ग्रन्थाः / श्रीश्रीगोविन्दभाष्यम्

०४ चतुर्थोऽध्यायः

04 Caturtho'dhyāyaḥ

श्रीश्रीगोविन्दभाष्यम् (Śrī-śrī-govinda-bhāṣyam)

कर्ता: श्री बलदेव विद्याभूषण

अधिकरणम् १ (पादः १, आवृत्त्य्-अधिकरणम्)

दत्त्वा विद्यौषधं भक्तान् निरवद्यान् करोति यः ।

दृक्-पथं भजतु श्रीमान् प्रीत्यात्मा स हरिः स्वयम् ॥

विद्या-फल-विचारोऽयम् अध्यायः । यद्यप्य् अत्र कतिपयैः सूत्रैर् आदितः साधन-विचारोऽस्ति, तथापि फल-प्राधान्यात् फलाध्यायो भण्यते । आत्मा वा अरे द्रष्टव्यः [बृ.आ.उ. ४.५.६] इत्य् आदि श्रूयते । एतद् विहितस्य श्रवणादेर् आवृत्तिः कार्या न वेति संशये सकृद् अनुष्ठिताद् अग्निष्टोमादेः स्वर्गादिवत् सकृत् कृताद् अपि श्रवणादेर् आत्म-दर्शनं स्याद् अतो नेति प्राप्ते—

आवृत्तिर् असकृद् उपदेशात्

श्रवणादेर् आवृत्तिर् आवश्यकी । कुतः ? स य एषोऽणिमा, ऐतदात्म्यम् इदं सर्वं, तत् सत्यं, स आत्मा, तत्त्वम् असि [छा.उ. ६.८.७] इति श्वेतकेतुं प्रति नव-कृत्वः कथनात् । न च सकृत्-कृतेन कृतः शास्त्रार्थ इति न्याय-विरोधः । तस्यादृष्ट-फल-विषयत्वात् । अत्रात्म-साक्षात्कार-लक्षणस्य दृष्ट-फलस्य सम्भवात् वैतुष्य-दृष्ट-फलकावघातादिवत् फल-पर्यन्तं श्रवणाद्य्-आवर्तनीयम् इति ॥१॥

लिङ्गाच् च

तद् विज्ञाय पुनर् एव वरुणं पितरम् उपससार [तै.उ. ३.२] इति भृगोर् आवृत्ति-लिङ्गाच् च सा सिद्धा । इदम् आवृत्ति-विधानम् अपराध-सत्त्वापेक्षयेति बोध्यम् ॥२॥

रामपद चट्टोपाध्याय : ११।१४।२६, १०।२९।१५, १०।४४।३९, ७।१।२५*

अधिकरणम् २ (आत्मत्वोपासनाधिकरणम्)

अथ तत्रैव विचारान्तरम् । इदम् उपासनम् ईश्वर-बुद्ध्यात्म-बुद्ध्या इति । जुष्टं यदा पश्यत्य् अन्यम् ईशम् [श्वे.उ. ४.७] इति श्रुतेर् ईश्वर-बुद्ध्येति प्राप्ते—

आत्मेति तूपगच्छन्ति ग्राहयन्ति च

तु-शब्दोऽवधारणे । स ईश्वर आत्मेत्य् एवोपास्यः । यत् कारणं तम् आत्मत्वेनोपगच्छन्ति तत्त्व-ज्ञाः, येषां नोऽयम् आत्मायं लोकः [बृ.आ.उ. ४.४.२२] इत्य् आदिना । तथा शिष्यान् अपि ग्राहयन्ति च, आत्मेत्य् एवोपासीत [बृ.आ.उ. १.४.७] इत्य् आदिना । इहात्म-शब्देन पुरुषाकारं विज्ञानान्द-स्वरूपं विभवस् तु बोध्यते । स्व-सत्ता-प्रदत्त्वादिना स्वात्म-भूतम् इत्य् अपरे । यत् तु जीवस्यैवाविद्या-विनिइर्मुक्तस्य ब्रह्मत्वाद् आत्म-धिया तच्-चिन्तनम् इत्य् आह तद् असत् प्रागे एव प्रत्याख्यानात् ॥३॥

रामपद चट्टोपाध्याय : ११।१४।२५, १०।२९।१५, १०।४४।३९, ७।१।२५।

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।५५

अधिकरणम् ३ (प्रतीकाधिकरणम्)

छान्दोग्यादौ मनो ब्रह्मेत्य् उपासीत [छा.उ. ३.८.१] इत्य् आदीन्य् उपासनानि श्रूयन्ते । तत्र संशयः—ईश्वरवत् मन आदाव् आत्म-धीः कार्या न वेति । मनो ब्रह्मेत्य् अभेद-प्रतीतेः कार्येति प्राप्ते—

न प्रतीके न हि सः

न खलु प्रतीके मन आदौ तद्-धीः कार्या । हि यस्मात् । प्रतीके ईश्वरो न भवति । किन्तु तस्याधिष्ठानम् एवेति । स्मृतिश् च—

खं वायुम् अग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।
सरित्-समुद्रांश् च हरेः शरीरं
यत् किं च भूतं प्रणमेद् अनन्यः ॥ [भा.पु. १०.२.४१] इत्य् आद्या ।

तथा च सप्तम्य्-अर्थे प्रथमेय्म इति सिद्धान्तः ॥४॥

रामपद चट्टोपाध्याय : ११।२।४१, ३।२९।२१-२५, ७।१४।३७-४०, ७।७।५३, ४।३०।२२ *

अधिकरणम् ४ (ब्रह्म-दृष्ट्य्-अधिकरणम्)

ईश्वरे दर्शितात्म-दृष्टिः प्रतीके प्रतिषिद्धा । अथ तस्मिन्न् ईश्वरे ब्रह्म-दृष्टिः कार्या न वेति विच्यार्यते । ईश्वर-पराणि ब्रह्म-शब्दवन्ति वाक्यानि विषयः । अत्र विहिता ब्रह्म-दृष्टिर् न कार्या पूर्वम् आत्म-दृष्ट्य्-अवधारणाद् इति प्राप्ते—

ब्रह्म-दृष्टिर् उत्कर्षात्

ईश्वरे तस्मिन्न् आत्म-दृष्टिर् इति ब्रह्म-दृष्टिश् च नित्यं कार्या । कुतः ? उत्कर्षात् । अनन्त-कल्याण-गुणोपस्थापकत्वेन तस्याः श्रैष्ठ्यात् । श्रुतिश् च—अयम् आत्मा ब्रह्म सर्वानुभूतिः [बृ.आ.उ २.५.१९] इत्य् उभयं दर्शयति । अथ कस्माद् उच्यते ब्रह्मेत्य् आदिना तथैव निर्वक्ति च ॥५॥

भागवत-भाष्यम् (हरिदास शास्त्री): १।५।१४, ११।२९।१५

अधिकरणम् ५ (आदित्यादिमत्य्-धिकरणम्)

चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत ।
मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥ [ऋग्-वेद १०.९०.१९]

इति पुरुष-सूक्ते श्रूयते । अत्र भगवच्-चक्षुर् आदिष्व् आदित्यादि-हेतुता-बुद्धयः प्रतीयन्ते । ताः कार्या न वेति वीक्षायां पङ्कजादि-प्रख्येष्व् अतिसुकुमारेषु तेषूग्र-हेतुता-बुद्धीनाम् अनर्हत्वान् न कार्येति प्राप्ते—

आदित्यादि-मतयश् चाङ्ग उपपत्तेः

पूर्व-पक्ष-निरासार्थश् च-शब्दः । विष्णोश् चक्षुर्-आदिष्व् अङ्गेषु तद्-बुद्धयः कार्याः । कुतः ? उपपत्तेः । ताभिर् उत्कर्ष-सिद्धेः । सूर्य-जनक-चक्षुष्ट्वादिकं हि तद्-उत्कर्षकं भवति । तादृशानाम् अपि तेषां तद्-धेतुता तु श्रौतत्वाद् अलौकिकत्वाच् चप्रतिपत्तव्या ॥६॥

रामपद चट्टोपाध्याय : १०।६३।३५, १०।६३।३८, १०।८।३६-३९, १२।१२।१४, १०।२।२६

भागवत-भाष्यम् (हरिदास शास्त्री): ८।५।३४-३६।

अधिकरणम् ६ (आसीनाधिकरणम्)

त्रिर् उन्नतं स्थाप्य समं शरीरं
हृदीन्द्रियाणि मनसा सन्निवेश्य ।
ब्रह्मोडुपेन प्रतरेत विद्वान्
स्तोत्रांसि सर्वाणि भयावहानि ॥ [श्वे.उ. २.८]

इति श्वेताश्वतरैः पठ्यते । तत्रेदम् आसन-विधानम् आवश्यकं न वेति संशये मानस-व्यापारं स्मरणं प्रति देह-स्थित-विशेषस्यानुपयोगात् नावश्यकम् इति प्राप्ते—

आसीनः सम्भवात्

आसीनः कृतासन एव श्री-हरिं स्मरेत् । कुतः ? तस्यैव तत्-सम्भवात् । शयनोत्थान-गमनेषु चित्त-विक्षेपस्य दुर्वारत्वात् तद्-असम्भवः ॥७॥

रामपद चट्टोपाध्याय : ३।२८।८, ७।१५।३१-३२*

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१४।३२, ७।१५।३१

ते ध्यान-योगानुगता अपश्यन् [श्वे.उ. १.३] इत्य् आदिभिस् तल्-लिप्सोर् ध्यानं तैः पठ्यते । तच् च कृतासनस्य सम्भवति नान्यस्येत्य् आह—

ध्यानाच् च

विजातीय-प्रत्ययान्तराव्यवहितम् एक-चिन्तनं ध्यानम् । तच् च स्वापादितम् अतो न सम्भवेद् अतः कृतासन इति ॥८॥

रामपद चट्टोपाध्याय : ३।२८।१२, ४।८।५२, ११।१४।४५*

भागवत-भाष्यम् (हरिदास शास्त्री): ४।८।४५-४६, ४।८।५२

अधिकरणम् ७

अचलत्वं चापेक्ष्य

चोऽवधृतौ । छान्दोग्ये निश्चलत्वम् एवापेक्ष्य ध्यायतेः प्रयोगः, ध्यायतीव पृथिवी [छा.उ. ७.६.१] इति । अतो लिङ्गाद् अप्य् आसीनः स्यात् । ध्यायति कान्तं प्रोषित-रमणीति लोकेऽपि ॥९॥

रामपद चट्टोपाध्याय : ११।९।२२-२३, ११।१४।४३*

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१४।४६

स्मरन्ति च

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥
तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः ।
उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥
समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥ [गीता ६.११-१३]

इत्य् आदिषु ध्यातॄणां देहेन्द्रिय-मनसां नैश्चल्यं स्मरन्ति । तच् चासनाद् विना न सम्भवेद् अतः सासनेनैव भाव्यम् इति तथैवोक्तम् ॥१०॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२८।८

अथ आत्मा वा अरे द्रष्टव्यः [बृ.आ.उ. ४.५.६] इत्य् आदिषु प्राग्-उक्तेषु वाक्तेषु विचारान्तरम् । उपासनेऽस्मिन् दिग्-देश-काल-नियमः स्यान् न वेति वीक्षायां वैदिके कर्मणि तनि-नियमस्य दर्शनाद् उपासनस्य च वैदिकत्वाविशेषाद् इति प्राप्ते—

यत्रैकाग्रतो तत्राविशेषात्

यत्र दिग्-आदौ चित्तैकाग्रता स्यात् तत्रैवोपासीत हरिं नास्त्य् अत्र दिग्-आदि-नियम इत्य् अर्थः । कुतः ? अविशेषात् तद्वद् अत्र विशेषस्याश्रवणात् । स्मृतिश् चैवम् आह—

तम् एव देशं सेवेत तं कालं ताम् अवस्थितिम् ।
तान् एव भोगान् सेवेत मनो यत्र प्रसीदति ॥
न हि देशादिभिः कश्चित् विशेषः समुदीरितः ।
मनः-प्रसादनार्थं हि देश-कालादि-चिन्तनम् ॥ [वराह-पुराण] इति ।

नन्व् अस्ति देश-विशेष-नियमः ।

समे शुचौ शर्करा-वह्नि-बालुका-
विवर्जिते शब्द-जलाश्रयादिभिः ।
मनोऽनुकूले न तु चक्षु-पीडने
गुहा-निवाताश्रयणे प्रयोजयेत् ॥ [श्वे.उ. २.१०]

इति श्वेताश्वतरोक्त्स् तीर्थ-सेवाया मोक्ष-हेतुत्व-प्रतिपादनाच् चेति चेत्, सत्यम् । सत्य् उपद्रवे तीर्थम् अप्य् असाधकं, असति तु तस्मिन् साधकतमं तत् । अत उक्तं मनोऽनुकूले इति ॥११॥

रामपद चट्टोपाध्याय : ७।१५।३१, ४।१२।१७*

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१३।२, ११।१३।६

अधिकरणम् ८ (आप्रमाणाधिकरणम्)

स यो हैतत् भगवन् मनुष्येषु प्रायणान्तम् ओङ्कारम् अभिध्यायीत [प्रश्न.उ. ५.१] इति षट्-प्रश्न्यां, यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्म-वादिनश् च इति नृसिंह-तापन्यां च श्रूयते । अन्यत्र च एतत् सामगायन्न् आस्ते, तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः [ऋ.वे. १.२.२०] इत्य् आदि । इह मुक्ति-पर्यन्तं मुक्त्य्-अन्तरं चोपासनम् उक्तम् । तत् तथैव भवेद् उत मुक्ति-पर्यन्तम् एवेति संशये मुक्ति-फलत्वात् तत्-पर्यन्तम् एवेति प्राप्ते—

आ प्रायणात् तत्रापि हि दृष्टम्

आप्रयाणात् मुक्ति-पर्यन्तम् उपासनं कार्यम् इति । तत्रापि मोक्षे च । कुतः ? हि यतः श्रुतौ तथा दृष्टम् । श्रुतिश् च दर्शिता । सर्वदैनम् उपासीत यावद् विमुक्तिः । मुक्ता अपि ह्य् एनम् उपासते इति सौपर्ण-श्रुतौ । तत्र तत्र च यद् उक्तं तत्राहुः । मुक्तैर् उपासनं न कार्यं विधि-फलयोर् अभावात् । सत्यं तदा विध्य्-अभावेऽपि वस्तु-सौन्दर्य-बलाद् एव तत् प्रवर्तते । पित्त-दग्धस्य सितया पित्त-नाशेऽपि सति भूयस् तदा स्वादवत् । तथा च सार्वांहकं भगवद्-उपासनं सिद्धम् ॥१२॥

