ग्रन्थाः / तत्त्वसन्दर्भः

०२ प्रमाण-प्रकरणम्

02 Pramāṇa-prakaraṇam

तत्त्वसन्दर्भः (Tattva Sandarbha)

श्रीभागवतसन्दर्भः (Śrī Bhāgavata Sandarbha)

कर्ता: जीव गोस्वामी

अनुच्छेदः ९

अथैवं सूचितानां श्री-कृष्ण-तद्-वाच्य-वाचकता-लक्षण-सम्बन्ध-तद्-भजन-लक्षण-विधेय-सपर्यायाभिधेय-तत्-प्रेम-लक्षण-प्रयोजनाख्यानाम् अर्थानां निर्णयाय तावत् प्रमाणं निर्णीयते ।

तत्र पुरुषस्य भ्रमादि-दोष-चतुष्टय-दुष्टत्वात् सुतराम् अलौकिकाचिन्त्य-स्वभाव-वस्तु-स्पर्शायोग्यत्वाच् च तत्-प्रत्यक्षादीन्य् अपि स-दोषाणि ॥९॥

The author's own auto-commentary on the Sandarbha.

अत्र पुरुषस्य इति । अत्रैतद् उक्तं भवति—यद्यपि प्रत्यक्षानुमान-शब्दार्षोपमाणार्थापत्त्य्-अभाव-सम्भवैतिह्य-चेष्टाख्यानि दश प्रमाणानि विदितानि, तथापि भ्रम-प्रमाद-विप्रलिप्सा-करणापाटव-दोष-रहित-वचनात्मकः शब्द एव मूलं प्रमाणम् । अन्येषां प्रायः पुरुष-भ्रमादि-दोषमयतयान्यथा-प्रतीति-दर्शनेन प्रमाणं वा तद्-आभासं वेति पुरुषैर् निर्णेतुम् अशक्यत्वात्, तस्य तु तद्-अभावात् । अतो राज्ञा भृत्यानाम् इव तेनैवान्येषां बद्ध-मूलत्वात्, तस्य तु नैरपेक्ष्यात्, यथा-शक्ति क्वचिद् एव तस्य तैः साचिव्य-करणात्, स्वाधीनस्य तस्य तु तान्य् उपमर्द्यापि प्रवृत्ति-दर्शनात्, तेन प्रतिपादिते वस्तुनि तैर् विरोद्धुम् अशक्यत्वात्, तेषां शक्तिभिर् अस्पृश्ये वस्तुनि तस्यैव तु साधकतमत्वात् ।

तथा हि, प्रत्यक्षं तावन् मनो-बुद्धीन्द्रिय-पञ्चक-जन्यतया षड्-विधं भवेत् । प्रत्येकं पुनः सविकल्पक-निर्विकल्पक-भेदेन द्वादश-विधं भवति । तद् एव च पुनः वैदुषम् अवैदुषं चेति द्विविधम् । तत्र वैदुषे च विप्रतिपत्ति-भ्रमादि-नृ-दोष-राहित्यात्, शब्दस्यापि तन्-मूलत्वाच् च । अवैदुषे एवं संशयः । तदीयं ज्ञानं हि व्यभिचरति, यथा—“माया-मुण्डावलोकने देवदत्तस्यैव मुण्डम् इदं विलोक्यते” इत्य् आदौ । न तु शब्दः, यथा—“हिमालये हिमम्, रत्नाकरे रत्नम्” इत्य् आदौ तच्-छब्देनैव बद्ध-मूलम् । यथा दृष्ट-चर-माया-मुण्डकेन केनचिद् भ्रमात् सत्येऽप्य् अश्रद्धीयमाने सत्यम् एवेदम् इति नभो-वाण्यादौ जानन्न् अपि वृद्धोपासनं विना न किञ्चिद् अपि तत्त्वेन निर्णेतुं शक्नोतीति हि सर्वेषां न्याय-विदां स्थितिः ।

शब्दस्य तु नैरपेक्ष्यम्, यथा—“दशमस् त्वम् असि” इत्य् आदौ । स एष शब्दो दशमोऽहम् अस्मीति प्रमायास् तिरस्कारिणं मोहं श्रवण-पथ-प्रवेश-मात्राद् विनिवर्तयत्य् एवेति स्पष्टम् एव नैरपेक्ष्यम् । आत्म-शक्त्य्-अनुरूपम् एव प्रत्यक्षेण शब्दस्य साचिव्य-कृतिः, यथा—“अग्निर् हिमस्य भेषजम्” इत्य् आदाव् एव । न तु भवान् बभूव गर्भे मे मथुरा-नगरे सुतः इत्य् आदौ ।

शब्दस्य तु तद्-उपमर्दकम्, यथा “सर्प-दष्टे त्वयि विषं नास्ति” इति मन्त्र इत्य् आदौ । तेन [शब्देन] प्रतिपादिते प्रत्यक्षाविरोधित्वम्, यथा “सौवर्णं भसितं स्निग्धं” इत्य् आदौ । तस्यैव तु साधकतमत्वम्, यथा [क्वचिन् नर-देहे] ग्रह-चेष्तादाव् इति । सर्व-प्रत्यक्ष-सिद्धं यत् तत् सत्यम् इत्य् एष पक्षः सर्वस्यैकत्र मिलनासम्भवात् पराहतः । अथ बहूनां प्रत्यक्ष-सिद्ध्म् इत्य् एषोऽपि क्वचिद् देशे पौरुषेय-शास्त्रे वा कस्यापि वस्तुनोऽन्यथा-ज्ञान-दर्शनात् पराहतः ।

अथ प्रतिज्ञा-हेतूदाहरणोपनय-निगमनाभिध-पञ्चाङ्गम् अनुमानं यत् तद् अपि व्यभिचरति । तत्र विषम-व्यापौ यथा वृष्ट्या तत्-काल-निर्वापित-वह्नौ चिर-क्षणम् अधिकोदित्वर-धूमे पर्वते “पर्वतोऽयं वह्निमान्” इत्य् आदौ, वर्षासु धूमायमान-स्वभावे पर्वते वा, न तु शब्दः—“सूर्यकान्तात् योगेनाग्निर् उत्तिष्ठते” इत्य् अत्र ।

तत् [अनुमानं] शब्देनैव बद्ध-मूलम्, यथा—“अरे शीतातुराः पथिकाः ! मास्मिन् धूमाद् वह्नि-सम्भावनां कृढ्वम्, दृष्टम् अस्माभिर् अत्रासौ वृष्ट्याधुनैव निर्वाणः ।” “किन्त्व् अमुत्रैव धूमोद्गारिणि गिरौ दृश्यते वह्निः,” इत्य् आदौ, “धूमाभास एवायम्, न त्व् अत्र वह्निः, किन्तु अमुत्रैव” इत्य्-आदि वाक्यादौ च ।

यदि वक्तव्यं—एवम् आभासत्वेन पूर्वत्र स्वरूपासिद्धो हेतुः, इत्य् अतो न सद्-अनुमान-व्यभिचारितेति, समानाकारत्वात्, विष-पर्वत-बाष्पादिषु नेत्र-ज्वालादीनाम् अपि दर्शनात्, [उच्यते]—अलं धूमादीनाम् असार्वत्रिकत्वात् तद्-बाष्पातीत-काल-गत-धूम-जातत्वादि-सम्भवाच् च, न धूम-धूमाभासयोर् अग्नि-सद्भावासद्भाव-मात्र-प्रतिपत्तेर् अग्नि-ज्ञानाद् एव धूम-ज्ञाने साध्य-साधन-समभिव्याहारात् परस्पराश्रयः प्रसज्येत ।

तद् एवं तादृश-प्रत्यक्षस्यैव प्रमां प्रति व्यभिचारे सम-व्याप्ताव् अपि तद्-व्यभिचारः । शब्दस्य नैरपेक्ष्यम्, यथा “दशमस् त्वम् असि” इत्य् आदाव् एव । आत्म-शक्त्य्-अनुरूपम् एव च तस्य तेन साचिव्य-करणम्, यथा हीरक-गुण-विशेषम् अदृष्टवद्भिः पार्थिवत्वेन सर्वम् एवाश्मादिकं द्रव्यं लौह-च्छेद्यम् इत्य् अनुमातुं शक्यते, न तु श्रुत-तादृश-गुणकं हीरकं तच्-छेद्यम् इतीत्य् आदौ ।

शब्दस्य तद्-उपमर्दकत्वम्, यथा—“वह्नि-तप्तम् अङ्गं वह्नि-तापेन शाम्यति । शुण्ठ्य्-आदि-द्रव्यं जाठराग्नि-पाकादौ माधुर्यादि-भाग् भवति” इत्य् आदौ । तेन प्रतिपादितेऽनुमानेनाविरोध्यत्वम्, यथा—“एकेवेयम् ओषधिस् त्रिदोषघ्नी” इत्य् आदौ । तच्-छक्तिभिर् अस्पृश्येऽर्थे शब्दस्यैव साधकतमत्वम्, यथा—ग्रह-चेष्टादाव् एवेति । तद् एवं मुख्ययोर् एव तयो आभासीकृतौ, पराणि तु स्वयम् एवानपेक्ष्याणि भवन्ति, तस्य [शब्दस्य] तयोश् च [प्रत्यक्षानुमानयोश् च] अनुगतत्वात् ।

अथ तथात्व-ज्ञानार्थं तानि च दर्श्यन्ते । तत्र देवानाम् ऋषीणां च वचनम् आर्षम् । गो-सदृशो गवय इति ज्ञानम् उपमानम् । पीनत्वम् अह्न्य्-अभोजिनि नक्तं भोजित्वं गमयति, तद् अन्यथा न भवतीत्य् अर्थ-गिरोः कल्पनं यस्य फलम् असाव् अर्थापत्तिः । सन्निकर्षं विना नेन्द्रियाणि गृह्णन्ति, तस्मात् घटाभावे प्रमाणं तद्-अनुपलब्धि-रूपोऽभाव एव । सहस्रे शतं सम्भवतीति बुद्धौ सम्भावनं सम्भवः । अज्ञात-वक्तृ-क्र्टागत पारम्पर्य-प्रसिद्धम् ऐतिह्यम् । अङ्गुल्य्-उत्तोलनतो घट-दशकादि-ज्ञान-कृच् चेष्टेति ।

किं च, पश्व्-आदिभिश् चाविशेषान् न प्रत्यक्षादिकं ज्ञानं परमार्थ-प्रमापकम् । दृश्येते चामीषाम् इष्टानिष्टयोर् दर्शन-घ्राणादिना प्रवृत्ति-निवृत्ती । न च तेषां काचित् परमार्थ-सिद्धिः । दृश्यते चातिबालानां मातर-पित्र्-आद्य्-आप्त-शब्दाद् एव सर्व-ज्ञान-प्रवृत्तिः, तं विना चैकाकितया रक्षितानां जड-मूकतेति । न च व्यवहार-सिद्धिर् इति ॥९॥

Commentary on the root text.

अथैवम् इति । सूचितानां व्यञ्जितानां चतुर्णाम् इत्य् अर्थः । श्री-कृष्णश् च ग्रन्थस्य विषयः । तद्-वाच्य-वाचक-लक्षणश् च सम्बन्धः । तद्-भजनं तच्-छ्रवण-कीर्तनादि-तल्-लक्षणं यद्-विधेयं तत्-सपर्यायां यद् अभिधेयं तच् च । तत्-प्रेम-लक्षणं प्रयोजनं च पुरुषार्थस् तद्-आख्यानाम् । एक-वाच्य-वाचकतवं पर्यायत्वम् । समानः पर्यायोऽस्येति सपर्यायः । समानार्थक-सह-शब्देन समासाद् अस्वपद-विग्रहो बहु-व्रीहिः । वोपसर्जनस्य [पा। ६.३.८२] इति सूत्रात् सहस्य सादेशः ।

सह-शब्दस् तु साकल्प-यौगपद्य-समृद्धिषु ।
सादृश्ये विद्यमाने च सम्बन्धे च सह स्मृतम् ॥ इति श्रीधरः ।

तत्रेति पुरुषस्य व्यावहारिकस्य व्युत्पन्नस्यापि भ्रमादि-दोष-ग्रस्तत्वात् तादृक्-पारमार्थैक-वस्तु-स्पर्शानर्हत्वाच् चतत्-प्रत्यक्षादीनि च सदोषाणीति योज्यम् । भ्रमः प्रमादो विप्रलिप्सा करणापटवं चेति जीवे चत्वारो दोषाः । तेष्व् अतस्मिंस् तद्-बुद्धिर् भ्रमः । येन स्थाणौ पुरुष-बुद्धिः । अनवधानतान्य-चित्तता-लक्षणः प्रमादः । येनान्तिके गीयमानं गानं न गृह्यते । वञ्चनेच्छा विप्रलिप्सा । ययाऽशिष्ये स्व-ज्ञातोऽप्य् अर्थो न प्रकाश्यते । इन्द्रियम् आन्द्यं करणापटवम् । येन दत्त-मनसापि यथावत् वस्तु न परिचीयते । एते प्रमातृ-जीव-दोषाः । पर्माणेषु सञ्चरन्ति । तेषु भ्रमादि-त्रयं प्रत्यक्षे, तन्-मूलकेऽनुमाने च । विप्रलिप्सा तु शब्द इति बोध्यम् । प्रत्यक्षादीन्य् अष्टौ भवन्ति प्रमाणानि । तत्रार्थ-सन्निकृष्टं चक्षुरादीन्द्रियं प्रत्यक्षम् । अनुमिति-करणम् अनुमानं [तर्क-सङ्ग्रह] अग्न्यादि-ज्ञानम् अनुमितिः, तत्-करणं धूमादि-ज्ञानम् । आप्त-वाक्यं शब्दः [इबिद्।] । उपमिति-करणम् उपमानं [इबिद्।] गो-सदृशो गवय इत्य् आदौ । संज्ञासंज्ञि-सम्बन्ध-ज्ञानम् उपमितिः [इबिद्।] तत्-करणं सादृश्य-ज्ञानम् ।

असैध्यद्-अर्थ-दृष्ट्या साधकान्यार्थकल्पनम् अर्थापत्तिः । यया दिवाभुञ्जाने पीनत्वं रात्रि-भोजनं कल्पयित्वा साध्यते । अभाव-ग्राहिकानुपलब्धिः । भूतले घटानुपलब्ध्या यथा घटाभावो गृह्यते । सहस्रे शतं सम्भवेद् इति बुद्धौ सम्भावना सम्भवः । अज्ञात-वक्तृकं परम्पराप्रसिद्धम् ऐतिह्यम् । यथेह तरौ यक्षोऽस्ति । इत्य् एवम् अष्टौ ॥९॥

Commentary on the root text.

अथेति प्रमाणं विनिर्णीयत इत्य् अनेनास्यान्वयः । किम्-अर्थं प्रमाण-विनिर्णयः ? इत्य् अत आह—एवं सूचितानाम् इति । तत्र श्री-भागवत-सन्दर्भं वच्मीत्य् अनेन श्री-कृष्ण-स्वरूप-तद्-भजनयोर् अभिधेयत्वम् । तयोर् वाच्य-वाचकता-लक्षण-सम्बन्धश् च सूचितः । “प्रेम दद्याद् भजद्भ्यः” इत्य् अनेन भजनस्य विधेयत्वम्, प्रेम्नः फलत्वं सूचितम् । श्री-कृष्णेति तद्-भजनोपलक्षणम् । तेन कृष्ण-तद्-भजनयोर् वाच्यता, ग्रन्थस्य वाचकतेति परस्पर-सम्बन्धो दर्शितः । श्री-कृष्ण-सम्बन्ध-कथनात् तस्याभिधेयता-लाभः । भजनस्य विधेयतयाभिधेयत्वम् इति विशेषाय स्वातन्त्र्येण तत्-कीर्तनम् । विधेय-पर्यायाभिधेयेत्य् अस्य विधेय-लक्षणाभिधेयेत्य् अर्थः ।

एवं च भागवत-सन्दर्भम् इत्य् अस्य भगवत इदं श्री-कृष्ण-स्वरूप-तद्-भजनम्, तस्य सन्दर्भम्, काण्डं तत्त्वतो निर्णायक-वाक्य-जातम् इति पर्यवसितोऽर्थः । वच्मीत्य् अस्य कथयामीत्य् अर्थः । वस्तुतस् तु भागवत-सन्दर्भ-भगवद्-भजन-प्रतिपादक-श्री-भागवताख्य-ग्रन्थस्य सन्दर्भम् अर्थ-निर्णायक-वाक्य-जातं वच्मीत्य् अर्थः । एवं च श्री-भागवतस्य प्रयोजनाभिधेय-सम्बन्धा एवास्य ग्रन्थस्य प्रयोजनाभिधेय-सम्बन्धा इति ज्ञेयम् । तत्रेति—प्रमाणेष्व् इत्य् अर्थः । तत्-प्रत्यक्षादीत्य् अत्रास्यान्वयः । तत्-प्रत्यक्षादीनि लौकिक-पुरुष-प्रत्यक्षादीनि । तेनेश्वर-प्रत्यक्षस्य सदोषत्वं व्यावृत्तिः । आदिना—अनुमानोपमानानुपलब्धि-परिग्रहः सदोषाणि भ्रम-जनकतया सम्भावितानि । तेनापुरुष-प्रत्यक्षादेः क्वचिद् वस्तु-साधकत्वे, अनुमानस्येश्वर-साधकत्वेऽपि च न क्षतिः ।

प्रत्यक्षादेः स-दोषत्वे हेतुः—दुष्टत्वाद् इत्य् अन्तम् । भ्रमादीत्य् आदिना—प्रमाद-विप्रलिप्सा-करणापाटव-परिग्रहः ॥९॥

अनुच्छेदः १०

ततस् तानि न प्रमाणानीत्य् अनादि-सिद्ध-सर्व-पुरुष-परम्परासु सर्व-लौकिकालौकिक-ज्ञान-निदानत्वादप्राकृत-वचन-लक्षणो वेद एवास्माकं सर्वातीत-सर्वाश्रय-सर्वाचिन्त्याश्चर्य-स्वभावं वस्तुविविदिषतां प्रमाणम् ॥१०॥

The author's own auto-commentary on the Sandarbha.

