिभिः सर्वाराध्यत्वादि-गुणकं वस्तु पृष्टः पद्म-योनिस् तथात्वेन श्री-कृष्णम् उद्दिश्य तत्-प्राप्ति-हेतुं तद्-भक्तिम् उपदिशति । तद् उत्तरत्र च—तस्माद् देवः परो रजसेति सोऽहम् इत्य् अवधार्यात्मानं गोपालोऽहम् इति भावयेत् । स मोक्षम् अश्नुते । स ब्रह्मत्वम् अधिगच्छति । स ब्रह्म-विद् भवति [गो.त.उ. २.३८-३२ ॥ इत्य् आदि पठ्यते । इह सोऽहम् इत्य् अभेदाभ्यासो दृश्यते । अत्र संशयः । परापरात्म-स्वरूपैक्य-विषयेयं सोऽहम् इति भावना किं वा पूर्वोपदिष्टाया भक्तेर् एव कश्चन प्रकार इति शब्द-स्वारस्यात् तद्-विषयासौ मोक्ष-हेतुर् इति प्राप्ते—

पूर्व-विकल्पः प्रकरणात् स्यात् क्रिया मानसवत् ।

पूर्वस्या भक्तेर् एव विकल्पो यः सोऽहम् इति भावः । कुतः ? प्रेति । भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् [गो.त.उ. १.१४] इति तस्याः पूर्वं प्रकृतत्वात् । सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो.त.उ. २.७८] इति तथैवोपसंहाराच् च प्रकार-विशेष एव नार्थान्तरम् इत्य् अत्र दृष्टान्तः क्रियेत । क्रिया परिचर्यार्चनादि-रूपा । मानसं च ध्यानम् । ते यथा भक्तेर् एव प्रकारौ, तथा सोऽहम् इति भावोऽपि पूर्वोपदिष्टाया भक्तेः प्रकार-विशेषो भवतीति । रागाद् भयाच् चगाढावेशे सति सोऽहम् इति भावोऽभ्युदेति । कृष्णोऽहम् इति सिंहोऽहम् इति च । एतद् उक्तं भवति पूर्व-विभागे—कः परमो देवः ? [गो.त.उ. १.२] इत्य् आदिना सर्वाराध्यत्व-संसार-निवर्तकत्व-सर्वाश्रयत्व-सर्व-कारणत्व-गुणकं परमार्थ-वस्तु मुनिभिः पृष्टो ब्रह्मा श्री-कृष्णो वै परमं दैवतम् [गो.त.उ. १.३] इत्य् आदिना तत्-तद्-गुणक-तादृश-वस्तुत्वं श्री-कृष्णस्याभिध्यायैतद् यो ध्यायति [गो.त.उ. १.६] इत्य् आदिना भजनीयस्य तस्य तद्-भक्तेश् च विशेष-प्रश्ने तैः प्रवर्तिते तद् उ होवाच हैरण्यः-- गोप-वेशम् अभ्राभं [गो.त.उ. १.८] इत्य् आदिना सपरिकरं तत्-स्वरूपम् उपवर्ण्य रम्यं पुना रसनं [गो.त.उ. १.१२] इत्य् आदिना जपेन तेन प्राप्यं तत्-स्वरूपं फलम् उक्त्वा तच् च तम् एकं गोविन्दम् [गो.त.उ. १.३३] इत्य् आदिना ज्ञान-सुखात्मकं भवतीति निर्णयान्तेऽपि तस्माच् छ्री-कृष्ण एव परो देवः [गो.त.उ. १.४८] इति तथैवोपसंहरति ।

उत्तर-विभागे तु तत्-प्रेष्ठा गोप्यस् तेन सह विहृत्य पृष्टेन तेनाज्ञाप्तास् ता वरान्नेन दुर्वाससं मुनिं भोजयामासुर् इत्य् एकदा हि [गो.त.उ. २.१] इत्य् आदिना प्रकीर्त्यते । अथ तुष्टेन तेन दत्ताशीर्भिस् ताभिः श्री-कृष्ण-तत्त्वं पृष्टः स मुनिस् तल्-लीलाया लोक-विलक्षणत्वं विवक्षुर् अयं हि श्री-कृष्ण [गो.त.उ. २.१८] इत्य् आदिना तस्य सर्व-कारणत्व-विशुद्ध-स्नेह-वश्य-स्वभावत-नित्य-तत्-कान्तत्वादिकम् आचष्टे । अथ सा होवाच [गो.त.उ. २.२३] इत्य् आदिना तस्य जन्म-कर्म-मन्त्र-धामानि ताभिः पृष्टो मुनिः पूर्वार्थ एवाभ्यास-लिङ्गेन तात्पर्यं निर्णेतुं ब्रह्म-नारायऋष्णोपाख्यानम् उपक्षिपति स होवाच तं हि [गो.त.उ. २.२६] इत्य् आदिना । तत्र च श्री-कृष्णस्य पूर्णत्वं संसार-तारकत्वम् । तस्य मथुराख्यम् अधिष्ठानं तच् च ब्रह्मात्मकं चक्राधारकं वनैर् अनेकैर् उल्लसद् इति निरूप्य तस्माद् एवं परो रजसेति सोऽहम् [गो.त.उ. २.३८] इत्य् आदिना तद्-अभेदो भावो मोक्ष-हेतुर् इत्य् अभिधीयते । स चोक्त-हेतोर् भक्तेर् एव पूर्वोपदिष्टायाः प्रकार-भेदो भवितुं युक्तः । तस्माद् अश्रु-प्रलयादिवत् तद्-विशेषोऽयम् अहम् अस्मि ब्रह्माहम् अस्मीति तैत्तिरीयकादि-दृष्टः अभेद-व्यपदेशस् तु तद्-आयत्त-वृत्तिकत्वादिभिर् भेदे एव सति सङ्गच्छेतेति पुरैवाभिहितम् ॥४६॥

भागवत-भाष्यम् (हरिदास शास्त्री): ७।४।३७-३८, १०।३०।२, १०।३०।१४

अधिकरणम् ५५

सोऽहम् इति भावो भक्तेर् एव प्रकार-विशेषो मन्तव्यो न तु परापरात्म-स्वरूपैक्यानुसन्धिर् इत्य् अत्र हेत्व्-अन्तरम् आह—

अतिदेशाच् च

तत्रैवोत्तरत्र—

यथा त्वं सह पुत्रैस् तु यथा रुद्रो गणैः सह ।
यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ॥ [गो.त.उ. २.४९]

इति पद्मयोन्य्-आदेः पुत्रादि-साहित्यवत् स्वस्य स्व-भक्त-साहित्यातिदेशात् । च-शब्दात्

ध्यायेन् मम प्रियो नित्यं मोक्षम् अधिगच्छति ।
स मुक्तो भवति तस्मै आत्मानं च ददामि वै ॥ [गो.त.उ. २.७३]

इति तत्-पर-वाक्यं गृहीतम् । तत्र नित्य-प्रियत्व-स्वात्म-दान-सम्प्रदानत्वादि तद्-भक्तस्योच्यते । तद् एतच् च तद्-ऐक्ये न सम्भवेत् । तस्माच् च तद्-विशेषोऽसाव् इत्य् अधिगन्तव्यम् । इत्थं च श्री-राम-तापन्य्-आदि-दृष्टोऽपि सोऽहम् इति भावो व्याख्यातः । तथा च देशिकानुग्रह-सहकृतात् भगवद्-उपासनद् विमुक्तिर् इति न कापि क्षतिर् इति ॥४७॥

भागवत-भाष्यम् (हरिदास शास्त्री): ९।४।६३-६४, ९।४।६८

अधिकरणम् ५६ (विद्याधिकरणम्)

शास्त्र-ज्ञान-पूर्वकम् उपासनं विद्योच्यते । तया मुक्तिर् इत्य् एतत् परिष्कर्तुम् आरभ्यते । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनाय [श्वे.उ. ३.८] इति । पुरुष-सूक्ते तम् एव विद्वान् अमृत इह भवति इत्य् आदि चान्यत्र पठ्यते । तत्र कर्म मोक्ष-हेतुर् उत समुच्चिते विद्या-कर्मणी, किं वा विद्येति संशयः । किं प्राप्तं ? कर्मेति । शेषत्वात् पुरुषार्थत्वेति षट्-सूत्री-निर्णयात् । विद्या तु तच्-छेषो भवेत् समुच्चिते विद्या-कर्मणी वा तद् धेतुर् न तु तयोर् एकतरं तं विद्या-कर्मणी इति श्रवणात् । यद् उक्तम् उभाभ्यां व पक्षाभ्यां यथा खे पक्षिणो गतिः । तथैव कर्म-ज्ञानाभ्यां मुक्तो भवत् मानव इति । विद्या वा तद्-धेतुः । तम् एव विदित्वा [श्वे.उ. ३.८] इत्य् आदि श्रवणात् । तस्माद् अनिर्णयोऽस्तु । एवं प्राप्ते पठति—

विद्यैव तु तन्-निर्धारणात्

तु-शब्दः शाङ्का-च्छेदार्थः । विद्यैव मोक्ष-हेतुः, न तु कर्म । न च समुच्चिते विद्या-कर्मणी । कुतः ? तद् इति । तम् एव विदित्वा [श्वे.उ. ३.८] इत्य् आदौ तस्यास् तत्त्वावधारणात् । विद्या-शब्देन हि ज्ञान-पूर्विका भक्तिर् उच्यते । विज्ञाय प्रज्ञां कुर्वीत इत्य् आदौ तादृश्यास् तस्यास् तत्त्वाभिधानात् । स्मृतिश् चोभयत्र विद्या-शब्दं प्रयुङ्क्ते । विद्या-कुठारेण शितेन धीरः [भा.पु. ११.१२.१२] इति, राज-विद्या राज-गुह्या [गीता ९.१] इति च । तस्माद् असौ तन्त्रेण ते द्वे गृह्णीयात् । कौरव-शब्दवत् मीमांसक-शब्दवच् च । पूर्वो धार्तराष्ट्र-पाण्डवौ, परस् तु कर्मविद्-ब्रह्मविदौ तथा गृह्णाति ॥४८॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।३४, ११।११।३-४

स च मोक्षो विद्यया बहिः-साक्षात्कारात्मैवेत्य् आह—

दर्शनाच् च

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [मु.उ. २.२.८]

इति मुण्डके तेनैव तद्-वीक्षणाद् इत्य् अर्थः ॥४९॥

नन्व् एवं कर्मणा मुक्तिर् इति, ज्ञान-कर्माभ्यां मुक्तिर् इति च शास्त्रं विरुद्धं स्यात् । तत्राह—

श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः

न खलु विद्यैव मुक्ति-हेतुर् इत्य् अस्य शास्त्रस्य ताभ्यां बाधः शक्यः । कुतः ? श्रुत्य्-आदीति । तम् एव विदित्वा [श्वे.उ. ३.८] इत्य् आदेः सावधारणायाः श्रुतेर् बलिष्ठत्वात् । आदि-शब्दो लिङ्ग-युक्ती संगृह्णाति ।

इन्द्रोऽश्वमेधाच् छतम् इष्ट्वापि राजा
ब्रह्माणम् ईड्यं समुवाचोपसन्नः ।
न कर्मभिर् न धनैर् नापि चान्यैः
पश्येत् सुखं तेन तत्त्वं ब्रवीहि ॥ इति लिङ्गम्,

नास्त्य् अकृतः कृतेन [मु.उ. १.२.१२] इति युक्तिश् च । शेषत्वादि-षट्-सूत्री तु सूत्र-कृद्भिर् एव प्रत्याख्यास्यते । अधिकोपदेशात् त्व् इत्य् आदिभिः । विद्यया सर्व-कर्म-निर्मूल-निरूपक-वाक्य-सङ्ग्रहाय च शब्दः । त्ं विद्येत्य् आदि श्रुतिस् तु तैर् एव समाधास्यते । विभागः शतवद् इति । तस्मात् विद्यैव मोक्ष-हेतुर् इति स्थिरम् ॥५०॥

रामपद चट्टोपाध्याय : ११।११।४, ११।१९।१७, ११।३।२१, ६।१।१०, ११।१४।१०

भागवत-भाष्यम् (हरिदास शास्त्री): ११।११।४, १०।१४।४

अधिकरणम् ५७ (अनुबन्धाधिकरणम्)

अथ सद्-गम्यत्वं गुणम् उपसंहरते—अतिथि-देवो भव [तै.उ. १.११.२] इति तैत्तरीयके श्रुतम् । तत्र संशयः—सद्-उपासनं मोचकं न वेति । गुरु-प्रसाद-सहिताद् ईशोपासनाद् एव मोक्ष-सम्भवाद् अलं सद्-उपासनेनेति प्राप्ते—

अनुबन्धादिभ्यः

अनुबन्धो महद्-उपासना-निर्बन्धः । देव-भावेन तद्-उपासनम् इत्य् अर्थः । तस्माच् च तद्-अनुग्रहान् मोक्षः । इतरथेत्थं न ब्रूयात् । स्मरन्ति चैवं तत्त्वविदः—

रहूगणैतत् तपसा न याति
न चेज्यया निर्वपणाद् गृहाद् वा ।
न च्छन्दसा नैव जलाग्नि-सूर्यैर्
विना महत्-पाद-रजो-ऽभिषेकम् ॥ [भा.पु. ५.१२.१२] इत्य् आदिभिः ।

आह चैवं श्री-भगवान्—

नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥
व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ [भा.पु ११.१२.१-२] इत्य् आदिभिः ।

अत्र स्वयं स्व-तत्त्वम् उपदिश्यापि सत्-सङ्गम् आदिशतीति तस्यान्तरङ्ग-साधनतां बोधयति । आदि-शब्दात् तत्-तीर्थ-सेवा-तद्-अन्य-निन्दा-परित्यागश् च ग्राह्यौ ।

शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ [भा.पु १.२.१६]
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ।
इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ इत्य् आदि स्मृतिभ्यः ।