रामपद चट्टोपाध्याय : २।२।३६, ११।२०।२९, ११।२९।१७, ११।२०।७-९, १।५।१२, १०।१४।४, ११।१४।१९-२०, ११।१९।३-५

भागवत-भाष्यम् (हरिदास शास्त्री): १।१।३, १।७।१०, १।२।२२

अधिकरणम् ९ (तद्-अधिगमाधिकरणम्)

एवं विद्या-साधनं विचार्य तत्-फलम् इदानीं विचारयति । छान्दोग्ये—यथा पुष्कर-पलाश आपो न श्लिष्यन्ते, एवम् एवं-विदि पापं कर्म न श्लिष्यते [छा.उ. ४.१४.३] इति । तद् यथेषीका-तूलम् अग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते [छा.उ. ५.२४.३] इति च श्रूयते ।

इह संशयः--क्रियमाण-सञ्चित-पापे भोगेन क्षयणीये उत विद्या-प्रभावात् तयोर् अश्लेष-विनाशौ स्याताम् इति । नाभुक्तं क्षीयते कर्म कल्प-कोटि-शतैर् अपि [ब्र.वै.पु.प्र.ख. २६.७०] इति, अवश्यम् एव भोक्तव्यं कूटं कर्म शुभाशुभम् [] इति स्मृतेः, तेनापि ते भोगेन क्षपणीये । एवं सति श्रुत्य्-अर्थस् तु तद्-विदां प्राशस्त्यं लक्षयतीति प्राप्ते—

तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ, तद्-व्यपदेशात्

तस्य ब्रह्मणोऽधिगमस् तद्-अधिगमः, ब्रह्म-विद्येत्य् अर्थः । तस्यां सत्याम् उत्तरस्य क्रियमाणस्य पापस्य अश्लेषः । पूर्वस्य तु सञ्चितस्य विनाशो भवति । कुतः ? तद् इति । यथा इत्य्-आदिभ्यां वाक्याभ्यां तयोस् तथा-विधानाद् इत्य् अर्थः । न हि श्रुतेऽर्थे सङ्कोचः शक्यः कर्तुम् । नाभुक्तम् इत्य् आदिकं त्व् अज्ञ-विषयतया युक्तिमत् ॥१३॥

रामपद चट्टोपाध्याय: ११।१०।३१, ११।२०।३०, १।७।४, ११।३।४३, ११।१४।२६।

अधिकरणम् १० (इतराधिकरणम्)

बृहद्-आरण्यके श्रूयते—उभे उ हैवैष एते तरति [बृ.आ.उ. ४.४.२२] इति । अत्रोभयोः पुण्य-पापयोस् तीर्णतोच्यते । भवेद् इह संशयः । उत्तर-पूर्वयोर् अधयोर् इव पुण्ययोर् अपि तयोर् अश्लेष-विनाशौ स्यातां न वेति । पुण्ययोस् तौ न स्यातां वैदिकत्वेन तया सहाविरोधात्, किं तु ते भोगेनैव क्षपणीये । तथा च प्रतिबन्ध-सत्त्वात् विद्यायां सत्यां विमुक्तिर् इति रिक्तं वचः । एवअं प्राप्ते प्राग्-उक्तम् अतिदिशति—

इतरस्याप्य् एवम् असंश्लेषः पाते तु

इतरस्योत्तर-पूर्व-रूपस्य पुण्यस्याप्य् एवं पापवद् अश्लेषो विनाशश् च विद्यया भवति । न च पुण्यं वैदिकत्वात् तया सहाविरुद्धम् । स्व-फल-हेतुत्वेन तत्-फल-प्रतिबन्धात् । न च तद्-वस्तुतः शुद्धम् । सर्वे पाप्मानोऽतो निवर्तन्ते इति छान्दोग्ये । तत्रापि पाप्म-शब्द-प्रयोगात् । अत एव यथैधांसि समिद्धोऽग्निः इत्य् आदौ सञ्चित-कर्म-मात्र-क्षयः स्मर्यते । तथा च पापय्र् इव पुण्ययोश् च तौ सिद्धौ । वक्तव्यम् आह पाते त्व् इति । तुर् निश्चये । प्रारब्ध-नाशे सति मुक्तिर् एवेति न रिकं तद्-वचः ॥१४॥

रामपद चट्टोपाध्याय : १०।२९।९-१०

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१४।१९

अधिकरणम् ११ (अनारब्ध-कार्याधिकरणम्)

सञ्चितयोः पाप-पुण्यय्र् उभयोर् उभयोर् विद्यया तत्-कृतस्य देहस्यापि तदैव नाशापत्तिस् ततो ब्रह्म-विदाम् उपदेशाद्य्-असम्भव इत्य् आशङ्कां परिहर्तुम् अधिकरणम् आरभते । तथा हि सञ्चिते पाप-पुण्ये द्विविधे । अनारब्ध-फले आरब्ध-फले चेति । तयोर् द्विविधयोर् अपि विनाशः स्याद् उतानारब्ध-फलयोर् एवेति विषये उभे उ हैवेत्य् आदौ विशेषाश्रवणात् विद्यायाः सर्वत्र तौल्यात् तयोर् द्विविधयोर् अपीति प्राप्ते—

अनारब्ध-कार्य एव तु पूर्वे तद्-अवधेः

तु-शब्दः शङ्का-च्छेदार्थः । पूर्वे सञ्चित् पाप-पुण्ये अनारब्ध-कार्ये अनुत्पादित-फले एव विद्यया विन्श्यतो न त्व् आरब्ध-कार्ये चोत्पादित-फले । कुतः ? तद्-अवधेः । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये [छा.उ. ६.१४.२] इति श्रुतेः ।

त्वद्-अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर्
गुण-विगुणान्वयांस् तर्हि देह-भृतां न गिरः [भा. १०.८७.४०] इति स्मृतेः ।

परेशेच्छायाः प्रारब्ध-नाशावधि-भूतत्व-श्रवणाद् इत्य् अर्थः । एतद् उक्तं भवति । अतिबलिष्ठा खलु विद्या सर्व-कर्माणि निरवशेषाणि दहति प्रदीप-बहिर् अपि विविधान्य् एधांसीति । यद्यपि वाक्यात् प्रतीतं तथापि ब्रह्म-विदां देह-स्थिति-दर्शनात् तद्-आरम्भकं कर्म उपदेशादि-प्रचारिण्या तद्-इच्छयैव तिष्ठेद् इति स्वीकार्यम् । एवं च सति मण्य्-आदि-प्रतिबन्ध-शक्तेर् वह्नेर् इव विद्यायाः किञ्चित् कर्मादाहकत्वेऽपि न कापि क्षतिर् इति । यत् तु वदन्ति आरब्ध-फल-कर्माशयम् अनाश्रित्य विद्योत्पत्तिर् नोपपद्यते । आश्रिते तस्मिन् कुलाल-चक्रवत् प्रवृत्त-वेगस्य तस्य भवेद् एव वेग-नाशापेक्षा । यथा वेग-क्षये च चक्रं स्वयं शाम्येद् एवं फलेऽतीते तद्-आरम्भकं कर्म नश्यतीति । तन् न । अतिबलीयस्यास् तस्याः सर्वाणि तानि प्रसह्य निर्मूलयन्त्यास् तद्-इच्छां विना क्वचिद् अप्य् अवष्टम्भो न स्यात् । न हि गुरुतर-शिला-निपातए चक्रं पुनर् भ्रमितुम् अलम् । तस्मात् प्राग्-उक्तम् एव सुष्ठु ॥१५॥

रामपद चट्टोपाध्याय: १०।८७।४०, ११।२८।३१

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।४०

अधिकरणम् १२ (अग्निहोत्राद्य्-अधिकरणम्)

विदुषः पुरातनं पुण्यं नश्यतीत्य् उक्तेः काम्यवन् नित्य-कर्मणोऽपि विनाशः प्राप्तस् तन्-निरासायेदम् आरभ्यते । उभे उहैवेष एते तरति [बृ.आ.उ. ४.४.२२] इत्य् अत्र काम्यवन् नित्य-कर्माप्य् अग्निहोत्रादि विद्यया विनश्यति न वेति विषये वस्तु-शक्तेर् विहन्तुम् अशक्यत्वात् तद् इव विनश्यतीति प्राप्ते—

अग्निहोत्रादि तु तत्-कार्यायैव तद्-दर्शनात्

शङ्का-च्छेदाय तु-शब्दः । विद्योदयात् प्राग्-अनुष्ठितं नित्याग्निहोत्रादि तत्-कार्याय विद्या-रूपाय फलाय भवति । कुतः ? तद्-दर्शनात् । तम् एतं वेदानुवचनेन [बृ.आ.उ. ४.४.२२] इत्य् आदौ तथावगमाद् इत्य् अर्थः । तथा च नित्याग्निहोत्रादि-भिन्नं पुरातनं पुण्यं कर्म विनश्यतीत्य् अयम् इतरस्याप्य् एवम् इति सूत्रार्थः । तस्य नित्यस्य विनाशो नाभिधीयते जनित-फलत्वात् । न हि गृह-दाह-विप्लुष्टस्य ध्यानादेर् इव वापक्षीणस्य तस्यास्ति नाश-व्यवहारः । कर्मणा पितृ-लोकः इत्य् आदि बृहद्-आरण्यकात् स्वर्ग-प्रदांश-नाशस् तु स्याद् एव ॥१६॥

रामपद चट्टोपाध्याय : ११।२०।११, ११।१८।४४

भागवत-भाष्यम् (हरिदास शास्त्री): ७।१५।३८-३९, ११।१८।८-९

अधिकरणम् १३

विद्योपदेशादि-प्रवर्तकेनेश्वर-सङ्कल्पेनैव विदुषां प्रारब्धयोः पुण्य-पापयोः स्थिति-दर्शिता । अथ केषांचिन् निरपेक्षाणां विनैव भोगात् तयोर् विनाशः स्यद् इति प्रदर्श्यते । तत् सुकृत-दुष्कृते विधुनुते तस्य प्रिया ज्ञातयः सुकृतम् उपयन्त्य् अप्रिया दुष्कृतं [कौ.उ. १.४] इति कौषीतकिनः पठन्ति, तस्य पुत्रा दायम् उपयन्ति सुहृदः साधु-कृत्यां द्विषन्तः प्रापकृत्याम् इति तु शाट्यायनिनः । अत्र संशयः । प्रारब्धयोर् अपि तयोर् भोगं विनापि विनाशः प्रतीतः स क्वचित् स्यान् न वेति । भोग्यैक-स्वभावत्वात् तम् अन्तरासो न स्याद् इति प्राप्ते—

अतोऽन्यापि ह्य् एकेषाम् उभयोः

ब्रह्मैक-रतानां परमातुराणां केषांचिन् निरपेक्षाणां विनैव भोगम् उभयोः प्रारब्धयोः पाप-पुण्ययोर् विश्लेषः स्यात् । तत्र हेतुर् अन्येति । हि यस्मात् अत ईश्वरेच्छया स्थितारब्ध-निरूपक-श्रुतेर् अन्या च श्रुतिर् एकेषां शाखायां पठ्यते । तत्-सुकृत-दुष्कृते इत्य् आद्या तस्य पुत्रा दायम् इत्य् आद्या च । आत्मअयतिज्ञान-भोगाभ्यां कर्म-विनाशं प्रकाशयन्त्या श्रुत्या सहैतस्या श्रुतेर् अविरोधाय विषय-भेदोऽअश्यं वाच्यः । न चैषा काम्य-कर्म-विषया । तद्-अधिगमादि-सूत्राभ्यां प्रारब्धातिरिक्तयोर् निखिलयोः पाप-पुण्ययोर् विनाश-निरूपणात्, पाप-कृत्यायां काम्यत्वाभावाच् च । तस्माद् अतिप्रेयसां स्वं द्रष्टुम् आर्तानां केषांचित् भक्तानां स्वाप्ति-विलम्बम् असहिष्णुर् ईश्वरस् तत्-प्रारब्धानि तदीयेभ्यः प्रदाय तान् स्वान्तिकं नयतीति विशेषाधिकरणे वक्ष्यते । तैश् च तेषां भोगात् तानि भोग्य-स्वभावानीति स्व-कृत-संस्था च सिद्धेति ।

ननु तयोर् अमूर्तत्वाद् अकृताभ्यागम-प्रसङ्गाच् च नैतद् युक्तम् इति चेन्, न, ईश्वरत्वेनान्यथा विधाने सामर्थ्यात् । तस्मात् केषांचित् परमातुराणां विनैव भोगात् प्रारब्धानि विश्लिष्यन्तीति ॥१७॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१४।१९, ३।२५।३३

तेषां तान्य् अन्यगामीनि भवेयुर् इत्य् अत्रासम्भावना-निरासायाह—

यद् एव विद्ययेति हि

तद् एव विद्यया करोति इत्य् आद्या श्रुतिर् जैव-ज्ञान-सम्बन्धात् कर्मणि वीरातिशयं दर्शयति । हि यस्मात् अतो विद्या-सामर्थ्याप्रतिबन्ध-रूपात् पारमेश्वरात्प्रसादान् निर्भोगारब्धाभाव-रूपोऽतिशयो जीवेऽपि क्वचिद् भवेद् इति न चित्रम् ॥१८॥

अधिकरणम् १४ (इतर-क्षपणाधिकरणम्)

ततः किम् ? तद् आह—

भोगेन त्व् इतरे क्षपयित्वा सम्पद्यते

प्राप्तव्य-पार्षद्-अशरीराद् इतरे स्थूल-सूक्ष्म-शरीरे क्षपयित्वा विहायाथ पार्षद् अवपुः प्राप्त्य्-अनन्तरं भोगेन, सोऽश्नुते सर्वान् कामान् [तै.उ. २.१] इत्य् आदि श्रुत्य्-उक्तेन सम्पद्यते सम्पन्नो भवतीत्य् अर्थः ॥१९॥

भागवत-भाष्यम् (हरिदास शास्त्री): ४।१।१९, ३।२५।३३, ३।२५।३५

अधिकरणम् १५ (पादः २, वाग्-अधिकरणम्)