अथैवं शब्दस्य प्रमाणत्वे पर्यवसिते कोऽसौ शब्द इति विवेचनीयम् । तत्र “भ्रमादि-रहितं वचः शब्दः” इत्य् अनेनैव पर्याप्तिर् न स्यात् । यथा स्व-मति-गृहीते पक्षे भ्रमादि-रहितोऽयम् अयम् एवेति प्रतिस्वं मत-भेदे निर्णयाभावापत्तेस् तथा तस्यापि शब्दस्य प्रत्यक्षावगम्यत्वेन परानुगतत्वाद् अप्रामाण्यापत्तेः । तस्माद् यो [शब्दः] निज-निज-विद्वत्तायै सर्वैर् एवाभ्यस्यते, यस्याधिगमेन सर्वेषाम् अपि सर्वैव विद्वत्ता भवति, यत् कृतयैव परम-विद्वत्तया प्रत्यक्षादिकम् अपि शुद्धं स्यात्, यश् चानादित्वात् स्वयम् एव सिद्धः, स एव निखिलैतिह्य-मूल-रूपो महा-वाक्य-समुदयः शब्दोऽत्र गृह्यते । स च शास्त्रम् एव । तच् च वेद एव । य एवानादि-सिद्धः सर्व-कारणस्य भगवतोऽनादि-सिद्धं पुनः पुनः सृष्ट्य्-आदौ तस्माद् एवाविर्भूतम् अपौरुषेयं वाक्यम् । तद् एव भ्रमादि-रहितं सम्भावितम् । तच् च सर्व-जनकस्य तस्य च स-दोष-देशायावश्यकं मन्तव्यम् । तद् एव चाव्यभिचारि प्रमाणम् । तच् च तत्-कृपया कोऽपि कोऽपि गृह्णाति । कुतर्क-कर्कशा मूढा वा तन् न गृह्णन्तु नाम, तेषाम् अप्रमा-पदं कथम् अपयातु ? न चेश्वर-विहित-वैद्यकादि-शास्त्रम् अमतम् । प्रमाणाभावाद् इतरवद् यातीति चेन्, न । परेषां तद्-अनुगतत्वाद् एव शास्त्रत्व-व्यवहारः । न च बुद्धस्यापीश्वरत्वे सति तद्-वाक्यं च प्रमाणं स्याद् इति वाच्यम् । येन शास्त्रेण तस्य ईश्वरत्वं मन्यामहे, तेनैव तस्य दैत्य-मोहन-शास्त्र-कारित्वेनोक्तत्वात् ।

Commentary on the root text.

ततस् तानि न प्रमाणानीति । ततो भ्रमादि-दोष-योगात् । तानि प्रत्यक्षादीनि परमार्थ-प्रमा-करणानि न भवन्ति । माया-मुण्डावलोके तस्यैवेदं मुण्डम् इत्य् अत्र प्रत्यक्षं व्यभिचारि । वृष्ट्या तत्-काल-निर्वापित-वह्नौ चिरं धूम-प्रोद्गारिणि गिरौ वह्मिनान् धूमात् इत्य् अनुमानं च व्यभिचारि दृष्टम् । आप्त-वाक्यं च तथा, एकेनाप्तेन मुनिना समर्थितस्यार्थस्यापरेण तादृशेन दूषितत्वात् । अत उक्तं नासव् ऋषिर् यस्य मतं न भिन्नम् इति ।

एवं मुख्यानाम् एषां सदोषत्वात् तद् उपजीविनाम् उपमानादीनां तथात्वं सुसिद्धम् एव । किंचाप्त-वाक्यं लौकिकार्थ-ग्रहे प्रमाणम् एव, यथा हिमाद्रौ हिमम् इत्य् आदौ । तद्-उभय-निरपेक्षं च तत् दशमस् त्वम् असि इत्य् आदौ । तद्-उभयागम्ये साधकतमं च तत् । ग्रहाणां राशिषु सञ्चारे यथा । किं चाप्त-वाक्येनानुगृहीतं तद्-उभयं प्रमापकम् । दृष्ट-चर-माया-मुण्डकेन पुंसा सत्येऽप्य् अविश्वस्ते तस्यैवेदं मुण्डम् इति नभोवाण्यानुगृहीतं प्रत्यक्षं यथा । अरे शीतार्ताः पन्था मास्मिन्न् अग्निं सम्भावयत, वृष्ट्या निर्वाणोऽत्र स दृष्टः किन्त्व् अमुष्मिन् धूमोद्गारिणि गिरौ सोऽस्ति इत्य् आप्तवाक्येनानुगृहीतम् अनुमानं च यथेति । तद् एवं प्रत्यक्षानुमान-शब्दाः प्रमाणानीत्य् आह मनुः—

प्रत्यक्षम् अनुमानं चशास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्म-शुद्धिम् अभीप्सता ॥ [मनु। १२.१०५] इति ।

एवम् अस्मद्-वृद्धाश् च । सर्व-परम्परासु ब्रह्मोत्पन्नेषु देव-मानवादिषु सर्वेषु वंशेषु । परम्परा परीपाट्यां सन्तानेऽपि वधे क्वचितिति विश्वः । लौकिक-ज्ञानं कर्म-विद्या । अलौकिक-ज्ञानं ब्रह्म-विद्या । अप्राकृतेति वाचा विरूप नित्यया इति मन्त्र-वर्णनात् [ऋ।वे। ८.७५.६] ।

Commentary on the root text.

ततः पुरुष-प्रत्यक्षादेः स-दोषत्वात् । तानि पुरुष-प्रत्यक्षादीनि, न प्रमाणानि, नेश्वर-तद्-भजनयोर् याथार्थ्येन साधन-समर्थानि । अत्रैव हेत्व्-अन्तरं—सुतराम् अचिन्त्यालौकिक-वस्तु-स्पर्शायोग्यत्वाच् चेति । अनुमानस्येश्वर-साधनत्व-सम्भवेपि श्री-कृष्ण-रूप-तद्-भजन-साधन-योग्यत्वम्।

ननु वेद एवेत्य् एव-कारासङ्गतिः ? वेदार्थ-विवेकेऽनुमानापेक्षणात् । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यः [बृ।आ।उ। २.४.५] इत्य्-आदि-श्रुतेः । एवं मुख्यानाम् एषां सदोषत्वात् तद्-उपजीविनाम् उपमानादीनां तथात्वं सुसिद्धम् एव । आत्मा वै आत्मैव, “द्रष्टव्यः” साक्षात्-कर्तव्यः । कथम् ? इत्य् अपेक्षायाम् आह—“श्रोतव्य” इत्य्-आदि-त्रयम् । तत्र श्रवणं वेदेतिहास-पुराणादिभ्यः कार्यम् । श्रोतव्यः श्रुति-वाक्येभ्यः इति श्रवणात् । बहु-वचनं—गणार्थम् । तेन पुराणादि-परिग्रहः । वेदार्थ-प्रतीताव् अपि तत्रार्थानर-परत्व-सम्भावनयाप्रामाण्य-शङ्का । तस्या सम्भवेनाह—“मन्तव्यः” इति । मननं बहुभिर् हेतुभिर् अनुमानम् । मन्तव्यश् चोपपत्तिभिः इति श्रवणात् ।

तथा च तर्कानुगृहीतेन मननेन वेदाद् अवगतम् अर्थं सम्यक्तयावधार्ये पुनः पुनर् ध्यान-रूप-निदिध्यासनं कार्यम् । तत आत्म-साक्षात्कार इति पर्यवसितार्थः । आत्म-पदं चात्र परमेश्वर-परम् । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनाय [] इत्य्-आदि-श्रुत्य्-एक-वाक्यत्वात् । न च, न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस् तु कामाय पतिः प्रियो भवति इत्य्-आदि जीवात्मानम् उपक्रम्य आत्मा वा अरे द्रष्टव्यः [बृ।आ।उ। २.४.५] इत्य् उक्तत्वाद् आत्म-पदं जीवात्म-परम् इति वाच्यम् । न वा अरे पत्युः कामाय इत्य्-आदिना स्वात्मोपाधिक-पत्य्-आदि-निष्ठ-प्रियत्वाख्यानेन स्वात्म-सुखस्यैव परम-प्रयोजनत्वम् उक्त्वा, परमात्म-सुखस्य सर्वतोऽतिशयस्य प्राप्तये सर्वथा यतितव्यम् इत्य् आशयेन “आत्मा द्रष्टव्यः” इत्य् उपसंहारात् ॥१०॥

अनुच्छेदः ११

तच् चानुमतं—तर्काप्रतिष्ठानात् [ब्र।सू। २.१.११] इत्य् आदौ, अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् [म।भा। ६.५.१२] इत्य् आदौ, शास्त्र-योनित्वात् [ब्र।सू। १.१.३] इत्य् आदौ,श्रुतेस् तु शब्द-मूलत्वात् [ब्र।सू। २.१.२७] इत्य् आदौ ।

पितृ-देव-मनुष्याणां वेदश् चक्षुस् तवेश्वर ।
श्रेयस् त्व् अनुपलब्धेऽर्थे साध्य-साधनयोर् अपि ॥ [भा। ११.२०.४] इत्य् आदौ ॥११॥

The author's own auto-commentary on the Sandarbha.

येषां वेश्वर-कल्पना नास्ति, तेषाम् अपि शास्त्रस्यात्यर्वाग्-जन-कृतत्वेन प्रसिद्धत्वाद् अनाद्य् अविच्छिन्न-वेद-प्रलोपन-भूयिष्ठ-वृत्तित्वेनानादि-सिद्ध-वर्णाश्रम-लोपि-चारित्येण वर्णं च तं तं निजान्नादिना विलुप्यैव स्व-गोष्ठीषु सम्पादनेन चार्वाचीनत्वेनैवावगतत्वात् तत् [शास्त्रं] केनाप्य् अधुनैवोत्थापितम् इत्य् एव स्फुटम् आयाति ।

ननु वेदेऽपि ग्रावाणः प्लवन्ते, मृद् अव्रवीद् आपोऽब्रुवन् इत्य्-आदि-दर्शनाद् अनाप्तत्वम् इव [असत्य-वक्तृत्वम् इव] प्रतीयते? उच्यते—कर्म-विशेषाङ्गी-भूतानां ग्राव्णां [कर्म-फल-दाने] वीर्य-वर्धनाय स्तुतिर् इयम् । सा च श्री-राम-कल्पित-सेतु-बन्धादौ प्रसिद्धत्वेन यथावद् एवेति न दोषः । तथा मृद् अव्रवीद् आपोऽब्रुवन् इत्य् आदौ तत्-तद्-अभिमानि-देवतैव व्यपदिश्यत इति ज्ञेयम् ।

तद् एवं सर्वत्रैव सर्वत्रैवाप्त एव वेदः । किन्तु सर्वज्ञेश्वर-वचनत्वेनासर्वज्ञ-जीवैर् दुरूहत्वात् तत्-प्रभाव-लब्ध-प्रत्यक्ष-विशेषवद्भिर् एव सर्वत्र तद्-अनुभवे शक्यते, न तु तार्किकैः । तद् उक्तं पुरुषोत्तम-तन्त्रे—

शास्त्रार्थ-युक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।
अनुमाद्या न स्वतन्त्राः प्रमाण-पदवीं ययुः ॥ इति ।

तथैव मतं ब्रह्म-सूत्र-कारैः—तर्काप्रतिष्ठानात् [ब्र।सू। २.१.११], श्रुतेस् तु शब्द-मूलत्वात् [ब्र।सू। २.१.२७] इत्य् आदौ । तथा च श्रुतिः—नैषा तर्केण मतिर् आपनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ [क।उ। १.२.९], नीहारेण प्रावृता जल्प्याश् च [ऋक् सं १०.८२.७] इत्य् आद्याः । जल्प-प्रवृत्तास् तार्किका इति श्रुति-पदार्थः । अत एव वराह-पुराणे—

सर्वत्र शक्यते कर्तुम् आगमं हि विनानुमा ।
तस्मान् न सा शक्तिमती विनागमम् उदीक्षितुम् ॥ इति ।

अद्वैत-वादिभिश् चोक्तम्—

यत्नेनोत्पादितोऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ [वा।पु। १.३४] इति ।

Commentary on the root text.

ननु कोऽयम् आग्रहो वेद एवास्माकं प्रमाणम् इति चेत् तत्राह—तच् चानुमतम् इति । श्री-व्यासाद्यैर् इति शेषः । तद्-वायान्य् आह तर्केत्यादीनि साध्य-साधनयोर् अपीत्य् अन्तानि । तर्केति ब्रह्म-सूत्र-खण्डः । तस्यार्थः—परमार्थ-निर्णयस् तर्केण न भवति पुरुष-बुद्धि-वैविध्येन तस्य नष्ट-प्रतिष्ठत्वात् । एवम् आह श्रुतिः नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ [क।उ। १.२.९] इति । व्याप्यारोपेण व्यापकारोपस् तर्कः [स्थितर्क-सङ्ग्रह], यद्य् अयं निर्वह्निः स्यात् तदा निर्धूमः स्यात् इत्य् एवं रूपः । स च व्याप्ति-शङ्कां निरस्यन्न् अनुमानाङ्गं भवेद् अतस् तर्केणानुमानं ग्राह्यम् इति । अचिन्त्याः इत्य् उद्यम-पर्वणि दृष्टम् । शास्त्रेति ब्रह्म-सूत्रम् । न इत्य् आकृष्यम् । उपास्यो हरिर् अनुमानेनोपनिषदा वा वेद्य इति सन्देहे मन्तव्यः [बृ।आ।उ। ४.५.६] इति श्रुतेर् अनुमानेन स वेद्य इति प्राप्ते नानुमानेन वेद्यो हरिः । कुतः ? शास्त्रम् उपनिषद् योनिर् वेदन-हेतुर् यस्य तत्त्वात् । औपनिषदं पुरुषं पृच्छामि [बृ।आ।उ। ३.९.२६] इत्य् आद्या हि श्रुतिः । श्रुतेस् तु इति ब्रह्म-सूत्रं [२.१.१७] । न इत्य् अनुवर्तते । ब्रह्मणि लोक-दृष्टाः श्रमादयो दोषा न स्युः । कुतः । सोऽकामयत बहु स्यां प्रजायेय [तै।उ।२.६.१] इति सङ्कल्प-मात्रेण निखिल-सृष्टि-श्रवणात् । ननु श्रुतिर् बाधितं कथं ब्रूयाद् इति चेत् तत्राह शब्देति । अविचिन्त्यार्थस्य शब्दैक-प्रमाणकत्वात् । दृष्टं चैतन् मणि-मन्त्रादौ। पितृ-देव इत्य् उद्धवोक्तिर् एकादशे । हे ईश्वर, तव वेदः पित्रादीनां श्रेयः श्रेष्ठं चक्षुः । क्वेत्य् आह अनुपलब्धेऽर्थ इत्य्-आदि । तथा च वेद एवास्माकं प्रमाणम् इति मद्-वाक्यं सर्व-सम्मतिम् इति नापूर्वं मयोक्तम् ॥११॥

Commentary on the root text.

ब्रह्म-विद् आप्नोति परम् इत्य्-आदि-श्रुतेश् चेति चेन्, न, वेद-निरपेक्ष्यस्यानुमानस्य लोकातीत-श्री-कृष्ण-तल्-लीला-श्रवणादि भजनासाधनत्वात् । तर्काप्रतिष्ठानात् इति वेदान्त-सूत्रस्य शास्त्र-विना-कृतानुमानस्य वस्त्व् असाधकत्वाद् इत्य् अर्थः । अचिन्त्याः—लोकातीततया दुर्घटत्वेन प्रतीयमानाः । भावाः—ईश्वर-गुण-लीलादि-रूपाः शास्त्र-प्रसिद्धाः । तर्केण—स्व-मति-कल्पितानुमानेन । योजयेत्—मायिकत्वादि-रूपेण कल्पयेद् इति वचनार्थः शास्त्रं योनिः प्रमाणम् अस्येति सूत्रार्थः । यद् वा, शास्त्रस्य योनिः, कारणं तत्त्वात् । तथा च शास्त्रस्य परम-कारुणिक-यथार्थ-सर्वार्थ-दर्शि-प्रतारणादि-दोष-रहित-परमेश्वर-प्रणीतत्वेन शास्त्रम् एव गरीयः प्रमाणम् इति ।

ननु शास्त्रस्य परमेश्वर-प्रणीतत्वे किं मानः ? इत्य् अतो वेदान्त-सूत्रो दर्शयति—श्रुतेस् तु शब्द-मात्रत्वात् इति । तु-कारः अन्य-प्रमाणतः प्रामान्य-सूचनाय । श्रुतेः—वेदस्य । शब्द-मूलत्वात्—अस्य महतो भूतस्य निश्वसितम् एतद् ऋग्-वेदो जायते [बृ।आ।उ। १.४.१५] इत्य्-आदि, यो ब्रह्माणं विदधाति पूर्वं वेदांश् च तस्मै प्रहिणोति इत्य्-आदि-श्रुति-रूप-शब्दः । मूलं—परमेश्वर-प्रणीतत्वे प्रमाणं यस्याः, तत्त्वात् ।

पितृ-देव इति तव वेद-चक्षुर् इति समन्वयः । चक्षुः ज्ञापकम् । श्रेयः उत्तमम् । अनुपलब्धे प्रत्यक्षाद्य्-अगोचरे । अर्थे त्वत्-स्वरूप-गुण-लीलादि-रूपे । साध्यं—प्रेमादि-रूप-फलम्, साधनं तत्-साधनम्, तयोर् अपीत्य् अर्थः । श्रीमन्-मध्व-भाष्ये त्व् एवं व्याख्या—श्रुतेस् तु शब्द-मूलत्वाद् इति । न चेश्वर-पक्षे अयं विरोधः । योऽसौ विरुद्धोऽविरुद्धोऽनुरागवान् इन्द्रोऽनिन्द्रः प्रवृत्तिर् अप्रवृत्तिः स परः परमात्मा इति पैङ्ग्य्-आदि-श्रुतेर् एव शब्द-मूलत्वाच् च न विरोधः ।

यद् वाक्योक्तं न तद्-युक्तिर् विरोद्धुं शक्नुयात् क्वचित् ।
विरोधे वाक्ययोः क्वापि किञ्चित् साहाय्य-कारणम् ॥

इति पुरुषोत्तम-तन्त्रे इति । ननु वेदस्य प्रामाण्ये सिद्धे एव वेदावगत-परमेश्वर-प्रणीतत्वक-वेदस्य बलवत्त्वम् अवधार्य, तच् च न सम्भवति, परस्पराश्रयाद् इति चेन्, न । स्थावर-जङ्गम-प्राणिनां सुख-दुःखादि-वैचित्र्येण मन्द-मध्योत्तम-योनि-वैचित्र्येण च तेषां कर्म-वैचित्र्यम् एव तद्-वैचित्र्य-कारणं वाच्यम् । कारणान्तरादर्शनात् । तानि च कर्माणि शास्त्रतोऽवगम्य अनादि-शिष्ट-परम्परया क्रियमाणानि दृश्यन्ते । शास्त्रोक्त-कर्मणां केषांचित् फलानि न दृश्यन्ते । ज्योतिर्-आयुर्-वेदादि-शास्त्राणि दृष्ट-फलानि सुप्रसिद्धानीति वेदस्य प्रामाण्यम् अवधार्यते । एव वेदः पौरुषेयो वाक्यत्वात् इत्य् आद्य् अनुमानेन वेद-प्रामाण्य-सिद्धाव् अपि वेदस्य नित्य-निर्दोष-परमेश्वर-प्रणीतत्वेन तद्-अर्थस्यानुमानादिना बाधस्यायोगात् वेदस्य प्रामाण्यम् । अनुमानस्य नाना-विधत्वेऽपि अनुकूल-तर्क-सह-कृतस्य प्रामाण्यम् अवगन्तव्यम् । तथा वेदार्थ-विचार एव सद्-अनुमानं विधेयम् इत्य् अपि बोध्यम् इति दिक् ॥११॥

Commentary on the root text.