अत्राहुः—देशिक-सत्-प्रसङ्गस्यापीश-हेतुकत्वात् तद्-अनुग्रह एव मोचकोऽस्तु । शुभादृष्टं तु न तत्-प्रसङ्ग-हेतुः । तस्यापि तद्-धेतुकत्वात् । सर्वा च प्रवृत्तिर् ईश-हेतुकेति, परात् तु तच्-छ्रुतेः [वे.सू. २.३.४१] इत्य् अनेन निर्णीतम् । तस्माद् देशिकाद्य्-अनुग्रहस्यापि मुक्ति-कारणत्व-कल्पनम् अयुक्तम् इति ।

अत्रोच्यते—यद्यपि देशिकादेर् अनुग्रहेऽपीश-हेतुकत्वं सम्भाव्यं, तथापि तेभ्यो दत्तास्ति, अतस् तेषाम् एव तत्र स्वातन्त्र्यम् । तैर् अनुगृहीते तु जने सोऽपि तम् अनुप्रवर्तयतीति सर्वाणि वाक्यानि सास्पदानि स्युर् वैषम्याद्य्-अपनयश् चेति ॥५१॥

अधिकरणम् ५८ (प्रज्ञान्तराधिकरणम्)

यथा क्रतुर् इत्य् आदि श्रुतौ संशयः । इदं ब्रह्मोपासनं देशिकाद्य्-उपास्ति-सहितं स्व-तारतम्यात् फल-तारतम्य-हेतुर् भवेन् न वेति । निरञ्जनः परमं साम्यम् उपैति इत्य् आदौ विशेषाश्रवणात्, न तद् धेतुर् भवेत् । न हि नाना-विधैर् वर्त्मभिर् उपेयं नगरं तद्-उपेतृभिर् वैविध्येन दृष्टम् इति शक्यं वक्तुम् इत्य् एवं प्राप्ते—

प्रज्ञान्तर-पृथक्त्ववद् दृष्टश् च तद् उक्तम् ।

विज्ञाय प्रज्ञां कुर्वीत [बृ.आ.उ. ४.४.२१] इति द्वे प्रज्ञे दृष्टे । तत्रैका शाब्दी, अन्या तूपासना । तस्याः पृथक्त्वं भेदः । तद्वद् एव तद्-उपासकानां तद्-दृष्टिर् भवति । तद् उक्तम् इति, यथा क्रतुर् [छा.उ. ३.१४.२] इत्य् आदौ तत् तारतम्यम् उक्तम् इत्य् अर्थः । तथा चोपासनाउयायि-भगवद्-दर्शनं ततो विमुक्तिर् इति । साम्य-पारम्यं तु नैरञ्जन्यांशेन बोध्यम् ॥५२॥

स्याद् एतत् । न च विद्यया विना दृष्टिः, नापि दृष्टिं विना विमुक्तिर् इत्य् उक्तम् । तद् उभयम् अयुक्तं भगवत्-प्राकट्यावसरे विद्या-शून्यैर् अपि तद्-दृष्टेर् लाभात् दृष्टिमद्भिर् अपि विमुक्तेर् अलाभाद् इति चेत्, तत्राह—

न, सामान्याद् अप्य् उपलब्धेर् मृत्युवन् नहि लोकापत्तिः

अपिर् अवधारणे । सामान्यात् साधारण्येन योपलब्धिर् दृष्टिस् तस्या न मोचकत्वम् । यतो मृत्यु-मात्रस्य तन् नास्ति । किं तर्हि सामान्य-दृष्टेः फलं ? तत्राह—लोकापत्तिर् इति । यथा सुदर्शनस्य विद्याधरस्य लब्ध-सामान्य-दृष्टेर् यथा च मृगस्य राज्ञो लोकापत्तिः फलम् उक्तम् ।

ननु सैव मुक्तिर् इति चेत्, तत्राह—न हीति । दृष्टिः खलु लोकापत्तिः सेत्य् अर्थः । स्मृतिश् च—सामान्य-दर्शनात् लोका मुक्तिर् योग्यात्म-दर्शनात् इति । अयं भावः—दृष्टिः खलु द्वेधा—आवृत-विषयानावृत-विषया चेति । तत्राद्या पुण्योद्रेकेण जायमाना तत्-प्रभावेन स्वर्गादि-लोकान् प्रापयति । अन्तिमा तु ब्रह्म-विद्यया लिङ्गम् अङ्गे सति परम-प्रेष्टत्व-चित्-सुख-विग्रह-विषयतया जायमाना विमोचयतीति सर्वं सङ्गिमत् । यत् तु हतिकालिकं तद्-वीक्षणं मोक्षकं वदन्ति । तत्रापि तच्-चक्रादि-स्पर्श-महिम्ना लिङ्ग-पर्यन्त-विनाशात् । ततः प्रियत्वादिना तद्-दृष्टेः सेति बोध्यम् । इतरथा बहु-वाक्य-व्याकोपापत्तिः ॥५३॥

अधिकरणम् ५९ (ताद्विध्याधिकरणम्)

विद्यया दर्शनात् विमुक्तिर् इत्य् एतत् द्रढयितुम् आरम्भः । मुण्डके काठके च श्रूयते—

नायम् आत्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क.उ. २.२.२३, मु.उ. ३.२.३] इति ।

अत्र संशयः—भगवत्-कृताद् वरणाद् एव तत्-साक्षात्कार उत वित्ति-विरक्ति-युक्त-तद्-भक्ति-हेतुकाद् एव तस्माद् इति । शब्द-स्वारस्यात् केवलाद् एव तद्-वरणात् स इति प्राप्ते—

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः

शब्दस्य वरणैक-लभ्यत्व-बोधकस्य तस्य वाक्यस्य ताद्विध्यं भक्ति-लभ्यत्व-बोधन-परत्वं परेण तद्-अव्यवधिना वाक्येन च शब्दाद् वाक्यान्तरेण च गम्यतेऽतो वरणाद् एव तत्-साक्षात्कार इति तस्य नार्थः । एतद् उक्तं भवति—

नायम् आत्मा बल-हीनेन लभ्यो
न च प्रमादात् तपसो वाप्य् अलिङ्गात् ।
एतैर् उपायैर् यतते यस् तु विद्वांस्
तस्यैष आत्मा विशते ब्रह्म-धाम ॥ [मु.उ. ३.२.४]

इति पर-वाक्यं मुण्डकेऽस्ति । इहैतैर् उपायैर् इति बलाप्रमादादि-साधन-क्रमो निर्दिष्टः । बलं खलु भक्तिर् एव तादृक् । वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा [भा.पु ९.४.६६], पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [गीता ८.२२] इति वाक्यैकार्थ्यात् ।

नाविरतो दुश्चरितान्
नाशान्तो नासमाहितः ।
नाशान्त-मानसो वापि

प्रज्ञानेनैनम् आप्नुयात् ॥ [क.उ. २.२.२४] इति पर-वाक्यं काठके ।

इह सद्-आचार-निरतो जितेन्द्रियो हरिं ध्यायंस् तम् अनुभवतीति क्रमेण साधनान्य् अभिहितानि । तथा च पर-वाक्यैकार्थ्यात् पूर्वत्र भक्ति-हेतुकम् एव वरणम् अवसीयते । किं च वरणेनैव लभ्य इति पूर्व-वाक्यार्थः । तत्र प्रेष्ठ एव वर्णीयो वाच्यो नाप्रेष्ठः । प्रेष्ठत्वं च स्वस्मिन् भक्तिमत एव नाभक्तस्येति । यद् उक्तं स्वयम् एव—

तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥ [गीता ७.१७]

इति श्रद्धा-भक्तीत्य् आदि-वाक्यान्तरेण चैतद् एवम् । इतरथा तद् व्याकुप्येत् । वैषम्यादि च भगवतीति ।

ननु वृतेनैव लभ्य इति निर्बन्धः कुतः ? तत्राह—भूयस्त्वाद् इति । तुर् अवधारणे । तत् साक्षात्कारं प्रति वरणस्याति-बहुत्वात् स इत्य् अर्थः । वरणाव्यवधानेन स यद् भवतीति । अयम् अत्र क्रमः—तया प्रेष्ठत्वेन वरणम् । ततस् तत्-साक्षात्कृतिर् इति ॥५४॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।२।३३, १०।८७।३९

अधिकरणम् ६० (शरीरे भावाधिकरणम्)

दास्य-सख्यादि-भावाः प्रारम्भाद् एव परमे व्योम्नि हरिम् उपासते, तत्रैव तं द्रक्ष्यन्तीति मतम् । अथ केचित् शान्ति-भावास् तम् आदौ जाठरादाव् उपासत इति दर्श्यते । अत्र जाठरादि-वाक्यानि विषयः । जाठरादौ हरिर् उपास्यो न वेति संशयः । प्राकृते तस्मिन्न् असत्त्वान् नोपास्यः किन्त्व् अप्राकृते परमे व्योम्न्य् एव नित्यं सत्त्वात् तत्रैवोपास्य इति प्राप्ते—

एक आत्मनः शरीरे भावात्

एके केचिच् छाखिनः शरीरे देहे, जाठरे हृदि ब्रह्म-रन्ध्रे चेत्य् अर्थः, आत्मनो विष्णोर् उपासना कार्येति मन्यन्ते । कुतः ? भावात् । तत्रापि तस्य सत्त्वाद् इत्य् अर्थः । अक्के चेन् मधु विन्देत किम्-अर्थं पर्वतं व्रजेत् ? इति न्यायात् । प्रसादितस् तु दास्यत्य् एव क्रमेण निज-पदम् इति तद्-अभिप्रायः । स्मृतिश् चैवम् आह—

उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः
परिसर-पद्धतिं हृदयम् आरुणयो दहरम् ।
तत उदगाद् अनन्त तव धाम शिरः परमं
पुनर् इह यत् समेत्य न पतन्ति कृतान्त-मुखे ॥ [भा.पु १०.८७.१८] इति ॥५५॥

रामपद चट्टोपाध्याय : १०।८७।१८

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१८

अधिकरणम् ६१ (तद्-भाव-भावित्वाधिकरणम्)

यथा क्रतुर् [छा.उ. ३.१४.१] इत्य् आदिषु वाक्येषु माधुर्य-गुणकम् ऐश्वर्य-गुणकं चोपासनम् उक्तम् । तादृक् सत्-प्रसङ्गानुयायीश-सङ्कल्पात् तत्र तत्रैव जीवानां प्रवृत्तिस् तेन तेन प्राप्तिश् च तत्-तद्-गुण-स्वरूपेति च्छन्दत उबयाविरोधाद् इत्य् आदिभ्यां दर्शितम् । इह संशयः—येनोपासनेन यद्-गुणकं स्वरूपं ध्यातं तद्-गुणकम् एव तत्-प्राप्तुम् उतास्ति ध्यात-गुणाद् गुणातिरेक इति । उभयत्रापि ध्याने ध्येयैक्यात् गुणोपसंहार-न्यायाच् चास्तीति प्राप्ते—

व्यतिरेकस् तद्-भाव-भावित्वान्, न तूपलब्धिवत्

तु-शब्दः शङ्का-च्छेदार्थः । नास्ति गुणातिरेकः । कुतः ? तद्-भावेति । तद्-भावस्य ध्यानानुयायि-गुणकत्वस्य तद्-धर्मस्य भावित्वात् । प्र्पताव् उद्देश्यत्वाद् इत्य् अर्थः । उपलब्धिवत् ज्ञानवत् । यथा ज्ञात्वा ध्यातं तत्रैव प्राप्ताव् उदियात् । यद्यपि तद्-विदुषां स्वोपास्येतर-गुणाधारकत्व-धीर् अस्ति तथापि तेषां तद्-इतरेषां प्राप्ताव् अनुदयो ध्यानाभावात् । इत्थं च यथा-क्रतु-श्रुत्य्-अव्याकोपः ॥५६॥

र्प्द् : ३।९।११, ६।४।२८, १०।६४।२०, १०।६०।२६, १०।४३।१७।

भागवत-भाष्यम् (हरिदास शास्त्री): १।२।११, ३।९।११

तादृशेन तत्-सङ्कल्पेनैव तत्र तथैव प्रवृत्तिस् तेन तेन तथा प्राप्तिर् इत्य् अत्र दृष्टान्तेन सूत्रम् आह—

अङ्गावबद्धास् तु न शाखासु हि प्रतिवेदम्

तत्-तद्-ऋत्विग्-नियत-कर्तव्येष्व् अग्न्य्-आधानादिषु यज्ञाङ्गेषु यमनानेन सर्व ऋत्विजोऽवबद्धाः । अवबन्धनं नाम-करणम् एव । अध्वर्युं त्वां वृणे, होतारं त्वां वृणे, उद्गातारं त्वां वृणे, इत्य् आदि रूपम् । तस्माद् एव हेतोः सर्व-कर्म-निपुणानाम् अपि तेषाम् एकत्राधिकारो, न तु सर्वत्रेति नियमः । तथा-भूताश् च ते सर्वासु शाखासु विहितान्य् अङ्गानि कर्तुं न प्रभवन्ति । हि यतः प्रतिवेदम् अङ्गानि नियमितानि ऋचा हौत्रं यजुषाध्वर्य्यवं साम्नौद्गात्रम् अथर्वणा ब्रह्मत्वम् इति । अत्र यजमानेच्छैव यथर्त्विजां कर्म-विशेषं दक्षिणा-भेदे च प्रवर्तिका, तथा जीवानां तत्-तद्-उपासने तत्-तत्-स्वरूपे च तादृशीशेच्छैवेति ॥५७॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।४०।५, १०।४०।७, १०।४०।९, १०।२२।२५

अथोद्धवादीनां विमिश्र-भाव-दर्शनाद् असन्तोषात् निदर्शनान्तरम् आह—

मन्त्रादिवद् वाविरोधः

तत्-तद्-विषयक-भक्ति-प्रवर्तनाय तादृशस् तत्-सङ्कल्पो मन्त्रवत् । यथैक एव मन्त्रो बहुषु कर्मसु विनियुज्यते, कश्चित् तु द्वयोः, कश्चित् तु एकस्मिन्न् एवेति तथैव विधानात् । आदि-शब्दात् काल-कर्म-ग्रहः । यथैक एव कालः क्वचित् कुसुम-पत्रादेः, क्वचिन् निष्पत्रस्य च क्वचिद् बाल्यस्य क्वचित् तारुण्यस्य च हेतुः स्यात्, एवं वाविरोधः । तथा च यद्-गुणकं यत्-स्वरूपम् उपास्यते तद्-गुणकम् एव मोक्षे स्फुरतीति चिन्तित-गुणान् गुणान्तरातिरेको नेति सिद्धम् ॥५८॥