चतुर्थाध्याये द्वितीयः पादः

मन्त्राद् यस्य पराभूताः परा भूतादयो ग्रहाः ।

नश्यन्ति स्व-लसत्-तृष्णः स कृष्णः शरणं मम ॥

परस्मिन् पादे देव-यानं पन्थानं विवक्षुर् अस्मिन् पादे विदुषो देहाद् उत्क्रान्ति-प्रकारं विचारयन्ति । छान्दोग्ये श्रूयते—

अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् [छा.उ. ६.८.६] इति ।

तत्र संशयः—किम् इह वृत्त्या वाक्-सम्पत्तिर् उत स्वरूपेणेति मनसो वाक्-प्रकृतित्वाभावाद् वाग्-आदीनां मनोऽधीन-वृत्तिकत्वाच् च वृत्त्यैवेति प्राप्ते—

वाङ्-मनसि दर्शनाच् छब्दाच् च

स्वरूपेणैव मनसि वाक् सम्पद्यते । कुतः ? उपरतायां वाचि मनसः प्रव्ट्ति-दर्शनात् । वाङ्-मनसि सम्पद्यते [छा.उ. ६.८.६] इति शब्दाच् च । इतरथा शब्द-स्वारस्य-भङ्गः । न च मानान्तरेण तत्र वाग् अवगम्यते येन वृत्ति-सम्पत्तिः कल्प्यतेति भावः ।

ननु मनसो वाक्-प्रकृतित्वाभावान् न तत्र तस्या स्वरूप-सम्पत्तिः, किं तु वृत्ति-सम्पत्तिर् एव स्याद् अप्रकृताव् अपि वारिणि वह्नि-वृत्ति-सम्पत्ति-दर्शनाद् इति चेद् उच्यते—मनसा वाक् संयुज्यते, न तु संलीयत इति । अर्थाद् अप्रकृताव् अपि तस्मिन् स्वरूप-संयोगो भवतीति ॥१॥

भागवत-भाष्यम् (हरिदास शास्त्री): ११।१६।४२, ११।१६।४४

अत एव सर्वाण्य् अनु

यतो वाचो मनस्य् एव संयोगो नाग्नौ, अतः सर्वाणि श्रोत्रादीन्य् अपि तत्रैव संयुज्यन्त इति मन्तव्यम् । अनु वाक् सम्पत्त्य्-अनन्तरम् । प्रश्नोपनिषदि—तस्माद् उपशान्त-तेजाः । पुनर् भवम् इन्द्रियैर् मनसि सम्पध्यमानैः । यच् चित्तस् तेनैष प्राणमायाति [प्र.उ. ३.९-१०] इति । यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस् तेजो-मण्डल एकीभवन्ति । ताः पुनः पुनर् उदयतः प्रचरन्त्य् एवं ह वै तत् सर्वं परे देवे मनस्य् एकीभवति [प्र.उ. ४.२] इति ॥२॥

रामपद चट्टोपाध्याय : १।१५।४१

भागवत-भाष्यम् (हरिदास शास्त्री): १।१५।४१

अधिकरणम् १६ (मनोऽधिकरणम्)

मनः प्राण इति विचारयति । मनश् चन्द्रे प्राणे वा सम्पद्यत इति संशये मनश् चन्द्रम् इति श्रुतेश् चन्द्र इति प्राप्ते—

तन्-मनः-प्राण उत्तरात्

तत् सर्वेन्द्रिय-सहितं मनः प्राणे [छा.उ. ६.८.६] सम्पद्यते । कुतः ? मनः प्राणे इत्य् उत्तरस्मात् वाक्यात् । यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्य् एति इत्य् आदि वाक्यं तु स्वार्थ-परं न भवतीत्य् उक्तं भगवता सूत्र-कारेणैव । अग्न्य्-आदि-गति-श्रुतेर् इति चेत्, न, भाक्तत्वाद् इति ॥३॥

रामपद चट्टोपाध्याय : १।१५।४१

भागवत-भाष्यम् (हरिदास शास्त्री): १।१५।४१

अधिकरणम् १७ (अध्यक्षाधिकरणम्)

प्राणस् तेजसीत्य् अत्र विचारः । स सेन्द्रिय-मनाः प्राणः किं तेजसि सम्पद्यते किं वा जीवे इति वीक्षायां प्राणस् तेजसीत्य् उक्तेस् तेजस्य् एवेति प्राप्ते—

सोऽध्यक्षे तद्-उपगमादिभ्यः

स प्राणोऽध्यक्षे देहेन्द्रियाद्य्-अधिष्ठातरि जीवे सम्पद्यते । कुतः ? तद् इति । बृहद्-आरण्यके—

तद् यथा राजानं प्रयियासन्तम् उग्राः प्रत्येनसः सूत-ग्रामण्यो ऽभिसमायन्त्य् एवम् एवेमम् आत्मानम् अन्त-काले सर्वे प्राणा अभिसमायन्ति यत्रैतद् ऊर्ध्वोच्छ्वासी भवति । [बृ.आ.उ ४.३.३८]

इति प्राणस्य सेन्द्रियस्य जीवोपगामित्वादि श्रवणाद् इत्य् अर्थः । न चैवं प्राणस् तेजसीति श्रुति-विरोधः । जीवेन संयुज्य पश्चात् तेजसीति वक्तुं शक्यत्वात् । गङ्गया संयुज्य सागरं गच्छन्ती यमुना तं गच्छतीति शक्यते वक्तुम् ॥४॥

रामपद चट्टोपाध्याय : १।१५।४१-४३, २।२।१५-१६, ११।१६।४२-४४

भागवत-भाष्यम् (हरिदास शास्त्री): १।१५।४२

अधिकरणम् १८ (भूताधिकरणम्)

तेजसीत्य् एतद् विचार्यते । स प्राणो जीवस् तेजसि सम्पद्यते उत संहतेषु भूतेष्व् इति संशये प्राणस् तेजसीत्य् उक्तेस् तेजस्य् एवेति प्राप्ते—

भूतेषु तच्-छ्रुतेः

जीवे पञ्चसु भूतेषु सम्पद्यते । न केवले तेजसि । कुतः ? तत्रैव जीवस्याकाश-मयो वायुमयस् तेजो-मय आपो-मयः पृथिवी-मयः इति सर्व-भूत-मयत्व-श्रवणात् ॥५॥

भागवत-भाष्यम् (हरिदास शास्त्री): २।९।३८, १०।१।३९-४०

अधिकरणम् १९ (आसृत्य्-उपक्रमाधिकरणम्)

किं च—

नैकस्मिन् दर्शयतो हि

एकस्मिन् तेजस्य् एव जीवस्यावस्थानं न मन्तव्यम् । हि यस्माद् एतम् अर्थं प्रश्न-प्रतिवचने निरूपयतः । प्रतिपादितं चैतत् तद्-अनन्तर-प्रतिपत्ताव् इत्य् आदिना प्राक् । तथा च तेजः-प्रभृतिषु भूतेषु प्राण-सम्पत्तिर् जीव-द्वारेति सिद्धम् ॥६॥

अधिकरणम् २०

अथ तस्मिन्न् एव वाक्ये विमर्शान्तरम् । इयम् उत्क्रान्तिर् अजस्यैव भवेद् विज्ञस्यापि वेति संशये,

यदा सर्वे प्रमुच्यन्ते कामा येऽन्ये हृदि स्थिताः ।
अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥

इति बृहद्-आरण्यक-श्रुत्या विज्ञस्यात्रैवामृतत्वाभिधानेनोत्क्रान्त्य्-अभावाद् अज्ञस्यैवेति प्राप्ते—

समाना चासृत्य्-उपक्रमाद् अमृतत्वं चानुपोष्य

आद्यश् चोऽवधारणे । अज्ञस्य विज्ञस्य च समानेवोत्क्रान्तिर् आसृत्य्-उपक्रमाद् आगत्य्-आरम्भान् नाडी-प्रवेशात् प्राग् इत्य् अर्थः । तत्-प्रवेश-दशायां त्व् अस्ति विशेषः । अज्ञस्य नाडी-शतेनोत्क्रम्य गतिर् विज्ञस्य तु शताधिकया । तथा हि छान्दोग्याः पठन्ति— शतं चैका च हृदयस्य नाड्यास् तासां मूर्धानम् अभिनिःसृतैका । तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वग् अन्या उत्क्रमणे भवन्ति [छा.उ. ८.६.६] इति । एतच् छ्रुत्यैकार्थेन, तस्य हैतस्य हृदयस्याग्रम् इत्य्-आदि-श्रुताव् अपि मूर्ध्व-निष्क्रमणं विज्ञ-विषयम् अन्यच् चाविज्ञ-विषयं बोध्यम् । यत् तु विज्ञस्यात्रैवामृतत्व-श्रवणं तत् किल देह-सम्बन्धम् अनुपोष्यादग्ध्वैव पूर्वोत्तराघ-विश्लेष-विनाश-रूपं यद् उक्तम् ॥७॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१८

अधिकरणम् २१

उत्कं विशदयति—

तद् आ-पीतेः संसार-व्यपदेशात्

अदग्ध-शरीर-सम्बन्धस्य विज्ञस्य निष्पाप-रूपं तद्-अमृतत्वं मन्तव्यम् । कुतः ? आपीतेर् इति । आब्रह्म-साक्षात्कारात् शरीर-सम्बन्ध-लक्षणस्य संसारस्योक्तेर् इत्य् अर्थः । तत्-साक्षात्कारः खलु देवयानेन, यथा संव्योम-पदं गत्वैवेति वेदान्तेषु प्रसिद्धम् ॥८॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।१४।५८, १।२।१५

अधिकरणम् २२

सूक्ष्म-प्रमाणतश् च तथोपलब्धेः

नात्र विदुषः शरीर-सम्बन्धो दग्धः । सूक्ष्मं शरीरं यद् अनुवर्तते । कुतः ? प्रमाणेति । देवयान-वर्त्मना गच्छतो विदुषः, तं प्रति ब्रूयात् सत्यं ब्रूयात् इति चन्द्रमसा संवाद-वचनेन शरीर-सद्-भावो ह्य् उपलभ्यते । अतोऽदग्ध-देह-सम्बन्धस्यैव तद्-अमृतत्वम् ॥९॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३१।४३-४४

नोपमार्देनातः

अतो हेतो, यदा सर्वे इति श्रुतिर् देह-सम्बन्धोपमर्देनामृतत्वं वक्तुं न प्रभवति ॥१०॥

भागवत-भाष्यम् (हरिदास शास्त्री): २।८।४-६

तस्यैव चोपपत्तेर् उष्मा

मृत्योः प्राक् स्थूल-देहे यः संस्पर्शेनोष्मोपलभ्यते, सोऽस्य सूक्ष्मस्यैव देहस्य धर्मो न तु स्थूलस्य । कुतः ? उपपत्तेः । तद्-युक्त-तद्-वियुक्तयोर् जीवन्-मृत-देहयोर् उष्मोपलम्भानुपलम्भाभ्यां सूक्ष्म-देहस्यैवायम् उष्मेति युक्तेर् इत्य् अर्थः । मानान्तराय च-शब्दः । तथा चोष्मनुमित-सूक्ष्म-देह-युक्तो विज्ञोऽपि उत्क्रामतीति ॥११॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३१।४४, ३।३०।१८, ३।३०।२०

अथाशङ्क्य समाधत्ते—

प्रतिषेधाद् इति चेन्, न, शारीरात्

विदुष उत्क्रान्तिर् न स्यात् । अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति [बृ.आ.उ. ४.४.६], ब्रह्मैव सन् ब्रह्माप्य् एति [बृ.आ.उ. ४.४.७] इति बृहद्-आरण्यके तस्य तत् प्रतिषेधाद् इति चेन्, न, अत्र देहात् प्राणानिष्क्रान्तिर् न प्रतिषिद्धः । किन्तु शारीराज् जीवाद् एव । देहात् तु तस्यासौ दर्शितास्ति ॥१२॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३१।४४, ३।३२।६-७

स्पष्टो ह्य् एकेषाम्

नैवात्र विवदितव्यम् । हि यस्माद् एकेषां माध्यन्दिनानां शारीरात् प्राणोत्क्रान्ति-प्रतिषेधः स्पष्टो दृश्यते । न तस्मात् प्राणा उत्क्रामन्त्य् अत्रैव समवनीयन्ते, ब्रह्मैव सन् ब्रह्माप्य् एति [बृ.आ.उ. ४.४.७] इति । अत्रैवेति पुरः प्राप्ये ब्रह्मण्य् एवेत्य् अर्थः । यत् तु काण्वाम्नाये आर्त-भाग-प्रश्ने विद्वत्-प्राणान् उत्क्रान्ति-परं याज्ञवल्क्योत्तरं दृश्यते, तत् किल परमार्तैकान्ति-परतया बोध्यम् । यच् च निर्विशेष-ब्रह्मात्मैक्य-ध्यायिनोऽनुत्क्रान्ति-परं तद् इत्य् आह, तन् मन्दं, तद्-अर्थावेदक-पदादर्शनात् निर्विशेषत्वाद्य्-असिद्धेश् च ॥१३॥

स्मर्यते च

ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्य-मण्डलम् ।
ब्रह्म-लोकम् अतिक्रम्य तेन याति परां गतिम् ॥

इति स्मृतिश् च विदुषो मूर्धन्य् अनाडयोत्क्रान्तिम् आह । तथा च विदुषोऽप्य् उत्क्रान्तिर् अस्तीति सिद्धम् ॥१४॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१८

अधिकरणम् २३ (पर-सम्पत्त्य्-अधिकरणम्)

सेन्द्रिय-ग्रामः स-प्राणो जीव उक्त्रान्ति-काले तेजः-प्रभृतिषु सूक्ष्म-भूतेषु सम्पद्यते इत्य् अभिहितं सैषा सम्पत्तिर् विज्ञस्य न सम्भवेद् इत्य् आशङ्क्य परिहृतं च । अथेदं विमृश्यते । विदुषो वाग्-आदयः प्राणास् तद्-वपुर्-भूतानि सूक्ष्म-भूतानि च स्व-स्व-हेतौसम्पद्यन्ते परमात्मनि वेति संशये—यत्रास्य पुरुषस्य इत्य् आदि श्रुतेः स्व-स्व-हेताव् इति प्राप्ते—