न केवलम् अस्माभिः व्यसनितया सर्व-श्रेष्ठत्वेन वेदस्य प्रामाण्यं व्यवस्थापितम्, अपि तु श्री-व्यासादिभिः तद् अपि स्वीकृतम् । तद् आहुः—तच् चानुमतम् इति । यद् उक्तं तर्कस्याप्रतिष्ठितत्वं तद् अपि श्री-व्यास-कृत-ब्रह्म-सूत्रे—तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अविमोक्ष-प्रसङ्गःइत्य् अत्र दर्शितम् । तर्कः व्यापकाभावत्वेन निर्णीते व्याप्यारोपे;न व्यापकारोपस् तर्कः इति सारार्थः । अप्राकृत-विषये तर्कस्यानवसरत्व-समर्थक-प्रमाण-श्लोकम् आह—अचिन्त्याः इति ।

अचिन्त्याः खलु ये भावा न तांस् तर्केण साधयेत् ।
प्रकृतिभ्यः परं यत् तु तद् अचिन्त्यस्य लक्षणम् ॥ [म।भा। ६.६.११] इति ।

प्रकृतिभ्यः परम्, परम् अप्राकृतं मायातीतम् इति यावत् । तत्रैव श्री-ब्रह्म-सूत्रे, शास्त्र-योनित्वात्, श्रुतेस् तु शब्द-मूलत्वात् इत्य्-आदि-सूत्रे सर्वत्र शास्त्रस्यैव सर्वोपरि प्रामाण्यं स्थापितम् । अतो, “वेद एवास्माकं प्रमाणं” (१०) इति सिद्धान्तः सर्व-वादि-सम्प्रतिपन्नः । “चिन्त्यत्वे तु युक्तिर् अप्य् अवकाशं लभते, चेल् लभताम्, न तत्रास्माकम् आग्रह इति सर्वथा वेदस्यैव प्रामाण्यम्” इति संवादिनी ।

इदम् अत्रानुसन्धेयं सूक्ष्मेक्षिका-परायणैः—तर्कस्य कुत्रापि पार्थगर्थ्येन प्रामाण्यं न सम्भवति । मूल-प्रमाण-विशेषम् उपजीव्य असम्भावना-विपरीत-सम्भावना-निराकरण-द्वारेण प्रमाण-परिगृहीतार्थस्यैव दार्ढ्यम् अनेन सम्पाद्यते । अलौकिके विषये लौकिक-प्रमाणानाम् अप्रवृत्तौ तत्र चालौकिकापौरुषेय-वेदस्यैवाधिकारात् का कथा तर्कस्य ? तद्-उपजीव्य-प्रमाणानाम् अपि तत्रानधिकारः । यदि वेद-परिगृहीतार्थस्य प्रतिबन्धक-शङ्का-निराश-द्वारा तर्कस्योपयोगोऽभ्युपगम्यते, तदा नास्माकं विप्रतिपत्तिः । वेदाविरोधिना तर्केण शास्त्र-तत्त्व-निर्णये तु गुण एव, शुष्क-तर्काश्रयेण धर्म-विघातनं पापम् एव इति शास्त्र-मर्यादा । तथा च तर्काश्रयणं तन्-मीमांसा-परिशोधित-प्रणाल्या एव कर्तव्यं नेतरथा ॥११॥

अनुच्छेदः १२

तत्र च वेद-शब्दस्य सम्प्रति दुष्पारत्वाद् दुरधिगमार्थत्वाच् च तद्-अर्थ-निर्णायकानां मुनीनाम् अपि परस्पर-विरोधाद् वेद-रूपो वेदार्थ-निर्णायकश् चेतिहास-पुराणात्मकः शब्द एव विचारणीयः ।

तत्र च यो वा वेद-शब्दो नात्म-विदितः सोऽपि तद्-दृष्ट्यानुमेय एवेति सम्प्रति तस्यैव प्रमोत्पादकत्वं स्थितम् ।

तथा हिमहाभारते मानवीये च— इतिहास-पुराणाभ्यां वेदं समुपबृंहयेत् [म।भा। १.१.२६७] इति ।

पूरणात् पुराणम् इति चान्यत्र ।

न चावेदेन वेदस्य बृंहणं सम्भवति, न ह्य् अपरिपूर्णस्य कनक-वलयस्य त्रपुणा पूरणं युज्यते ।

ननु, यदि वेद-शब्दः पुराणम् इतिहासं चोपादत्ते, तर्हि पुराणम् अन्यद् अन्वेषणीयम् ? यदि तु न, न तर्हीतिहास-पुराणयोर् अभेदो वेदेन ?

उच्यते—विशिष्टैकार्थ-प्रतिपादक-पद-कदम्बस्यापौरुषेयत्वाद् अभेदेऽपि स्वर-क्रम-भेदाद् भेद-निर्देशोऽप्य् उपपद्यते ।

ऋग्-आदिभिः समम् अनयोर् अपौरुषेयत्वेनाभेदो माध्यन्दिन-श्रुताव् एव व्यज्यते—एवं वा अरेऽस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदो यजुर्-वेदः साम-वेदोऽथर्वाङ्गिरस इतिहासः पुराणं [बृ।आ।उ। २.४.१०] इत्य्-आदिना ॥१२॥

The author's own auto-commentary on the Sandarbha.

अथैवं प्रमाण-निर्णये स्थितेऽपि पुनर् आशङ्क्योत्तर-पक्षं दर्शयति—“तत्र च वेद-शब्दस्य” इति । “सम्प्रति” कलौ । अप्रचरद्-रूपत्वेन दुर्मेधस्त्वेन च “दुष्पारत्वात्” ॥१२॥

Commentary on the root text.

एवं चेद् ऋग्-आदि-वेदेनास्तु परमार्थ-विचारः, तत्राह—तत्र च वेद-शब्दस्येति । तर्हि न्यायादि-शास्त्रैर् वेदार्थ-निर्णेतृभिः सोऽस्तीति चेत् तत्राह—तद्-अर्थ-निर्णायकानाम् इति । तस्यैवेति इतिहास-पुराणात्मकस्य वेद-रूपस्येत्य् अर्थः । समुपबृंहयेद् इति वेदार्थं स्पष्टीकुर्याद् इत्य् अर्थः । पुराणाद् इति वेदार्थस्येति बोध्यम् । त्रपुणा सीसकेन । पुराणेतिहासयोर् वेद-रूपतायां कश्चिच् छङ्कते नन्व् इत्य्-आदिना । तत्र समाधत्ते उच्यत इत्य्-आदिना । निखिल-शक्ति-विशिष्ट-भगवद्-रूपैकार्थ-प्रतिपादकं यत् पदक-दम्ब-मृगादि-पुराणान्तं तस्येति । ऋग्-आदि-भागे स्वर-क्रमोऽस्ति इतिहास-पुराण-भागे तु स नास्तीत्य् एतद्-अंशेन भेदः । एवं वा इति मैत्रेयीं पत्नीं प्रति याज्ञवल्क्य-वचनम् । अरे मैत्रेयि अस्येश्वरस्य महतो विभोः पूज्यस्य वा भूतस्य पूर्व-सिद्धस्य । स्फुटार्थम् अन्यत् ॥१२॥

Commentary on the root text.

“दुष्पारत्वाद्” इति केषांचिद् वेदानाम् उच्छन्नत्वात् केषांचित् प्रच्छन्नत्वाच् च इति भावः । “तद्-अर्थ-निर्णायकाणां” वेदान्त-सूत्रादि-कारिणां “मुनीनां” व्यास-कणादादीनाम् । “वेद-रूपः”—गौण्या निरूढ-लक्षणया वेद-शब्द-प्रतिपाद्यः । “नात्म-विदितः”, अप्रचरद्-रूपत्वात् । “तद्-दृष्ट्या” इतिहास-पुराण-दृष्ट्या । “समुपबृंहयेत्” इति वेदयति विहित-निषिद्धं पर-तत्त्व-स्वरूपं च ज्ञापयति इति वेदः, तम् अभिधेय-प्रकाशतया पूरयेत् । इतिहास-पुराणयोर् वेद-शास्त्रान्तर्-भूतत्वं जानीयाद् इति यावत् । नाम-व्युत्पत्त्यापि वेद-समुपबृंहणम् आह—“पूरणाद्” इति, वेद-पूरणाद् इत्य् अर्थः । पुराणम् इति ह्रस्वः संज्ञायाम् । “बृंहणं” पूरणम् ।

पुराणं—वेद-शब्देनोपादीयमानं पुराणम् । अन्यवत् उच्छन्न-प्रच्छन्न-वेदवद् अन्वेषणीयम् इति । इदानीं प्रचरत्-पुराणेतिहासयोर् वेद-व्यवहाराभावाद् इति भावः । पद-कदम्बस्येति वेद-घटकस्य पुराणेतिहास-घटकस्य चेत्य् आदेः । अपौरुषेयत्वात् । जीवाप्रणीतत्वात्, परमेश्वर-प्रणीतत्वाद् इति यावत् । अभेदेऽपि वेद-शब्द-प्रतिपादत्वेऽपि, स्वर-क्रम-भेदात् । स्वर-क्रमयोर् भेदात् । भेद-निर्देशः वेद-पुराणयोर् भेदेन व्यवहारः । स्वरः—दात्तोदातादि-रूपः । तथा च दात्तोदात्तादि-स्वर-भेदेनाध्ययन-विधि-विषयता वेदस्य । पुराणेतिहासयोर् न दात्तादि-स्वर-भेदेनाध्ययन-विधि-विषयता, किन्तु—

इतिहास-पुराणानि श्रुत्वा भक्त्या विशाम्पते ।
मुच्यते सर्व-पापेभ्यो ब्रह्म-हत्यादिभिर् विभो ॥
ब्राह्मणं वाचकं विद्यान् नान्य-वर्णजम् आदरात् ।
श्रुत्वान्य-वर्णजाद् राजन् वाचकान् नरकं व्रजेत् ।
दत्त्वा च वाचकायेह श्रुतस्याप्नोति यत् फलम् ॥

कांस्योपदोहना कांस्य-क्रोडाः । वाचकः पूजितो येन प्रसन्नास् तस्य देवताः । तथा—

ज्ञात्वा पर्व-समाप्तिं च पूजयेद् वाचकं बुधः ।
आत्मानम् अपि विक्रीय स इच्छेत् सफलं क्रतुम् ॥

तथा—

विस्पष्टम् अद्रुतं शान्तं स्पष्टाक्षर-पदं तथा ।
कल-स्वर-समायुक्तं रस-भाव-समन्वितम् ।
बुध्यमानः सदा ह्य् अर्थं ग्रन्थार्थं कृत्स्नशो नृप ।
ब्राह्मणादिषु सर्वेषु ग्रन्थार्थं चार्पयेन् नृप ।
य एवं वाचयेद् विद्वान् स विप्रो व्यास उच्यते ॥

तथा—

सप्त-स्वर-समायुक्तं काले काले विशाम्पते ।
प्रदर्शयन् रसान् सर्वान् वाचयेद् वाचको नृप ॥ इति ।

तिथि-तत्त्व-नैयतकालिक-कल्प-तरु-धृत-भविष्यत्-पुराणादि-वचनानुसारेणाध्ययन-विषयतेति विशेषाद् इति भावः ।

क्रम-भेदः—उपक्रमोपसंहार-विशेष-नियमित आनुपूर्वी-विशेषः । ऋग्-आद्य्-आख्यानुपूर्वी-विशेषवत्त्वं वेद-पद-प्रवृत्ति-निमित्तम्, स्वर-विशेषेणाध्ययन-विधि-विषयतावच्छेदकम्, शूद्रस्याध्ययन-श्रवणादि-निषेध-विषयतावच्छेदकं च । पुराणाद्य्-आनुपूर्वीमत्त्वं च, शूद्राध्ययन-निषेध-विषयतावच्छेदकम्, श्रवण-विधि-विषयतावच्छेदकं चेति वेद-पुराणाद्योर् अपौरुषेयत्वाविशेऽपि भेद-निर्देशः । विशिष्टैकार्थ-प्रतिपादक-वाच्य-कदम्बानां केनापि प्रमाणेन लोके प्राग्-अनवगतार्थ-पराणाम् अपौरुषेयाणां वेदत्वम् । पुराणादीनां च परम-दयालुना भगवता स्वयं स्त्री-शूद्र-ब्रह्म-बन्धूनां श्रवणाद्य्-अर्थं वेदाद् अनन्तरोक्तानां वेदाद् अवगतार्थ-बोधकतया न तत्र वेद-शब्दस्य मुख्या वृत्तिः, किन्तु गौणी वृत्तिः । तथा भेदेऽपि मुख्य-गौण-वेद-शब्द-प्रतिपादितानां वेद-पुराणेतिहासानाम् एक-ग्रन्थत्वम्, ब्रह्म-वेदन-रूपैक-प्रतिपत्ति-रूपत्वात् । सर्वे वेदा यत् पदम् आमनन्ति इति श्रुतेः । वेद-पुराणेतिहासानाम् अभेदेऽपि न वेदम् अपेक्ष्य पुराणेतिहासयोर् न्यूनत्वम् । परं तु तुल्य-प्रधान-भावः । अपौरुषेयत्वेन स्वतः प्रमाणता-तौल्यात् ।

यद् वा, वेद-शब्दस्य शक्ति-द्वयी । एका ऋग्-आद्य्-आनुपूर्वी-विशेष-रूपेण, अपरा च अपौरुषेयत्वेन ऋग्-आदि-वेद-चतुष्टय-पुराणेतिहास-साधारणी । इति वृत्ति-द्वय-स्वीकार-फलं चोक्तम् एवावधेयम् । अत्र वेद-पुराणं नाम—वेदोत्थापिताकाङ्क्षा-निवर्तनम् । तद् उक्तं—अर्थैक्याद् एकं वाक्यं साकाङ्ग्क्षं चेद् विभागे स्यात् इति । अर्थैक्यं—तात्पर्य-विषयार्थ-प्रतिपत्तेर् ऐक्यम् । वेद-स्थले तात्पर्य-विषय-प्रतिपत्तिर् ब्रह्म-तत्त्व-निर्णयः । एकं वाक्यं—एको ग्रन्थः । विभागे ग्रन्थयोः पृथग्-उपन्यासेऽपि । अत्राकाङ्क्षा—वेदार्थ-प्रतीतौ सत्यां तत्रासम्भावनादिना कथम् एतद्-अर्थ-सङ्गतिः ? इति शिष्य-जिज्ञासा । तन्-निवृत्तिश् च पुराणेतिहासाभ्यां क्रियते इति वेदम् अपेक्ष्य पुराणेतिहासयोर् उत्कर्ष-प्रतीतिर् इति वेद-पुराणयोर् एक-ग्रन्थत्वे पुराणेतिहासयोर् वेदार्थ-सङ्ग्राहकत्वेन पनुरुक्त्य-दोष इति परास्तम् । वेद-चतुष्टयार्थ-विवरण-रूपत्वात् तयोर् इति ॥१२॥

गौर-किशोर-गोस्वामी: आदौ शब्दात्मक-वेदस्य प्रामाण्यं व्यवस्थाप्य तद्-अनन्तरं तद्-अर्थ-निर्णाय्क-पुराणस्य प्रामाण्यं सिद्धान्त-मुखेन पूर्वपक्ष-वाक्यानि समाधाय घोषयति—तत्र च इत्य्-आदिना । इदम् अत्राकुतः—भवेद् एतद् एवं पुराण-प्रामाण्यान्वेषणं कार्यं यदि वेदस्याप्राप्त्याशङ्का । पुराणस्य अस्मात् पृथक् शास्त्रत्वं वा स्यात् । वेदस्य वर्तमानत्वे वेदार्थ-व्याख्यातॄणां मुनीनां च प्रसिद्धत्वे वेदार्थ-निर्णायक-पुराणस्य प्रामाण्यावेषणा-प्रवृत्तेः कुतः सम्भावना ? साक्षाद् वेदेनैव सर्व-प्रयोजनानां सिद्धत्वात् । अत्र सिद्धान्तम् आह—“वेद-शास्त्रस्य सम्प्रति” इत्य्-आदिना “वेदार्थ-निर्णायकश् चेतिहास-पुराणात्मकः शब्द एव विचारणीयः” इत्य् अन्तेनेति ।

सम्प्रति कलौ युगे जनानाम् अल्पायुष्ट्वात् कलेः प्रभावात् हीन-बुद्धित्वाच् च वेदस्य च दुष्पारत्व्त् दुरधिगमार्थत्वं चेति ज्ञेयम् । तथा चोक्तं—

जन्म-संस्कार-विद्यादेः शक्तेः स्वाध्याय-कर्मणोः ।
ह्रास-दर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥ इति न्याय-कुसुमाञ्जलौ उदयनाचार्य-पादैः ।

अतः पुराणस्य प्रयोजनवत्वम् इति भावः । ये के च वेदात् पुराणस्य पृथक्-शास्त्रत्वं परिकल्प्य अस्य प्रामाण्यं निरस्यन्ति, तेषां मत-विमर्दनाय वेदेन सहास्याभिन्नत्वं स्थापयति, तत्र च यो वा वेद शब्दः इति । निगूढार्थत्वेनास्यास्पष्टांशस्य स्पष्टीकरणाय तथा वेदस्य पूरणाय पुराणस्योपयोगः । तद् उक्तं श्री-महाभारते पूरणात् पुराणम् इति । वेदं समुपबृंहयेत् इति । वेदार्तं स्पष्टीकुर्याद् इत्य् अर्थः । अपरिपूर्णांशस्य हि समजातीय-वस्तुना पूरणं लोकानां रीतिः । अन्यथा न च तत् पूरण-पद-वाच्यम् । तद् धि दृश्यते सह समजातीयत्वं सिद्धम् । तद् धीदं वाक्यं न चावेदेनेति त्रपुणा सीसकेन । पुराणस्य वेद-रूपतायाः स्वीकारेऽपि वेदस्य पुराणात् वैशिष्ट्यं न हीयते । उभयोर् अपौरुषेयत्वाद् अभेदेऽपि स्वर-क्रम-भेदो वर्तते । अतो—“वैशिष्ट्यैकार्थ्यैः” इति सन्दर्भः । पुराणस्य वेद-रूपत्वं न केवलम् अनुमानेनैवोपन्यस्तम्, अपि तु श्रुति-बलेनेति, वेदेन सहैकस्मात् पुरुषोत्तमात् समुद्भूतत्वात् वेदवत् पुराणस्यापि अपौरुषेयत्वं ज्ञेयम् । अतः तत्त्वतो वेदात् अभिन्नं पुराणं वेदवत् प्रमाणम् । अस्य वा महतो भूतस्य [बृ।आ।उ। २.४.१०] इति श्रुतेः ॥१२॥