अधिकरणम् ६२ (भूम-ज्यायस्त्वाधिकरणम्)

अथैतद् विचार्यते—एकोऽपि सन् बहुधा योऽवभाति इति, एकं सन्तं बहुधा दृश्यमानम् इति, अथ कस्माद् उच्यते ब्रह्म इत्य् आदि च श्रूयते । अत्र वैदूर्यादिवत् भगवति मिथो विलक्षणानि बहूनि रूपाणि सन्ति । तैर् विशिष्टोऽसाव् एकोऽपि बहुर् अभिधीयते, एवं-गुणेऽपि प्रकार-बाहुल्यात् तत्त्वम् अवसेयम् ।

इह संशयः—स्वरूप-गतं गुण-गतं च बहुत्वं श्रूयमाणं सर्वस्मिन्न् उपासने चिन्त्यं न वेति । आनन्दादेर् एव सर्वत्रापेक्षणात् । बहुत्वस्यैकस्मिन्न् अविरोधाच् च नेति प्राप्ते—

भूम्नः क्रतुवज् ज्यायस्त्वम्, तथा हि दर्शयति

भूम्नो बहु-भावस्य यस्मात् सर्वेषु गुणेषु ज्यायस्त्वं क्रतुवत् सर्वत्र सह-भावाद् अतः सर्वत्रासौ चिन्त्यः । यथा क्रतुर् ज्योतिष्टोमस्य दीक्षाद्य्-अवभृथान्तेष्व् अनुवृत्तेर् ज्यायस्त्वं, तथा सर्वत्र स्वरूप-धर्मादिष्व् अनुवृत्तेर् भूम्नस् तत्-प्रमाणम् आह—तथा हीति । यो वै भूमा तत् सुखं नाल्पे सुखम् अस्ति भूमैव सुखम् [छा.उ. ७.२३.१] इति श्रुतिर् आनन्दादेर् भूमाविना-भावं दर्शयन्ती तस्यानुचिन्तनं सर्वत्रानुज्ञापयतीत्य् अर्थम् । येन विना कर्म-नित्यत्वं न सिध्येत् ॥५९॥

र्प्द् : १।१४।५, ९।१०।१३, १०।१४।६, ६।४।२३

भागवत-भाष्यम् (हरिदास शास्त्री): २।१०।३६, २।७।३९

अधिकरणम् ६३ (शब्दादि-भेदाधिकरणम्)

अथ तेषु बहुषु रूपेषु उपासनम् एक-विधं विविधं वेति सन्देहे उपास्य-स्वरूपाभेदाद् एक-विधम् इति प्राप्ते—

नाना-शब्दादि-भेदात्

तेषु रूपेषु नानैवोपासनम्, प्रतिरूपं पृथक् तद् इत्य् अर्थः । कुतः ? शब्देति । तत्-तद्-वाचकानां नृसिंहादि-शब्दानां मन्त्राणाम् आकार-कर्मणां च वैलक्षण्याद् इत्य् अर्थः ।

कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः ।
नाना-वर्णाभिधाकारो ननैव विधिनेज्यते ॥ इति ।

तस्माद् भिन्ना पूजेति ॥६०॥

नृसिंहादि-पुरुषोत्तम-रूपोपासनानि विभिन्न-विधानीत्य् उक्तम् । अथ तानि तत्-तद्-उपासकैः समुच्चितानुष्ठेयानि विकल्प्य वेति वीक्षायां नियमे हेत्व्-अभावात् समुच्चित्येति प्राप्ते—

विकल्पोऽविशिष्ट-फलत्वात्

तेषाम् अनुष्ठाने विकल्प एव । यादृक् सत्-प्रसङ्गानुयायि-भगवत्-सङ्कल्पाद् उपासनम् उपलभ्यते तद् एवानुष्ठेयं, न त्व् अन्यद् इत्य् अर्थः । कुतः ? अविशिष्टेति । तेषां सर्वेषाम् अविशिष्टं समानम् एव मोक्ष-साक्षात्कार-लक्षणं फलम् उक्तम् । एकेनैव तस्मिन् सिद्धे किम् अनेन्येत्य् अर्थः । यद्यपि तद्-विदुषाम् इत्य् आदिकं तु न विस्मर्तव्यम् एकान्ति-श्रैष्ठ्य-दाऋढ्यात् पौनरुक्तं न दोषः ॥६१॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।४०।७, १०।४०।९

अधिकरणम् ६४ (काम्याधिकरणम्)

मोक्ष-फलकानि नृसिंहाद्य्-उपासनानि तत्-तद्-एकान्तिनां नित्यानीत्य् उक्तम् । अथ कीर्ति-लोक-जय-सम्पस्यादि-फला ब्रह्मोपास्तयो बृहद्-आरण्यकादौ पठ्यन्ते । तासां विकल्पः समुच्चयो वेति वीक्षायां ब्रह्मोपास्तित्वाविशेषात् पूर्ववद् विकल्प इति प्राप्ते—

काम्यस् तु यथा-कामं समुच्छीयेरन् न वा पूर्व-हेत्व्-अभावात्

काम्यास् तत्-साक्षात्कारानपेक्षाः कीर्त्यादि-तद्-अन्य-फलास् ता यथा-कामं सकामैस् तद्-उपासकैः समुच्चीयेरन् न वा ? कुतः ? पूर्वेति । फल-भेदाद् इत्य् अर्थः । सति तत्-तत्-फल-कामे सर्वास् ताः कार्याः । असति तु तस्मिन् कदाचिद् अपि नेत्य् अर्थः । इदम् अत्राकूतम् । यदि मुमुक्षुर् अपि कश्चित् फलान्तरम् इच्छेत्, तर्हि स तेन तत् पदं हरिम् एवोपासीत न देवतान्तरम् ।

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा.पु २.३.१०] इत्य्-आदि-स्मृतिभ्यः ।

एतेन दशार्णाद्य्-उपास्तयोऽपि व्याख्याआः । पूर्वानुमानं तु सोपाधिकं बोध्यम् ॥६२॥

र्प्द् : २।३।२-४, २।३।१०, ७।९।२६, १०।८८।८

अधिकरणम् ६५ (यथाश्रय-भावाधिकरणम्)

एवम् अङ्गि-गुण-ध्यानम् अभिधायेदानीम् अङ्ग-गुणानभिधातुम् उपक्रमते । श्री-गोपालोपनिषदि पूर्व-तापिन्य्-अवसाने, तम् एकं गोविन्दम् इत्य् आरभ्य स-मरुद्-गणोऽहं परमया स्तुत्या तोषयामि इति प्रतिज्ञाय, ॐ नमो विश्व-रूपाय इत्य् आदिभिः पद्यैर् विधेर् हरिं स्तुवन् तन्-मुख-नेत्रादिष्व् अङ्गेषु मन्द-स्मित-कृपा-वीक्षणादीन् गुणान् निरदिक्षत् । इह संशयः—मन्द-स्मितादयो मुखाद्य्-अङ्ग-गुणः पृथक् चिन्त्या न वेति । अङ्गि-गुण-ध्यानेनैव पुमर्थ-सिद्धेः पृथक् ध्यानेन फलानतिरेकाच् च ते न ध्येया भवन्तीति प्राप्ते—

अङ्गेषु यथाश्रय-भावः

अङ्गेषु मुखादिषु यथाश्रयं भावश् चिन्तनं कार्यम् । यद् अङ्गं यस्य गुणस्याश्रयस् अत्र तस्य चिन्तनम् विधेयम् इत्य् अर्थः । मुखे मन्द-स्मितं प्रियभाषणं च, नेत्रयोः कृपा-वीक्षणं चेत्य् एवम् आदि ॥६३॥

र्प्द् : ३।२८।२०-३३, ४।८।३९-४५।

शिष्टेश् च

स्तुत्य्-अन्ते, अथ हैवं स्तुतिभिर् आराधयामि तथा यूयं पञ्च-पदं जपन्तः कृष्णं ध्यायन्तः संसृतिं तरिष्यथ इति शिष्यान् प्रति विधिनाङ्ग-गुण-ध्यानोपदेशाच् च स स तत्र तत्र चिन्त्य इत्य् अर्थः ॥६४॥

ननु, यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी इत्य् अत्र कृपावलोक-मात्रम् उक्तं नान्यत् किञ्चिद् इति चेत्, तत्राह—

समाहारात्

तृतीय-सूत्रात् नेत्य् आकृष्य सूत्र-द्वयेसम्बन्धनीयम् । तेनान्येषां सङ्ग्रहान् न किञ्चिद् ऊनम् इत्य् अर्थः ॥६५॥

र्प्द् : २।२।१३-१४, ३।२८।३४-३५

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२८।१७-१८

तत्र तत्रिव तस्य तस्य चिन्तनं कार्यम् इत्य् एतद् आषिपति—

गुण-साधारण्य-श्रुतेश् च

सर्वतः पाणि-पादं तत् इत्य् आदाव् अङ्गेषु गुण-साधारण्यात् तत्र तत्रैव तस्य तस्य चिन्तनम् इति सम्भवतीत्य् अर्थः । अङ्गानि यस्य सकलेन्द्रिय-वृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति तथा जगन्ति इत्य् आदिका स्मृतिर् अपि सर्वत्र सर्व-गुण-योगं वक्तीति च शब्दात् ॥६६॥

निरस्यति—

न वा तत्-सहभावाश्रुतेः

वेत्य् अवधारणे । अङ्गेषु गुण-साधरण्यं न चिन्त्यम् । कुतः ? तत्-सहेति । यस्मिन्न् अङ्गे यो गुणः पठितस् तत्-सह-भावोऽन्येषां गुणानां न श्रूयते, अतो न तच् चिन्त्यम्, किन्तु यथाश्रयं भावनम् । सर्वतः पाणीत्य्-आदिकं तु सर्वत्र सर्व-शक्तिर् अस्तीत्य् एव निवेदयद् गतार्थम् ॥६७॥

दर्शनाच् च

मुख्यादिष् एव मन्द-स्मितादीनां वर्णनं दृष्टम् अतश् च तथा ॥६८॥

र्प्द् : ४८।३९-४५

अधिकरणम् ६६

॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥

अधिकरणम् ६७ (पादः ४, पुरुषार्थाधिकरणम्)

श्रद्धा-वेश्मन्य् आस्तृते सच्छमाद्यैर्

वैराग्योद्यद्-वित्ति-सिंहासनाढ्ये ।

धर्म-प्राकारञ्चिते सर्व-दात्री

प्रेष्ठा विष्णोर् भाति विद्येश्वरीयम् ॥

पूर्वस्मिन् पादे ध्यानोपासनादि-शब्द-वाच्या ब्रह्म-विषया सपरिकरा विद्या दर्शिता । अथास्मिन् पादे तस्याः स्वातन्त्र्यं कर्मणस् तद्-अङ्गत्वं तद्-अधिकृतानां त्रैविध्यं चेत्य् एवम् आदयोऽर्थाः प्रकाश्यन्ते । तत्र क्रतु-भेदात् विद्यार्थिनस् त्रेधा सम्भवन्ति । केचित् लोक-वैचित्री-दिदृक्षवो वर्णाश्रम-धर्मान् परिनिष्ठयाचरन्तः सनिष्ठा उच्यन्ते । केचित् तु लोक-सञ्जिघृक्षयैव तान् आचरन्तः परिनिष्ठिताः । ते चैते चोभये साश्रमाः । परे तु प्राग्-भवीयैर् धर्मैः सत्य-तपो-जपादिभिश् च विशुद्धा निरपेक्षाः । तत्र ते निराश्रमाः । इत्य् एवं त्रैविध्यं व्यक्तं भावि । तत्रादौ विद्यायाः स्वातन्त्र्यम् उच्यते । तरति शोकम् आत्मवित्, ब्रह्म-विद् आप्नोति परम् इत्य् एवम् आदीनि वाक्यानि श्रूयन्ते । एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत् इति काठके च ।

इह संशयः—विद्या मोक्षस्यैव हेतुर् उत स्वर्गादेश् चेति । विदुषोऽन्यत्र स्पृहाभावान् मोक्षस्यैवेति प्राप्ते—

पुरुषार्थोऽतः शब्दाद् इति बादरायणः

सर्वोऽपि पुरुषार्थोऽतो विद्यात एव स्याद् इति भगवान् बादरायणो मन्यते । कुतः ? शब्दात् । उक्त-श्रुतेर् इत्य् अर्थः । विद्यया परितुष्टो हरिः स्व-भक्ताय आत्मानं ददाति । कर्दमादिवत् फलान्तरेच्छायां तु तयैव कर्म-परिकरतया तच् चार्पयतीति ॥१॥

रामपद चट्टोपाध्याय : ११।१८।३५, ११।११।१०-१२

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।२८, ११।१८।३६।

अत्र जैमिनिः प्रत्यवतिष्ठते—

शेषत्वात् पुरुषार्थ-वादो यथान्येष्व् इति जैमिनिः

इज्यस्य विष्णोर् यजमानस्य स्वस्य च स्वरूप-सम्बन्धौ विज्ञाय तद्-उक्तेषु तद्-आराधनात्मकेषु कर्मसु जीवः स्वयं प्रवर्तते । तैर् असौ निवृत्त-कल्मषोऽदृष्ट-द्वारा स्वर्ग-मोक्ष-रूपं फलं भजतीति विद्यायाः कर्म-शेषत्वात् । तस्यां या फल-श्रुतिः, सा पुरुषार्थ-वादः पुरुष-सम्बन्ध्य्-अर्थ-वादः स्यात् । यथान्येषु द्रव्य-संस्कार-कर्मसु, पर्ण-मयी जुहूर् भवति न स पापं श्लोकं सृणोति [कृ.य.वे. ३.३.५.७], यदाङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते [कृ.य.वे. ६.६.१.१], यत् प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्-यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै [कृ.य.वे. २.२.६.१] इत्य् एवं-विधा फल-श्रुतिर् अर्थ-वादः, तद्वद् इति जैमिनिर् मन्यते । यद् उक्तं द्रव्य-संस्कार-कर्मसु परार्थत्वात् फल-श्रुतिर् अर्थ-वादः स्याद् इति । यावज्-जीवं गृहि-धर्मान् यज्ञादीन् अनुतिष्ठतः शम-दमाद्य्-उपेतस्य ब्रह्म-प्राप्तिः श्रूयते—आचार्य-कुलाद् वेदम् अधीत्य इत्य् आदिना ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते [छा.उ. ८.१५.१] इत्य् अन्तेन । स्मर्यते च—

वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ इति ।

एवम् अन्यच् च । त्याग-वाक्यं तु कर्मानर्ह-पङ्ग्व्-अन्ध-विषयम् इति ॥२॥

रामपद चट्टोपाध्याय : ११।५।३७-३८

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।२९, ११।१८।३१।

इतोऽपि कर्माङ्गम् आत्म-विद्येत्य् आह—

आचार-दर्शनात्

जनको ह वैदेहो बहु-दक्षिणेन यज्ञेनेजे, यक्षमाणो ह वै भगवन्तोऽहम् अस्मि इति बृहद्-आरण्यकादिषु विद्वद्-वरिष्ठानाम् अपि कर्माचार-वीक्षणात् । केवलया विद्यया पुमर्थ-सिद्धौ क्रिया-प्रयासस् तेषां न स्यात् । तद् एके चेद् इत्य् आदि न्यायात् ॥३॥

तच्-छ्रुतेः

यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव विर्यवत्तरं भवत् इति छान्दोग्ये तस्याः कर्म-शेषत्व-श्रवणात् ॥४॥

भागवत-भाष्यम् (हरिदास शास्त्री): ७।११।७, ११।३।४६।

समान्वारम्भणात्

तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च [बृ.आ.उ. ४.४.२] इति बृहद्-आरण्यके विद्या-कर्मणोः फलारम्भे साहित्य-दर्शनाद् इत्य् अर्थः ॥५॥

रामपद चट्टोपाध्याय : ११।१८।४५

भागवत-भाष्यम् (हरिदास शास्त्री): ११।४।४३-४५

तद्वतो विधानात्

ब्रह्मिष्ठो ब्रह्मा दर्शपौर्णमासयोस् तं वृणीते [तै.सं] इति तैत्तरीयके ब्रह्म-ज्ञानवतो ब्रह्मत्वेन वरण-विधानात् । ब्रह्म-ज्ञानस्य आर्त्विज्याधिकार-सम्पादकत्वात् कर्माङ्गा विद्येत्य् अर्थः ॥६॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।४।४८, ६।७।३२

नियमाच् च

ईशावास्योपनिषदि,

कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ [ईश.उ. २]

इत्य् आत्म-विदो यावज्-जीवं कर्मानुष्ठान-नियमाच् च । एतेन क्वचित् त्याजक-वाक्य-श्रवणात् विधान-त्यागयोर् विकल्प इत्य् अपास्तम् । तस्य पङ्ग्व्-आद्य्-अशक्त-विषयत्वात् । वीरहा वा एष देवानां योऽग्निम् उद्वासयते [कृ.यजुः १.५.२] इति तैत्तरीयक-श्रुत्या त्यागस्य विगीतत्वाद् इति ॥७॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।४।४५, ११।२०।९

इत्थं विद्यायाः कर्माङ्गत्वात् फल-साधने स्वातन्त्र्यं नेति प्राप्ते निरस्यति—

अधिकोपदेशात् तु बादरायणस्यैव तद्-दर्शनात्

तु-शब्दात् पूर्व-पक्षो व्यावृत्तः । कर्मणः सकाशाद् अधिका तद्-उद्देश्यत्वेन तत्-प्रधान-भूता विद्येति मन्तव्यम् । कुतः ? एवं बादरायणस्योपदेशात् । न च तद्-उपदेशो विनिर्मूल इत्य् आह—तद्-दर्शनाद् इति । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिशन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतम् एव विदित्वा मुनिर् भवत्य् एतम् एव प्रव्राजिनो लोकम् अभीप्सन्तः प्रव्रजन्ति [बृ.आ.उ. ४.४.२२] इति बृहद्-आरण्यके विद्या-फलकानि कर्माणि विधीयन्ते । जातायां च तस्यां तानि पुनः परित्याज्यन्ते । परत्र तेषां नैरर्थक्यात् साधनात् फलं किल प्रधानम् ॥८॥

रामपद चट्टोपाध्याय : ११।५।१६-१७, ११।२३।५०, ११।२८।३८, ११।३।४५, ११।३।४७, ११।२०।९, ११।१४।१९, ११।१२।८, ११।१२।१३

यत् तु विद्वद्-वरिष्ठानां कर्माचार-दर्शनात् तच् छ्रेयो विद्येत्य् उक्तं तन्-निरासायाह—

तुल्यं तु दर्शनम्

तद्-छेषत्व-सम्भावनानिरासाय तु-शब्दः । विद्यायाः कर्मानङ्गत्वेऽपि तुल्यं दर्शनम् अस्ति । एतद् ध स्म वै तद्-विद्वांसः आहुर् ऋषयः कावषेयाः किम्-अर्था वयम् अध्येष्यामहे, किम्-अर्था वयं यक्ष्यामहे, एतद् ध स्म वै तत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरे, एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति [बृ.आ.उ. ३.५.१] इति तत्रैव विद्या-निष्ठानां कर्म-त्याग-दर्शनाद् अनैकान्तिकं तल्-लिङ्गम् इति । कर्माचार-दर्शनम् अप्य् अत्र न बाधकं सत्त्व-शोधाय लोक-सङ्ग्रहाय चापेक्ष्यत्वात् ॥९॥

तच् छ्रुतेर् इति निराह—

असार्वत्रिकी

यद् एव विद्ययेति श्रुतिर् असार्वत्रिकी न सर्व-विद्या-विषया प्रकृतोद्गीथ-विद्या-विषयत्वात् । तेन सर्वासां विद्यानां न कर्माङ्गतेति ॥१०॥

रामपद चट्टोपाध्याय : ११।१९।१७, ११।२९।३२

भागवत-भाष्यम् (हरिदास शास्त्री): ११।२०।७-९

विभागः शतवत्

तं विद्या-कर्मणीत्य् अत्र विद्या-कर्म-कृतस्य फलारम्भस्य विभागो द्रष्टव्यः । विद्ययैकं फलम् आरभ्यते कर्मणा त्व् अन्यद् इति । तत्र दृष्टान्तः शतेति । यथा धेनु-च्छाग-विक्रयिणं शतम् अन्वेतीत्य् उक्तौ धेन्वा नवति-रूपा दीयन्ते, छागेन तु दशेति शतस्य विभागस् तथेहाप्य् उभयोर् भिन्न-फलत्वात् ॥११॥

रामपद चट्टोपाध्याय : १०।८०।८, ६।१६।३०

अध्ययन-मात्रतः ।

तत्र वेदाध्ययन-मात्र-निष्ठस्यैव, न तु ब्रह्मज्ञस्य ब्रह्मत्वेन वरणम् अतः कर्माङ्गत्वं तस्या प्रत्युक्तम् इत्य् अर्थः । तथा हि ब्रह्मिष्ठो ब्रह्मेत्य् अत्र ब्रह्म-शब्दो वेदार्थको, न तु पर-तत्त्वार्थकः, तदात्मकेन नैष्कर्म्य-श्रवणात् । ततश् चाविकृत-शब्द-रूपं वेदं विज्ञाय सर्वदा तद्-अध्ययन-मात्रं यः करोति, न तेन किञ्चिद् इच्छति स ब्रह्मिष्ठ उच्यते, प्रत्ययेनेष्टेनातथार्थ-बोधनाद् इति । ब्रह्म-विदो ब्रह्मत्वेनानुमतिर् अत्र कर्म-स्तुत्य्-अर्थेति केचित् ।

नन्व् अध्ययन-मात्रवतः कर्माधिकारो न तु ज्ञानवत इत्य् उक्तम् । अज्ञानस्य तद्-असम्भवात् अध्ययनस्य चार्थ-बोध-पर्यन्तत्वात् । तथा च वेदान्तर्गतोपनिषत्-सम्भूतात्म-ज्ञानस्यावर्जनीयत्वेन तस्या पुनस् तद्-अङ्गत्वम् इति चेत्, उच्यते—नहि शब्द-ज्ञानिनो ब्रह्म-वित्त्वं, किन्तु तद्-अनुभाविन एव । न च मधु मधुरम् इति शाब्दी-प्रतीतिम् उपेतस् तन्-माधुर्य-विद् भवति । तथा सति मत्ततादि-तत्-कार्योदय-प्रसङ्गात् । न चैवम् अस्ति । अत एव यद् वेत्थ तेन मोपसीदेति पृष्टेन नारदेन ऋग्-वेदादि-स्वाधीतम् उक्त्वा, सोऽहम् मन्त्रविद् एवास्मि नात्मवित् इति निर्दिष्टम् । तथा च शाब्द-ज्ञानाद् अन्यैवोपासना । भक्त्य्-अनुभव-पद-वाच्या विद्या पुरुषार्थ-हेतुः । उक्तं च तैत्तरीयके—

वेदान्त-विज्ञान-सुनिश्चितार्थाः
सन्न्यास-योगात् यतयः शुद्ध-सत्त्वाः ।
ते ब्रह्म-लोके तु परान्त-काले
परामृतात् परिमुच्यन्ति सर्वे ॥ इति ।

शाब्द-ज्ञानं तु वैराग्यम् इव तत्-परिकर-भूतम् ।

तच् छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया ।
पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥ [भा. १.२.१२] इति स्मृतेः ।

ननु काय-वाङ्-मनो-व्यापार-रूपा भक्तिः । तत्र मानसस्य ध्यानस्यानुभवत्वं भवेत् । काय-वाग्-व्यापार-रूपस्यार्चन-जपादेस् तत्त्वं कथम् इति चेद्, उच्यते--ह्लादिनी-सार-समवेत-संविद्-रूपा भक्तिः, सच्चिदानन्दैक-रसे भक्ति-योगे तिष्ठति [गो.ता.उ. २.७८] इति श्रुतेः । इतरथा भगवद्-वशीकार-हेतुर् असौ न स्यात् । तथाभूतायास् तस्या भक्त-कायादि-वृत्तिस् तादात्म्येन आविर्भूताया क्रियाकारात्ववद् अवसेयम् । श्रुतेस् तु शब्द-मूलत्वात् इति न्यायेनालौकिकेऽचिन्त्येऽर्थे तर्कस् तु निराकृतः ॥१२॥

रामपद चट्टोपाध्याय : ३।२।६, १।२।१२, १।५।३४-३५, १।५।१२, ६।७।३०, ९।९।६

नियमाच् चेति प्रत्याह—

नाविशेषात्

यावज् जीवं विदुषः कर्मानुष्ठानं तया श्रुत्या नियन्तुम् अशक्यम् । कुतः ? अविशेषात् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः इति तैत्तरीयक-श्रुत्य्-अपेक्षया तस्या प्रामाण्ये विशेषाभावात् । आश्रम-भेदेन तु श्रुति-द्वयं व्यवतिष्ठते ॥१३॥

रामपद चट्टोपाध्याय : ११।१०।४, ११।१४।९, ११।१२।८, ११।१२।१६, ११।२०।९।

भागवत-भाष्यम् (हरिदास शास्त्री): १।५।३३-३५

एवं चाद्यं परिहृत्य तद्-वाक्यार्थम् आह—

स्तुतयेऽनुमतिर् वा

वेत्य् अवधारणे । विद्या-स्तुत्य्-अर्थम् इयं यावज्-जीवं कर्मानुष्ठानानुमतिः ईशावास्यम् इति तत् प्रकरणात् । ईदृशी खलु विद्या यन्-महिम्ना सर्वदा कुर्वन्न् अपि कर्म न तेन विद्वान् विलिप्यते इति सा स्तूयते । एवं त्वयि नान्यथेतोऽस्ति [ईशो. २] इति वाक्य-शेषोऽपि तथाह । तथा च कर्माङ्गा विद्येति निरस्तम् ॥१४॥

रामपद चट्टोपाध्याय : ११।२९।१७-१८।

भागवत-भाष्यम् (हरिदास शास्त्री): ८।१।८-१०, ८।१।१४-१५।

अधिकरणम् ६८ (काम-काराधिकरणम्)

एवं विद्या-स्वातन्त्र्यम् अभिधायेदानीं महिमातिशयाद् अपि तद् उच्यते—एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् [बृ.आ.उ ४.४.२३] इति वाजसनेयके श्रूयते । तत्र विद्या-विशिष्टानां यथेष्टाचारः स्यान् न वेति संशये, यथेष्टाचारे विहित-त्यागेन प्रत्यवाय-सम्भवात् न स्यात्, इति प्राप्ते—

काम-कारेण चैके

काम-कारेण लोकानुग्रह-फलेन स्वेच्छा-पूर्वक-कर्मानुष्ठानेन जायमानयोर् गुण-दोषयोः सम्बन्धो ब्रह्म-विदि न स्याद् इत्य् एतद्-अर्थिकाम् एव नित्यो महिमेत्य् आदि श्रुतिम् एके शाखिनो यत् पठन्ति, अतः काम-चारेऽपि प्रत्यवायास्पर्शात् स स्याद् इति । ब्राह्मणो ब्रह्मआनुभवी । अत्र विहिते कर्मण्य् अनुष्ठिते न गुण-सम्बन्धस् त्यक्ते च तस्मिन् न दोष-सम्बन्धोऽपि । पुष्कर-पत्रे वारिधि-बिन्दोर् इव तत्र कर्मणोऽश्लेषात् प्रदीप्त-वह्नौ तृण-मुष्टोर् इव दोषस्य भस्मी-भावाच् च । अतः पुरु-प्रभावा सेति ॥१५॥