तानि परे तथा ह्य् आह

तानि तेजः परस्याम् इत्य् अत्र तेजः-शब्दितानि वाग्-आदि-प्राण-भूतानि परे सर्वात्म-भूते ब्रह्मणि सम्पद्यन्ते तस्यैव सर्वोपादानत्वात् । कुतः ? हि यस्मात्, तेजः परस्यां देवतायाम् इति श्रुतिर् एव तथाह । यत्रासेत्य् आदिकं तु जहत्-स्वार्थम् इत्य् अभाणि प्राक् ॥१५॥

भागवत-भाष्यम् (हरिदास शास्त्री): १।१५।४१-४२

अधिकरणम् २४ (अविभागाधिकरणम्)

अथ तत्रैव पुनर् विमर्शान्तरम् । या खलु परमात्मनि विद्वत्-प्राणादि-सम्पत्तिर् उक्ता सा किं वाङ्-मनसीत्य् आदिवत् संयोगापत्तिः किं यथा नद्यः स्यन्दमानाः समुद्र इत्य्-आदिवत् तादात्म्यापत्तिर् इति सन्देहे पूर्व-स्वारस्य-प्राप्तेर् अविशेषाच् च तद्वत् संयोगापत्तिर् इति प्राप्ते—

अविभागो वचनात्

अथ अचिन्त्य-शक्ति-विशिष्टे परमात्मनि प्राणादेर् अविभागस् तादात्म्यापत्तिः । कुतः ? वचनात् । षष्ठे प्रश्ने—एवम् एवास्य परिद्रष्टुर् इमाः षोडश-कलाः पुरुषायणाः पुरुषं प्राप्यास् तं गच्छन्ति [प्र.उ. ६.५] इति प्राणादीनां कलानां परमात्मनि सम्पत्तिम् अभिधाय पुनर् भिद्येते चासां नाम-रूपे पुरुष इत्य् एवं प्रोच्यते स एषोऽमृतो भवति इति तासां नाम-रूप-भेदस्योक्तेः । आत्मअयतिस्थूल-शरीराद् उत्क्रान्तस्य जीवस्य विदुषः सूक्ष्मं शरीरं विद्यया विप्लुष्ट-कारीष-पिण्डवज् जीर्णम् अप्य् अनुवर्तते । अथाण्डाद् विनिष्क्रान्तस्य तस्याष्टमावरणे प्रकृतौ तद्-विकार-भूतं सूक्ष्मं तद् विलीयते । स तु विशुद्धः प्राप्त-ब्राह्म-वपुः प्रकृत्यापाश्रयेण तेन ब्रह्मणा सह संयुज्यत इति ॥१६॥

रामपद चट्टोपाध्याय : ११।२६।३०, २।९।१०, ४।३।२९, १०।६४।२०, ३।९।११

भागवत-भाष्यम् (हरिदास शास्त्री): १२।५।८-११

अधिकरणम् २५ (तद्-ओकोऽधिकरणम्)

अथ विद्वद्-उत्क्रान्तौ प्रतिज्ञातं विशेषं दर्शयितुम् आरम्भः । शतं चैका चेति वाक्ये शताधिकया विदुषो गतिर् अन्याभिस् तु अविदुष इत्य् एष नियमो युक्तो न वेति सन्देहे, नाडीनाम् अतिसौक्ष्म्यात् बाहुल्याच् च दुर्विवेचनतया पुरुषेण ग्रहीतुम् अशक्यत्वान् न युक्तः । तयोर्ध्वम् आयन्न् अमृतत्वम् एति इति यादृच्छिकोत्क्रान्त्य्-अनुवादो भविष्यतीत्य् एवं प्राप्ते—

तद्-ओकोऽग्र-ज्वलनं तत्-प्रकाशित-द्वारो विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च हार्दानुगृहीतः शताधिकया

विज्ञः शताधिकया सुषुम्नयैव नाड्या निष्क्रामति । न चेयं नाडी तेन विवेक्तुम् अशक्या भवेत् । यद् अयं विद्या-सामर्थ्यादि-हेतुभ्यां हार्दानुगृहीतो भवति । विद्योपासना तस्या सामर्थ्यात् प्रभावात् । विद्या-शेष-भूता या गतिर् आतिवाहिकैस् तत्-पद-प्राप्तिस् तस्या स्मृति-सातत्याच् च । हार्देन हृदय-मन्दिरेण हरिणानुकम्पितो भवतीत्य् अर्थः । ततश् च तस्योपसंहृत-वाग्-आदि-करणस्योच्चिक्रमिषोर् जीवस्योक्तः स्थानं हृदयम् अग्र-ज्वलनं प्रकाशिताग्रं भवति । स तु जीवस् तत्-प्रकाशित-द्वारस् तेन हार्देन श्री-हरिणा प्रकाशितं द्वारं शताधिकया नाड्या मूलं यस्मै तादृशः सन् तां नाडीं विजानातीति । तया विदुषो गतिर् युक्तेति ॥१७॥

रामपद चट्टोपाध्याय : ३।३२।१०, ११।२९।५, १०।६०।३७, १०।८०।११, २।२।२४, १२।११।८

अधिकरणम् २६

रश्म्य्-अनुसाराधिकरणम्

छान्दोग्ये—

अथ यत्रैतस्मात् शरीराद् उत्क्रामत्य् एतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते । स ओम् इति वा होह म्रियते स यावत् क्षिप्येन् मनस् तावद् आदित्यं गच्छत्य् एतद् वै खलु लोक-द्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् । तद् एष श्लोकः । शतं चैका च [छा.उ. ८.६.५-६] इत्य् आदि श्रूयते ।

इहैतद् गम्यते मूर्धन्य् अनाड्या निष्क्रम्य रश्म्य्-अनुसारी सन् गच्छतीति । तत्र संशयः । अहन्य् एव मृतस्य रश्म्य्-अनुसारित्वम् उत निश्य् अपीति । निशि रवि-रश्म्य्-अभावात् मृतस्य तद् इति प्राप्ते—

रश्म्य्-अनुसारी

यदा कदापि मृतो विद्वान् रश्म्य्-अनुसारी सन् गच्छति । विशेषाश्रवणाद् इति शेषः ॥१८॥

अधिकरणम् २७ (निशाधिकरणम्)

निशि नेति चेन्, न, सम्बन्धस्य यावद्-देह-भावित्वाद् दर्शयति च

ननु रात्रौ रवि-रश्म्य्-अभावात् तदानीं मृतस्य न तद्-अनुसारित्वम् इति चेन् न । कुतः ? सम्बन्धस्येति । शिरा-रश्मि-सम्बन्धस्य यावद्-देह-भावित्वात् । यावद्-देहोऽस्ति तावत् तत्-सम्बन्धश् चेति । यदा कदापि मृतस्य तद् घटते । अतश् च ग्रीष्म-क्षपासु देह-ज्वालोपलभ्यते । अन्यद् वा तु शीत-प्रतिबन्धान् नेति । न चेदं यौक्तिकम् इत्य् आह दर्शयति चेति । अमुष्माद् आदित्यात् प्रतायन्ते तथासु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्न् आदित्ये सृप्ताः इति छान्दोग्य-श्रुतिस् (८.६.२) तथा दर्शयति । संसृष्टा वा एते रश्मयश् च नाड्यश् च नैषां विभागो वावद् इदं शरीरम् अतः एतैः पश्यत्य् एतैर् उत्क्रमते एतैः प्रवर्तते इति श्रुत्य्-अनन्तरं च । तथा च विदुषस् तद्-अनुसारित्वं नियतम् इति ॥१९॥

अधिकरणम् २८ (दक्षिणायनाधिकरणम्)

अथेदं विचार्यते । दक्षिणायने मृतेन विदुषा विद्या-फलं प्राप्यते न वेति । उत्तरायणस्य ब्रह्म-लोक-मार्गत्वेन श्रुति-स्मृत्योः पाठात् भीष्मादीनां तत्-प्रतीक्षा-दर्शनाच् च नेति प्राप्ते—

अतश् चायनेऽपि दक्षिणे

अतो विद्यायाः पाक्षिक-फलत्वाभावात् तया प्रतिबन्धक-कर्मणां परिक्षयाच् च दक्षिणेऽप्य् अयने मृतो विद्वान् प्राप्नोत्य् एव विद्या-फलं पूर्व-पक्षस् तु मन्दः । उत्तरायण-शब्देनातिवाहिक-देवताया वक्ष्यमाणत्वात् । भीष्म-प्रतीक्षायाः पितृ-दत्त-स्वच्छन्द-मृत्युताख्यापनार्थत्वेनाचार-पालनार्थत्वेन वा अदूषकत्वाच् चेति ॥२०॥

अधिकरणम् २९

ननु,

यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ [गीता ८.२३] इत्य् उपक्रम्य,
शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते ।
एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥ [गीता ८.२६] इत्य् उपसंहृतं भगवता ।

तत्र काल-प्राधान्येनोपक्रमाद् अहरादि-काल-विशेषा मोक्षाय निर्दिष्टाः प्रतीयन्ते । ततश् च रात्रौ दक्षिणायने च मृतस्याविशेषोऽसौ न भवेद् इतीमां शङ्कां परिहरति—

योगिनः प्रति स्मर्यते स्मार्ते चैते

योगिनो ब्रह्म-निष्ठान् प्रति हेया चन्द्र-गतिर् उपादेया त्व् अर्चिर्-आदि-गतिस् तत्र स्मर्यते । यद् एते स्मार्ते स्मृत्य्-अर्हे भवतः—नैते सृती पार्थ जानन् योगी मुह्यति कश्चन [गीता ८.२७] इत्य् उक्तेः । ततश् च नात्र विदुषः काल-विशेषो नियन्तव्यः । काल-प्रधान्येनोपक्रमस् तु नास्ति । अग्न्य्-आदेः कालत्वासम्भवात् । किन्त्व् आतिवाहिका देवास् ते तत्-तच्-छब्दैर् अभिधीयन्ते । वक्ष्यति चैवं भगवान् सूत्रकारः आतिवाहिकास् तल्-लिङ्गाद् [४.३.४] इति ।

दिवा च शुक्ल-पक्षश् च उत्तरायणम् एव च ।
मुमुर्षतां प्रशस्तानि विपरीतं तु गर्हिते ॥ इत्य् आदिकं तु भवत्य् अज्ञ-विषयम् ।

विज्ञः खलु यत्र क्वापि त्यजन् वपुर् उपैति हरिम् ॥२१॥

रामपद चट्टोपाध्याय : ७।१५।५१, ७।१५।५४-५६

॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ॥

अधिकरणम् ३० (पादः ३, अर्चिर्-आद्य्-अधिकरणम्)

चतुर्थाध्याये तृतीयः पादः

यः स्व-प्राप्ति-पथं देवः सेवनाभासतोऽदिशत् ।

प्राप्यं च स्वपदं ममासौ श्यामसुन्दरः ॥

पादेऽस्मिन् ब्रह्म-लोक-प्रापणः पन्थाः प्राप्यं च ब्रह्म-स्वरूपं निरूप्यते । छान्दोग्ये—

अथ यद् उ चैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चिषम् एवाभिसंभवन्त्य् अर्चिषोऽहरह आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड्-उदण्णेति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्त इति [छा.उ. ४.१५.५] इत्य् अर्चिः प्रथमः पन्थाः श्रूयते ।

कौषीतकी-ब्राह्मणे—

स एतं देव-यानं पन्थानम् आसाद्याग्नि-लोकम् आगच्छति स वायु-लोकं स वरुण-लोकं स इन्द्र-लोकं स प्रजापति-लोकं स ब्रह्म-लोकम् [कौ.ब्रा. १.३] इत्य् अग्निः प्रथमः ।

बृहद्-आरण्यके तु—

यदा वै पुरुषोऽस्माल् लोकात् प्रैति स वायुम् आगच्छति तस्मै स तत्र विजिहीते यथा रथ-चक्रस्य खं तेन स ऊर्ध्व आक्रमते । स आदित्यम् आगच्छति [बृ.आ.उ ५.१०.१] इत्य् आदौ वायुः प्रथमः ।

क्वचित् सूर्य-द्वारेण ते विरजाः प्रयान्ति [मु.उ. १.२.११] इति सूर्य-रूपश् च श्रुतः । एवम् अन्यत्रान्यादृशश् च । इह भवति संशयः—किम् अयं नाना-विधो ब्रह्म-लोक-मार्गः, किं वा, नाना-श्रुत्य्-उक्त-पवकोऽर्चिर्-आदिर् एक एवेति । भिन्न-प्रकरणत्वाद् अथैतैर् एवेत्य् अवधृत्य्-अनुरोधाच् च नाना-विध इति प्राप्ते—

अर्चिर्-आदिना तत्-प्रथितेः

सर्वोऽपि विद्वान् अर्चिः-प्रथमेनैव वर्त्मना ब्रह्म-लोकं व्रजति । कुतः ? तत्-प्रथितेः । तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धां तप इत्य् उपासते ते अर्चिषं [छा.उ. ५.१०.१] इति पञ्चाग्नि-विद्या-प्रकरणस्थेन वचसा विद्यान्तर-शालिनाम् अप्य् अर्चिर्-आदिनैव पथा गत्य्-उपदेशाद् इत्य् अर्थः ।

द्वाव् एव मार्गौ प्रथिताव् अर्चिर्-आदिर् विपश्चिताम् ।
धूमादिः कर्मिणां चैव सर्व-वेद-विनिर्णयात् ॥ [ब्रह्म-तर्क] इति स्मृतिश् च ।

एवं सति यत्र विसदृशः पन्थाः श्रूयते, तत्र गुणोपसंहारवद् अनुक्तानां समावेशः प्रकरण-भेदेऽपि विद्यैक्यात् । एवं चावधृतिर् अपि रश्मि-प्राप्ति-परैव । अन्यथा वाक्य-भेद-प्रसङ्गः ॥१॥

रामपद चट्टोपाध्याय : ७।१५।५४-५५

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३२।६-७, ७।१५।५४

अधिकरणम् ३१ (वाय्व्-अधिकरणम्)