अनुच्छेदः १३

अत एवस्कान्द-प्रभास-खण्डे—

पुरा तपश् चचारोग्रम् अमराणां पितामहः ।
आविर्भूतास् ततो वेदाः स-षड्-अङ्ग-पद-क्रमाः ॥

ततः पुराणम् अखिलं सर्व-शास्त्र-मयं ध्रुवम् ।
नित्य-शब्द-मयं पुण्यं शत-कोटि-प्रविस्तरम् ॥

निर्गतं ब्रह्मणो वक्त्रात् तस्य भेदान् निबोधत ।
ब्राह्म्यं पुराणं प्रथमं

[स्क।पु। २.३-५]इत्य्-आदि ।**

अत्र शत-कोटि-सङ्ख्या ब्रह्म-लोके प्रसिद्धेति तथोक्तम् ।

तृतीय-स्कन्धे च—
ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः [भा।पु।३.१२.३७] इत्य्-आदि-प्रकरणे,

इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः ।
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः ॥ [भा।पु। ३.१२.३९] इति ।

अपि चात्र साक्षाद् एव वेद-शब्दः प्रयुक्तः पुराणेतिहासयोः ।

अन्यत्र च—पुराणं पञ्चमो वेदः । इतिहासः पुराणं च पञ्चमो वेद उच्यते [भा**।पु। **१.४.२०] ।

वेदान् अध्यापयामास महाभारत-पञ्चमान् [म।भा**। **१२.३४०.११] इत्य् आदौ ।

अन्यथा वेदान् इत्यादाव् अपि पञ्चमत्वं नावकल्पेत समान-जातीय-निवेशितत्वात् सङ्ख्यायाः ।

भविष्य-पुराणे—कार्ष्णं च पञ्चमं वेदं यन् महाभारतं स्मृतम् इति।

तथा च साम-कौथुमीय-शाखायां छान्दोग्योपनिषदिच—ऋग्-वेदं भगवोऽध्येमि यजुर्-वेदं साम-वेदम् आथर्वणं चतुर्थम् इतिहासं पुराणं पञ्चमं वेदानां वेदं [छा।उ। ७.१.२] इत्य्-आदि ।

अत एव,अस्य महतो भूतस्य [बृ।आ।उ। २.४.१०] इत्य् आदाव् इतिहास-पुराणयोश् चतुर्णाम् एवान्तर्भूतत्व-कल्पनया प्रसिद्ध-प्रत्याख्यानं निरस्तम् ।

तद् उक्तं—ब्राह्मं पुराणं प्रथमम् इत्य्-आदि ॥१३॥

Commentary on the root text.

पुरेत्यादौ वेदानां पुराणानां चाविर्भाव उक्तः । ससृजे आविर्भावयामास । समानेति यज्ञ-दत्त-पञ्चमान् विप्रान् आमन्त्रयस्व इतिवत् । कार्ष्णम् इति कृष्णेन व्यासेनोक्तम् इत्य् अर्थः । अतएवेति पञ्चम-वेदत्व-श्रवणाद् एवेत्य् अर्थः । चतुर्णाम् एवान्तर्गते । तेष्व् एव यत् पुरा-वृत्तं यच् च पञ्च-लक्षणम् आख्यानम् । ते एव तद्-भूते ग्राह्ये । न तु ये व्यास-कृत-तत्त्वेन भुवि ख्याते शूद्राणाम् अपि श्रव्ये इति कर्मठैर् यत् कल्पितं, तन्निरस्तम् इत्य् अर्थः ॥१३॥

Commentary on the root text.

समान-जातीय-निवेशितत्वाद् इति । समान-जातीय एव पूरकेऽन्वयात्, स्वान्वयितावच्छेदक-धर्माच्छिन्नेनैव पूरणाद् इति यावत् । वेद-गत-सङ्ख्याया अवेदेन पूरणं न भवतीति पर्यवसितम् । वेदानां वेदम् इति ऋग्-आदि-चतुर्णां वेदानाम् अर्थावेदकं पुराणम् इत्य् अर्थः । अत एव—श्रुति-श्रुतिभिर् इतिहास-पुराणयोः पञ्चमत्व-निरुक्तेर् एव । अन्तर्भूतत्व-कलनयेति—चतुर्णां वेदानाम् अन्तर्भूतत्व-कल्पनं—अस्य महतो भूतस्य [बृ।आ।उ। २.४.१०]—ऋग्-वेदः प्रथमः, ततो यजुर्-वेदः, ततः साम-वेदः, ततोऽथर्वाङ्गिरसः, अथर्व-वेदः । तेष्व् इतिहास-पुराणम् इति श्रुत्य्-अर्थ-कल्पनात् । तत्रायम् अभिप्रायः—तस्मात् तपस् तेपानाच् चत्वारो वेदा अजायन्त, ऋचः सामानि जज्ञिरे इत्य् अत्र सामान्यतो वेद-चतुष्टयत्वम् उक्त्वा तद्-विवरणं—ऋच इत्य्-आदि । तपस् तेपनात् ईश्वरात् । तथा “महतो भूतस्य” इति श्रुताव् अपि वेद-चतुष्टय-कथनानन्तरं तद्-घटकेतिहास-पुराणम् आह—अन्यथा न वा—अस्य महतो भूतस्य इति श्रुतौ इतिहासः पुराणम् इत्य् अनन्तरम्, “विद्या उपनिषद्” इत्य्-आदि-श्रवणात् विद्योपनिषाम् अपि वेद-चतुष्टयानन्तर्गतत्वापत्तिः, प्रसिद्ध-भारतादीतिहास-ब्राह्मादि-पुराणानां वेदार्थ-सङ्ग्राहकत्वेन व्यासादि-कृतत्वेन न प्रसिद्धिर् न तेषाम् अपौरुषेयत्वम्, तथा ऋग्-आदि-वेद-मध्ये, संयुं प्रजापतिं देवा अब्रुवन् इत्य् आद्य् उपक्रम्य, यो ब्राह्मणायावगुरेत् तं शतेन यातयेति इत्य्-आदि-श्रुतेः, अवचनेनैव प्रोवाच इत्य्-आदि श्रुतेश् चेतिहास-रूपत्वात् । यतो वा इमानि भूतानि जायन्त इत्य्-आदि-श्रुतेः, एतस्माद् आत्मन आकाशः सम्भूतः इत्य्-आदि-श्रुतेः । स ब्रह्मणा सृजति रुद्र् विलापयति हरिर् आदिर् अनादिः इत्य्-आदि-श्रुतेश् च सर्ग-विसर्ग-निरोध-भगवद्-अवतारादि-कथन-लक्षण-पुराण-रूपत्वाच् च केषांचिद् उच्छन्न-प्रच्छन्नतयाधुनिकानां जनानाम् अज्ञातत्वात्, प्रचरद्-रूपाणाम् अपि दुरूहत्वात्, व्यासेन तद्-अर्थान् सङ्कलय्य भारतादीतिहास-पुराणानि कृतानीति बोध्यम् ।

“प्रसिद्ध-प्रत्याख्यानं” प्रसिद्धानां भारत-ब्राह्मादीनां वेदत्व-प्रत्याख्यानं निरस्तम् इति । इतिहास-पुराणयोः श्रुतौ क्रमिक-जातत्वेन कथनाद् इतिहासस्य पञ्चमत्वम्, पुराणस्य षष्ठत्वं यद्यपि वक्तुम् उचितम्, तथापीतिहास-पुराणयोर् वेदार्थ-विवरण-रूपत्वेनैक्यम् आदृत्य प्रथमत्वम् उक्तम्, स्वतन्त्रेच्छत्वाद् भगवतः । श्रुतौ प्राग् इतिहास-निःसरणं ततः पुराणम् इति क्रम-निर्देशात् व्यासेन तत्-क्रमेणैव तयोर् आविर्भावनम् । तेन भारतानन्तरम् एव पुराण-सङ्ग्रहः कृत इति ।

अष्टादश-पुराणानि कृत्वा सत्यवती-सुतः ।
भारताख्यानम् अखिलं चक्रे तद्-उपबृंहितम् ॥

इति वचनस्यार्थः—सत्यवती-सुतः अष्टादश-पुराणं कृत्वा भारताख्यानम् अखिलं पूर्णं चक्रे । खिल-शब्दस्यानर्थत्वात् । तद्-उपबृंहितं—वेदार्थैर् युतम् । यद् वा, अखिलं तद् एव लोकादि-गत-सर्वं भारताख्यानम्, तद्-उपबृंहितं तैः पुराणैः । उपबृंहितं पूर्णं चक्रे इत्य् अन्वयः, न तु अष्टादश-पुराणानि कृत्वा भारतं चक्रे इत्य् अन्वयः, श्रुत्य्-आदि-विरोधापत्तेः । अत एव वक्ष्यमाण-गरुड-पुराण-भागवत-लक्षणे—अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः इत्य् उक्तम् । तथोक्तम् इति—प्रसिद्ध-पुराणस्य वेदत्वम् उक्तम् ॥१३॥

Commentary on the root text.

पुराणस्य प्रामाण्य-दृढीकरणाय अस्यैव तु पञ्चम-वेदत्वं निर्दिशति । षड्-अङ्ग-वेद-पुराणानाम् आविर्भाव-कथाम् आह—पुरा इति । अनित्यत्वाशङ्का-निरासाय आह—नित्य-शब्द-मयः इति । ध्वंस-प्राग्-अभाव-रहितत्वं हि नित्यत्वम् । ससृजे आविर्भावयामास । अन्यथा कर्मज-सृष्टि-स्वीकार अनित्यत्व-प्रसङ्गात् स्व-वचन-विरोधः । पुराणस्य पञ्चम-वेदत्व-ज्ञापक-श्लोकाः यथा-क्रमेणोद्धृताः । पुराणं पञ्चमं वेदम् इत्य् आदीनि । कार्ष्णः कृष्ण-द्वैपायण-व्यासेन रचितं सङ्कलितम् । न केवलं पुराण-वचन-बलेन पञ्चम-वेदत्वं व्यवस्थापितम्, अपि तु ऋग्-वेदं भगवोऽध्येमि इत्य्-आदि श्रुत्या पुराणस्य पञ्चम-वेदत्वं निर्दिष्टम् । पुराणादौ शूद्राणाम् अधिकार-दर्शनात् न चैषां वेद-रूपत्वम् इति यः पूर्व-पक्षिणाम् आक्षेपः सोऽप्य् अनेन निरस्तः ॥१३॥

अनुच्छेदः १४

पञ्चमत्वे कारणं च वायु-पुराणेसूत-वाक्यम्—

इतिहास-पुराणानां वक्तारं सम्यग् एव हि ।
मां चैव प्रतिजग्राह भगवान् ईश्वरः प्रभुः ॥

एक आसीद् यजुर् वेदस् तं चतुर्धा व्यकल्पयत् ।
चातुर्होत्रम् अभूत् तस्मिंस् तेनयज्ञम् अकल्पयत् ॥

आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथैव च ।
औद्गात्रं सामभिश् चैव ब्रह्मत्वं चाप्य् अथर्वभिः ॥ [वा।पु। ६०.१६-१८]

आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिर् द्विज-सत्तमाः।
पुराण-संहिताश् चक्रे पुराणार्थ-विशारदः ॥

यच् छिष्टं तु यजुर्-वेद इति शास्त्रार्थ-निर्णयः । [वा।पु। ६०.२१-२२]

इति

इति ब्रह्म-यज्ञाध्ययने च विनियोगो दृश्यतेऽमीषां यद् ब्राह्मणानीतिहास-पुराणानि इति । सोऽपि नावेदत्वे सम्भवति ।

अतो यद् आह भगवान्मात्स्ये—

कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः ।
व्यास-रूपम् अहं कृत्वा संहरामि युगे युगे ॥
[म।पु। ५३.८-९]

इति

पूर्व-सिद्धम् एव पुराणं सुख-सङ्ग्रहणाय सङ्कल्पयामीति तत्रार्थः ।

तद्-अनन्तरं ह्य् उक्तम्—

चतुर्-लक्ष-प्रमाणेन
द्वापरे द्वापरे सदा ।
तद्-अष्टादशधा कृत्वा
भूर्-लोकेऽस्मिन् प्रभाष्यते ।

अद्याप्य् अमर्त्य-लोके तु शत-कोटि-प्रविस्तरम् ।
तद्-अर्थोऽत्र चतुर्-लक्षः
सङ्क्षेपेण निवेशितः ॥
[म।पु। ५३.९-११]

इति ।

अत्र तु “यच् छिष्टं तु यजुर्-वेदे” इत्य् उक्तत्वात्
तस्याभिधेय-भागश् “चतुर्लक्षस्” त्व्
अत्र मर्त्य-लोके “सङ्क्षेपेण” सार-सङ्ग्रहेण
“निवेशितः,” न तु रचनान्तरेण ॥१४॥

Commentary on the root text.

पञ्चमत्वे कारणं चेति । ऋग्-आदिभिश् चतुर्भिश् चातुर्होत्रं चतुर्भिर् ऋत्विग्भिर् निस्पाद्यं कर्म भवति इतिहासादिभ्यां तन् न भवतीति तद्-भागस्य पञ्चमत्वम् इत्य् अर्थः । आख्यानैः पञ्च-लक्षणैः पुराणानि । उपाख्यानैः पुरा-वृत्तैः । गाथाभिश् छन्दो-विशेषैश् च । संहिता भारत-रूपाश् चक्रे। ताश् च यच् छिष्टं तु यजुर् वेदस् तद्-रूपा इत्य् अर्थः । ब्रह्मेति ब्रह्म-यज्ञे वेदाध्ययनेऽमीषाम् इतिहासादीनां विनियोगो दृश्यते । सोऽपि विनियोगस् तेषाम् अवेदत्वे न सम्भवति । कृत्वाऽविर्भाव्य । सङ्कलयामि सङ्क्षिपामि । अभिधेय-भागः सारांशः ॥१४॥

Commentary on the root text.

यजुर्-वेदस्य वेद-सामान्य-रूपत्व-कथनम् ऋक्-सामाथर्व-वेदातिरिक्तस्य यजुर्-वेदत्व-लाभाय । अत एवोक्तं—यजुः सर्वत्र गीयत इति चतुर्धा विभाग-निमित्तम् अध्वर्युत्वादि कार्य-भेद इति भावः । यच् छिष्टं तु यजुर्-वेदः इति । अध्वर्युत्व-लक्षण-वेदेभ्यः कांश्चिद् वेदान् आदाय यजुर्-आदि-नाम-भेदेन विभागे कृते यद् अवशिष्टम्, तद् अपि यजुर्-वेद-नामकम् इत्य् अर्थः । न च—अस्य महतो भूतस्य इति श्रुतौ ऋग्-आदि-क्रमेणैव जातत्वात्, कथम् एकस्य यजुर्-वेदस्य ऋग्-आदि-भेदेन विभागो व्यास-कृत इति वाच्यम् । ऋग्-आदि-क्रमेण वेद उद्भूतः । तत्र यजुर्वेदस्य प्रचुरत्वेन समुदितस्य यजुर्-वेदत्वेनैकत्वेन च व्यवहारात् तथोक्तेः, आधिक्येन व्यपदेशा भवन्ति इति न्यायात् । ऋग्-आदि-भेदेन वेदस्य चतुर्धा-व्यवहारस्य प्राक् सत्त्वेऽपि तद्-अधिकारि-भेद-कार्य-भेद-व्यवस्थया व्यासेन व्यवस्थापनात् तस्य विभाग-कृत्त्व-व्यपदेश इति भावः । आख्यानैर् इति प्रश्नोत्तर-वचन-निबन्धैः सूत-शौनक-संवाद-रूपैर् इत्य् अर्थः । उपाख्यानैः—प्राथमिक-ग्रन्थाभिधेय-प्रकाशकैः शुक-परीक्षित्-संवादादि-रूपैः । गाथाभिः—पुरा-वृत्तेतिहास-संवादाख्याभिर् इति । पुराण-संहितां—पुराण-सङ्ग्रहं चक्रे इति । तथा चाख्यानादिभिः सुसज्जीकृत्य पुराणानि प्रादुश्चकार । यथोक्तं गीता-व्याख्यायां स्वामि-चरणैः—“प्रायेण भगवन्-मुख्-निःसृतान् एव श्लोकान् व्यलिखत् । कांश्चित् तत्-सङ्गतये स्वयं च व्यरचयत्”[१.१] इति ।

व्यक्तं प्रथम-स्कन्धे—

स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् ।
शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः ॥ [भा।पु। १.७.८] इति ।

इति व्याख्यातं च प्रथम-स्कन्ध-सन्दर्भे—“प्रथमतः सामान्यतया कृत्वा श्री-नारदोपदेशानन्तरम् अनुक्रम्य तत्-सम्मत्य्-अनुक्रमेण विशेषतः कृत्वा” इति । विनियोगः—अध्ययन-विषयत्वम् । नावेदत्वे सम्भवति—ब्रह्म-पदस्य वेद एव शक्तेर् इति भावः । तद्-अर्थ इति । तस्य शतकोटि-प्रविस्तरस्य अर्थः । तात्पर्य-विषयार्थोपसंहारो यत्र सः, चतुर्लक्ष इत्य् अर्थः । तद्-अर्थः इत्य् अस्य प्रकारान्तरेण स्वयम् आह—अत्र च इत्य्-आदि । पुराणेतिहासयोर् अपि यच् छिष्टम् इत्य् अनेन ग्रहणम्, तस्यापि यजुर्वेदान्तर्गतत्वाद् इति भावः । तस्य यजुर्वेद-भागस्याभिधेय-भागो यत्र सः । अत्र इत्य् अस्यार्थम् आह-मर्त्य-लोक इति । न तु वचनान्तरेणेति यजुर्वेदाभिधेय-भाग-विशेषात्मके पुराण-विशिष्टस्य चतुर्लक्षत्वाश्रयस्य स्वरूपेणैवाभिहितः, न तु वचनान्तर-रूपेणेति भावः । वस्तुतः अभिधेय-भागः—पुराण-तात्पर्य-विषयीभूतोऽर्थ इत्य् अर्थः , न तु बहु-व्रीहिणा ग्रन्थ इत्य् अर्थः । चतुर्लक्षः—चतुर्थ-श्लोकात्मक-ग्रन्थ-प्रतिपाद्यः, सङ्क्षेपेण सार-सङ्ग्रहेण, यजुर्वेदात् शतकोटि-प्रविस्तरात्मक-यजुर्वेद-भागात् सारार्थ-सङ्ग्रहक-तद्-घटक-वाक्येनेति यावत् निवेशितः कृतः । अपौरुषेय-पुराण-वचन-घटितश् चतुर्लक्षः पुराणम् इति पर्यवसितम् । अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु इत्य् अनेनांश-विशेषस्यैव भागवतत्वेन निर्देशः । तद्-युक्तत्वेनाष्टादश-साहस्रात्मकं भागवतम् इति गीयत इति । एवं च भागवत-शब्दोऽपौरुषेय-पुराण-भाग-विशेष-परः । जन्माद्य् अस्य इत्य्-आदि विष्णुरातम् अमूमुचत् इत्य् अन्त-ग्रन्थ-परश् च । यथा वेद-शब्दोऽपौरुषेयत्वेन ऋग्-वेदादि-पुराणान्त-परश् चतुर्वेद-परश् चेति । एवं भारत-ब्राह्म-पाद्मादि-पदम्, पुराणेतिहास-पदं च बोध्यम् ॥१४॥

Commentary on the root text.