रामपद चट्टोपाध्याय: ११।१८।३५, ११।७।९, ११।१४।१८, १०।३३।३४

भागवत-भाष्यम् (हरिदास शास्त्री): ११।२१।२, ११।१४।१९।

एवम् अर्थः स्फुटयति—

उपमर्दं च

भिद्यते हृदय-ग्रन्थिः इत्य् आद्या श्रुतिः । यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन इति, ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा इति स्मृतिश् च विद्यया सर्व-कर्म-विनाशं दर्शयति । तस्माच् च तथा । अत्र सामि-भुक्तस्य प्रारब्धस्यापि तया विनाशे जाते तद्-उत्तर-कालिक-विहित-त्यागो दोषो न स्याद् इति न चित्रम् ।

ननु, देहारम्भकस्य कर्मणो भोगं विना विनाशो नाङ्गीकृत इति चेद् अत्रोच्यते—यद्यपि सर्वाणि कर्माणि निर्दग्धुं विद्या समर्था तथापि तत्-सम्प्रदाय-प्रचारार्थायेश्वरेच्छयैव देहारम्भकं कर्म न निर्दहति । तच् च दग्ध-पटादिवत् विद्वांसम् अनुवर्तत इति प्रारब्धस्य भोग-नाश्यत्व-वाक्योपपत्तिः । वक्ष्यति चैवं—अनारब्ध-कार्ये एव तु पूर्वे तद्-अवधेः इति ॥१६॥

रामपद चट्टोपाध्याय: १।२।१९, ११।१४।१९।

भागवत-भाष्यम् (हरिदास शास्त्री): १।२।२१, ११।२०।३०, ३।४।१५

ऊर्ध्व-रेतःसु च शब्दे हि

परिनिष्ठित-विशेषेष्व् एवोर्ध्व-रेतःसु यतिषु महा-विद्येषु यस्मात् यथेच्छं कर्माचारः शब्दे प्रतीयते । अतः स्वतन्त्रा विद्येत्य् अङ्गीकार्यम् । शब्दः खलु बृहद्-आरण्यक-श्रुतिः—तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर् अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृशः [बृ.आ.उ. ३.५.१] इति । निर्विद्य लब्ध्वा ।

सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-सङ्ग्रहम् ॥ [गीता. ३.२५]

इत्य् आदि तु प्रतिष्ठित-परिनिष्ठित-गृहि-विषयम् । तथा च कामचारेऽपि प्रत्यवायास्पर्शो विद्या-महिमेति ॥१७॥

रामपद चट्टोपाध्याय: ११।१८।२७-२९, ११।२०।३६

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।२९

अस्याः श्रुतेर् जैमिनि-मतेनार्थान्तरं दर्शयति—

परामर्शं जैमिनिर् अचोदना चापवदति हि

नियमात् विहित-कर्मणाम् एव स्वेच्छया करणं काम-चार इत्य् एव श्रुत्य्-अर्थः । हि यतः श्रुतिर् एव विदुषः कर्म-परामऋशं करोति कर्म-त्यागम् अपवदति च । तस्माद् अचोदना विद्वान् कर्माणि त्यजेद् इति विध्य्-अभाव इत्य् अर्थः । अयं भावः—कुर्वन्न् एवेह कर्माणि इत्य् आदि श्रुत्या विदुषाम् कर्म-विधानात् वीरहा वा इत्य् आदि-श्रुत्या कर्म-त्यागापवादाच् च तत्-त्यागे विधिर् न सम्भवेत् । युगपत् विधान-त्यागयोर् विरोधात् । न च त्याजक-वाक्यानां निर्विषयता, तेषां परङ्-वाद्य-शक्त-विषयत्वेनोपपत्तेः । तथा च विदुषां श्रौत-स्मार्तानि कर्माण्य् अङ्गीकृत्यैव तत्र केन स्यात् इत्य् आदि कामचारो, न त्व् अन्यथेति जैमिनिर् मन्यते इति ॥१८॥

रामपद चट्टोपाध्याय: ---

एवं तस्य वाक्यस्य जैमिनि-मतानुसारेण सदाचार-विधित्वम् उक्त्वाथ स्व-मते यथेच्छ-करणानुज्ञां तावत् तद्-अर्थं दर्शयति—

अनुष्ठेयं बादरायणः साम्य-श्रुतेः

अनुष्ठेयम् एव कर्म यथेच्छं किञ्चिच् चरणीयं किञ्चिच् च नेति भगवान् बादरायणो मन्यते । कुतः ? साम्य-श्रुतेः । केन स्यात् येन स्यात् तेनेदृशः इति श्रुत्या केनापि प्रकारेण वृत्ताव् अपि ज्ञानिनः साम्य-श्रवणाद् इत्य् अर्थः । जैमिनि-मतेन सर्व-चरण-पक्षे साम्योक्तिर् अनुवाद-मात्रं स्यात् विहित-कर्मणां सर्वेषां चरणे साम्य-सम्भवात् । केषांचित् परित्यागेऽपि साम्योक्तिर् असम्भव-निवृत्त्य्-अर्थत्वाद् उपपद्यत इति । कर्म-परामर्शस्य स्व-निष्ठ-विषयत्वाद् अविज्ञम् आदाय वीर-घात-श्रुत्य्-उपपत्तेश् च चोद्यं परिहृतम्, न च त्याग-श्रुतेर् अशक्त-विषयता तद्-बोधक-पदाभावात् न कर्मणा न प्रजयेत्य् आदौ मुक्त्य्-असाधनतया तत्-त्यागावगमाच् च ॥१९॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।५।४१।

विधिर् वा धारणवत्

केन स्याद् इत्य् आदिको विधिर् वा ज्ञानि-विषयः धारणवत् । यथा वेद-धारणं त्रैवर्णिकानां विधीयते एवं केन स्याद् इति यथेच्छं कर्माचरणं ज्ञानिनाम् एव परिनिष्ठितानां विधीयते नान्येषाम् इत्य् अर्थः ।

शौचम् आचमनं स्नानं न तु चोदनयाचरेत् ।
अन्यांश् च नियमान् ज्ञानी यथाहं लीलयेश्वरः ॥ २०॥

रामपद चट्टोपाध्याय: ११।१८।३५, ११।११।१०-१२

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।२८, ११।१८।३६

उक्तम् आक्षिप्य समादधाति—

स्तुति-मात्रम् उपादानाद् इति चेत्, न, अपूर्वत्वात्

ज्ञानिनः स्तुति-मात्रम् एवैतत्, न तु विधिः । यथा प्रीति-पात्रं कञ्चित् प्रत्युच्यते यथेष्टं कुर्व् इति तेन तस्य स्तुतिर् एव स्यात्, न तु यथेष्ट-कृति-विधानं, तथैतद् अपि ज्ञानिनोऽपि कर्म-विधि-स्वीकाराद् इति चेत्, न । कुतः ? अपूर्वत्वात् । ब्रह्मानुभविनि यथेष्टं कर्माचारस्य अपूर्व-विधित्वात् न स्तुति-मात्रं तद् इत्य् अर्थः ॥२१॥

रामपद चट्टोपाध्याय: ११।५।३७-३८

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।२९, ११।१८।३१

भाव-शब्दाच् च

मुण्डके—

प्रणो ह्य् एष यः सर्व-भूतैर् विभाति
विजानन् विद्वान् भवते नातिवादी ।
आत्म-क्रीड आत्म-रतिः क्रियावान्
एष ब्रह्म-विदां वरिष्ठः ॥ [मु.उ. ३.१.४]

इति भाव-वाचक-शब्दोपेतान् वाक्याद् इत्य् अर्थः । भावो रतिः प्रेमा चेति पर्याय-शब्दाः । अयं भावः—ब्रह्म-रतस्य परिनिष्ठितस्य तत्-समय-लाभात् लोक-सङ्ग्रहायैव कथञ्चित् किञ्चित् कर्मानुष्ठानम् इति स्वतन्त्रा ब्रह्म-विद्या ॥२२॥

रामपद चट्टोपाध्याय: ११।२१।११, ११।१४।२३-२४

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।२८, ११।१८।३५

अधिकरणम् ६९ (पारिप्लवाधिकरणम्)

अथ प्रकारान्तरेणाशङ्क्य समाधत्ते—

पारिप्लवार्थो इति चेन्, न, विशेषितत्वात् ॥

बृहद्-आरण्यकादिषु—अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर् मैत्रेयी च कात्यायनी च [बृ.आ.उ. ४.५.१] इति । भृगुर् वै वारुणिः । वरुणं पितरम् उपससार । अधीहि भगवो ब्रह्मेति [तै.उ. ३.१] । प्रतर्दनो ह वै दैवोदासिर् इन्द्रस्य प्रियं धामोपजगाम [कौषी.उ. ३.१] इति, जानश्रुतिर् ह पौत्रायणः श्रद्धादेयो बहु-दायी बहु-पाक्य आस [छा.उ. ४.१.१] इति चैवम् आदिभिर् उपाख्यानैः श्रुतिभिर् ब्रह्म-विद्या निरूप्यते । ताश् च पारिप्लवार्था उत ब्रह्म-विद्या प्रतिपत्त्य्-अर्था इति वीक्षायां पारिप्लवार्था इति विज्ञायते—सर्वाण्य् आख्यानानि पारिप्लवे शंसन्ति इति श्रवणात् । शंसने च शब्द-मात्रस्य प्राधान्येनार्थ-ज्ञानस्य अतथात्वाद् आख्यान-प्रतिपन्ना ब्रह्म-विद्या मन्त्रार्थ-वादार्थवद् अप्रयोजिकैवेति कर्म-शेषता तस्या नाख्यातुं शक्यातः प्रधानता तु सुदूरोत्सारिता धर्मिण एवासिद्देर् इति चेन्, न । कुतः ? विशेषित्वात् । पारिप्लवम् आचक्षीतेति प्रकृत्य तत्र प्रथमेऽहनि मनुर् वैवस्वतो राजेति, द्वितीयेऽहनीन्द्रो वैवस्वतो राजेति, तृतीयेऽहनि यमो वैवस्वतो राजेत्य् आख्यान-विशेषास् तत्र तत्र विनियुज्यन्ते । तत्राख्यान-सामान्य-ग्रहे दिवस-विशेषे आख्यान-विशेष-विधिर् अनर्थकः स्यात् । ततश् च सर्वाणीति तत्-प्रकरण-पठितान्य् एव ज्ञेयानि । तस्मात् वेदान्ताख्यानानि पारिप्लव-प्रयोगार्थानि नेत्य् अर्थः ॥२३॥

अधिकरणम् ७० (काम-काराधिकरणम्)

तथा चैक-वाक्योपबन्धात्

तथा च वेदान्तोपाख्यानानाम् असति पारिप्लवार्थत्वे सन्निहित-विद्या-प्रतिपत्त्य्-उपयोगित्वम् एव न्याय्यम् । कुतः ? एकेति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यः [बृ.आ.उ. ४.५.६] इत्य् आदि सन्निहित-विद्याभिर् एक-वाक्यतयोपबन्धात् । यथा सोऽरोदीत् इत्य् आद्य् उपाख्यानां सन्निहित-कर्म-विधेः स्तुत्य्-अर्थता, न तु पारिप्लवार्थता, तथैतेषां संनिहित-विद्या-स्तुत्य्-अर्थता स्यात् । अयं भावः—स्वतन्त्रैव पुमर्थ-हेतुर् विद्या, यद् अस्यां महान्तोऽपि महता प्रयासेन प्रवर्तन्त, इति प्ररोचनोपयोगात् प्रज्ञा-सौकार्योपयोगाच् चोपाख्यान-रीत्या विद्योपदेशः । तेन च आचार्यवान् पुरुषो वेद [छा.उ. ६.१४.२] इति श्रुत्य्-अनुग्रहश् च । तथा च स्वतन्त्रा सेति ॥२४॥

रामपद चट्टोपाध्याय: ११।१२।१६, ११।१०।१२, ११।१०।५

भागवत-भाष्यम् (हरिदास शास्त्री): ११।२१।४३

अत एव चाग्नीन्धनाद्य्-अनपेक्षा

अतो विद्या-स्वातन्त्र्य-प्रतिपादनाद् एव हेतोस् तस्याः स्व-फले प्रकाश्येऽग्नीन्धनादीनां यज्ञादीनां यज्ञादि-कर्मणां नास्त्य् अपेक्षेति ज्ञान-कर्म-समुच्चय-व्युदासः ॥२५॥

रामपद चट्टोपाध्याय: ११।१२।१३, ११।१४।१९

भागवत-भाष्यम् (हरिदास शास्त्री): ७।७।५१-५२

अधिकरणम् ७१ (सर्वापेक्षाधिकरणम्)

इत्थं विद्या-सामर्थ्याद्य् अभिधाय तद्-अधिकारिणं लक्षयितुम् आरभते । तम् एतं वेदानुवचनेन [बृ.आ.उ. ४.४.२२] इत्य् आदि । तस्माद् एवं-विच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो [श्रद्धा-वित्तो] भूत्वाऽऽत्मन्य् एवाऽऽत्मानं पश्यति [बृ.आ.उ. ४.४.२३] इति च श्रूयते बृहद्-आरण्यके । अत्र यज्ञ-शमादि च विद्याङ्गतया प्रतीयते । तद् उभयम् आवश्यकं न वेति संशये आचार्यवान् पुरुषो वेद इत्य्-आदिषु गुरूपसत्त्यैव तद्-उत्पत्ति-प्रत्ययात् नेति प्राप्ते—

सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत्

स्व-फल-प्रकाशे निरपेक्षापि विद्या स्वोत्पत्तौ सर्वापेक्षा सर्वान् यज्ञादि-धर्मान् अपेक्षते इत्य् अर्थः । कुतः ? यज्ञ- इति । तम् एतम् [बृ.आ.उ. ४.४.२२] इत्य् आदौ, तस्माद् एवम् [बृ.आ.उ. ४.४.२३] इत्य् आदौ च, विद्यार्थं यज्ञादेः शमादेश् च श्रवणाद् इत्य् अर्थः । तत्र दृष्टान्त–अश्व इति । यथा गति-निष्पत्तये अश्वोऽपेक्ष्यते, न तु निष्पन्न-गतेर् ग्रामादि-प्राप्तौ ॥२६॥