इदानीं वाक्यान्तर-पठितस्य वाय्व्-आदेर् अर्चिर्-मार्गे सन्निवेशः स्याद् इत्य् एतत् प्रदर्शयितुम् आरम्भः । स एतं देव-यानं पन्थानम् आसाद्याग्नि-लोकम् आगच्छति स वायु-लोकं [कौ.ब्रा. १.३] इत्य् अत्र श्रूयमाणो वायुर् अर्चिर्-आदि-पथे सन्निवेश्यो न वेति वीक्षायां क्रमाश्रवणात् कल्पकाभावाच् च नेति प्राप्ते—

वायुम् अब्दाद् अविशेष-विशेषाभ्याम्

अर्चिषम् इत्य् आदाव् अब्दात् संवत्सरात् परमादित्यात् पूर्वं वायुं निवेशयन्ति । कुतः ? अविशेषेति । स वायु-लोकम् इत्य् अविशेषेणोपदिष्टस्य, यद् आह वै पुरुषोऽस्माल् लोकात् प्रैति [बृ.आ.उ ५.१०.१] इत्य् आदौ, स वायुम् आगच्छति [बृ.आ.उ ५.१०.१] इति सूर्यात् पूर्व-वर्तित्वेन विशेषेणोपदेशाद् इत्य् अर्थः । एवं सति सामेभ्यो देव-लोकादित्यम् इति बृहद्-आरण्यकोक्तो देव-लोकोऽपि वायुर् एव ज्ञेयः । योऽयं पवन एष एव देवानां गृह इति देव-निवास-स्थानत्वेनोक्तेः । अपरे त्व् आहुः देव-लोकोऽपि वर्त्म-पर्व-विशेषः । स च संवत्सरात् परत्र पूर्वत्र च वायोर् निवेश्यः । न तु मास-संवत्सरयोर् मध्ये तयोः सम्बन्ध-प्रसिद्धेः । तथा च संवत्सरादित्ययोर् मध्ये देव-लोक-वायु-लोकौ सन्निवेश्याव् इति ॥२॥

भागवत-भाष्यम् (हरिदास शास्त्री): ७।१५।५५

अधिकरणम् ३२ (तडिद्-अधिकरणम्)

स वरुण-लोकं स इन्द्र-लोकं स प्रजापति-लोकम् इत्य् अत्र विचारः । इह श्रुतो वरुण-लोकोऽर्चिर्-आदि-पर्वतया सन्निवेश्यो न वेति विषये वायोर् इवास्य व्यवस्थापकाभावान् नेति प्राप्ते—

तडितोऽधि वरुणः सम्बन्धात्

चन्द्रमसो विद्युतम् इत्य् उक्तायास् तडितोऽध्युपरिष्टाद् असौ वरुणो निवेश्यः । कुतः ? सम्बन्धात् । तडिद्-वरुणयोः सम्बन्ध-सत्त्वात् । विद्युत्-पूर्विका हि वृष्टिर् भवति । यथा हि विशाला विद्युतस् तीव्र-स्तनित-निर्घोषा जीमूतोदरे नृत्यन्त्य् अथापः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वै [छा.उ. ७.११.१] इति श्रवणात् । स्व-सम्बन्धि-वृष्टि-गत-नीराधिपतित्वेन वरुणस्य तडिता सम्बन्धः प्रसिद्धः । वरुणाद् उपरि तु इन्द्र-प्रजापत्योर् निवेशः । स्थानान्तराभावात् पाठ-सामर्थ्याच् च । तद् एवम् अर्चिर्-आदि-प्रजापत्य्-अन्ता द्वादश-पर्वा त्रयोदश-पर्वा वा ब्रह्म-लोक-पद्धतिर् इति सिद्धम् ॥३॥

रामपद चट्टोपाध्याय : ७।१५।५५-५६

भागवत-भाष्यम् (हरिदास शास्त्री): ७।१५।५५

अधिकरणम् ३३ (आतिवाहिकाधिकरणम्)

अथाचिरादि-विचारान्तरम् अर्चिरादयो वर्त्म-चिह्नान्य् उतार्चिर्-आदि-व्यक्तय आहो स्विद् विदुषां गमयितार इति सन्देहे वर्त्म-चिह्नानीति तावत् प्राप्तं तच्-चिह्न-सारूप्येण निर्देशात् । तथा हि लोका निर्दिशन्ति पुरान् निर्गत्य नदीं याहि ततो गिरिं ततो घोषम् इति । तत्-तद्-व्यक्तयो वा वाचनिकत्वात् । एवं प्राप्ते—

आतिवाहिकास् तल्-लिङ्गात्

आतिवाहे पुरुषोत्तमेन नियुक्तास् तेऽर्चिर्-आदयो देवा भवन्ति, न तु तानि ताश् चेति प्रतिपत्तव्यम् । कुतः ? तल्-लिङ्गात् । आतिवाहिक-लिङ्गं गन्तॄणां गमयितृत्वं तस्मात्, तत्-पुरुषोऽमानवः स एतान् ब्रह्म गमयति इत्य् अन्ते श्रुतस्य पुरुषस्य गमयितृत्वावगमात् तत्-साहचर्याद् अर्चिर्-आदीनाम् अपि तन् मन्तव्यम् इत्य् अर्थः ॥४॥

भागवत-भाष्यम् (हरिदास शास्त्री): ६।१।३०, ४।१२।१९-२०

चिह्न-व्यक्ति-पक्षयोर् असिद्धेश् चैवं स्वीकार्यम् इत्य् आह—

उभय-व्यामोहात् तत्-सिद्धेः

रात्र्य्-आदिषु मृतस्याअरादि-सम्बन्धाभावाद् अर्चिर्-आदीनाम् अनवस्थितेर् न मार्ग-चिह्नत्वम् । जडत्वेन नेतृत्वायोगाच् च न तत्-तद्-व्यक्तित्वम् इत्य् उभय-पक्ष-व्यामोहात् तस्य श्रुति-सिद्धेश् च तेषाम् आतिवाहिकत्वम् इत्य् अर्थः ॥५॥

रामपद चट्टोपाध्याय : ११।१९।१७, ११।१४।१५, ११।२०।१२

अधिकरणम् ३४ (वैद्युताधिकरणम्)

पुरुषोत्तमेन प्रयुक्तोऽमानवः पुरुषोऽर्चिः-पर्यन्तम् आगत्योपासकान् नयत्य् उत विद्युत्-पर्यन्तम् इति संशये भू-पर्यन्तागतैः पार्षदैर् अजामिलादेर् नयनाद् अर्चिः-पर्यन्तम् इति प्राप्ते—

वैद्युतेनैव ततस् तच्-छ्रुतेः

ततो विद्युत्-प्राप्त्य्-अनन्तरं वैद्युतेन विद्युत्-पर्यन्तागतेन तत्-पार्षदेन विद्वान् ब्रह्म प्राप्यते । कुतः ? तच्-छ्रुतेः । चन्द्रमसो विद्युतं तत्-पुरुषोऽमानवः स एतान् ब्रह्म गमयति [छा.उ. ४.१५.५] इति तच्-छ्रवणात् । वरुणादीनां तु तत्-सहकारित्वेन तत् सिद्धम् । एषां पद्धतिः साधारणी । अजामिलस्य विशेषत्वात् तथात्वम् असाधारणम् इति बोध्यम् ॥६॥

भागवत-भाष्यम् (हरिदास शास्त्री): ६।१।३०

अधिकरणम् ३५ (कार्याधिकरणम्)

एवं गतिम् आख्याय गम्यं वक्तुम् आह—स एनान् ब्रह्म गमयति [छा.उ. ४.१५.५] इति विषय-वाक्यम् । तत्र बादरि-मतं तावद् उच्यते—अयम् अमानवः पुमान् परम् एव ब्रह्म गमयतीत्य् उत कार्यं चतुर्मुखाख्यम् इति वीक्षायां ब्रह्म-शब्दस्य परस्मिन्न् एव मुख्यत्वात् तयोर्ध्वम् इत्य् अमृतत्व-श्रवणाच् च परम् एवेति प्राप्ते—

कार्यं बादरिर् अस्य गत्य्-उपपत्तेः

कार्यम् एव ब्रह्म गमयतीति बादरिर् मन्यते । कुतः ? अस्येति । अस्य कार्यस्यैकदेशित्वात् गतिर् उपपद्यते, न तु सर्व-देशस्य परस्येति भावः ॥७॥

विशेषितत्वाच् च

प्रजापतेः सभां वेश्म प्रपद्ये [छा.उ. ८.१४.१] इति छान्दोग्य-श्रुत्या विशेषितत्वाच् च कार्यम् एव गमयतीत्य् अर्थः ॥८॥

सामीप्यात् तु तद्-व्यपदेशः

स एत्य ब्रह्म-लोकान् गमयति, ते तेषु ब्रह्म-लोकेषु पराः परावतो वसन्ति । तेषां न पुनर्-आवृत्तिः [बृ.आ.उ ६.२.१५] इति बृहद्-आरण्यके योऽयम् अपुनर्-आवृत्ति-व्यपदेशः स तु सामीप्याभिप्रायेण भविष्यति । विद्वांसः कार्य ब्रह्म प्राप्य तेन सह तद्-अव्यवहितं परं ब्रह्म प्राप्नुवन्ति । ततः पुनर् नावर्तन्त इति ॥९॥

अधिकरणम् ३६ (कार्यात्ययाधिकरणम्)

कदेत्य् अपेक्षायाम् आह—

कार्यात्यये तद्-अध्यक्षेण सहातः परम् अभिधानात्

कार्यस्य चतुर्मुख-लोक-पर्यन्तस्याण्डस्यात्यये विलये सति तद्-अध्यक्षेण चतुर्मुखेन सहातः कार्यात् चतुर्मुखात् परं ब्रह्म प्राप्नोति । सह प्राप्तौ हेतुर् अभीति । ब्रह्मविद् आप्नोति परम् इत्य् उपक्रम्य सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा [तै.उ. २.१.३] इति तद्-उक्तेर् इत्य् अर्थः । अत्र ब्रह्मणा चतुर्मुखेन सहेत्य् अर्थः ॥१०॥

रामपद चट्टोपाध्याय : ३।३२।६-१०

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३२।८-९

स्मृतेश् च

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति स्मरणाच् च ।
तथा च अर्चिषम् इत्य् आदाव् अर्चिर्-आदयः स-निष्ठा हिरण्यगर्भं प्रापयन्ति इति बादरि-मुनेः सिद्धान्तः ॥११॥

रामपद चट्टोपाध्याय : ३।३२।८-१०

परं जैमिनिर् मुख्यत्वात्

परम् एव ब्रह्म तद्-ध्यातृन् स गमयतीति जैमिनिर् मन्यते । कुतः ? मुख्यत्वात् । ब्रह्म-शब्दस्य तद्-अभिधायकत्वात् । न च गत्य्-अनुपपत्तिः । स्व-भक्तानां सर्वोपाधि-विनिवृत्ति-पूर्वक-स्व-पदाप्ति-ख्यातये भगवता यथा-गत्य्-अनुमननात् ॥१२॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३२।११, ३।३२।२९-३१

दर्शनाच् च

दहर-विद्यायाम् अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय २.३] इत्य् आदि श्रुतम् । एषा गतिः पर-ब्रह्म-कर्मिकैव । गन्तव्यस्य तस्यामृतत्वादि-धर्म-दर्शनात् । गन्तुः स्वरूपाभिनिष्पत्ति-दर्शनात् च । न चैवं सर्वं कार्य-ब्रह्म-पक्षे सङ्गच्छते । नापि तस्यैतत् प्रकरणं, किन्तु परस्यैवेति । काठकेऽपि शतं च [क.उ. २.३.१६] इत्य् आदिना गतिः पठिता । सापि पर-कर्मिकैवामृतत्व-श्रुतेर् अन्यत्र धर्माद् इति तस्यैव प्रकरणात् च ॥१३॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।१८

किं च,

न च कार्ये प्रत्यभिसन्धिः

प्रतिपत्तिर् ज्ञानम् । अभिसन्धिर् इच्छा । न हि विदुषो ज्ञान-पूर्विका इच्छा कार्य-ब्रह्म-विषयास्ति अपुमर्थत्वात् । अपि तु पर-ब्रह्म-विषयैव । यद्-विषया सा भवेत्, तद् एव प्राप्तं तत्-क्रतु-न्यायात् । तथा वामानवः पुरुषः पुरुषोत्तमम् एव तद्-उपासकान् नयतीति जैमिनेः सिद्धान्तः ॥१४॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३३।३

अधिकरणम् ३७ (अप्रतीकालम्बनाधिकरणम्)

अथ स्व-मतम् आह—

अप्रतीकालम्बनान् नयतीति बादरायण उभयथादोषात् तत्-क्रतुश् च

नामाद्य्-उपासकाः प्रतीकालम्बनास् तद्-भिन्नाः सनिष्ठादयो ब्रह्मोपासका अप्रतीकालम्बनास् तान् सर्वान् नयतीति भगवान् बादरायणो मन्यते । कार्योपासकान् वा नयतीत्य् अन्यतर-नियमं न स्वीकार्तोतीत्य् अर्थः । कुतः ? उभ्यथेति । मत-द्वयेऽपि विरोधाद् इत्य् अर्थः । आद्ये परं ज्योतिर् इत्य् आदि विरोधः । द्वितीये तु पञ्चाग्नि-विद्यावताम् अर्चिर् आदि गति विरोधः । तत्-क्रतु-न्यायोऽप्य् एतम् अर्थं दर्शयति, यथा क्रतुर् इत्य् आदिना । नामादि-प्रतीकोपासकानां तु नार्चिर्-आदिना पर-प्राप्तिः तत्-क्रतु-विरहात् । किन्तु शब्द-शास्त्रादि-लक्षण-नामादिषु स्वातन्त्र्यादि-प्राप्तिर् भवति । स यो नाम ब्रह्मेत्य् उपास्ते यावन् नाम्नो गतः तत्रास्य कामचारः [छा.उ. ७.१.५] इत्य् आदि छान्दोग्य-वाक्यात् । पञ्चाग्नि-विद्यावतां तेन वर्त्मना सत्य-लोक-प्राप्तिस् तु स्वात्मानुसन्धि-प्रभावात् । तद्-उपर्य्-अपीति न्यायेन तल्-लोके तेषां ब्रह्म-विद्या-सिद्धेः । तद्-वर्त्मना गतानाम् अनावृत्ति-श्रुतिः सङ्गता ॥१५॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।३३।७-८

अधिकरणम् ३८ (विशेषाधिकरणम्)