यद् धि पुराणस्य वेदत्वं साधितम्, न च तत् लक्षणया वा गौण्या । तत्र मुख्या-लक्षणा-गौणी-भेदेन त्रिधा शब्द-वृत्तिः । मुख्यापि रूढि-योग-भेदेन द्विधा । रूढिः स्वरूपे जात्या गुणेन वानिर्देशार्हे वस्तुनि संज्ञा-संज्ञि-सङ्केतेन प्रवर्तते, डित्थः, गौः शुक्लः इति । लक्षणा तु तेनैव सङ्केतेनाभिहितार्थ-सम्बन्धोयथा गङ्गायां घोषः । इयं पुनस् त्रिधा, अजहत्-स्वार्था, जहत्-स्वार्था, जहद्-अजहत्-स्वार्था च यथा खेतो धावति, गङ्गायां घोषः, सोऽयं देवदत्तः । गौणी चाभिहित-लक्षित-गुण-युक्ते तत्-सदृशे यथा सिंहो देवदत्तः । यद् उक्तं वाचस्पति-मिश्रेण—“पर-शब्दः परत्र-लक्षमाण-गुण-योगेन वर्तते इति यत्र प्रयोक्तृ-प्रतिपत्त्रोः सम्प्रतिपत्तिः स गौणः” ।

अत्र तु लक्षणादीनां नावकाशः, पुराणस्य वेदत्वं मुख्य-वृत्त्यैव तु भवति । यद्य् एवं तथाप्य् अत्र भवान् प्रष्टव्यः, चतुर्णां वेदानां प्रसिद्धत्वे पञ्चमस्य किं प्रयोजनम् ? कुत्र वास्योपयोगः ? वेदत्व-पुरस्कारेनाभिन्नत्वे कथं न वास्य चतुर्षु अन्तर्भावः इति अपेक्षायां सिद्धान्त-सन्दर्भम् आह गोस्वामि-पादः—“पञ्चमत्वे” इति । यजुर्-ऋक्-सामाथर्व-पुराणानि इति भाग-पञ्चकेन वेदो विभक्तः । तत्र यजुर्-ऋक्-सामार्थर्वभिः आध्वर्यव-होत्रौद्गात्र-ब्रह्मत्वादि-चतुर्भिः ऋत्विग्भिः यथा-क्रमेण सम्पाद्यं कर्म भवति । पुराणेन तत्र साध्यम्, अतस् तद्-भागस्य पञ्चमत्वम् । अस्मिन् पुराणे सर्वेषाम् एव अधिकारः । अन्यत्र तु केवल-द्विजातीनाम् इत्य् अस्य वैशिष्ट्यम् ।

आदौ लौकिक-रीत्य्-अनुसारेण—अस्य महतो भूतस्य निःश्वसितम् एतत्, ऋग्-वेदो भगवो इत्य्-आदि-श्रुत्या च पुराणस्य पञ्चम-वेदत्वं प्रतिपाद्य अधुना तद्-विशेषम् आह—“आख्यानैः- इति । अनन्तरं पुराणस्य वेदवत् व्यवहार-रूपं प्रामाण्यं दर्शयन्न् आह—“ब्रह्म-यज्ञाध्ययने” इति । ब्रह्म-यज्ञे वेदाध्ययने अमीषां पुराणानां विनियोगः अस्ति । एतेनास्यापि वेदत्वं समर्थितम् । पुराणस्य सङ्कल्पन-कथाम् आह—यद् आह भगवान् मात्स्य इति । स्फुटम् अन्यद् इति ॥१४॥

अनुच्छेदः १५

तथैव दर्शितं वेद-सह-भावेन शिव-पुराणस्य वायवीय-संहितायाम्—

सङ्क्षिप्य चतुरो वेदांश् चतुर्धा व्यभजत् प्रभुः ।
व्यस्त-वेदतया ख्यातो वेद-व्यास इति स्मृतः ॥

पुराणम् अपि सङ्क्षिप्तं चतुर्लक्ष-प्रमाणतः ।
अद्याप्य् अमर्त्य-लोके तु शत-कोटि-प्रविस्तरम् ॥ [शि।पु। १.३३-३४]

सङ्क्षिप्तम् इत्य् अत्र तेनेति शेषः ।

स्कान्दम् आग्नेयम् इत्य्-आदि समाख्यास् तु प्रवचन-निबन्धनाः काठकादिवत् ।
आनुपूर्वीर् निर्माण-निबन्धना वा ।

तस्मात् क्वचिद् अनित्यत्व-श्रवणं त्व् आविर्भाव-तिरोभावापेक्षया ।

तद् एवम् इतिहास-पुराणयोर् वेदत्वं सिद्धम् ।

तथापि सूतादीनाम् अधिकारः सकल-निगम-वल्ली-सत्-फल-श्री-कृष्ण-नामवत् ।

यथोक्तंप्रभास-खण्डे—

मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥

इति ॥

यथा चोक्तंविष्णु-धर्मे—

ऋग्-वेदोऽथ यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः ।
अधीतास् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥

इति ।

अथ वेदार्थ-निर्णायकत्वं चवैष्णवे—

भारत-व्यपदेशेन ह्य् आम्नायार्थः प्रदर्शितः ।
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥

इत्य् आदौ ।

किं च, वेदार्थ-दीपकानां शास्त्राणां मध्य-पातिताभ्युपगमेऽप्य् आविर्भावक-वैशिष्ट्यात् तयोर् एव वैशिष्ट्यम् ।

यथा पाद्मे—

द्वैपायनेन यद् बुद्धं
ब्रह्माद्यैस् तन् न बुध्यते ।
सर्व-बुद्धं स वै वेद
तद् बुद्धं नान्य-गोचरः ॥१५॥

The author's own auto-commentary on the Sandarbha.

उपसंहरति—तद् एवं वेदत्वं सिद्धम् इति । अत एव स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन् नान्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गात् [ब्र।सू। २.१.१] इत्य् अनेन न्यायेनाप्य् अन्यत्र स्मृतिवत् स्मृत्य्-अन्तर-विरोध-दृष्टत्वं च नात्रापतति ।

ननु, न च स्मार्तम् अतद्-धर्माभिलापात् [ब्र।सू। १.२.२०] इत्य् अत्र
"प्रधानं स्मृत्य्-उक्तम् एव, न च श्रौतम्"
इति प्रतिपादयता श्री-बादरायणेन
पुराणानाम् अपि प्राधानिक-प्रक्रियत्वात् स्मृतित्वं बोध्यते?

न । तत्र स्वतन्त्रं यत् प्रधानम्,
तद् एव निषेधयता तेन
प्रधान-स्वातन्त्र्य-प्रतिपादकं साङ्ख्य-दर्शनम् एव स्मृतित्वेन मन्यते ।
तद्-अधीनत्वाद् अर्थवद् [ब्र।सू। १.४.३] इति सूत्रान्तरेण हि परमेश्वराधीनतया विश्रुतम् अव्याकृताद्य्-अपर-पर्यायं-मन्यतयेव प्रधानम् ।
तथा च पुराणे दृष्टम् इति
न स्मृति-साधारण्यं तस्येति
वेदत्वम् एव स्थितम् ॥१५॥

Commentary on the root text.

व्यस्तेति । व्यस्ता विभक्ता वेदा येन ततयावेद-व्यासः स्मृतः । स्कान्दम् इत्य्-आदि । स्कन्देन प्रोक्तं न तु कृतम् इति वक्तृ-हेतुका स्कान्दादि-संज्ञा । कठेनाधीतं काठकम् इत्य्-आदि संज्ञावत्। कठानां वेदः काठकः। गोत्र-वरणाद् वुञ् [पा। ४.३.१२६], चरणाद् धर्माम्नाययोर् इति वक्तव्यम् इति सूत्र-वार्तिकाभ्याम् । ततश् च कञ्हेनाधीतम् इति सुष्ठूक्तम् । अन्यथा जनत्वेनानित्यतापत्तिः।
आनुपूर्वी क्रमः ।
ब्राह्यम् इत्य्-आदिकरमनिर्माण-हेतुका वा सा सा सऽज्ञेत्य् अर्थः । ब्राह्म्यादिक्रमेêअ पुराण-भागो बोध्यः । तथापि सूतादीनाम् इति । इतिहासादेर् वेदत्वेऽपि तत्र शूद्राधिकारः स्त्री-शूद्र-द्विज-बन्धूनाम् इत्य्-आदि-वाक्य-बलाद् बोध्यः । भारत-व्यपदेशेनेति । दुरूह-भागस्य व्याख्यानात्, छिन्न-भागार्थ-पूरणाच् च पुराणे वेदाः प्रतिष्ठिताः नैश्चल्येन स्थिता इत्य् अर्थः । किं चेति । वेदार्थ-दीपकानां मानवीयादीनां मध्ये यद्य् अपीतिहास-पुराणयोः स्मृतित्वेनाभ्युपगमस् तथापि व्यासायेश्वरस्य तद्-आविर्भावकत्वात् तद्-उत्कर्ष इत्य् अर्थः । तत्र प्रमाणं द्वैपायनेनेत्य् आदि॥१५॥

Commentary on the root text.

तेनेति शेष इति । तेन व्यासेन । समाख्याः संज्ञा-विशेषाः । प्रवचन-निबन्धनाः सर्गादौ प्रथमाध्यापक-नाम-निबन्धनाः । आनुपूर्वीति—उपक्रमोपसंहार-पर्यन्तानुपूर्वी-विशेष-निर्माणेन निबन्धनाः निबन्धाः । स्वतन्त्रेच्छेन भगवतैव कृता इति यावत् । एवं चेतिहास-मध्ये पुराण-लक्षण-सर्ग-प्रतिसरादि-वर्णन-सत्त्वेऽपि, पुराण-मध्ये पौराणिक-संवादादि-सत्त्वेऽपि, तयोर् नाम-भेद स्वेच्छामय-भगवत्-कृतत्वाद् उपपन्न इति । यद्यपि चतुर्लक्ष-समुदित-वाक्यस्यापौरुषेयत्वं यथा-श्रुतैतद्-ग्रन्थतो लभ्यते, तथापि नारदोपदेश-तद्-अधीन-वेद-व्यास-ग्रन्थ-करण-प्रस्तावादेः परमेश्वर-निःश्वसितत्वं न घटते, व्यास-प्रणय-पूर्वं प्रतीत-पुराणादेः प्रच्छन्नत्वेनादर्शनात् नारदोपदेशानन्तरं व्यासेन पुनः प्रणयनाद् इत्य्-आदि विवेचनेन प्रचरद्-रूप-पुराणादिकं व्यासन् सज्जीकृतम्, तत्राभिधेयार्थ-सङ्ग्रहोऽपौरुषेण वाक्य-जातेन कृतः । तत्-सङ्गत्य्-अर्थ-प्रसङ्गतश् च वाक्यान्तराण्य् उक्तानीति तथा व्याख्यातम् । अनित्यत्व-श्रवणं—व्यास-कृतत्व-श्रवण-निबन्धनम् । वेदत्वं सिद्धम् इति—अपौरुषेयत्व-रूप-वेदत्वं सिद्धम् इत्य् अर्थः । “व्यास-रूपम् अहं कृत्वा” इत्य् अनेन व्यासस्य भगवद्-अवतारत्व-कथनाद् व्यास-कृत-वेद-पुराणादि-सङ्ग्रहस्य स्वतः प्रमाणत्वम् अपि बोध्यम् । तथापि पुराणादौ वेदत्वेऽपि, “सूतादीनां” इति सूतादेर्विशेष-ग्रहणान् न शूद्र-सामान्यस्याधिकारः ।

अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना ।

श्रोतव्यम् इह शूद्रेण नाध्येतव्यं कदाचन ॥

इति पुराणम् अधिकृत्य भविष्य-पुराण-वचनात् सूतस्य च ब्राह्मणानुग्रहाद् अधिकारः । तथा हि प्रायश्चित्त-विवेक-धृत-पद्म-पुराणे सूत-वाक्यम्—

न हि वेदेष्व् अधिकारः कश्चिच् छूद्रस्य जायते ।
पुराणेष्व् अधिकारो मे दर्शितो ब्राह्मणैर् इह ॥ इति ।

वेदेषु इत्य् अत्र वेद-पदम् ऋग्-आदि-चतुर्वेद-परम्—स्त्री-शूद्र-द्विज-बन्धूनां त्रयी न श्रुति-गोचरः [भा।पु। १.४.२५] इति प्रथमात् । तत्र त्रयीति—चतुर्वेदोपलक्षणम् । यथा शुक्राचार्याज्ञया तत्-कन्याया देवयान्या विवाहः क्षत्रियेणापि ययातिना कृतो न दोषाय जातः, तत् सन्तान-यदु-प्रभृतीनाम् उत्तमत्वं च—समयश् चापि साधूनां प्रमाणं वेदवद् भवेत् इत्य्-आदि-वचनात् । समयः प्रतिज्ञा, अत एव ब्राह्मण-वचनेन परशुराम-भयाद् ब्राह्मण-सभायां गूढ-स्थितस्य कस्यचित् क्षत्रियस्य ब्राह्मणत्वं जातम् इत्य् उक्तं महाभारते—

तत्र कीर्तयतो विप्रा विप्रर्षेर् भूरि-तेजसा ।
अहं चाध्यगमं तत्र निविष्टस् तद्-अनुग्रहात् ॥ [भा।पु। १.३.४४]

इति प्रथमात् चतुर्-वेद-पाठस् तु सूतादीनाम् अप्य् अनधिकृतस् तत्र द्विजानाम् एवाधिकारात् । अत एव प्रथमे सूतं प्रति शौनक-वाक्यात्—मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् [भा।पु। १.४.१३] इति । छान्दसात् वेदात् । तत्र हेतु-वचनम् उक्तं स्वामि-चरणैः—अत्रैवर्नीकत्वात् इति ।

अहो वयं जन्म-भृतोऽद्य हास्म
वृद्धानुवृत्त्यापि विलोम-जाताः ।
दौष्कुल्यम् आधिं विधुनोति शीघ्रं
महत्तमानाम् अभिधान-योगः ॥

कुतः पुनर् गृणतो नाम तस्य
महत्तमैकान्त-परायणस्य ।
योऽनन्त-शक्तिर् भगवान् अनन्तो

महद्-गुणत्वाद् यम् अनन्तम् आहुः ॥ [भा।पु। १.१८.१८-१९]

टीका च—

भागवत-व्याख्याने लब्ध-प्रसङ्गं महताम् आदर-पात्रम् आत्मानं श्लाघते द्वाभ्याम् । अहो इत्य् आश्चर्यम् । ह इति हर्षे । वयम् इति बहु-वचनं श्लाघायाम् । प्रतिलोम-जा अप्य् अद्य जन्म-भृतः स-फल-जन्मान आस्म जाताः । वृद्धानाम् अनुवृत्त्या आदरेण । ज्ञान-वृद्धः शुकस् तस्य सेवयेति वा । यतो दुष्कुलत्वं तन्-निमित्तम् आधिं च मनः-पीडां महत्तमानाम् अभिधान-योगो योगो लौकिकोऽपि संभाषण-लक्षणः संबन्धो विधुनोत्य् अपनयति ।
कुतः पुनः किं पुनर् वक्तव्यं तस्याननतस्य नाम गृणतः पुंसो महत्तानाआन-योगो दौष्कुल्यं विधुनोतीति । यद्वा नाम गृणतः पुनः कुतो दौष्कुल्यम् इति। यद् वा, गृणतः पुंसस् तस्य नाम दौष्कुल्यं विधुनोतीति किं वक्तव्यम् इति कैमुत्य-न्यायम् एवाह । अनन्ताः शक्तयो यस्य । स्वतोऽप्य् अनन्तः । किंच महत्सु गुणा यस्य स महद्-गुणः तस्य भावस् तस्मात् । यं गुणतोऽप्य् अनन्तम् आहुः ॥इति ।

विलोम-जातत्वं ब्राह्मण्यां क्षत्रियात् सूतः इत्य् उक्त-लक्षणम् । अत एव भगवन्-नाम-कथनादिनाप्य् अधिकारी ज्ञापितः । एवं च सूतादीनाम् इति आदि-पदेन भगवद्-भक्ति-योगादि-लक्षण-गुणवताम् अन्येषां परिग्रहः । तथा इनां भारते नहुषं प्रति युधिष्ठिर-वाक्यम्—

सत्यं दानं क्षमा शीलम् आनृशांस्यं तपो घृणा ।
दृश्यते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥
यत्रैतन् न भवेत् सर्प तं शूद्रम् इति निर्दिशेत् ॥ इति ।

तेषां पूर्वेषाम् । अवरजः अर्वाचीनाः । एवम् अत्र वक्ष्यमाणानि न शूद्रा भगवद्-भक्ताः इत्य्-आदि-बहु-वचनानि तथाधिकारे द्रष्टव्यानीति । यत् तु—

विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधि-मेखलाम् ।
वैश्यो निधि-पतित्वं च शूद्रः शुद्ध्यति पातकान् ॥ [भा।पु। १२.१२.६५]

इति द्वादश-स्कन्ध-वचनात् शूद्र-मात्रस्याधिकार इति वदन्ति, तन् न—श्रोतव्यम् इह शूद्रेण इत्य्-आदि-वचन-विरोधात् । सुगतिम् आप्नुयात् श्रवणाच् च शूद्र-योनिः इति हरि-वंशीयाच् च । उदधि-मेखलां पृथ्वीम् । सन्धिर् आर्ष इति । शूद्रोऽधीत्य इत्य् अस्य चान्तर्-भूत-ण्य्-अन्त-क्रियया । पाठयित्वा इत्य् अर्थः । पञ्चभिर् हलैः कर्षति गृही इत्यादिवत् । भक्तिर् अत्र प्रेम-लक्षणा । सामाय-भक्तिम् अभिप्रेत्य त्व् आह—माध्व-भाष्य-धृत-व्योम-संहिता-वचनम्—

अन्त्यजा अपि ये भक्ता नाम-ज्ञानाधिकारिणः ।
स्त्री-शूद्र-द्विज-बन्धूनां तन्त्र-ज्ञानेऽधिकारिता ॥
एक-देशोपरक्ते तु न तु ग्रन्थ-पुरः-सरे ।
त्रैवर्णिकानां वेदोक्तं सम्यग्-भक्तिमतां हरौ ।
आहुर् अप्य् उत्तमन्त्रीणाम् अधिकारं तु वैदिके ॥ इति ।

तन्त्र-पदं वेदातिरिक्त-शास्त्र-परम् । एकदेशोपरक्ते मन्त्र-पूजादौ । वेद-मन्त्र-वर्ज्यं शूद्रस्य इति छन्दोगाह्निक-धृत-स्मृतौ वेदेति विशेषणात् । स्मार्तं शूद्रः समाचरेत् इति मल-मास-तत्त्व-धृत-पिपान-कारिका-श्रवणात् ।

चतुर्णाम् अपि वर्णानां यानि प्रोक्तानि श्रेयसे ।
धर्म-शास्त्राणि राजेन्द्र शृणु तानि नृपोत्तम ॥
विशेषतस् तु शूद्राणां पावनानि मनीषिभिः ।
अष्टादश पुराणानि चरितं राघवस्य च ।
रामस्य कुरुशार्दूल धर्म-कामार्थ-सिद्धये ॥

इत्य् अत्र मोक्षानुक्तिः । प्राग्-वचने श्रेयसे इत्य् अनेन मोक्षस्य प्रधानतया स्वातन्त्रेण कथनात् । एवं च स्त्री-शूद्रादीनां तन्त्रोक्त-मन्त्र-पूजादिना लब्ध-भगवद्-भावाः संसारं तरन्तीति सूचनाय शूद्राणां पुराणाधिकारे दृष्टान्तम् आह—कृष्ण-नामवद् इति । कृष्ण-नाम्नो वेदोपरि-भागत्वेऽपि तत्-कीर्तनादौ प्रमाण-वशान् नर-मात्राधिकारः । तत्-कीर्तनादिना नर-मात्रस्य संसार-तरणम्, तथा पुराणादौ प्रमाण

Commentary on the root text.