रामपद चट्टोपाध्याय: ११।२०।१०-११, ११।३।२९, १०।४७।२१

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१९।८

अधिकरणम् ७२

ननु यज्ञादिनैव विद्यादि-सिद्धौ शमादिना किम् इति चेत्, तत्राह—

शम-दमाद्य्-उपेतः स्यात् तथापि तु तद्-विधेस् तद्-अङ्गतया तेषाम् अवश्यानुष्ठेयत्वात्

तु-द्वयं निश्चय-शङ्का-च्छेदयोः । यद्यपि यज्ञादिना विशुद्धस्य विद्या स्यात्, तथापि विद्यार्थी शमादिभिर् उपेत एव स्यात् । कुतः ? तद्-अङ्गतया तद्-विधेः । तस्माद् एवंविद् इत्य् आदिना विद्याङ्गतया शमादीनां विधानात् विहितानां तेषाम् अवश्यम् अनुष्ठेयत्वाच् च । तथा च वाक्य-द्वयस्थत्वाद् उभयं कार्यम् । तत्र यज्ञादि बहिरङ्गं शमादि त्व् अन्तरङ्गम् इति विवेचनीयम् । आदि-पदात् प्राग्-उक्तं सत्यादि चेत्य् अधिकारि-लक्षणं दर्शितम् ॥२७॥

रामपद चट्टोपाध्याय: ११।२३।४१, ११।१०।५

भागवत-भाष्यम् (हरिदास शास्त्री): ११।५।२४, ११।१८।१७

अधिकरणम् ७३ (सर्वान्नानुमत्य्-अधिकरणम्)

अथ विदुषां निषिद्धाचारं निवारयति । यदि ह वा अप्य् एवंविन् निखिलं भक्षयीतैवम् एव स भवति इति श्रूयते । अत्र सन्देहः—विदुषः सर्वान्न-भुक्तौ विधिर् उताभ्यनुज्ञेति । सर्वान्न-भुक्तेर् मानान्तरेणाप्राप्तेर् विदुषोऽसौ विधीयत इति प्राप्ते—

सर्वान्नानुमतिश् च प्राणात्यये तद्-दर्शनात्

च-शब्दोऽवधारणे । अन्नालाभ-प्रयुक्त-प्राणात्यय-काल एव सर्वान्न-भक्षणे अभ्यनुज्ञैव । कुतः ? तद्-दर्शनात् । छान्दोग्ये मटाचीहतेषु कुरुषु [छा.उ. १.१०.१] इत्य् आरभ्य, न वा अजीविष्यम् इमान् अखादन्न् इति होवाच कामो न उदपानं [छा.उ. १.१०.४] इति चाक्रायणाचार-वीक्षणाद् इत्य् अर्थः । तत्रेयम् आख्यायिका—इभ्योच्छिष्ठान् कुल्माषांश् चाक्रायणो नाम र्षिः प्राण-त्राणाय चखाद, जल-प्रतिग्रहम् इभ्येनाभ्यर्थितोऽप्य् उच्छिष्ट-भयात् यथेष्टं लाभाच् च न तज् जग्राह । पुनः परेद्युः स्व-परोच्छिष्टान् पर्युषितांस् तान् भक्षयामासेति । अन्यत्राप्य् एवम् एव व्याख्येयम् ॥२८॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।६।४६, ११।१८।३५।

अबाधाच् च

आपदि सर्वान्न-भक्षणेऽनुमतिश् चित्तम् अदूषयता तेन ज्ञाने बाधाभावात् ॥२९॥

रामपद चट्टोपाध्याय: ११।२१।१६, ११।२१।११, ११।१८।३३

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।१८-१९।

अपि स्मर्यते

जीवितात्ययम् आपन्नो योऽन्नम् अत्ति यतस् ततः ।
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥ [मनु १०.२०४] इति स्मृत्या च ।

विपद्य् एव सर्वेषां सर्वान्न-भुक्तिर् उक्ता, न तु सर्वदा । अतस् तस्याम् अनुमति-मात्रम् एव, न तु विधिः प्रतिषेध-शास्त्राच् च ॥३०॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।३४

शब्दश् चातोऽकाम-कारे

यस्माद् आपद्य् एव सर्वान्न-भक्षक्षेऽभ्यनुज्ञानम् अतोऽकामचारे विदुषा प्रवर्तितव्यम् । शब्दश् च, आहार-शुद्धौ सत्त्व-शुद्धिः, सत्त्व-शुद्धौ ध्रुवा स्मृतिः स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः [छा.उ. ७.२६.२] इति छान्दोग्य-श्रुतिः कामचारं वारयति । तथा चापद्य् एव सर्वान्नाभ्यनुज्ञानाद् अनापदि शीयः समाचारः ॥३१॥

रामपद चट्टोपाध्याय: ११।१८।१८

भागवत-भाष्यम् (हरिदास शास्त्री): ७।१३।३८

अधिकरणम् ७४ (विहितत्वाधिकरणम्)

पूर्व-सन्दर्भे स्वनिष्ठादि-भेदेन त्रेधा विद्याजुषो दर्शिताः । अथ तेषु लब्ध-विद्येषु वर्णाश्रमाचारः कथं स्याद् इत्य् एतत् व्यवस्थापयितुम् आरभ्यते । तत्र तावत् स्व-निष्ठः परीक्ष्यते । पश्यन्न् अपीमम् आत्मानं कुर्यात् कर्माविचारयन् यद् आत्मनः सुनियतम् आनन्दोत्कर्षम् आप्नुयात् इति कौषारव-श्रुतौ संशयः । लब्ध-विद्येन स्व-निष्ठेन कर्माणि कार्याणि न वेति । विद्या-लक्षणस्य तत्-फलस्य प्राप्तत्वात् फल-प्राप्तौ साधन-निवृत्तेर् दृष्टत्वात् न कार्याणीति प्राप्ते—

विहितत्वाच् चाश्रम-कर्मापि

अपिर् वर्ण-कर्म-समुच्चयार्थः । तेन स्व-वर्णाश्रम-कर्माणि कार्याणि । कुतः ? विद्योपचितये । तं प्रति तेषां विहितत्वाद् एव ॥३२॥

रामपद चट्टोपाध्याय: ११।१०।१, ११।१८।४५

भागवत-भाष्यम् (हरिदास शास्त्री): ११।३।४४-४५

ननु जातायाम् अपि विद्यायां पुनः कर्म-विधानात् किं ज्ञान-कर्मणोः समुच्चयोभिइमतो नेत्य् आह—

सहकारित्वेन

विद्या-सहकारित्वेनैव तेन कर्माणि कार्याणि, न तु मुक्ति-हेतुत्वेन । तम् एव विदित्वा [श्वे.उ. ३.८] इत्य् आदौ तस्या एव तत्त्वाभिधानात् । एतद् उक्तं भवति । स्वनिष्ठेनादौ परमात्मानम् उद्दिश्य स्व-कर्माण्य् अनुष्ठितानि तेषु तद्-उद्देशेनैव विषोर्णादिवत् तद्-विषया विद्या समभूत् । तैर् असौ तासाम् आद्यापि तद्-विवृद्धये तान्य् अनुतिष्ठति । सा च स्वोत्तराणि तानि न विनाशयत्य् अविरोधात् । किन्तु स्वर्गादि-वैचित्रीम् अनुभावयितुं रक्षत्य् एव । ना हास्य कर्म क्षीयते [बृ.आ.उ १.४.१५] इति बृहद्-आरण्यकात् ।

न च तेषां तद्-अनुभव-फलकत्वात् काम्यत्वं, तेन तत्-कामनयाननुष्ठानात् । स्वनिष्ठो विद्वान् ब्रह्म प्राप्नुवन्न् अनुसङ्गात् स्वर्गादिकम् अनुभवति । ग्रामं गच्छंस् तृणं स्पृशतीति अत्र तृण-स्पर्शवत् । स्वर्गाद्य्-आनन्दानुभव-पूर्वकं ब्रह्म-प्रेप्सवे स्व-निष्ठाय विद्यैव स्व-परिकर-कर्म-द्वारा स्वर्गादिकम् अनुभावयति स्व-द्वारा तु ब्रह्म-पदम् इति श्रुतिश् चैवम् अभिप्रैति, तं विद्येत्य् आद्या । इत्थम् एव तस्य सङ्कल्पो बोध्यः । नैरपेक्ष्य-परीक्षायै क्वचित् स्व-द्वारापि स्वर्गादिकम् उपस्थापयति । सर्वं ह पश्यः पश्यति इत्य् आदि श्रुतेः । न चैवं तद्-अधिगम-न्याय-विरोधः, तस्य स्वनिष्ठेतर-विषयत्वेनोपपत्तेः । स्वनिष्ठस्य स्वर्गाद्य्-अर्पक-पुण्यांश-प्रारब्धांशौ तद्-इतरस्य परिनिष्ठितादेस् तु प्रारब्धांशम् एव विहायेतरत् सर्वं कर्म विनाशयतीति विद्यैव स्वतन्त्रा फल-हेतुः कर्म तु तस्या सहकारीति सिद्धम् ॥३३॥

रामपद चट्टोपाध्याय: १०।४७।२१, ११।१८।४३-४४, ८।३।१९, ११।२९।३०-३१

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१८।४६-४७

अधिकरणम् ७५ (सर्वथाधिकरणम्)

अथ परिनिष्ठितः परीक्ष्यते । आत्म-क्रीड आत्म-रतिः क्रियावान् [मु.उ. ३.१.४] इत्य् आदि श्रूयते । अत्र परिनिष्ठितस्य लोकार्थं वर्णाश्रम-धर्माः कर्तव्यतया प्राप्ताः प्रीत्य्-अर्थं श्रवणादयो भगवद्-धर्माश् च । तेषाम् उभयेषां युगपत्-प्राप्तौ किं ते क्रमेणानुष्ठेयाः किं वाद्यान् विहायोत्तरे ते इति सन्देहे युगपद्-अनुष्ठान-सम्भवात् विहितानां त्यागे दोषाच् चानिर्णयेन भाव्यम् इति प्राप्ते—

सर्वथापि त एवोभय-लिङ्गात्

अपिर् अवधारणे । सर्वथैव स्व-धर्मानुरोधम् अकृत्वैवेत्य् अर्थः । परिनिष्ठितेन तेन भगवद्-धर्मा एवानुष्ठेया । स्व-धर्मास् तु कथञ्चित् गौण-काले । एवं कुतः ? तत्राह—उभयेति । तम् एवैकं जानथ [मु.उ. ३.२.५] इत्य् आदि श्रुति-लिङ्गात् ।

महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥
सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः ।
नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥ [गीता ९.१३-१४]

इत्य् आदि श्रुति-लिङ्गाच् च ॥३४॥

रामपद चट्टोपाध्याय: १।८।३५, ११।१९।२, ११।१९।४-५, ११।२०।३२-३३।

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१२।१४-१५।

उपोद्बलकान्तरम् आह—

अनभिभवं च दर्शयति

नैनं पाप्मा तरति सर्वं पाप्मानं तरति । नैनं पाप्मा तपति सर्वं पाप्मानं तपति [बृ.आ.उ ४.४.२३] इति बृहद्-आरण्यक-श्रुतिः श्रवणाद्य्-अनुरोधेन स्वाश्रम-धर्माकरणे तज्-जन्यैर् दोषैः परिनिष्ठितस्यानभिभवं दर्शयति । अतस्नात् हित्वा अ एव कार्या इत्य् अर्थः । वर्णाश्रमाचारेति श्री-विष्णु-पुराण-वाक्ये तु तादृशेन यत् तद्-आराधनं तद् एव तत्-तोष-करम् इत्य् एव मन्तव्यं, न तु कर्मैव तद्-आराधनम् इति । पूर्वत्र—

यज्ञेशाच्युत गोविन्द माधवानन्द केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥
इति राजाह भरतो हरेर् नामानि केवलम् ।
नान्यज् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेऽपि च ।
एतत् पदं तद्-अर्थं च विना नान्यद् अचिन्तयत् ॥
समित्-पुष्प-कुशादानं चक्रे देव-क्रिया-कृते ।
नान्यानि चक्रे कर्माणि निःसङ्गो योग-तापसह् ॥ [वि.पु. २.१३.९-११]

इति भरते राज्ञि तद्-एक-निष्ठा-निगदात् ॥३५॥

रामपद चट्टोपाध्याय: ११।२०।९, ११।११।३२, ११।५।३८, ११।२०।२५

भागवत-भाष्यम् (हरिदास शास्त्री): १।८।३६

अधिकरणम् ७६ (विधुराधिकरणम्)

एवं साश्रमेषु विद्या दर्शिता तद्-उत्तरानुष्ठितिश् च । अथ निराश्रमेषु निरपेक्षेषु ते द्वे दर्श्येते । तथैव निराश्रमापि गार्गी ब्रह्मवित् पठ्यते । अथ वाचक्रव्य् उवाच—ब्राह्मणा भगवन्तो हन्ताहम् एनं याज्ञवल्क्यं द्वौ प्रश्नौ प्रक्ष्यामि [बृ.आ.उ ३.८.१] इत्य् आदिना । इह संशयः—निराश्रमेषु विद्या सम्भवेन् न वेति विद्योत्पत्ति-हेतुतया विश्रुतानाम् आश्रम-धर्मानं तेष्व् अभावान् नेति प्राप्ते—

अन्तरा चापि तु तद्-दृष्टेः

तु-शब्दः कर्माग्रह-निरासार्थः । च-कारो निश्चयार्थः । अन्तरा च विनैवाश्रम-धर्मान् विद्यमानेष्व् औत्पत्तिक-विरक्तिषु प्राग् भवानुष्ठितैर् धर्मैः सत्य-तपो-जपादिभिश् च परिशुद्धेषु तेष्व् अपि विद्या उदयते । कुतः ? तद्-दृष्टेः । तादृश्या गार्ग्या ब्रह्मवित्त्व-दर्शनात् । अयं भावः—प्राग्-भवीयानां धर्माणां फलोत्पत्तेः पूर्वम् एव देह-निपातात् न फल-सम्बन्धः, परत्र तु तैर् विशुद्धानां सत्-सङ्ग-मात्रेण सविरागा साविर्भवतीति ॥३६॥