अथ निरपेक्षाणां केषांचित् स्वयं भगवतैव स्व-पद-प्राप्तिर् अभिधीयते ।

एतद् धि विष्णोः परमं पदं ये
नित्योद्युक्ताः संयजन्ते न कामान् ।
तेषाम् असौ गोप-रूपः प्रयत्नात्
प्रकाशयेद् आत्म-पदं तदैव ॥ [गो.ता.उ. १.२१]
ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्च-पदं मनुम् ।
तेषाम् असौ दर्शयेद् आत्म-रूपं
तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै ॥ [गो.ता.उ. १.२३] इति ।

इह संशयः । निरपेक्ष्या अप्य् आतिवाहिकैर् एव परं पदं विशन्ति स्वयं भगवता वेति । द्वाव् एव मार्गाव् इत्य् आदौ ब्रह्म-विदाम् अर्चिर्-आदि-गति-विनिर्णयात् तेऽपि तैर् एव तद् विशन्ति । श्रुतिश् च । भगवतो हेतु-कर्तृत्वं विवक्षत्य् अविरुद्धम् एवं प्राप्ते ब्रवीति—

विशेषं च दर्शयति

ब्रह्म-विदाम् आतिवाहिकैस् तत्-प्राप्तिर् इत्य् एतत् सामान्यम् । ये खलु निरपेक्षाः परमार्तास् तेषां तु स्वयं भगवतैव तत्-प्राप्ति-विलम्बम् असहिष्णुना सेति विशेषोऽस्ति । तं श्रुतिर् दर्शयति एतद्-विष्णोर् इत्य् आदिना ।

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥
तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् ।
भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥ [गीता १२.६-७] इति स्मृतेश् च ।

तदैव तेषां तनु-भङ्गस् तनु-योगश् चेति च शब्दात् । न चार्चिर् आदि-निरपेक्षा गतिर् नास्तीति शक्यं वदितुम् ।

नयामि परमं स्थानम् अचिरादि-गतिं विना ।
गरुड-स्कन्धम् आरोप्य यथेच्छम् अनिवारितः ॥ इति वाराह-वचनात् ।

तस्माद् यथोक्तम् एव सुष्ठु ॥१६॥

अधिकरणम् ३९

॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये चतुर्थाध्यस्य तृतीयः पादः ॥

अधिकरणम् ४० (पादः ४, सम्पद्य् आविर्भावाधिकरणम्)

चतुर्थाध्याये, चतुर्थः पादः

अकैतवे भक्ति-सवेऽनुरज्यन्

स्वम् एव यः सेवक-सात्करोति ।

ततोऽतिमोदं मुदितः स देवः

सदा चिद्-आनन्द-तनुर् धिनोतु ॥

अस्मिन् पादे मुक्तानां स्वरूप-निरूपण-पूर्वकम् ऐश्वर्य-भोगादि निरूप्यते । प्रजापति-वाक्ये श्रूयते—एवम् एवैष सम्प्रसादोऽस्मात् शरीरात् समुत्थाय, परं ज्योतिर् उपसम्पद्य, स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः [छा.उ. ८.१२.३] इति ।

अत्र संशयः—किं देवादि-रूपवत् साध्येन रूपेण सम्बन्धः स्वरूपाभिनिष्पत्तिः, उत स्वाभाविकस्याविर्भावः ? इति । किं प्राप्तम् ? साध्येन रूपेण सम्बन्ध इति, अभिनिष्पत्ति-वचनात् । अन्यथा तद्-वचनं व्यर्थं स्यात् । मोक्ष-शास्त्रं च पुमर्थावबोधि न भवेत् । यदि स्वाभाविक-रूप-सम्बन्धस् तन्-निष्पत्तिर् उच्यते । स्वाभाविकस्य स्वरूपस्य प्राग् अपि सतः पुमर्थाप्रतीतिः । तस्मात् साध्येन रूपेण सम्बन्धः सेति प्राप्ते—

सम्पद्य् आविर्भावः स्वेन-शब्दात्

ज्ञान-वैराग्य-निषेवितया भक्त्या परं ज्योतिर् उपसम्पन्नस्य जीवस्येह कर्म-बन्ध-विनिर्मुक्त-गुणाष्टक-विशिष्ट-स्वरूपोदय-लक्षणोऽवस्थान-विशेषः स्वरूपाविर्भावः कथ्यते । कुतः ? स्वेन-शब्दात् । स्वेन इति स्वरूप-विशेषणाद् इत्य् अर्थः । आगन्तुक-रूप-परिग्रहेऽनर्थकं तत् स्यात्, असत्य् अपि तस्मिन् तस्य स्वकीय-रूपत्व-सिद्धेः । न चाभिनिष्पत्ति-वचनं व्यर्थम् । इदम् एकं सुनिष्पन्नम् इत्य्-आदिष्व् आविर्भावेऽपि तच्-छब्द-वीक्षणात् । न च तस्य पूर्वं सतः पुमर्थत्वं न प्रतीतं तादृग्-अवस्थायाः पूर्वम् अनुदयात् । न चात्रोपाय-वैयर्थ्यं तद्-उदयार्थत्वेन सार्थक्यात् । यत् तु स्व-प्रकाश-चिन्-मात्रस्यात्मनः परं ज्योतिर् उपसम्पन्नस्य निवृत्त-निखिल-प्रकृत्य्-अध्यास-दुःखतयावस्थितिस् तन्-निष्पत्तिर् इत्य् आहुस् तत्र—रसं ह्य् एवायं लब्ध्वानन्दी भवति इति मुक्तावानन्दातिशय-श्रवणात् ॥१॥

रामपद चट्टोपाध्याय : २।१०।६, १।३।३३-३४, १०।१४।२६, ५।१२।११

भागवत-भाष्यम् (हरिदास शास्त्री): १।३।३३-४, १०।८७।३८।

अधिकरणम् ४१ (मुक्ताधिकरणम्)

ननु परं ज्योतिर् उपसम्पन्नस्य मुक्तिः कस्माद् अवगम्यते ? तत्राह—

मुक्तः प्रतिज्ञानात्

स्वरूपाभिनिष्पन्नोऽयं मुक्त एव । कुतः ? प्रतिज्ञानात् । पूर्वत्र य आत्मेति प्रकृतस्य जीवस्य एतं त्व् एव ते भूयोऽनुव्याख्यास्यामि [छा.उ. ८.९.३] इत्य्-आदिभिर् जागराद्य्-अवस्था-त्रय-विनिर्मुक्ततया प्रियाप्रिय-हेतु-भूत-कर्म-निर्मित-शरीर-विनिर्मुक्ततया च व्याख्यातुं प्रजापतिना प्रतिज्ञातत्वात् । तस्मात् कर्म-सम्बन्ध-तन्-निर्मित-शरीरादि-विनिर्मुक्त-स्वाभाविक-स्वरूपावस्थितिर् इह स्वरूपाभिनिष्पत्तिः सैव मुक्तिर् इति ॥२॥

भागवत-भाष्यम् (हरिदास शास्त्री): १।३।३९

अधिकरणम् ४२ (आत्माधिकरणम्)

परं ज्योतिर् उपसम्पत्त्य्-उत्तरा तन्-निष्पत्तिर् उक्ता । तत्रैव विमर्शान्तरम् । किम् अत्रादित्य-मण्डलम् एव तज्-ज्योतिर् उत परं ब्रह्मेति सन्देहे तन्-मण्डलम् इति प्राप्तम् । तद् विभिद्य ब्रह्म-प्राप्तेः श्रवणात् । अर्चिर्-आदिके पथि यद् आदित्य-लोक-शब्देनोक्तम् । तत्राह—

आत्मा प्रकरणात्

आत्मैव तज्-ज्योतिर् न त्व् आदित्य-मण्डलम् । कुतः ? प्रकरणाद् इति । यद्यपि ज्योतिः-शब्दः साधारणस् तथाप्य् एषः प्रस्तावाद् आत्मनोऽभिधायी । देवो जानाति मे मन इत्य् अत्र युष्मद्-अर्थस्येव देव-शब्दः । इहात्म-शब्दो ज्ञानानन्द-रूपं विभु-वस्तु प्रतिपादयति । अतति प्रकाशते इति । अत्यते गम्यते विमुक्तैर् इति । अतति व्याप्नोति च व्युत्पत्त्या तस्य सिद्धेः । उपनिषच्-छब्दवद् अस्यानेकार्थ-बोधकत्वम् । तच् च वस्तु पुरुषाकारम् इति स्वीकार्यम् । स उत्तमः पुरुष इति विवरणात् । यद् उपसम्पन्नं परं ज्योतिः स तूत्तमः पुरुषो हरिर् इति तद् अर्थः ॥३॥

भागवत-भाष्यम् (हरिदास शास्त्री): ७।१३।४४, ६।१६।९।

अधिकरणम् ४३ (अविभागाधिकरणम्)

अथ तत्रैवेदं विमृश्यते । संव्योम-पुरस्थं परं ज्योतिर्-उपसम्पन्नो मुक्तस् तत् सालोक्येन तिष्ठेद् उत तत्-सायुज्येनेति सन्देहे नृप-पुरं प्रविष्टस्य लोके तथा-स्थिति-दृष्टेस् तत्-सालोक्येनेति प्राप्ते—

अविभागेन दृष्टत्वात्

तद्-उपसम्पन्नः सोऽविभागेन तत्-सायुज्येनैव तिष्ठतीति मन्तव्यम् । कुतः ? दृष्टत्वात् ।

यथा नद्यः स्यन्दमानाः समुद्रे
अस्तं गच्छति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात्परं पुरुषम् उपैति दिव्यम् ॥

इति मुण्डके [३.२.८] तथैव स्थिति-श्रवणात् । सायुज्यं किल सहयोग एव । य एवं विद्वान् उदगयने प्रमीयते देवानाम् एव महिमानं गत्वाद् इत्य् अस्य सायुज्यं गच्छति इत्य्-आदि तैत्तिरीयकात् । सालोक्यादिकं तु तस्यैव प्रकारः, न चैवं विरहेऽव्याप्तिः । तत्राप्य् अन्तः-स्फूर्त्या महिम-संयोगेन च तत्-सत्त्वात् । न च दृष्टान्तेन स्वरूपाभेदः शक्यः । नीरे नीरान्तरस्यैकीभाव-व्यवहारेऽप्य् अन्तर्-भेदस्य सत्त्वात् इतरथा वृद्ध्य्-आद्य्-अनापत्तिः ॥४॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।३१

अधिकरणम् ४४ (ब्राह्माधिकरणम्)

अथ मुक्तस्य भोगान् निरूपयिष्यता तद्-धेतु-भूतः सत्य-सङ्कल्पत्वादि-गुण-गणो दिव्य-विग्रहश् च निरूपणीयः । तत्रादौ गुणा निरूप्यन्ते । तथा हि—परं ज्योतिर् उपसम्पन्नः केनचित् गुण-गणेन विशिष्ट आविर्भवति उत चिन्मात्र एव सन् किं वोभयाविरोधात् उभय-विध-स्वरूपः सन्न् इति विषये जैमिनेर् मतं तावद् आह—

ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः

ब्राह्मेण ब्रह्मणा निर्वृत्तेन अपहतपाप्मत्वादिना सत्य-सङ्कल्पत्वान्तेन गुण-गणेन विशिष्टः सन्न् आविर्भवति । कुतः ? उपेति । प्रजापति-वाक्ये तस्य गुण-गणस्य जीवेऽप्य् उपन्यासात् । आदि-शब्दात् तद्-गुण-प्रयुक्ता मुक्त-व्यवहारा जक्षण-क्रीडनादयः । तेभ्यस् तेन विशिष्टं मुक्त-स्वरूपम् एवाविर्भवतीति जैमिनिर् मन्यते । स्मृतिश् चैवम् आह—यथा न ह्रीयते ज्योत्स्ना इत्य् आदिना ॥५॥

रामपद चट्टोपाध्याय : ११।१४।१३

भागवत-भाष्यम् (हरिदास शास्त्री): ४।१२।२३, ४।७।३१, ५।३।११

चिति तन्-मात्रेण तद्-आत्मकत्वाद् इत्य् औडुलोमिः

ब्रह्म-ज्ञानादि-प्लुष्टाविद्यो मुक्तश् चिद्-रूपे ब्रह्मण्य् उपसम्पन्नश् चिन्-मात्रेण आविर्भवति । कुतः ? तद् इति । बृहद्-आरण्यके द्वितीयस्मिन् मैत्रेय्य्-उपाख्याने— स यथा सैन्धव-घनोऽनन्तरोऽबाह्यः कृत्स्नो रस-घन एवं वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घनः [बृ.आ.उ ४.५.१३] इति चैतन्य-मात्रत्वेनावधारणात् । अत एव निर्गुण-चैतन्यं जीव-स्वरूपम् इत्य् अवबुध्यते । अपहत-पाप्मादयः शब्दास् त्व् अविद्यात्मकेभ्यो विकार-सुखादिभ्यो धर्मेभ्यस् तस्य व्यावृत्तिं बोधयन्तः कथञ्चित् तत्रैव नेया इत्य् औडुलोमिर् मन्यते ॥६॥

अथ स्व-मतम् आह—

एवम् अप्य् उपन्यासात् पूर्व-भावाद् अविरोधं बादरायणः

एवम् अपि चिन्-मात्र-स्वरूपत्व-निरूपणे सत्य् अपि तस्मिंस् तस्य गुणाष्टकस्याविरोधं भगवान् बादरायणो मन्यते । कुतः ? उपन्यासादेः । प्रजापति-वाक्यं तद्-उपन्यासात् प्रमानात् तस्य पूर्वस्य जैमिन्य्-उक्तस्यापि तत्र सत्त्वात् । श्रुतित्वाविशेषेणोभयोर् वाक्ययोः सम-प्रामाण्याद् उभय-विध-रूपत्वं मुक्तस्येति सिद्धान्तः । अत्र प्रज्ञान-घन एवेति श्रुतेर् निर्गुण-चिन्-मात्रं जीव-स्वरूपम् इत्य् अर्थो बादरायणस्याभिमतः । एवम् अप्य् अविरोधम् इत्य् उक्तेः । न चैवम् अवधारण-बाधः । सर्वांचेन जड-व्यावृत्त-स्वप्रकाशोऽयम् आत्मेति तस्माद् वाक्याद् एव सुव्यक्तेः । न चेदृशेऽपि जीवे वाक्यान्तरावगतस्य तस्य गाष्टकस्य सम्बन्धो विरुध्यते । यथा कार्त्स्न्येन रस-घनेऽपि सैन्धव-घने दृग्-आदि-ग्राह्या रूप-काठिन्यादयो न विरुध्येरन्न् इति । तस्माद् अपहत-पाप्मत्वादिना गुणाष्टकेन वक्ष्यमाणो ज्ञान-स्वरूपो जीव आविर्भवतीति ॥७॥