अनुच्छेदः १६

व्यास-चित्तनुगत्वम्

स्कान्दे—

व्यास-चित्त-स्थिताकाशाद् अवच्छिन्नानि कानिचित् ।
अन्ये व्यवहरन्त्य् एतान्य् उरीकृत्य गृहाद् इव ॥ इति ।

तथैव दृष्टं श्री-विष्णु-पुराणे पराशर-वाक्यम्—

ततोऽत्र मत्-सुतो व्यास अष्टाविंशतिमेऽन्तरे ।
वेदम् एकं चतुष्पादं चतुर्धा व्यभजत् प्रभुः ॥

यथात्र तेन वै व्यस्ता वेद-व्यासेन धीमता ।
वेदस् तथा समस्तैस् तैर् व्यासैर् अन्यैस् तथा मया ॥

तद् अनेनैव व्यासानां शाखाभेदान् द्विजोत्तम ।
चतुर्युगेषु रचितान् समस्तेष्व् अवधारय ॥

कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
कोऽन्यो हि भुवि मैत्रेय महाभारत-कृद् भवेत् ॥ [वि।पु। ३.४.२-५] इति ।

स्कान्द एव—

नारायणाद् विनिष्पन्नं ज्ञानं कृत-युगे स्थितम् ।
किञ्चित् तद् अन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥

गौतमस्य ऋषेः शापाज् ज्ञाने त्व् अज्ञानतां गते ।
सङ्कीर्ण-बुद्धयो देवा ब्रह्म-रुद्र-पुरःसराः ॥

शरण्यं शरणं जग्मुर् नारायणम् अनामयम् ।
तैर् विज्ञापित-कार्यस् तु भगवान् पुरुषोत्तमः ॥

अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदान् उज्जहार हरिः स्वयम् ॥

इति ।

वेद-शब्देनात्र पुराणादि-द्वयम् अपि गृह्यते ।

तद् एवम् इतिहास-पुराण-विचार एव श्रेयान् इति सिद्धम् ।

तत्रापि पुराणस्यैव गरिमा दृश्यते ।

उक्तं हि नारदीये—

वेदार्थाद् अधिकं मन्ये पुराणार्थं वरानने ।
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥

पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् ।
सुदान्तोऽपि सुशान्तोऽपि न गतिं क्वचिद् आप्नुयात् ॥

इति ॥१६॥

Commentary on the root text.

व्यासेति । बादरायणस्य ज्ञानं महाकाशम् । अन्येषां ज्ञानानि तु तद्-अंश-भूतानि खण्डाकाशानीति तस्येश्वरत्वात् सार्वज्ञ्यम् उक्तम् । ततोऽत्र मत्-सुतः इत्य् आदौ च व्यासान्तरेभ्यःपाराशर्यस्येश्वरत्वान् महोत्कर्षः । नारायणात् इत्य् आदौ चेश्वरत्वं प्रस्फुटम् उक्तम् । गौतमस्य शापात् इति । वरोत्पन्न-नित्यधान्य-राशिर् गौतमो महति दुर्भिक्षे विप्रान् अभोजयत् । अथ सुभिक्षे गन्तुकामांस् तान् हठेन न्यवासयत् । ते च मायानिर्मिताया गो-गौतम-स्पर्शेन मृताया हत्याम् उक्त्वा गताः । ततः कृत-प्रायश्चित्तोऽपि गौतमस् तन्-मायां विज्ञाय शशाप । ततस् तेषां ज्ञान-लोप इति वाराहे कथास्ति । अधिकम् इति । निःशन्देहत्वाद् इति बोध्यम् । अन्यथा कृत्वा अवज्ञाय ॥१६॥

अनुच्छेदः १७

स्कान्द-प्रभास-खण्डे— \

वेदवन् निश्चलं मन्ये पुराणार्थं द्विजोत्तमाः ।
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥

बिभेत्य् अल्प-श्रुताद् वेदो माम् अयं चालयिष्यति ।
इतिहास-पुराणैस् तु निश्चलोऽयं कुतः पुरा ॥

यन् न दृष्टं हि वेदेषु तद् दृष्टं स्मृतिषु द्विजाः ।
उभयोर् यन् न दृष्टं हि तत् पुराणैः प्रगीयते ॥

यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः ।
पुराणं नैव जानाति न च स स्याद् विचक्षणः ॥ [२.९०-९३]

इति ।

अथ पुराणानाम् एवं प्रामाण्ये स्थितेऽपि
तेषाम् अपि सामस्त्येनाप्रचरद्-रूपत्वात् नानादेवताप्रतिपादक-प्रायत्वाद् अर्वाचीनैः क्षुद्र-बुद्धिभिर् अर्थो दुरधिगम इति तद्-अवस्थ एव संशयः ।

यद् उक्तं मात्स्ये—

पञ्चाङ्गं च पुराणं स्याद् आख्यानम् इतरत् स्मृतम् ।
सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ॥

राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ।
तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥

इति ।

अत्राग्नेस् तत्-तद्-अग्नौ प्रतिपाद्यस्य तत्-तद्-यज्ञस्येत्य् अर्थः ।

शिवस्य चेति चकाराछ् छिवायाश् च ।

सङ्कीर्णेषु सत्त्व-रजस्-तमोमयेषु कल्पेषु बहुषु सरस्वत्याः नानावाण्यात्मक-तद्-उपलक्षिताया नानादेवताया इत्य् अर्थः ।

पितॄणां कर्मणा पितृलोकः [बृ।आ।उ। १.५.१६] इति श्रुतेस् तत् प्रापक-कर्मणाम् इत्य् अर्थः ॥१७॥

Commentary on the root text.

वेदवद् इति । पुराणार्थो वेदवत् सर्व-सम्मत इत्य् अर्थः । ननु पण्डितैः कृताद् वेद-भाष्यात् तद्-अर्थो ग्राह्य इतिचेत् तत्राह बिभेतीति । अकृते भाष्ये सिद्धे किं तेन कृत्रिमेणेति भावः । अथेति अस्न्दिग्धार्थतया पुराणानाम् एव प्रामाण्ये प्रमाकरणत्व इत्य् अर्थः । अर्वाचीनैः क्ष्द्र-बुद्धिभिर् इति । यस्य विभूतयोऽपीदृश्यः स हरिर् एव सर्व-श्रेष्ठ इति तदैकार्थ्यम्—

वेद रामायणे चैव पुराणे भारते तथा ।
आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ [ह।वं। १३२.९५]

इति हरिवंशोक्तम् अजानद्भिर् इत्य् अर्थः ॥१७॥

अनुच्छेदः १८

तद् एवं सति तत्-तत्-कल्प-कथामयत्वेनैव मात्स्य एव प्रसिद्धानां तत्-तत्-पुराणानां व्यवस्था ज्ञापिता ।

तारतम्यं तु कथं स्यात् येनेतर-निर्णयः क्रियेत ?

सत्त्वादि-तारतम्येनैवेति चेत्, सत्त्वात् सञ्जायते ज्ञानं [गीता १४.१७] इति,सत्त्वं यद् ब्रह्म-दर्शनम् [भा।पु। १.२.२४]इति च न्यायात् सात्त्विकम् एव पुराणादिकं परमार्थ-ज्ञानाय प्रबलम् इत्य् आयातम् ।

तथापि परमार्थेऽपि नाना-भङ्ग्या विप्रतिपद्यमानानां समाधानाय किं स्यात् ।

यदि सर्वस्यापि वेदस्य पुराणस्य चार्थ-निर्णयाय तेनैव श्री-भगवता व्यासेन ब्रह्म-सूत्रं कृतं तद्-अवलोकनेनैव सर्वोऽर्थो निर्णेय इत्य् उच्यते ।

तर्हि नान्य-सूत्रकार-मुन्य्-अनुगतैर् मन्येत ।

किं च, अत्यन्त-गूढार्थानाम् अल्पाक्षराणां तत्-सूत्राणाम् अन्यार्थत्वं कश्चिद् आचक्षीत ।

ततः कतरद् इवात्र समाधानम् ?

तद् एव समाधेयं यद्य् एकतमम् एव पुराण-लक्षणम् अपौरुषेयं शास्त्रं सर्व-वेदेतिहास-पुराणानाम् अर्थ-सारं ब्रह्म-सूत्रोपजीव्यं च भवद् भुवि सम्पूर्णं प्रचरद्-रूपं स्यात् ।

सत्यम् उक्तम्, यत एव च सर्व-प्रमाणानां चक्रवर्ति-भूतम् अस्मद्-अभिमतं श्रीमद्-भागवतम् एवोद्भावितं भवता ॥१८॥

The author's own auto-commentary on the Sandarbha.

ननु ब्रह्म-सूत्रस्यापि वेदान्तर्-भूतत्वं श्रूयते इत्य् आशङ्क्याह—किं चात्यन्त- [मू। १] इति ॥१८॥

Commentary on the root text.

तद् एवम् इति । मात्स्य एवेति । पुराण-सङ्ख्या-तद्-दान-फल-कथनाञ्चितेऽध्याय इति बोध्यम् । तारतम्यम् इति । अपकर्षोत्कर्ष-रूपं येनेतरस्योत्कृष्टस्य पुराणस्य निर्णयः स्याद् इत्य् अर्थः । सात्त्विक-पुराणम् एवोत्कृष्टम् इति भावेन स्वयम् आह सत्त्वाद् इति । पृच्छति तथापीति, परमार्थ-निर्णयाय सात्त्विक-शास्त्राङ्गीकारेऽपीत्य् अर्थः । नाना-भङ्ग्येति।सगुणं निर्गुणं ज्ञान-गुणकं जडम् इत्य्-आदिकं कुटिल-युक्ति-कदम्बैर् निरूपयताम् इत्य् अर्थः । नाना-सूत्र-कारेति । गौतमाद्य्-अनुसारिभिर् इत्य् अर्थः । ननु ब्रह्म-सूत्र-शास्त्रे स्थिते कापेक्षा तद्-अन्य-सूत्राणाम् इति चेत् तत्राह किं चात्यन्तेति । पृष्टः प्राह तद् एवेति । ब्रह्म-सूत्रोपजीव्यम् इति । येन ब्रह्म-सूत्रं स्थिरार्थं स्याद् इत्य् अर्थः । पृष्टस्य हृद्-गतं स्फुटयति सत्यम् उक्तम् इत्य्-आदिना ॥१८॥

अनुच्छेदः १९

यत् खलु सर्व-पुराण-जातम् आविर्भाव्य,
ब्रह्म-सूत्रं च प्रणीयाप्य्
अपरितुष्टेन तेन भगवता
निज-सूत्राणाम् अकृत्रिम-भाष्य-भूतं
समाधि-लब्धम् आविर्भावितं,

यस्मिन्न् एव सर्व-शास्त्र-समन्वयो दृश्यते, सर्व-वेदार्थ-लक्षणां गायत्रीम् अधिकृत्य प्रवर्तितत्वात् ।

तथा हि तत्-स्वरूपं मात्स्ये—

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।
वृत्रासुर-वधोपेतं तद्-भागवतम् इष्यते ॥ [म।पु। ५३.२०]

लिखित्वा तच् च यो दद्याद् धेम-सिंह-समन्वितम् ।
प्रौष्ठ-पद्यां पौर्णमास्यां स याति परमां गतिम् ।
अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् ॥ [म।पु। ५३.२२] इति ।

अत्र गायत्री-शब्देन तत्-सूचक-तद्-अव्यभिचारि-धीमहि-पद-संवलित-तद्-अर्थम् एवेष्यते, सर्वेषां मन्त्राणाम् आदि-रूपायास् तस्याः साक्षात्-कथनानर्हत्वात् ।

तद्-अर्थता च जन्माद्य् अस्य यतः [भा।पु। १.१.१], तेन ब्रह्म हृदा इति सर्व-लोकाश्रयत्व-बुद्धि-वृत्ति-प्रेरकत्वादि-साम्यात् ।

धर्म-विस्तर इत्य् अत्र धर्म-शब्दः परम-धर्म-परः,धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् अत्रैव प्रतिपादितत्वात् ।

स च भगवद्-ध्यानादि-लक्षण एवेति पुरस्ताद् व्यक्तीभविष्यति ॥१९॥

Commentary on the root text.

श्री-भागवतं स्तौति—यत् खल्व् इत्य्-आदि ।
"अपरितुष्टेने"ति—पुराण-जाते ब्रह्म-सूत्रे च
भगवत्-पारमैश्वर्य-माधुर्ययोः
सन्दिग्धतया गूढतया चोक्तेस्
तत्र तत्र चापरितोषः ।
श्री-भागवते तु
तयोस् तद्-विलक्षणतयोक्तेस्
तत्र परितोष
इति बोध्यम् ।
तद्-अर्थता गायत्र्य्-अर्थता ।
स च भगवद्-ध्यानादि-लक्षण इति ।
विशुद्ध-भक्ति-मार्ग-बोधक इत्य् अर्थः ॥१९॥

अनुच्छेदः २०

एवं स्कान्दे प्रभास-खण्डे [२.३९-४२] च, यत्राधिकृत्य गायत्रीम् इत्य्-आदि ।

सारस्वतस्य कल्पस्य मध्ये ये स्युर् नरामराः ।
तद्-वृत्तान्तोद्भवं लोके तच् च भागवतं स्मृतम् ॥

लिखित्वा तच् चेत्य्-आदि, अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् इति च -
तद् एवम् अग्नि-पुराणे च वचनानि वर्तन्ते ।

टीका-कृद्भिः प्रमाणी-कृते पुराणान्तरे च—

ग्रन्थोऽष्टादश-साहस्रो
द्वादश-स्कन्ध-सम्मितः ।
हयग्रीव-ब्रह्म-विद्या
यत्र वृत्र-वधस् तथा ।
गायत्र्या च समारम्भस्
तद् वै भागवतं विदुः ॥

इति ।

अत्र हयग्रीव-ब्रह्म-विद्या इति वृत्र-वध-साहचर्येण नारायण-वर्मैवोच्यते ।

हयग्रीव-शब्देनात्राश्वशिरा दधीचिर् एवोच्यते ।

तेनैव च प्रवर्तिता नारायण-वर्माख्या ब्रह्म-विद्या ।

तस्याश्व-शिरस्त्वं च षष्ठे

यद् वा अश्व-शिरो नाम [भा।पु। ६.९.५२]

इत्य् अत्र।

प्रसिद्धं नारायण-वर्मणो ब्रह्म-विद्यात्वं च—

एतच् छ्रुत्वा तथोवाच दध्यङ् आथर्वणस् तयोः ।
प्रवर्ग्यं ब्रह्म-विद्यां च सत्-कृतोऽसत्य-शङ्कितः ॥

इति टीकोत्थापित-वचनेन चेति ।

श्रीमद्-भागवतस्य भगवत्-प्रियत्वेन भागवताभीष्टत्वेन च परम-सात्त्विकत्वम् ।

यथा पाद्मे अम्बरीषं प्रति गौतम-प्रश्नः—

पुराणं त्वं भागवतं पठसे पुरतो हरेः ।
चरितं दैत्य-राजस्य प्रह्लादस्य च भूपते ॥ [प।पु। ६.२२.११५]

तत्रैव वञ्जुली-माहात्म्ये तस्य तस्मिन्न् उपदेशः—

रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा ।
गीतानामसहस्रं च पुराणं शुक-भाषितम् ।
पठितव्यं प्रयत्नेन हरेः सन्तोष-कारणम् ॥ [प।पु।]

तत्रैवान्यत्र—

अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्व-मुखेनैव यदीच्छसि भव-क्षयम् ॥ [प।पु।]

स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये—

श्रीमद्-भागवतं भक्त्या पठते हरि-सन्निधौ ।
जागरे तत्-पदं याति कुल-वृन्द-समन्वितः ॥२०॥

The author's own auto-commentary on the Sandarbha.