बलवता सत्-सङ्गेन कषाय-पाके विद्या भवतीत्य् आह—

अपि स्मर्यते

पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवण-पुटेषु सम्भृतम् ।
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भा.पु २.२.३७] इत्य् आदौ,

रहूगणैतद् [भा.पु ५.१२.१२] इत्य् आदौ च । अपिः समुच्चये ॥३७॥

रामपद चट्टोपाध्याय: २।२।३७, ५।१२।१२, १।१८।१३, ४।३०।३३, ४।२४।५४, ११।१४।१५-१६

भागवत-भाष्यम् (हरिदास शास्त्री): २।२।३७, १०।८३।३, ५।१२।१२

सत्-सङ्गिषु निरपेक्षेषु परेशानुग्रह-विशेषात् विद्या सुलभेत्य् आह—

विशेषानुग्रहश् च

मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥
तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ [गीता १०.९-१०] इति ।

तेषु तत्-कृपा-विशेषो दृष्टः । नैरपेक्ष्यं च तद्-योग-सातत्याद् व्यक्तम् ॥३८॥

रामपद चट्टोपाध्याय: २।७।४१, ९।४।४६-४८

अधिकरणम् ७७ (इतराधिकरणम्)

साश्रमा याज्ञवल्क्यादयो निराश्रमाश् च गार्ग्य्-आदयो विद्यावन्तो दर्शिताः । तेषु साश्रमाः श्रेष्ठा निराश्रमा वेति संशये, वैदिकाश्रम-धर्म-सम्पन्नत्वात् ब्रह्म-रतत्वाच् च श्रेष्ठा इति प्राप्ते—

अतस् त्व् इतरज्-ज्यायो लिङ्गाच् च

शङ्का-निरासनाय तु-शब्दः । च-शब्दोऽवधारणार्थः । अतः साश्रमत्वाद् इतरन् निराश्रमत्वम् एव ज्यायः श्रेष्ठं विद्या-साधनं मन्तव्यम् । कुतः ? लिङ्गात् । गार्ग्या महा-विद्यत्व-श्रवणात् । आत्मअयतिअनादि-प्रवृत्ति-शीलानां प्रवृत्ति-सङ्कोचाय आश्रमाः शास्त्रेण विहिताः । अतस् तद्-विधाने न तस्य तात्पर्यं किं तु तत्-सङ्कोच एव । ता हि ब्रह्म-रति-प्रतिबन्धिका भवन्ति । ये तूपक्षीण-प्रवृत्तयो ब्रह्मैक-रतास् तेषां न किञ्चिद् आश्रमैः फलम् इति नैराश्रम्यं वरीयः । अत एव जाबालोपनिषदि क्रमेणाश्रमान् विधाय पुनर् विरक्तस्य तम् अपनिनाय सांवर्तकादीनां ब्रह्मैक-रतानां संन्यासं त्यागं चोवाचेति । अनाश्रमी न तिष्ठेत दिनम् एकम् अपि द्विजः इत्य् आदिकं तु सामान्य-विषयम् ॥३९॥

रामपद चट्टोपाध्याय: ११।१७।३२, ११।३।४५, ११।२१।२३-२४, ११।२१।३५, ११।२१।४०-४१, ११।२।४९, ११।११।३२, ११।१९।१९-२३

भागवत-भाष्यम् (हरिदास शास्त्री): ८।४।६३, ८।४।६७

स्याद् एतत् । ब्रह्मैक-रतत्वेन निरपेक्षाणां निराश्रमाणां श्रैष्ठ्यम् उक्तम्, न युज्यते तेषां सापेक्षतायाः सम्भवात् । तथा हि, विधिना परित्यक्तस्य गृहादेर् आश्रमस्य पुनर् ग्रहो निन्द्यः । तत्रैव शास्त्रात् तेषां पूर्वं तस्याप्राप्तेः । प्राप्तस्य विधिना परित्यागाद् वैदिकत्वेन श्लाघ्येष्व् आश्रम-धर्मेषु श्रद्धोदयाच् च पुनस् तत्-स्वीकारेण तद्-विक्षेपक-तद्-धर्म-प्राप्त्या तद्-एक-रत्य्-असम्भवात् श्रैष्ठ्यं हीयेत । स्व-निष्ठादीनां तु नियताश्रम-धर्म-परिमृष्ट-सत्त्वानाम् उत्तरोत्तर-तच्-चिन्ता-सन्तानाद् अबाधं तद् इति चेत्, तत्राह—

तद्-भूतस्य तु नातद्-भावो जैमिनेर् अपि नियमात् तद्-रूपाभावेभ्यः

तुः शङ्का-च्छेदाय । तद्-भूतस्य नैरपेक्ष्येण ब्रह्मऐक-रतस्य नातद्-भावस् तद्-एक-रति-प्रच्युतिर् न भवतीति जैमिनेर् अपिना बादरायणस्य च मे मतम् । कुतः ? नियमाद् इति । नियमाद् अतद्-रूपाद् अभावाच् च । तद्-इन्द्रियाणां ब्रह्म-तृष्णा-नियमितत्वात् । रूपं वासना । ब्रह्मान्य-वासना-विनाशात् गार्ग्य्-आदीनां गृहादि-स्वीकाराभावात् चेत्य् अर्थः । स्मृतिश् चैवम् आह—

कामादिभिर् अनाविद्धं प्रशान्ताखिल-वृत्ति यत् ।
चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ [भा.पु. ७.१५.३५] इत्य् आदिका ।

यद्यपि कर्म-परो जैमिन्स् तथापि नैरपेक्ष्य-श्रुति-भीतः क्वचिद् एवं मन्यते प्राग्-भवानुष्ठित-कर्म-निष्कल्मषः कश्चिद् इहैवेदृशः स्याद् इति ॥४०॥

रामपद चट्टोपाध्याय: ७।१५।२७ (=३५), १०।२।२१, ११।४।१०, १०।२७।७, १०।१४।१०

भागवत-भाष्यम् (हरिदास शास्त्री): ११।२०।३५-३७, ७।१५।३५

अथ स्व-निष्ठेभ्यः श्रैष्ठ्यं दर्शयति । ननु सर्वं ह पश्यः पश्यतीत्य् आदौ विद्यया स्वर्गादेर् अपि प्राप्ति-श्रवणात् तल्-लब्धेन्द्रादि-लोक-भोग-प्रसक्तानां तेषां ब्रह्मैक-रतिर् विच्छेद्योतेत्य् आशङ्क्याह—

न चाधिकारिकम् अपि पतनानुमानात् तद्-अयोगात्

चोऽवधारणे । अपिर् ऐहिक-सुख-समुच्चये । आधिकारिकम् इन्द्रादि-पदम्ं तेषां नैवाकाङ्क्ष्यम् । कुतः ? पतनेति । आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनोऽर्जुन [गीता ८.१६] इत्य्-आदिषु ततः पात-स्मरणात् आरम्भतस् तत्-स्पृहाभावाच् चेत्य् अर्थः । स्मृतिश् चात्र मृग्या । तथा च विद्या-महिम्ना तस्मिन्न् अनुवृत्तोऽपि तद्-इच्छा-विरहात् न तेन तद्-एक-रतिर् विच्छिद्यतेऽतो निर्बाधं तत्त्वम् इति ॥४१॥

रामपद चट्टोपाध्याय: ११।१९।१७, ११।१४।१३, ६।११।२३, १०।१६।३७, ३।१५।४७

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१४।१४, ११।१४।२७

अथ परिनिष्ठितेभ्यः श्रैष्ठ्यं दर्शयति—

उपपूर्वम् अपि त्व् एके भावम् अशनवत् तद् उक्तम्

अपिर् अवधारणे । तुर् विपरीत-भावना-च्छेदे । एके आथर्वणिका निरपेक्षाणाम् उपासनम् एवाभीष्टं तत्-सिद्धं भावं चाशनवद् भोग्यं पठन्ति । भक्तिर् अस्य भजनं तद् इहामुत्र [गो.ता.उ. १.१४] इत्य् आदि सच्-चिद्-आनन्दिक-रसे भक्ति-योगे तिष्ठति [गो.ता.उ. २.७८] इति च । केचिद् भागवता यत्र क्वापि हरिम् उपासीनास् तत् प्रमाणम् एव सोऽश्नुते सर्वान् कामान् इत्य् आदि-श्रुत-त्रिपाद्-गतानन्द-भोगवद् अनुभवन्तीत्य् अर्थः । स्मृतिश् चैतदर्थिका मृग्या ॥४२॥

रामपद चट्टोपाध्याय: ११।२।४०-४१, ११।१४।१५-१६, ११।२०।३४-३५, ८।३।२०, ६।९।३६

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२५।३४, ३।२५।३७

तादृशानां सालोक्य-सामीप्य-लक्षणा मुक्तिर् अयत्न-सिद्धेति तत्रैव हेत्व्-अन्तरं व्यञ्जयति—

बहिस् तूभयथापि स्मृतेर् आचाराच् च

तुर् अवधारणे । प्रपञ्चे स्थिता अपि ते तस्मात् बहिर् एव सन्तीति मन्तव्यम् । कुतः ? उभयथेति ।

विसृजति हृदयं न यस्य साक्षाद्
धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः ।
प्रणय-रसनया धृताङ्घ्रि-पद्मः
स भवति भागवत-प्रधान उक्तः ॥ [भा.पु. ११.२.५५]

इत्य्-आदिषु मणि-स्वर्णवत् स्वामि-भृत्ययोर् मिथः संश्लेष-स्मरणात् तथाचाराच् च तैः सार्धम् । यद् उक्तं भगवता—

निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् ।
अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥ [भा.पु. ११.१४.१६]

इत्य्-आदि-हेतुभ्याम् अन्तर् बहिश् च मिथः संश्लेषः समर्थितः । तथा च वैमुख्यम् एव संस्मृति-हेतुस् तत्-प्रणाशात् सिद्धा तेषां सेति ॥४३॥

अधिकरणम् ७८ (स्वाम्य्-अधिकरणम्)

ब्रह्म-लोकान्त-सुख-वैतृष्ण्यम् उक्तम् । अथ साम्प्रत-सुख-वैतृष्ण्ञम् उच्यते । भर्ता सन् म्रियमाणो विभाति इति श्रुतं तैत्तिरीयके । तत्र संशयः—निरपेक्षाणां देह-यात्रा स्व-प्रयत्नाद् उतेश-प्रयत्नाद् इति तैस् तत् प्रयासस्यानुत्पाद्यत्वात् स्व-प्रयत्नाद् एवेति प्राप्ते—

स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः

स्वामिनः सर्वेश्वराद् एव तेषां देह-यात्रा सिध्यति । कुतः ? फल-श्रुतेः । भर्तेत्य् आदौ तस्यैव तद्-भर्तृत्व-श्रवणात् इत्य् आत्रेयो मन्यते ।

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता ९.२२]
दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः ।
स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥

इति तद्-वाक्याच् च तैस् तद्-वाक्याच् च तैस् तत्-प्रयासोऽनुत्पाद्य इति तु स्थूलं तेषां तथेच्छा-विरहात् सत्य-सङ्कल्पस्य तस्य तद्-अभावाच् च । स्व-देह-यात्रया तत्-सेवनात् तस्याः फलत्वम् । अत्त उक्तं म्रियमाण इति ॥४४॥

रामपद चट्टोपाध्याय: १०।४६।३, ११।२६।२९, ११।२९।५

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२५।३८-४०

अथैतेषु तद्-भर्तृत्वम् एकान्तम् इति दृष्टान्तेन स्पष्टयति—

आर्त्विज्यम् इत्य् औडुलोमिस् तस्मै हि परिक्रियते

इहेति शब्दः सादृश्ये । स्वामिनस् तस्य निरपेक्ष-स्व-भक्त-भरणम् आर्त्विज्य-सदृशम् ऋत्विक्-कर्म-तुल्यं भवति । हि यतो देह-यात्रादि-सम्पादनाय तैर् भक्त्या स परिक्रीयते ।

तुलसी-दल-मात्रेण जअस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ इत्य्-आदि-स्मृतेः ।

यजमानेनापि साङ्गाय कर्मणे दक्षिणया ऋत्विजः परिक्रियन्ते । औडुलोमेर् अस्य निर्गुणात्म-वादित्वाद् भक्तिर् इति रिक्ता भणितिः । तस्मान् निरपेक्षाः श्रेष्ठाः ॥४५॥

भागवत-भाष्यम् (हरिदास शास्त्री): ९।४।६३-६६

श्रुतेश् च

यो वै काञ्चन यज्ञ ऋत्विज आशिषम् आशासत इति होवाचेति तस्माद् उ हैवं विद् उद्गतो ब्रूयात् कं ते कामम् आगायति [छा.उ. १.७.८-९] इति ऋत्विक्-सम्पादितस्य कर्मणः यजमान-गामि फलं दर्शयति । तस्माद् भगवतः स्व-भक्त-भरणम् ऋत्विजो यजमान-भरण-सदृशं भवतीति भावः ॥४६॥

रामपद चट्टोपाध्याय: ---

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१४।१६, ११।१४।५५

अधिकरणम् ७९ (सहकार्यन्तर-विध्य्-अधिकरणम्)

अथैषां विद्याप्त्य्-अनन्तरम् अनुष्ठानं दर्शयति । तस्माद् एवं-विच् छान्तो दान्तः इत्य्-आदि, आत्मा वा अरे द्रष्टव्यः इत्य् आदि च श्रूयते । अत्र शमादीनि ध्यानान्तानि ब्रह्म-लिप्सोर् अनुष्ठेयान्य् उच्यन्ते । किम् एतानि सर्वाणि निरपेक्षेणानुष्ठेयान्य् उत तत्-स्वरूप-गुण-चरितानि स्मर्तव्यानीति सन्देहे सञ्जाताअपि विद्या शमादीन् विना स्थैर्यं नोपगच्छेद् अतस् तानि चानुष्ठेयानीति प्राप्ते—