रामपद चट्टोपाध्याय : ११।१५।३१, ११।२०।३२-३४, ५।१२।१३

भागवत-भाष्यम् (हरिदास शास्त्री): ५।१२।१

अधिकरणम् ४५ (सङ्कल्पाधिकरणम्)

अथ मुक्तस्य सत्य-सङ्कल्पत्वं निरूपयति । छान्दोग्ये स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा [छा.उ. ८.५.१३] इति श्रूयते । तत्र संशयः—मुक्तस्य ज्ञात्य्-आदि-प्राप्तिः प्रयत्नान्तराद् उत सङ्कल्प-मात्राद् इति । लोके राजादीनां सत्य-सङ्कल्पतयोक्तानाम् अपि कार्य-सङ्कल्पे प्रयन्तान्तर-सापेक्षत्व-दर्शनात् तत्-सहिताद् एव सङ्कल्पात् तत्-प्राप्तिर् इति प्राप्ते—

सङ्कल्पाद् एव तच् छ्रुतेः

सङ्कल्प-मात्राद् एवास्य तत्-प्राप्तिः । कुतः ? तच्-छ्रुतेः । स यदि पितृ-लोक-कामो भवति सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्ति । तेन पितृ-लोकेन सम्पन्नो महीयते [छा.उ. ८.२.१] इति पूर्वत्र तन्-मात्राद् एव तत्-प्राप्ति-श्रवणात् । इतरथावधारणस्य बाधः । प्रज्ञान-घन एवेत्य् अत्र धर्मावेदकात् वाक्यान्तरात् तस्य वय्वस्थापनम् । न च तद्वत् सापेक्षत्वावेदकं वाक्यान्तरं पश्यामः । एषा स्व-सुखैश्वर्य-प्रधाना मुक्तिः सेवा-रसास्वाद-लुब्धैर् नापेक्ष्येति तद् धेयत्व-वचनान्य् उपपद्येरन्न् इति ॥८॥

अधिकरणम् ४६ (अनन्याधिपत्य्-अधिकरणम्)

अथ सत्य-सङ्कल्पस्य मुक्तस्य पुरुषोत्तमैकाश्रयत्वं दर्शयति । मुक्तः पुरुषोत्तमाद् अन्येन नियम्यो न वेति सन्देहे तद् अन्येन नियम्यः स्यात् पर-सद्म-गतत्वात् राज-सद्म-गतवद् इति प्राप्ते—

अत एव चानन्याधिपतिः

अतः पुरुषोत्तमानुग्रहाविर्भावात् सत्य-सङ्कल्पत्वाद् एव हेतोर् मुक्तोऽनन्याधिपतिश् च भवति । नास्त्य् अन्यः पुरुषोत्तमाद् अधिपतिर् यस्य सः । तद् एकाश्रयः सन् दीव्यतीति । इतरथा संसार-विशेषापत्तिः स्यात् । अस्य सत्य-सङ्कल्पत्वं स्वात्म-भूतम् अपि पुरुषोत्तमोपासनाद् आव्रिभूतम् अतोऽसौ तम् एवानन्तानन्दं स्वाश्रित-वत्सलम् अनुकम्पयन् प्रमोदते । स च मुक्तम् आनन्दयतीति विवक्ष्यति दर्शयतश् चैवम् इत्य् आदिना । तद्-अंशो जीवस् तस्य कर्तृत्व-भोक्तृत्वे तस्माद् एवेति प्राक् प्रदर्शितम् । अतः सत्य-सङ्कल्पाद् एव मुक्तोऽनन्याधिपतिर् नास्त्य् अन्योऽधिपतिर् अस्येति विधि-निषेध-योग्यो भवति । तद्-योग्यत्वे तु सत्य-सङ्कल्पत्वं विहन्येतेत्य् एके ॥९॥

रामपद चट्टोपाध्याय : ७।१०।६

भागवत-भाष्यम् (हरिदास शास्त्री): ११।५।४१-४२

अथ मुक्तस्य दिव्य-विग्रह-योगं दर्शयति । तत्रैव संशयः—परं ज्योतिर् उपसम्पन्नस्य मुक्तस्य विग्रहादिकम् अस्त्य् उत नास्ति, आहो स्वित् यथेच्छम् अस्ति च नास्ति चेति । तत्र तावत् बादरि-मतम् आह—

अभावे बदरिर् आह ह्य् एवम्

मुक्तस्य विग्रहाद्य्-अभाव् बादरिर् मन्यते । विग्रहादिकं खलु अदृष्ट-सृष्टम् । तदानीम् अदृष्टाभावात् तन् न सम्भवेत् । कुतः ? आह ह्य् एवम् । हि यस्माच् छान्दोग्य-श्रुतिर् एवम् आह—न वै स-शरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्त्य् अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः [छा.उ. ८.१२.१] इति विग्रहादि-योगे दुःखस्यापरिहार्यत्वम् उक्त्वा, अस्माच् छरीरात् समुत्थाय [छा.उ. ८.१२.३] इत्य्-आदिना तस्य तत्राविग्रहत्वम् उच्यते । देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् [भा.पु. ७.१.३४] इति स्मृतेश् च ॥१०॥

भागवत-भाष्यम् (हरिदास शास्त्री): ७।१।३४

भावं जैमिनिर् विकल्पामननात्

मुक्तस्य विग्रहादि-भावं जैमिनिर् मन्यते । कुतः ? विकल्प- इति । स एकधा भवति, त्रिधा भवति, पञ्चधा सप्तधा नवधा चैव, पुनश् चैकादशः स्मृतः, शतं च दश चैकश् च सहस्राणि च विंशतिः [छा.उ. ७.२६.२] इति भूम-विद्यायां तस्य विविध-कल्प-श्रवणात् । न हि विविध-विग्रहताम् अन्तरा बहुत्वम् अणु-परिमाणस्य तस्याञ्जसम् अवकल्प्येत । न चैतद् अवास्तवम् इति शक्यं शङ्कितुं, मोक्ष-प्रकरणस्थत्वात् । एवं सत्यं शरीरम् इति त्व् अदृष्ट-विग्रहाद्य्-अभाव-परम्, वक्ष्यमाण-स्मृतेश् च ॥११॥

भागवत-भाष्यम् (हरिदास शास्त्री): ३।१५।१४-१५

अथ स्व-मतम् आह—

द्वादशाहवद् उभय-विधं बादरायणोऽतः

अतः सत्य-सङ्कल्पत्वाद् एव हेतोर् उभय-विधं मुक्तं भगवान् बादरायणो मन्यते उभय-विध-वाक्य-दर्शनात् । तम् अविग्रहं स-विग्रहं च स्वीकरोतीत्य् अर्थः । द्वादशाहवत् । तथा द्वादशाहस्य यजमानेच्छयानेक-यजमानकत्वे सत्रत्वम् एक-यजमानकत्वेऽहीनत्वं च न विरुध्यते । तथा स्वेच्छयाविग्रहत्वं स-विग्रहत्वं च मुक्तस्येत्य् अर्थः ।

इदम् अत्र तत्त्वम्—मुक्ताः खलु ब्रह्म-विद्यया संछिन्न-पिधानाः सत्य-सङ्कल्पाश् च भवन्ति । तेषु ये विग्रहादि-लिप्सवस् ते सङ्कल्पाद् एव तद्वन्तः स्युः । स एकधेत्य् आदि श्रुतेः । ये तु न तादृशास् ते किल न तद्वन्तः । अशरीरं वावेत्य् आदि श्रुतेः । ये ब्राह्मण-वपुषा नित्यं ब्रह्मानुवृत्तिम् इच्छन्ति, तेषां तु तच्-चिच्-छक्ति-मयं तद् आविर्भवतीति किल् नित्यं तद्वन्तस् तद् अनुवर्तन्त इति मन्तव्यम् । बृहद्-आरण्यके— यत्र त्व् अस्य सर्वम् आत्मैवाभूत् । तत् केन कं पश्येत् [बृ.आ.उ ४.५.१५] इत्य्-आदि-श्रवणात् । स वा एष ब्रह्म-निष्ठ इदं शरीरं मर्त्यम् अतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा श्र्णोति ब्रह्मणैवेदं सर्वम् अनुभवति इति मध्यन्दिनायन-श्रुतेश् च । वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः [भा.पु. ३.१५.१४] इति स्मृतेश् च । आसाधन-समयाद् एव सङ्कल्पो बोध्यः । यथा-क्रतु-श्रुतेः—गच्छामि विष्णु-पादाभ्यां विष्णु-दृष्ट्यानुदर्शनम् इत्य् आदौ पूर्व-स्मरणात् । मुक्तस्यैतद् भविष्यति इत्य् एवं स्मृतेश् च ॥१२॥

रामपद चट्टोपाध्याय : ३।१५।१४, २।९।११-१२, ७।१।३४

भागवत-भाष्यम् (हरिदास शास्त्री): ३।१५।१२-१६

भोग-हेतवो धर्मा दिव्य-देह-योगाश् च निरूपिताः । भोगश् च सोऽश्नुते सर्वान् कामान् [तै.उ. २.१.१] इत्य्-आदि-श्रुति-सिद्धः । स चोभयथापि स्याद् इति वक्तुं प्रारम्भः । तत्रैवं संशयः—मुक्तस्य भोगः सम्भवेन् न वेति । देहेन्द्रियादि-विरहात् न सम्भवेत् यद्य् अयं योगी मन्तव्यस् तदाप्य् आनन्द-पूर्णस्य तस्य तत्-तृष्णानुदयात्, न स युक्त इति प्राप्ते—

तन्व्-अभावे सन्ध्यवद्-उपपत्तेः

न च विग्रह-भावे भोगासम्भवः । तत्र सन्ध्यवत् तस्योपपत्तेः । सन्ध्यं स्वप्नः । तत्र यथा तनुं विनापि भोग एवम् अपि स उच्यते ॥१३॥

रामपद चट्टोपाध्याय : ७।१०।११, ११।२२।५६ (= ११।२८।१३)

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२५।३४

स-विग्रहत्वे तु पुष्कल-भोग इत्य् आह—

भावे जाग्रद्वत्

भावे विग्रह-सत्त्वे जाग्रद्वद् भोगः । पूर्व-पक्षस् तु भोक्तव्यस्य रसादेर् भगवत्-प्रसादत्वेन स्पृहणीयत्वाद् एव न युक्तः । तृप्तस्यापि हरेर् भक्तेच्छया भोगेच्छादयः । मुक्तस्य तु तत्-प्रसादे भोग्ये भक्त्यैव स्पृहादय इति बोध्यम् ॥१४॥

रामपद चट्टोपाध्याय : ७।१०।४९, १०।९।१३-१४

भागवत-भाष्यम् (हरिदास शास्त्री): ३।२५।३५-३६

अधिकरणम् ४७ (प्रदीपाधिकरणम्)

अथ मुक्तस्य सार्वज्ञ्यं प्रकाशयति—न पश्यो मृत्युं पश्यति न रोगं नोत दुःखितां सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः [छा.उ. ७.२६.२] इति छान्दोग्ये सर्व-वस्तु-विषयकं ज्ञानं मुक्तस्योक्तम् । तद् युज्यते न वेति संशये प्राज्ञेनात्मनेत्य्-आदि-श्रवणान् न युक्तम् इति प्राप्तौ—

प्रदीपवद् आवेशस् तथा हि दर्शयति ।

प्रदीपस्य यथा प्रभयानेक-देशावेशस् तद्वत् प्रसृतया प्रज्ञयानेकार्थावेशो मुक्तस्य भवति । तथा हि श्वेताश्वतरोक्ता श्रुतिर् दर्शयति—प्रज्ञा च तस्मात् प्रसृता पुराणी [श्वे.उ. ४.१८] इति । तस्माद् ईशान् निमित्तात् जीवस्य पुराणी प्रज्ञा प्रसृता भवतीत्य् अर्थः ॥१५॥

रामपद चट्टोपाध्याय : १०।१६।४६

ननु मुक्तौ सार्वज्ञ्यं न युक्तम् । प्राज्ञेनात्मनेति श्रुत्या तत्र विशेष-ज्ञान-प्रतिषेधाद् इति चेत्, तत्राह—

स्वाप्यय-सम्पत्योर् अन्यतरापेक्ष्यम् आविष्कृतं हि ।

नैतद् वाक्यं मुक्तस्य विशेष-ज्ञानं वारयितुम् अलम् । यत् स्वाप्यय-सम्पत्त्योर् अन्यतरापेक्ष्यं तत् । स्वाप्ययः सुषुप्तिः सम्पत्तिस् तूत्क्रान्तिः । छान्दोग्ये—स्वम् अपीतो भवति तस्माद् एनं स्वपितीत्य् आचक्षते [छा.उ. ६.८.१], वाङ् मनसि सम्पद्यते [छा.उ. ६.१५.१] इति च श्रवणात् । हि यतः । श्रुत्यैव स्वापोत्क्रमयोर् जीवस्य निःसङ्गत्वम् आविष्कृतं मुक्तौ सार्वज्ञ्यं च । तत्रैव नाह खल्व् अयम् एवं स प्रत्यात्मानं जानात्य् अयम् अहम् समीति नो एवम् आनि भूतानि विनाशम् इवापीतो भवति । नाहम् अत्र भोग्यं पश्यामि इति स्वापे निःसंज्ञत्वम् उक्त्वा तत्रैव वाक्ये मुक्तम् अधिकृत्य, स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्म-लोके [छा.उ. ८.१२.५] इति तस्य सार्वज्ञ्यम् उक्तम् । उत्क्रमे निःसंज्ञत्वन्त्येभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति इत्य् अभिहितम् । विनश्यति न पश्यतीत्य् अर्थः । तथा च मुक्तः सर्वज्ञो भवतीति ॥१६॥

रामपद चट्टोपाध्याय : ३।२९।१३, ११।२०।३४, ११।२५।३५-३६, ११।२९।६, १।७।११, ८।३।१८

अधिकरणम् ४८ (जगद्-व्यापार-वर्जाधिकरणम्)

अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एतांश् च सत्य-कामांस् तेषां सर्वेषु लोकेषु काम-चारो भवति [छा.उ. ८.१.६] स यदि पितृ-लोक-कामो भवति [छा.उ. ८.२.१] इत्य्-आदि-श्रुतं तत्रैव । इह भवति संशयः । मुक्तो जगत्-कर्ता स्यान् न वेति । परम-साम्याप्तेः सत्य-सङ्कल्पनायाश् चोक्तेः स्याद् इति प्राप्ते—

जगद्-व्यापार-वर्जं प्रकरणाद् असन्निहितत्वात्

स यदीत्य् आद्य्-अवगतो मुक्त-सर्गो यतो वा इमानि इत्य् आद्य्-अवगतं निखिल-चिद्-अचित्-सृष्टि-स्थिति-नियमन-रूपं ब्रह्मैकान्तं जगद्-व्यापारं विहाय बोध्यम् । कुतः ? प्रेति । यतो वा इत्य् आदेः ब्रह्मैव प्रकृत्य पाठात् । न चानुकर्षणाकर्षणाभ्यां मुक्तस्य तत्-प्राप्तिर् इत्य् आह असन्न् इति । मुक्तस्य तत्-सानिध्याभावान् न ताभ्यां सेत्य् अर्थः । इतरथा जन्माद्य् अस्य यतः [वे.सू. १.१.१] इति ब्रह्मत्व-लक्षणं न ब्रूयात् । अनेकेश्वरता चानिष्टापद्येत तस्मान् न मुक्तो जगद्-व्यापारीति ॥१७॥

रामपद चट्टोपाध्याय : ११।१५।१५, २।५।११, २।६।३१, २।६।१५

भागवत-भाष्यम् (हरिदास शास्त्री): १।१।१

ननु सर्वेऽस्मै देवा बलिम् आवहन्ति [तै।उ। १।५।३] इत्य्-आदि तैत्तिरीयके, स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति [छा।उ। ७।२५।२] इति छान्दोग्ये च सर्व-देवाराध्यत्वाद् ऐश्वर्यस्योपदेशात् मुक्तस् तादृशः स्याद् इति चेत् तत्राह—

प्रत्यक्षोपदेशाद् इति चेन्, न, अधिकारिक-मण्डलस्योक्तेः

प्रत्यक्षेण श्रुत्यैव मुक्तस्य जगद्-व्यापारोक्तेस् तस्य तद्-वर्जनं न युक्तम् इति चेन् न । कुतः ? आधिकारिकेति । चतुर्मुखादयो ह्य् आधिकारिकास् तेषां मण्डलानि लोकास् तत्-स्था भोगाः परेशानुगृहीतस्य मुक्तस्य भवन्तीति तथोच्यते । यथा कुमार-नारदादेस् तेष्व् अप्रतिहता गतिस् तत्-स्वामि-सत्-कारश् च स्मर्यते । तथा च तद्-विभूति-भूतान् कार्यान्तर-गतान् भोगान् मुक्तस् तद्-अनुग्रहाद् भजतीति तत्र तत्राभिधानात् न तद्-व्यापारी सः ॥१८॥

भागवत-भाष्यम् (हरिदास शास्त्री): १०।८७।२८

ननु मुक्तश् चेत् कार्यान्तर-गतान् भोगान् भुङ्क्ते तर्हि संसारितो न विशेषस् तेषां विनाशित्वाद् इति चेत्, तत्राह—

विकार-वर्ति च तथा हि स्थितिम् आह

विकारे प्रपञ्चे जन्मादि-षट्के वा न वर्तते इति विकारावर्ति निरवद्यं ब्रह्म-स्वरूपं तद्-गुण-भूतं तद्-धामादिकं च । तत्-तद्-विषयया विद्यया तत्-तद्-आवृत्ति-परिक्षयान् मुक्तस् तद् अनुभवंस् तिष्ठतीति न किञ्चिद् ऊनम् । हि यतः कठ-श्रुतिर् मुक्तस्य तथा स्थितिम् आह—

पुरम् एकादश द्वारम् अजस्यावक्र-चेतसः ।
अनुष्ठाय न शोचति विमुक्तश् च विमुच्यते ॥ [क.उ. २.२.१] इति ।

स्वरूपावरिकया वृत्त्या विमुक्तो विद्वान् गुणावरिकया तया विमुच्यते इत्य् अर्थः । तथा च द्विविधावृत्ति-विमुक्तस् तत् साक्षात्कृत्य तिष्ठतीत्य् अक्षय-पुमर्थ-भाक् स इति । इयम् आवृत्तिर् मेघ-मालेव जीव-दृष्टि-गतैव बोध्या, न तु ब्रह्म-गता ।

विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया ।
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ [भा.पु. २.५.१३] इति स्मरणात् ।

न हि मेघ-मालया रविर् इवाव्रियते ॥१९॥

रामपद चट्टोपाध्याय : २।५।१३, ११।२।३३, ११।२।३५, ३।१५।१४-१६

भागवत-भाष्यम् (हरिदास शास्त्री): २।५।११-१३

अधिकरणम् ४९

ननु सत्य-सङ्कल्पादि-गुणक-चिदानन्द-स्वरूप-जीव-साक्षात्कारस्य पुमर्थत्वाद् अलं ब्रह्म-साक्षात्कार-प्रयासेनेति चेत्, तत्राह—

दर्शयतश् चैवं प्रत्यक्षानुमाने

यद्यपि मुक्तो जीवस् तादृशस् तथाप्य् आत्मनासौ नानन्तानन्द-शाली भवति, तस्याणुत्वात् । किन्तु ब्रह्मणैव तस्यापरिमितानन्दत्वाद् इति श्रुति-स्मृती दर्शयतः । रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै.उ. २.६.१] इति श्रुतिः । भूम्नि मत्व्-अर्थीयः ।

ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ [गीता १४.२७] इति स्मृतिश् च ।

अल्प-धनो हि महा-धनम् आश्रित्य सम्पन्नो भवतीति युक्तिश् च शब्दात् ॥२०॥

रामपद चट्टोपाध्याय : २।९।३२, ११।२९।५, १०।८०।११, १०।४८।२६, ८।१२।६, ११।१४।१६, ९।१९।१५, ११।१४।१३, ११।१४।१७

अधिकरणम् ५०

ननु निरञ्जनः परमं साम्यम् उपैति [मु.उ. ३.१.३] इति श्रवणाद् आत्मनैव मुक्तस् तादृशः स्यात् । ततः किम् ईश्वरेण ? अणुत्वं तु तस्य बुद्धि-गतं क्वचिद् उपचरितम् इति चेत्, तत्राह—

भोग-मात्र-साम्य-लिङ्गाच् च

च-शब्दोऽवधारणे । मण्डूक-प्लुत्या पूर्वतो नेत्य् अनुवर्तते । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता [तै.उ. २.१] इति मुक्तस्य भोग-मात्रे भगवत्-साम्य-वचनात्, लिङ्गाद् एव स्वरूप-साम्यं वाक्यार्थो न भवतीत्य् अर्थः । चोद्यन्तु प्राक् परिहृतम् । अनेन स्वरूप-निर्णयान्त्य-सूत्रेण जीव-ब्रह्मणोर् भोग-मात्रेणैव साम्यं ब्रुवन् शास्त्र-कृत्तयोः स्वरूप-सामर्थ्य-कृतं वैलक्षण्यं वास्तवम् इत्य् उपादिशत् ॥२१॥

भागवत-भाष्यम् (हरिदास शास्त्री): ८।१२।१०-११, ३।२५।३

अधिकरणम् ५१ (अनावृत्त्य्-अधिकरणम्)

अथ मुक्तस्य सार्वदिकं भगवत्-सण्निध्यं वक्तुम् आरम्भः । अत्र भगवल्-लोक-प्राप्ति-वाक्यानि विषयः । तत्रैवं संशयः—तत्-प्राप्ति-लक्षणा मुक्तिः क्षय्या स्याद् अक्षय्या वेति । लोकत्वाविशेषात् स्वर्गाद् इव तस्मात् पात-सम्भवात् क्षय्या स्याद् इति प्राप्ते—

अनावृत्तिः शब्दात् अनावृत्तिः शब्दात्

भगवद्-उपासनया तद्-अवगति-पूर्वया तल्-लोकं गतस्य न तस्माद् आवृत्तिर् भवति । कुतः ? शब्दात् । एतेन प्रतिपद्यमाना इमं मानवम् आवतं नावर्तन्ते, स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्म-लोकम् अभिसम्पद्यते, न च पुनर् आवर्तते इति श्रुतेः ।
माम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनोऽर्जुन ।
माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥ [गीता ८.१५-१६] इति स्मृतेश् च ।

न च सर्वेश्वरः श्री-हरिः स्वाधीनम् उक्तं स्व-लोकात् कदाचित् पातयितुम् इच्छेत् मुक्तो वा कदाचित् तं जिहासेद् इति शक्यं शङ्कितुम् । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता ७.१७], साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् [भा.पु. ९.४.६४] इत्य् आदिषु द्वयोर् मिथः स्नेहातिशयाभिधानात् ।

ये दारागार-पुत्राप्तान् प्राणान् वित्तम् इमं परम् ।
हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे ॥ [भा.पु. ९.४.६५]
धौतात्मा पुरुषः कृष्ण-पाद-मूलं न मुञ्चति ।
मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा ॥ [भा.पु. २.८.६]

इत्य् आदिषु भजद्-अत्याग-सङ्कल्प-भजनीयैक-संरति-स्मरणात् निर्दोषाच् च । एतद् उक्तं भवति । सत्य-वाक् सत्य-सङ्कल्पः स्वाश्रित-वात्सल्य-वारिधिः सर्वेश्वरः स्व-भक्तानां स्व-निमित्त-परित्यक्त-सर्व-विषयाणां स्व-वैमुख्य-करीम् अविद्यां निर्धूय तान् अतिप्रियान् निजांशान् स्वान्तिकम् उपानीय कदाचिद् अपि न जिहासति । जीवश् च सुखैकान्वेषी सुखाभासाय तुच्छेषु तेष्व् अनुरज्यन् व्यतीतासङ्खेयजनुर् भाग्य-विशेषोपलब्धान् सद्-गुरु-प्रसादात् विदित-निजांशि-स्वरूपस् तद्-इतर-निस्पृहस् तद्-अनुवृत्ति-परिशुद्धस् ते तम् अनन्तानन्द-चित्-स्वरूपं प्रसाभिमुखं सुहृत्तमं निज-स्वामिनं प्राप्य कदाचिद् अपि तद्-विच्युतिं नेच्छतीति शास्त्राद् एवाधिगतम् अतः शास्त्रैक-शरणैस् तथैव तत्-तद्-आस्थेयम् इति । सूत्रभ्यासः शास्त्र-समाप्ति-द्योतनार्थः ॥२२॥

रामपद चट्टोपाध्याय : ३।२७।२८-२९, १०।८४।३२, १०।८८।२६, ३।२५।३५*

भागवत-भाष्यम् (हरिदास शास्त्री): २।८।६, ९।४।६४-६५

अधिकरणम् ५२

समुद्धृत्य यो दुःख-पङ्कात् समुक्तान्

नयत्य् अच्युतश् चित्-सुखे धाम्नि नित्ये ।

प्रियान् गाढ-रागात् तिलार्धं विमोक्तुं

न चेच्छत्व् असाव् एव सुज्ञैर् निषेव्यः ॥

श्रीमद्-गोविन्द-पदारविन्द-मकरन्द-लुब्ध-चेतोभिः ।

गोविन्द-भाष्यम् एतत् पाठ्यं शपथोऽर्पितोऽन्येभ्यः ॥

विद्या-रूपं भूषणं मे प्रदाय ख्यातिं

निन्ये तेन यो माम् उदारः ।

श्री-गोविन्दः स्वप्न-निर्दिष्ट-भाष्यो

राधा-बन्धुर् बन्धुराङ्गः स जीयात् ॥

इति श्रीमद्-गोविन्द-भाष्ये ब्रह्म-सूत्र-व्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः ॥

॥ सम्पूर्णम् इदं वेदान्त-दर्शनम् ॥

अन्यद् आर्तम् इन् अल्ल् ओथेर् रेअदिन्ग्स्।

द्रष्टव्यम् एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः विश्वान्य् अभिसौभगा [ऋ.वे. ९.६२.२४.१] इति ।

वसुऽस् एदितिओन् हस् अनादवती (“वोइचेलेस्स्”)।

वा लोके

लघु-भागवतामृतम् १।३।४३-४४, च्रेदितेद् तो पद्म-पुराण।

थे स्हन्कर एदितिओन् स्तर्त्स् थे परमाणु-जगद्-अकारणत्वाधिकरणम्।

नारायणोपनिषद् १।

ब्रह्म-बिन्दु-उपनिषद् १३।

मन्त्र-वर्णाच् च ।

मुण्डक उपनिषद् ३।१।३—एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च।

तस्मिन् जज्ञे स्वयं ब्रह्मा सर्व-लोक-पितामहः ।

तैत्तिरीय-संहिता १।६।८।१।

असुर्या

भवन्ति

वराह-पुराण अच्चोर्दिन्ग् तो वसु।

मत्स्य-पुराण अच्चोर्दिन्ग् तो वसु।

गरुड-पुराण अच्चोर्दिन्ग् तो वसु।

ध्यान-बिन्दु उपनिषद्, १८ (स्।च्।वसु)।

ब्रह्म-वैवर्त-पुराण (वसु)

नारायणाध्यात्मा (वसु)।

नारायनोपनिषद् १३ (रामपद चट्टोपाध्याय)

तकेन् फ़्रोम् मध्वऽस् भाष्य।

अग्नि-पुराण।

ब्रह्मोपनिषद् ? (वसु)

चतुर्वेद-शिखा (वसु)

बृहत्-संहिता (वसु)

रमनुज रेअद्स् पुरुष-विद्यायाम् अपि चेतरेषाम् अनाम्नात् ।

बलदेव रेअद्स् अनियमः सर्वेषाम् अविरोधाच् छब्दानुमानाभ्याम् ।

नारायण-तन्त्र (वसु)

नारायणाध्यात्मा (वसु)।

विदे। छान्दोग्य ३।१४।१।