श्री-भागवत-स्वरूप-ज्ञाने प्रमाणान्तरम् आह—एवं स्कान्द इति । “यत्र” इत्य्-आदिकं च पद्यं यथा मात्स्यम् एव ज्ञेयम् । सारस्वतस्य इति तत्-कल्प-मध्ये या भगवल्-लीलास् तत्-सम्बन्धिनः ।

“ये स्युर् नरामराः” [स्कान्धे प्रभास-खण्डे] इति कल्पान्तर-भगवत्-कथा तु तत्र प्रायिक्य् एवेत्य् अर्थः । सा च पाद्म-कल्पम् अथो शृणु इत्य् आद्या । यत्र विशेष-वाक्यम्, तत्रान्यत्र क्वचिद् एवेति ज्ञेयम् । अत्र प्रभास-खण्डे यद् अष्टादश-पुराणाविर्भावानन्तरम् एव भारतं प्रकाशितम् इति श्रूयते, तद् भागवत-विरोधात्, भारतार्थ-विनिर्णयः [गारुडोक्तौ] इति श्री-भागवत-माहात्म्य-विरोधाच् च । पूर्वं कृतम् अपि भारतं तत्-पश्चाज् जनमेजयादिषु प्रचारितम् इत्य् अपेक्ष्यैव ज्ञेयम् । तद् एवं प्रमाण-प्रकरणं व्याख्यातम् ॥२०॥

Commentary on the root text.

ग्रन्थ इत्य् आदौ हयग्रीवादि-शब्दयोर् भ्रान्तिं निराकुर्वन् व्याचष्टे । अत्र हयग्रीवेत्य् आदिना । एतच् छ्रुत्वेति । दध्यङ् दधीचिः । प्रवर्ग्यम् इति प्राण-विद्याम् । ननु पाद्मादीनि सात्त्विकानि पञ्च सन्ति । तैर् अस्तु विचार इति चेत् तत्राह श्रीमद् इति । एतस्य परम-सात्त्विकत्वे पाद्मादि-वचनान्य् उदाहरति पुराणं त्वम् इत्य्-आदिना । कुल-वृन्देति तत्-कर्तृक-श्रवण-महिम्ना तत्-कुलस्य च हरि-पद-लाभ इत्य् अर्थः ॥२०॥

अनुच्छेदः २१

ब्रह्म-सूत्रार्थता

गारुडे च—

… पूर्णः सोऽयम् अतिशयः ।
अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः ॥

गायत्री-भाष्य-रूपोऽसौ वेदार्थ-परिबृंहितः ।
पुराणानां साम-रूपः साक्षाद्-भगवतोदितः ॥

द्वादश-स्कन्ध-युक्तोऽयं शत-विच्छेद-संयुतः ।
ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः ॥

इति ।

ब्रह्म-सूत्राणाम् अर्थस् तेषाम् अकृत्रिम-भाष्य-भूत इत्य् अर्थः ।

पूर्वं सूक्ष्मत्वेन मनस्य् आविर्भूतं, तद् एव सङ्क्षिप्य सूत्रत्वेन पुनः प्रकटितं, पश्चाद् विस्तीर्णत्वेन साक्षाच्-छ्री-भागवतम् इति ।

तस्मात् तद्-भाष्य-भूते स्वतः-सिद्धे तस्मिन् सत्यर्वचीनम् अन्यद् अन्येषां स्व-स्व-कपोल-कल्पितं तद्-अनुगतम् एवादरणीयम् इति गम्यते ।

भारतार्थ-विनिर्णयः—

निर्णयः सर्व-शास्त्राणां भारतं परिकीर्तितम् ।
भारतं सर्व-वेदाश् च तुलाम् आरोपिताः पुरा ।
देवैर् ब्रह्मादिभिः सर्वैर् ऋषिभिश् च समन्वितैः ॥
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ।
महत्त्वाद् भारवत्त्वाच् च महाभारतम् उच्यते ॥

इत्य् आद्य्-उक्त-लक्षणस्य भारतस्यार्थ-विनिर्णयो यत्र सः ।

श्री-भगवत्य् एव तात्पर्यं तस्यापि ।

तद् उक्तं मोक्ष-धर्मे नारायणीये श्री-वेद-व्यासं प्रति जनमेजयेन—

इदं शत-सहस्राद् धि भारताख्यान-विस्तरात् ।
आमथ्य मति-मन्थेन ज्ञानोदधिम् अनुत्तमम् ॥

नवनीतं यथा दध्नो मलयाच् चन्दनं यथा ।
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥

समुद्धृतम् इदं ब्रह्मन् कथामृतम् अनुत्तमम् ।
तपो-निधे त्वयोक्तं हि नारायण-कथाश्रयम् ॥

[म।भा। १२.३३१.२-४] इति ॥२१॥

Commentary on the root text.

गारुड-वचनैश् च परम-सात्त्विकत्वं व्यञ्जयन् ब्रह्म-सूत्राद्य्-अर्थ-निर्णीयकत्वं गुणम् आह अर्थोऽयम् इति । गारुड-वाक्य-पदानि व्याचष्टे ब्रह्म-सूत्राणाम् इत्य्-आदिना । तस्मात् तद्-भाष्येत्य् आदि अन्यद् वैष्णवाचार्य-रचितम् आधुनिकं भाष्यं तद्-अनुगतं श्री-भागवताविरुद्धम् एवादर्तव्यम् । तद्-विरुद्धं शङ्कर-भट्ट-भास्करादि-रचितं तु हेयम् इत्य् अर्थः । भारतार्थेति पदं व्याकुर्वन् भारत-वाक्येनैव भारत-स्वरूपं दर्शयति निर्णयः सर्वेति । भारतं किं तात्पर्यकम् इत्य् आह श्रीभगवत्य् एवेति । तस्य भारतस्यापीत्य् अर्थः । भारतस्य भगवत्-तात्-पर्यकत्वे नारायणीय-वाक्यम् उदाहरति इदं शतेत्य् आदि ॥२१॥

अनुच्छेदः २२

तथा च तृतीये—

मुनिर् विवक्षुर् भगवद्-गुणानां
सखापि ते भारतम् आह कृष्णः ।
यस्मिन् नृणां ग्राम्य-सुखानुवादैर्
मतिर् गृहीता नु हरेः कथायाम् ॥ [भा।पु। ३.५.१२] इति ।

तस्माद् गायत्री-भाष्य-रूपोऽसौ ।

तथैव हि विष्णु-धर्मोत्तरादौ तद्-व्याख्याने भगवान् एव विस्तरेण प्रतिपादितः ।

अत्र जन्माद्यस्य इत्य् अस्य व्याख्यानं च तथा दर्शयिष्यते ।

वेदार्थ-परिबृंहितः -
वेदार्थस्य परिबृंहणं यस्मात् ।

तच् चोक्तम्,इतिहास-पुराणाभ्याम् इत्य्-आदि ।

पुराणानां साम-रूपः ।
वेदेषु सामवत् स तेषु श्रेष्ठ इत्य् अर्थः ।

अत एव स्कान्दे—

शतशोऽथ सहस्रैश् च
किम् अन्यैः शास्त्र-सङ्ग्रहैः ।
न यस्य तिष्ठते गेहे
शास्त्रं भागवतं कलौ ॥

कथं स वैष्णवो ज्ञेयः
शास्त्रं भागवतं कलौ ।
गृहे न तिष्ठते यस्य
स विप्रः श्वपचाधमः ॥

यत्र यत्र भवेद् विप्र
शास्त्रं भागवतं कलौ ।
तत्र तत्र हरिर् याति
त्रिदशैः सह नारद ॥

यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ।
अष्टादश-पुराणानां फलं प्राप्नोति मानवः ॥

इति ।

[विष्णु-खण्डे मार्ग-शीर्ष-माहात्म्ये १६.४०,४२,४४,३३]

शत-विच्छेद-संयुतः । पञ्चत्रिंशद्-अधिक-शत-त्रयाध्याय-विशिष्ट इत्य् अर्थः । स्पष्टार्थम् अन्यत् ।

तद् एवं परमार्थ-विवित्सुभिः श्री-भागवतम् एव साम्प्रतं विचारणीयम् इति स्थितम् ।

हेमाद्रेर्व्रत-खण्डे—

स्त्री-शूद्र-द्विजबन्धूनां
त्रयी न श्रुति-गोचरा ।
कर्म-श्रेयसि मूढानां
श्रेय एवं भवेद् इह ।
इति भारतम् आख्यानं
कृपया मुनिना कृतम् ॥
[भा।पु। १.४.२५]

इति वाक्यं श्री-भागवतीयत्वेनोत्थाप्य भारतस्य वेदार्थ-तुल्यत्वेन निर्णयः कृत इति ।

तन्-मतानुसारेण त्व् एवं व्याख्येयं भारतार्थस्य विनिर्णयः -
वेदार्थ-तुल्यत्वेन विशिष्य निर्णयो यत्रेति ।

यस्माद् एवं भगवत्-परस् तस्माद् एव यत्राधिकृत्य गायत्रीम् इति कृत-लक्षण-श्रीमद्-भागवत-नामा ग्रन्थः श्री-भगवत्-पराया गायत्र्या भाष्य-रूपोऽसौ ।

तद् उक्तं यत्राधिकृत्य गायत्रीम् इत्य्-आदि ।

तथैव ह्य् अग्नि-पुराणेतस्य व्याख्याने विस्तरेण प्रतिपादितः ।
तत्र तदीय-व्याख्या-दिग्-दर्शनं यथा—

तज्-ज्योतिः परमं ब्रह्म
भर्गस् तेजो यतः स्मृतः । [अ।पु। २१६.३]

इत्य् आरभ्य

पुनर् आह—

तज्-ज्योतिर् भगवान् विष्णुर्
जगज्-जन्मादि-कारणम् ॥
शिवं केचित् पठन्ति स्म
शक्ति-रूपं पठन्ति च ।
केचित् सूर्यं केचिद् अग्निं
दैवतान्य् अग्नि-होत्रिणः ॥
अग्न्य्-आदि-रूपो विष्णुर् हि
वेदादौ ब्रह्म गीयते ।
[अ।पु। २१६.७-८]

अत्र जन्माद्यस्य इत्य् अस्य व्याख्यानं च तथा दर्शयिष्यते ।

कस्मै येन विभासितोऽयं इत्य् उपसंहार-वाक्ये च तच्-छुद्धं [भा।पु। १२.१३.१९] इत्य्-आदि-समानम् एवाग्नि-पुराणे तद् व्याख्यानम् ।

नित्यं शुद्धं परं ब्रह्म नित्य-भर्गम् अधीश्वरम् ।
अहं ज्योतिः परं ब्रह्म ध्यायेम हि विमुक्तये ॥ [अ।पु। २१६.६]इति ।

अत्राहं ब्रह्मेति “नादेवो देवम् अर्चयेत्” इति न्यायेन योग्यत्वाय स्वस्य तादृक्त्व-भावना दर्शिता ।

ध्यायेमेति - अहं तावत् ध्यायेयं,
सर्वे च वयं ध्यायेमेत्य् अर्थः ।

तद् एतन्-मते तु मन्त्रेऽपि भर्ग-शब्दोऽयम् अद्-अन्त एव स्यात् ।

सुपां सुलुक् [पा। ७.१.३९] इत्य्-आदिना छान्दस-सूत्रेण तु द्वितीयैक-वचनस्यामः सु-भावो ज्ञेयः ।

यत् तु द्वादशे

ॐ नमस् ते [भा।पु। १२.६.६७]

इत्य्-आदि
गद्येषु तद्-अर्थत्वेन
सूर्यः स्तुतः,
तत् परमात्म-दृष्ट्यैव,
न तु स्वातन्त्र्येणेत्य् अदोषः ।

तथैवाग्रे श्री-शौनक-वाक्ये,

ब्रूहि नः श्रद्दधानानां
व्यूहं सूर्यात्मनो हरेः [भा।पु। १२.११.२८]

इति ।

न चास्य भर्गस्य सूर्य-मण्डल-मात्राधिष्ठानत्वम् ।

मन्त्रे वरेण्य-शब्देनात्र च ग्रन्थे पर-शब्देन परमैश्वर्य-पर्यन्तताया दर्शितत्वात् ।

तद् एवम् अग्नि-पुराणेऽप्य् उक्तम्—

ध्यानेन पुरुषोऽयं च
द्रष्टव्यः सूर्य-मण्डले ।
सत्यं सदा-शिवं ब्रह्म
विष्णोर् यत् परमं पदम् ॥

इति ।

त्रिलोकी-जनानाम् उपासनार्थं प्रलये विनाशिनि सूर्य-मण्डले चान्तर्यामितया प्रादुर्भूतोऽयं पुरुषो ध्यानेन द्रष्टव्य उपासितव्यः ।

यत् तु विष्णोस् तस्य महा-वैकुण्ठ-रूपं परमं पदम्,
तद् एव सत्यं काल-त्रयाव्यभिचारि, सदा-शिवम् उपद्रव-शून्यं यतो ब्रह्म-स्वरूपम् इत्य् अर्थः ।

तद् एतद् गायत्रीं प्रोच्य पुराण-लक्षण-प्रकरणे यत्राधिकृत्य गायत्रीम् इत्य्-आद्य् अप्य् उक्तम् अग्नि-पुराणे।

तस्मात्,

अग्नेः पुराणं गायत्रीं समेत्य भगवत्-पराम् ।
भगवन्तं तत्र मत्वा जगज्-जन्मादि-कारणम् ॥

यत्राधिकृत्य गायत्रीम् इति लक्षण-पूर्वकम् ।
श्रीमद्-भागवतं शश्वत् पृथ्व्यां जयति सर्वतः ॥

तद् एवम् अस्य शास्त्रस्य गायत्रीम् अधिकृत्य प्रवृत्तिर् दर्शिता ।

यत् तु सारस्वत-कल्पम् अधिकृत्येति पूर्वम् उक्तम् ,
तच् च गायत्र्या
भगवत्-प्रतिपादक--वाग्-विशेष--रूप-सरस्वतीत्वाद् उपयुक्तम् एव ।

यद् उक्तमग्नि-पुराणे—

गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ॥
ततः स्मृतेयं गायत्री सावित्री यत एव च ।
प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥ [अ।पु। २१६.१-२]

अथ क्रम-प्राप्ता व्याख्या,वेदार्थ-परिबृंहित इति -
वेदार्थानां परिबृंहणं यस्मात्।

तच् चोक्तम् "इतिहास-पुराणाभ्याम्" इति ।

पुराणानां साम-रूप इति वेदेषु सामवत् पुराणेषु श्रेष्ठ इत्य् अर्थः ।

पुराणान्तराणां केषांचिद् आपाततो रजस्-तमसी जुषमाणैस् तत्-परत्वाप्रतीतत्वेऽपि वेदानां काण्ड-त्रय-वाक्यैक-वाक्यतायां यथा साम्ना, तथा तेषां श्री-भागवतेन प्रतिपाद्ये श्री-भगवत्य् एव पर्यवसानम् इति भावः ।

तद् उक्तम्—

वेदे रामायणे चैव पुराणे भारते तथा ।
आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥
[ह।वं। १३२.९५]इति ।

प्रतिपादयिष्यते च तद् इदं परमात्म-सन्दर्भे ।

साक्षाद् भगवतोदितम् इति -

कस्मै येन विभासितोऽयं [भा।पु। १२.१३.१९]

इत्य् उपसंहार-वाक्यानुसारेण ज्ञेयम् ।

शत-विच्छेद-संयुत इति -
विस्तार-भिया न विविरियते ।

तद् एवं श्रीमद्-भागवतं
सर्व-शास्त्र-चक्रवर्ति-पदम् आप्तम्
इति स्थिते
हेम-सिंह-समन्वितम् इत्य्-अत्र
"हेम-सिंहासनम् आरूढम्" इति टीकाकारैर् यद् व्याख्यातं, तद् एव युक्तम् ।

अतः श्रीमद्-भागवतस्यैवाभ्यासावश्यकत्वं श्रेष्ठत्वं च स्कान्दे निर्णीतम्—

शतशोऽथ सहस्रैश् च
किम् अन्यैः शास्त्र-सङ्ग्रहैः
[विष्णु-खण्डे मार्ग-शीर्ष-माहात्म्ये १६.४०] ।

तद् एवं परमार्थ-विवित्सुभिः
श्री-भागवतम् एव साम्प्रतं विचारणीयम् इति स्थितम् ॥२२॥

Commentary on the root text.

ननु श्री-भागवतस्य भारतार्थ-निर्णायकत्वं कथं प्रतीतम् इति चेत् तत्राह तथा तृतीय इति । मुनिर् इति मैत्रेयं प्रति विदुरोक्तिः । ते मैत्रेयस्य गुरु-पुत्रत्वात् सखा कृष्णो व्यासः । ग्राम्या गृहिधर्मकर्तव्यतादि-लक्षणा व्यावहारिकी मूषिक-विडाल-गृध्र-गोमायु-दृष्टान्तोपेता च कथा । तत्-तत्-स्वार्थ-कौतुक-कथा-श्रवणाय भारत-सदसि समागतानां नॄणां श्री-गीतादि-श्रवणेन हरौ मतिर् गृहीता स्याद् इति तत्-कथानुवाद एव । वस्तुतो भगवत्-परम् एव भारतम् इति श्री-भागवतेन निर्णीतम् इत्य् अर्थः ।सामवेदवदस्य श्रैष्ठ्यं स्कान्द-वाक्यं शतशोऽथेत्यादि प्रकटार्थम् । तद् एवम् इति । उक्त-गुण-गणे सिद्धे सतीत्य् अर्थः ॥२२॥

अनुच्छेदः २३

अतएव सत्स्व् अपि नाना-शास्त्रेष्व् एतद् एवोक्तम्—कलौ नष्ट-दृशाम् एष पुराणार्को ऽधुनोदितः [भा।पु। १.३.४५] इति ।

अर्कता-रूपकेण तद् विना नान्येषां सम्यग्-वस्तु-प्रकाशकत्वम् इति प्रतिपद्यते ।

यस्यैव श्रीमद्-भागवतस्य भाष्य-भूतं श्री-हयशीर्ष-पञ्चरात्रे शास्त्र-प्रस्तावे गणितं तन्त्र-भागवताभिधं तन्त्रम्, यस्य साक्षाच् छ्री-हनुमद्भाष्य-वासनाभाष्य-सम्बन्धोक्ति-विद्वत्कामधेनु-तत्त्वदीपिका-भावार्थदीपिका-परमहंसप्रिया-शुकहृदयादयो व्याख्या-ग्रन्थाः ।

तथा मुक्ताफल-हरिलीला-भक्तिरत्नावल्य्-आदयो निबन्धाश् च विविधा एव तत्-तन्-मत-प्रसिद्ध-महानुभाव-कृता विराजन्ते ।

यद् एव च हेमाद्रि-ग्रन्थस्य [चतुर्वर्ग-चिन्तामणेः] दान-खण्डे पुराण-दान-प्रस्तावे मत्स्य-पुराणीय-तल्-लक्षण-धृत्या प्रशस्तम् ।

हेमाद्रि-परिशेष-खण्डस्य काल-निर्णये च कलि-युग-धर्म-निर्णये,
कलिं सभाजयन्त्य् आर्याः [भा।पु। ११.५.३६] इत्य्-आदिकं यद्-वाक्यत्वेनोत्थाप्य यत्-प्रतिपादित-धर्म एव कलाव् अङ्गीकृतः ।

अथ यद् एव कैवल्यम् अप्य् अतिक्रम्य भक्ति-सुख-व्याहारादि-लिङ्गेन निज-मतस्याप्य् उपरि विराजमानार्थं मत्वा,

यद् अपौरुषेयं वेदान्त-व्याख्यानं भयाद् अचालयतैव शङ्करावतारतया प्रसिद्धेन वक्ष्यमाण-स्वगोपनादि-हेतुक-भगवद्-आज्ञा-प्रवर्तिताद्वय-वादेनापि तन्-मात्र-वर्णित-विश्व-रूप-दर्शन-कृत-व्रजेश्वरी-विस्मय-श्री-व्रज-कुमारी-वसन-चौर्यादिकं गोविन्दाष्टकादौ वर्णयता तटस्थीभूय निज-वचः-साफल्याय स्पृष्टम् इति ॥२३॥

यद् एव किल दृष्ट्वा श्री-मध्वाचार्य-चरणैर् वैष्णवान्तराणां तच्-छिष्यान्तर-पुण्यारण्यादि-रीतिक-व्याख्या-प्रवेश-शङ्कया तत्र तात्पर्यान्तरं लिखद्भिर् वर्त्मोपदेशः कृत इति च सात्वता वर्णयन्ति ।

Commentary on the root text.