सहकार्य्-अन्तर-विधिः पक्षेण तृतीयं तद्वतो विध्य्-आदिवत्

इह सहकार्य्-अन्तराणि शमादीन्य् अभिधीयन्ते यज्ञादी शमादीनां च विद्या-सहकारित्वेन पूर्वं निरूपणात् । तेषां विधिः साश्रम-पक्षेण ग्राह्योऽपूर्वत्वात्, न तु निराश्रम-पक्षेण तत्र स्वतः सिद्धेः । किन्तु तत्-स्वरूपादीनि तेन स्मर्तव्यानीति । तद् इदम् आह तृतीयं तद्वत इति । तत्-प्रसाद-मात्र-कामवतो निरपेक्षस्य तृतीयं मानसिकम् एवानुष्ठेयं मनसैवेदम् आप्तव्यम् इति श्रुतेः । कायिक-वाचिकयोर् वापेक्षया मानसिकं ध्यानं तृतीयं भवति । आवश्यकत्वे दृष्टान्तो विध्य्-आदिवद् इति । यथा साश्रमस्य सन्ध्योपासनादि-विधिर् आवश्यकस् तद्वत् । तस्मात् सञ्जात-विद् येन निरपेक्षेण तत्-स्वरूपादि विचिन्त्यम् इति । न चास्य जपार्चनादिकं निवार्यते । ध्यानेनैव तस्यापि प्राप्तेः । तत्-प्रधानत्वाद् वा तद्-व्यपदेशः । तद् एवं त्रेधा विद्याजुषः सानुष्ठितयो निरूपिताः ॥४७॥

रामपद चट्टोपाध्याय: ११।२०।१४, ११।२।५१, ११।३।४७

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।४०, ११।१०।१५

अधिकरणम् ८० (कृत्स्न-भावाधिकरणम्)

स्व-निष्ठादिषु त्रिषु विद्याभाक्त्वं निर्णीतम् । तस्य स्थैर्यायारम्भः । छान्दोग्यान्ते श्रूयते—

आचार्य-कुलाद् वेदम् अधीत्य यथा-विधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायम् अधीयानो धर्मिकान् विदधद् आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य अहिंसन् सर्वाणि भूतान्य् अन्यत्र तीर्थेभ्यः । स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते [छा.उ. ८.१५.१] इति ।

अत्र गार्हस्थ्येनोपसंहारात् तद् इतरेषु विद्या न भवतीति प्रतीयते । क्वचित् क्वचित् त्यागोक्तिस् तु स्तुति-परतया नेया । ईदृशं ब्रह्म यद्-अर्थं सर्वं त्याज्यम् इति । गृहस्थस्यैव यथोक्तानुष्ठातुर् ब्रह्म-सम्पत्तिर् इत्य् उपसंहारस्य तात्पर्य-ग्राहकत्वाद् इत्य् एवं प्राप्ते प्रतिविधत्ते—

कृत्स्न-भावात् तु गृहिणोपसंहारः

शङ्काच्छेदाय तु-शब्दः । गृहस्थेनोपसंहारः तस्यैव यथोक्त-कर्तुर् मुक्तिर् इत्य् अभिप्रैतीति नार्थः, किं तु कृत्स्न-भावाद् एव तेन सः । गृहस्थं प्रति बहुलायासा बहवः स्वाश्रम-धर्माः कार्यत्वेनोपदिष्टाः । आश्रमान्तर-धर्माश् च यथायथम् अहिंसेन्द्रिय-संयमादयः । ततश् च कृत्स्नानां धर्माणां तव सत्त्वात् तेनासौ न विरुध्यत इति । तथा च स्मृतिः—

भिक्षा-भुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः ।
तेऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परः ॥ इत्य् आद्या ॥४८॥

रामपद चट्टोपाध्याय: ११।१८।४१-४२

भागवत-भाष्यम् (हरिदास शास्त्री): ५।१।१७-१८, ७।१५।६७

यस्माद् आश्रमान्तराणि श्रूयन्ते अतो धर्म-कार्त्स्न्याद् एव गार्हस्थ्येनोपसंहारो मन्तव्य इत्य् आह—

मौनवद् इतरेषाम् अप्य् उपदेशात्

मौनवद् इति सिद्धं कृत्वोक्तम् । अत्रैव पूर्वत्र—

त्रयो धर्म-स्कन्धाः । यज्ञो ऽध्ययनं दानं प्रथमस् तप एव द्वितीयो ब्रह्मचार्य-कुल-वासी तृतीयोऽत्यन्तम् आत्मानम् आचार्य-कुलेऽवसादयन् सर्व एते पुण्य-लोका भवन्ति ब्रह्म-संस्थोऽमृतत्वम् एति [छा.उ. २.२३.१] इति पठ्यते ।

तत्र एवम् एव विदित्वा मुनिर् भवत्य् एतम् एव प्रव्राजिनो लोकम् अभीप्सन्तः प्रव्रजन्ति [बृ.आ.उ. ४.४.२२] इत्य् अत्र पारिव्राज्यस्येवेतरेषां नैष्ठिकादीनाम् अप्य् उपदेशात् । तस्मात् तेन सः । बहुत्वं वृत्ति-भूम्नेत्य् आहुः । एवं जाबालोपनिषदि चाश्रमाश् चत्वारो विधीयन्ते—ब्रह्मचर्यं समाप्य गृही भवेत्, गृहिणां भूत्वा वनी भवेत्, वणी भूत्वा प्रव्रजेत्, यदि वनेरथा ब्रह्मचर्याद् एव प्रव्रजेत् गृहाद् वा वनाद् वा । अथ पुनर् अव्रती वा व्रती स्नातको वास्नातको वोत्सन् नाग्निर् अनग्निको या यद् अहर् एव विरज्येत् तद् अहर् एव प्रव्रजेत् [जा.उ. ४] इत्य् आदिना । उत्तरत्र च परमहंसानाम् इत्य् आदिना निरपेक्षाश् च पठ्यन्ते । तस्मात् गृहस्थेनोपसंहृतिर् धर्म-बाहुल्याद् एवेति सुष्ठूक्तम् यद् अहेर् एवेत्य् आदिना । विरागे सति गृह-त्याग-विधानाद् विशेषाद् उपसंहारात्म तात्पर्य-कल्पनं च निरस्तम् । अनुराग-विरागौ हि गृहारम्भ-तत्-त्यागयोर् हेतू सर्वत्राभिलप्येते । तद् एवं यथार्हं शम-दमोपरति-भूषणेषु निराश्रमेषु च विद्याभ्युदेतीति निरूपितम् ॥४९॥

रामपद चट्टोपाध्याय: ३।१।४८, ७।९।९, ११।१८।२७, ११।१८।३५

भागवत-भाष्यम् (हरिदास शास्त्री): १।१३।२६-२७

अधिकरणम् ८१ (अनाविष्काराधिकरणम्)

अथास्या रहस्यत्वम् उच्यते । श्वेताश्वतराः पठन्ति—

वेदान्ते परमं गुह्यं पुरा-कल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ [श्वे.उ. ६.२२] इति ।

इह संशयः—विद्या यत्र क्वापि उपदेश्या न वेति । योग्यायोग्य-विमर्शस्य कारुण्यादि-विरोधित्वात् तद्वता देशिकेन सर्वत्रासौ प्रकाश्येति प्राप्ते—

अनाविष्कुर्वन्न् अन्वयात्

विद्याम् अनाविष्कुर्वन्न् एवोपदिशेत् । कुतः ? अन्वयात् । उक्त-श्रुतौ तथैवोपदेश-प्रतीतेर् इत्य् अर्थः । एवम् एवाह भगवान् अरविन्दाक्षः—

इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ [गीता १८.६७]

इत्य् उपदेशो हि योग्येष्व् एव फलति नायोग्येषु । यस्य देवे परा भक्तिः [श्वे.उ. ६.२३] इत्य्-आदि-श्रुतेः । छान्दोग्ये च आत्मापहत-पाप्मा इत्य् आदिना महेन्द्र-विरोचनयोर् उपदेश-साम्येऽपि विरोचनस्य तत्त्व-ज्ञानं नाभूद् इति श्रवणात् । तथा च योग्येभ्य एव विद्योपदेश्या न त्वयोग्येभ्योऽपीति । योग्याश् च शास्त्र-प्रतिपाद्य-तत्पराः श्रद्धालवः ॥५०॥

रामपद चट्टोपाध्याय: ११।१८।२८, ११।९।३, ११।२९।१६, १०।३३।१७

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३२।३९-४०, ११।२९।३०, १।५।२४, १।५।३०, १।११।२४

अधिकरणम् ८२ (ऐहिकाधिकरणम्)

अथोत्पत्ति-कालस् तस्याश् चिन्त्यते । अत्र नचिकेतो जाबालादेर् उपाख्यानं वामदेवस्य च विषयः । इह भवति संशयः । पूर्वोक्त-साधना विद्यास्मिन् जन्मनि सञ्जायते जन्मान्तरे वेति । तत्-साधनेष्व् अनुष्ठीयमानेष्व् अस्मिन्न् एव जन्मनि सञ्जायते । इहैव मे स्याद् इत्य् अनुसन्धाय पुंसस् तत्र प्रवृत्तेर् इत्य् एवं प्राप्ते—

ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात्

प्रतिबन्धेऽप्रस्तुते सति ऐहिकं विद्या-जन्म प्रस्तुते तु तस्मिन् जन्मान्तरे तद् इत्य् अर्थः । कुतः ? तद्-दर्शनात् ।

मृत्यु-प्रोक्तां नचिकेतोऽथ लब्ध्वा
विद्याम् एतां योग-विधिं च कृत्स्नम् ।
ब्रह्म-प्राप्तो विरजोऽभूद् विमृत्युर्
अन्योऽप्य् एवं यो विदध्यात्मम् एव ॥ [क.उ. २.३.१८]

इत्य् आद्या श्रुतिर् ऐकभाविकी विद्योत्पत्तिं दर्शयति । गर्भस्य एव वामदेवः प्रतिपद्ये इत्य् आद्या तु भवान्तर-सञ्चितात् साधन-जातात् भावान्तरे तद्-उत्पत्तिम् । एतद् उक्तं भवति—कस्यचिद् एव लघु-प्रतिबन्धस्य साधन-वीर्य-विशेषात् तत्-प्रतिबन्ध-परिक्षये सत्य् अस्मिन् जन्मनि विद्योत्पद्यते । यथा नचिकेतसो यथा च सौवीर-राजस्य । गुरु-प्रतिबन्धस्य तु यज्ञ-दान-तपः-शम-दमादिभिर् उत्पद्यमानापि विद्या क्रमेण तत्-परिक्षयापेक्षया भवान्तर एवेति । एवम् एवोक्तं श्री-गीतासु—अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः [गीता ६.३७] इत्य् आदिना, अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् [गीता ६.४५] इत्य् अन्तेन । ऐकभाविकाभिसन्धिर् अपि न नियतः । इहामुत्र वा मे स्याद् इत्य् एवम् अपि तस्य दर्शनात् । तस्माद् अस्मिन् परस्मिन् वा जन्मनि विद्योदयः प्रतिबन्ध-क्षयानन्तरम् एवेति सिद्धम् ॥५१॥

रामपद चट्टोपाध्याय: ९।४।१५-१७, ९।४।१४, ६।१।१३-१४, १०।२६।२९, ६।१६।३०, १०।४८।२२, १०।६०।३७, ९।४।४८, १०।८०।८, ११।२।२९

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।८

अधिकरणम् ८३ (मुक्ति-फलाधिकरणम्)

अथ विद्या-सम्पत्तौ मोक्षस्यावश्यकत्वं दर्शयति—तम् एव विद्वान् अमृत इह भवति [बृ.आ.उ. ४.४.१७], तम् एव विदित्वातिमृत्युम् एति [श्वे.उ. ३.८] इति श्रूयते । अत्र यच् छरीरे विद्योदिता तस्यैव प्राते मोक्षः स्यात् तद् अनस्य वेति संशये, हेतौ सति कार्यस्यावश्यकत्वात् तस्यैव पाते सतीति प्राप्ते—

एवं मुक्ति-फलानियमस्

तद्-अवस्थावधृतेस् तद्-अवस्थावधृतेः

यथा विद्या-साधन-सम्पन्नस्य मुमुक्षोः विद्या-लक्षणे फले अस्मिन्न् एव जन्मनीति न नियमः, किन्तु प्रतिबन्ध-परिक्षयोत्तरम् एव सेति तथा विद्या-सम्पन्नस्य तस्य मोक्ष-लक्षणेऽपि फले तस्यैव पाते सतीति नियमः किन्तु प्रारब्ध-परिक्षयोत्तरम् एव स इति । तथा च प्रारब्धाभावे तस्यैव पाते सति तु प्रारब्धे सति तु प्रारब्धे तद् अन्यस्येति न पाक्षिको मोक्षः । कुतः ? तद् इति । आचार्यवान् पुरुषो वेद तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्ये [छा.उ. ६.१४.२] इति छान्दोग्ये प्रारब्ध-क्षयोत्तरं विद्यवतो मोक्षावस्था-विनिश्चयाद् इत्य् अर्थः । स्मृतिश् चैवम् आह—

विद्वान् अमृतम् आप्नोति नात्र कार्या विचारणा ।
अवसन्नं यद् आरब्धं कर्म तत्रैव गच्छति ।
न चेत् बहूनि जन्मानि प्राप्यैवान्ते न संशयः ॥ इति ।

यद्यपि विद्यया सर्व-कर्म-परिक्षयः स्यात् तथापीश्वरेच्छया प्रारब्धांशस् तिष्ठेद् इत्य् उक्तम् । वक्ष्यते च—पदाभ्यासोऽध्याय-पूर्तये ॥५२॥

रामपद चट्टोपाध्याय: १०।१४।८, ११।२०।११, ५।१६।१८

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।२४

जनयित्वा वैराग्यं, गुणैर् निबध्नाति मोदयन् भक्तान् ।

यस् तैर् विद्धोऽपि गुणैर्, अनुरज्यति सोऽस्तु मे हरिः प्रेयान् ॥

॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य चतुर्थः पादः ॥