श्री-मध्व-मुनेस् तु परमोपास्यं श्री-भागवतम् इत्य् आह—यद् एव किलेति । शङ्करेण नैतद् विचालितं किन्त्व् आदृतम् एवेति विभाव्येत्य् अर्थः, किन्तु तच्-छिष्यैः पुण्यारण्यादिभिर् एतद् अन्यथा व्याख्यातं तेन वैष्णवानां निर्गुण-चिन्मात्र-परम् इदम् इति भ्रान्तिः स्याद् इति शङ्कया हेतुना तद्-भ्रान्ति-च्छेदाय तत्र तात्पर्यान्तरं भगवत्-परता-रूपं ततोऽन्यत् तात्पर्यं लिखद्भिस् तस्य व्याख्यान-वर्त्मोपदिष्टं वैष्णवान् प्रतीति । मध्वाचार्य-चरणैर् इति अत्यादर-सूचक-बहुत्व-निर्देशः । स्व-पूर्वाचार्यत्वाद् इति बोध्यम् । वायुदेवः खलु मध्व-मुनिः सर्वज्ञोऽतिविक्रमी यो दिग्-विजयिनं चतुर्दश-विद्यं चतुर्दशभिः क्षणैर् निर्जित्यासनानि तस्य चतुर्दश जग्राह । स च तच्-छिष्यः पद्मनाभाभिधानो बभूवेति प्रसिद्धम् । तस्माद् इति प्रोक्त-गुणकत्वाद् धेतोर् इत्य् अर्थः । आलयम् इति मोक्षम् अभिव्याप्येत्य् अर्थः । य इति अन्धं तमोऽविद्याम् अतितितीर्षतां संसारिणां करुणया यः पुराण-गुह्यं श्री-भागवतम् आहेत्य् अन्वयः । स्वानुभावम् असाधारण-प्रभावम् इत्य् अर्थः ॥२४॥

अनुच्छेदः २५

आत्म-स्तुतिः

तस्माद् युक्तम् उक्तं तत्रैव प्रथम-स्कन्धे—

तद् इदं ग्राहयामास सुतम् आत्मवतां वरम् ।
सर्व-वेदेतिहासानां सारं सारं सुमुद्धृतम् ॥ [भा।पु। १.३.४१-४२]

द्वादशे—

सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ [भा।पु। १२.१३.१५]

तथा प्रथमे—

निगम-कल्प-तरोर् गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः ॥ [भा।पु। १.१.३]

अत एव तत्रैव—

यः स्वानुभावम् अखिल-श्रुति-सारम् एकम्
अध्यात्म-दीपम् अतितितीर्षतां तमोऽन्धम् ।
संसारिणां करुणयाह पुराण-गुह्यं
तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम् ॥ [भा।पु। १.२.३]

श्री-भागवत-मतं तु सर्व-मतानाम् अधीश-रूपम्

इति सूचकम् ।

श्री-भागवत-मतं तु सर्व-मतानाम् अधीश-रूपम् इति सूचकम् । सर्व-मुनीनां सभा-मध्यम् अध्यास्योपदेष्टृत्वेन तेषां गुरुत्वम् अपि तस्य तत्र सुव्यक्तम् ॥२४॥

यतः—

तत्रोपजग्मुर् भुवनं पुनाना
महानुभावा मुनयः स-शिष्याः ।
प्रायेण तीर्थाभिगमापदेशैः
स्वयं हि तीर्थानि पुनन्ति सन्तः ॥

अत्रिर् वसिष्ठश् च्यवनः शरद्वान्
अरिष्टनेमिर् भृगुर् अङ्गिराश् च ।
पराशरो गाधि-सुतोऽथ राम
उतथ्य इन्द्रप्रमदेध्मवाहौ ॥

मेधातिथिर् देवल आर्ष्टिषेणो
भारद्वाजो गौतमः पिप्पलादः ।
मैत्रेय और्वः कवषः कुम्भयोनिर्
द्वैपायनो भगवान् नारदश् च ॥

अन्ये च देवर्षि-ब्रह्मर्षि-वर्या
राजर्षि-वर्या अरुणादयश् च ।
नानार्षेय-प्रवरान् समेतान्
अभ्यर्च्य राजा शिरसा ववन्दे ॥

सुखोपविष्टेष्व् अथ तेषु भूयः
कृत-प्रणामः स्व-चिकीर्षितं यत् ।
विज्ञापयाम् आस विविक्त-चेता
उपस्थितोऽग्रेऽभिगृहीत-पाणिः ॥
[भा।पु। १.१९.८-१२]

इत्य् आद्य्-अनन्तरम्—

ततश् च वः पृच्छ्यम् इमं विपृच्छे
विश्रभ्य विप्रा इति कृत्यतायाम् ।
सर्वात्मना म्रियमाणैश् च कृत्यं
शुद्धं च तत्रामृशताभियुक्ताः ॥ [भा।पु। १.१९.२४]

इति पृच्छति राज्ञि—

तत्राभवद् भगवान् व्यास-पुत्रो
यदृच्छया गाम् अटमानो ऽनपेक्षः ।
अलक्ष्य-लिङ्गो निज-लाभ-तुष्टो
वृतश् च बालैर् अवधूत-वेषः ॥ [भा।पु। १.१९.२५]

ततश् च—

प्रत्युत्थितास् ते मुनयः स्वासनेभ्यः [भा।पु। १.१९.२८]

इत्य्-आद्य्-अन्ते

स संवृतस् तत्र महान् महीयसां
ब्रह्मर्षि-राजर्षि-देवर्षि-सङ्घैः ।
व्यरोचतालं भगवान् यथेन्दुर्
ग्रहर्क्ष-तारा-निकरैः परीतः ॥ [भा।पु। १.१९.३०]

इत्य् उक्तम् ॥२५॥

Commentary on the root text.

मुनीनां गुरुम् इत्युक्तम् । तत् कथम् इत्य् अत्राह यत इति । यत इत्य् अस्य इत्य् उक्तम् इति परेण सम्बन्धः । और्व इति विप्र-वंशं विनाशयद्भ्यो दुष्टेभ्यः क्षत्रियेभ्यो भयाद् गर्भाद् आकृष्योरौ तन्-मात्रा स्थापितस् ततो जातः क्षत्रियांस् तान् स्वेन तेजसा भस्मीचकार इति भारतेकथास्ति । निगृहीत-पाणि-योजिताञ्जलि-पुटः । एवं कर्तव्यस्य भाव इतिकर्तव्यता । तस्यां विषये सर्वावस्थायां पुंसः किं कृत्यम् । तत्रापि म्रियमाणैश् च किं कृत्यम् । तच् च शुद्धं हिंसा-शून्यम्, तत्रामृशत यूयम् । गां पृथिवीम् । अनपेक्षो निःस्पृहः । निजस्य शुद्धि-पूर्ति-कर्तुः स्व-स्वामिनः कृष्णस्य लाभेन तुष्टः । तत्र सभायाम् ॥२५॥

अनुच्छेदः २६

अत्र यद्यपि तत्र श्री-व्यास-नारदौ तस्यापि गुरु-परम-गुरू,
तथापि पुनस् तन्-मुख-निःसृतं श्री-भागवतं
तयोर् अप्य् अश्रुत-चरम् इव जातम् ।

इत्य् एवं श्री-शुकस्
ताव् अप्य् उपदिदेश देश्यम्
इत्य् अभिप्रायः ।

यद् उक्तं,

शुक-मुखाद् अमृत-द्रव्य-संयुतं [१.१.३]

इति ,
तस्माद् एवम् अपि श्री-भागवतस्यैव सर्वाधिक्यम् ।

मात्स्यादीनां यत् पुराणाधिक्यं श्रूयते
तत् त्व् आपेक्षिकम् इति ।

अहो किं बहुना, श्री-कृष्ण-प्रतिनिधि-रूपम् एवेदम् ।

यत उक्तंप्रथम-स्कन्धे—

कृष्णे स्व-धामोपगते
धर्म-ज्ञानादिभिः सह ।
कलौ नष्ट-दृशाम् एष
पुराणार्कोऽधुनोदितः ॥ [भा।पु। १.३.४५]

इति ।

अत एव सर्व-गुण-युक्तत्वम् अस्यैव दृष्टं -

धर्मः प्रोज्झित-कैतवोऽत्र [१.१.२]

इत्य्-आदिना,

वेदाः पुराणं काव्यं च
प्रभुर् मित्रं प्रियेव च ।
बोधयन्तीति हि प्राहुस्
त्रिवृद् भागवतं पुनः ॥

इति मुक्ता-फले हेमाद्रि-कार-वचनेन च ।

तस्मान् मन्यन्तां वा केचित् पुराणान्तरेषु वेद-सापेक्षत्वं,
श्री-भागवते तु तथा सम्भावना
स्वयम् एव निरस्तेत्य् अपि
स्वयम् एव लब्धं भवति ।

अत एव परम-श्रुति-रूपत्वं तस्य । यथोक्तम्—

कथं वा पाण्डवेयस्य
राजर्षेर् मुनिना सह ।

संवादः समभूत् तात
यत्रैषा सात्वती श्रुतिः ॥ [भा।पु। १.४.७]

इति ।

अथ

“यत् खलु सर्व-पुराण-जातम् आविर्भाव्य” [§१९]

इत्य्-आदिकं पूर्वम् उक्तं,
तत् तु प्रथम-स्कन्ध-गत-श्री-व्यास-नारद-संवादेनैव प्रमेयम् ॥२६॥

Commentary on the root text.

वक्तव्यं योजयत्य् अत्र यद्यपीत्य्-आदिना । तस्माद् एवम् इति तद्-वक्तुः श्री-शुकस्य सर्व-गुरुत्वेनापीत्य् अर्थः । आपेक्षिकम् इति एतद्-अन्य-पुराणापेक्षयेत्य् अर्थः । अथ परमोत्कर्षम् आह अहो किम् इति # अतएवेति कृष्ण-प्रतिनिधित्वात् कृष्णवत् सर्व-गुण-युक्तत्वम् इत्य् अर्थः । प्रियेव कान्तेव । त्रिवृत् वेदादि-त्रय-गुण-युक्तम् इत्य् अर्थः । तस्माद् इति वेद-सापेक्षत्वं वेद-वाक्येन पुराण-प्रामाण्यम् इत्य् अर्थः । अतएवेति परमार्थावेदकत्वाद् वेदान्तस्येव भागवतस्य परम-श्रुति-रूपत्वम् इत्य् अर्थः । यत्र संवादे । सात्वती वैष्णवीत्य् अर्थः । अर्थेति—इदं भगवता पूर्वम् इत्य्-आदि-द्वादशोक्तेर् ब्रह्म-नारायण-संवाद-रूपम् अष्टादशसु मध्ये प्रकटितम्, व्यास-नारद-संवाद-रूपं तत्रैव प्रवेशितम्, तद्-उभयस्य लक्षण-सङ्ख्ये तु मात्स्यादाव् उक्ते इति बोध्यम् इत्य् अर्थः । एवम् एव भारतोपक्रमेऽपि दृष्टम् । आदाव् आख्यानैर् विना चतुर्विंशति-सहस्रं भारतं ततस् तैः सहितं पञ्चाशत्-सहस्रं ततस् तैस् ततोऽप्य् अधिकम् इतोऽप्य् अधिकम् इति तद्वत् ॥२६॥

अनुच्छेदः २७

तद् एवं परम-निःश्रेयस-निश्चयाय
श्री-भागवतम् एव पौर्वापर्याविरोधेन विचार्यते।

तत्रास्मिन् सन्दर्भ-षट्कात्मके ग्रन्थे
सूत्र-स्थानीयम् अवतारिका-वाक्यं,
विषय-वाक्यं श्री-भागवत-वाक्यम् ।

भाष्य-रूपा तद्-व्याख्या तु
सम्प्रति मध्य-देशादौ व्याप्तान् अद्वैत-वादिनो
नूनं भगवन्-महिमानम् अवगाहयितुं
तद्-वादेन कर्बुरित-लिपीनां परम-वैष्णवानां श्रीधर-स्वामि-चरणानां
शुद्ध-वैष्णव-सिद्धान्तानुगता चेत्,
तर्हि यथावद् एव विलिख्यते ।

क्वचित् तेषाम् एवान्यत्र-दृष्ट-व्याख्यानुसारेण
द्रविडादि-देश-विख्यात-परम-भागवतानां तेषाम् एव
बाहुल्येन तत्र वैष्णवत्वेन प्रसिद्धत्वात्

श्री-भागवत एव,

क्वचित् क्वचिन् महाराज द्रविडेषु च भूरिशः [भा।पु। ११.५.३९]

इत्य् अनेन प्रथित-महिम्नां
साक्षाच् छ्री-प्रभृतितः प्रवृत्त-सम्प्रदायानां श्री-वैष्णवाभिधानां
श्री-रामानुज-भगवत्-पाद-विरचित-- श्री-भाष्यादि-दृष्ट-मत-प्रामाण्येन,
मूल-ग्रन्थ-स्वारस्येन चान्यथा च ।

अद्वैत-व्याख्यानं तु प्रसिद्धत्वान् नातिवितायते ॥२७॥

Commentary on the root text.

तद् एवम् इति । ननु वेद एवास्माकं प्रमाणम् इति प्रतिज्ञाय पुराणम् एव तत् स्वीकरोतीति किम् इदं कौतुकम् इति चेन् मैवं भ्रमितव्यम् । एवं वा अरेऽस्य महतो भूतस्य [बृ।आ।उ। २.४.१०] इत्य्-आदि-श्रुत्यैव पुराणस्य वेदत्वाभिधानात् । वेदेषु वेदान्तस्यैव पुराणेषु श्री-भागवतस्य श्रैष्ठ्य-निर्णयाच् च तद् एव प्रमाणम् इति किम् असङ्गतम् उक्तम् इति । अथ ब्रह्म-सूत्र-भाष्य-रीत्या सन्दर्भस्यास्य प्रवृत्तिर् इत्य् आह तत्रस्मिन्न् इति । विचारार्हवाक्यं विषय-वाक्यम् । भाष्य-रूपा तद्-व्याख्येति । अयम् अर्थः श्रीधर-स्वामिनो वैष्णवा एव, तट्-टीकासु भगवद्-विग्रह-गुण—विभूति-धाम्नां तत्-पार्षद-तनूनां च नित्यत्वोक्तेः । भगवद्-भक्तेः सर्वोत्कृष्ट-मोक्षानुवृत्त्योर् उक्तेश् च तथापि क्वचित् क्वचिन् मायावादोल्लेखस् तद्-वादिनो भगवद्-भक्तौ प्रवेशयितुं बडिशामिषार्पण-न्यायेनैवेति विदितम् इति । शुद्ध-वैष्णवेति यथा साङ्ख्यादि-शास्त्राणाम् अविरुद्धांशः सर्वैः स्वीकृतस् तद्वद् इदं बोध्यम् ।
क्वचित् तेषाम् एवेति
क्वचित् स्थलान्तरीय-स्वामि-व्याख्यानुसारेण श्री-भाष्यादि-दृष्ट-मत-प्रामाण्येन
मूल-श्री-भागवत-स्वारस्येन चान्यथा च
भाष्य-रूपा तद्-व्याख्या मया लिख्यत इति,
मत्-कपोल-कल्पनं किञ्चिद् अपि नास्तीति प्रमाणोपेतात्र टीकेत्य् अर्थः ।
ननु पूर्व-पक्ष-ज्ञानायाद्वैतं च व्याख्येयम् इति तत्राह अद्वैतेति ॥२७॥

अनुच्छेदः २८

अत्र च स्व-दर्शितार्थ-विशेष-प्रामाण्यायैव,
न तु श्रीमद्-भागवत-वाक्य-प्रामाण्याय,
प्रमाणानि श्रुति-पुराणादि-वचनानि यथा-दृष्टम् एवोदाहरणीयानि ।

क्वचित् स्वयम् अदृष्टाकराणि च
तत्त्व-वाद-गुरूणाम् अनाधुनिकानां प्रचुर-प्रचारित-वैष्णव-मत-विशेषाणां
दक्षिणादि-देश-विख्यात-शिष्योपशिष्यीभूत- विजयध्वज-व्यासतीर्थादि-वेद-वेदार्थ-विद्-वराणां
श्री-मध्वाचार्य-चरणानां भागवत-तात्पर्य--भारत-तात्पर्य--ब्रह्म-सूत्र-भाष्यादिभ्यः सङ्गृहीतानि ।

तैश् चैवम् उक्तं भारत-तात्पर्ये—

शास्त्रान्तराणि संजानन्
वेदान्तस्य प्रसादतः ।

देशे देशे तथा ग्रन्थान्
दृष्ट्वा चैव पृथग्-विधान् ॥

यथा स भगवान् व्यासः
साक्षान् नारायणः प्रभुः ।

जगाद भारताद्येषु
तथा वक्ष्ये तद्-ईक्षया ॥

इति ।

Commentary on the root text.

अत्रेति । इह ग्रन्थे यानि श्रुति-पुराणादि-वचनानि मया ध्रियन्ते तानि स्वदर्शितार्थ-विशेष-प्रामाण्यैव । न तु श्री-भागवत-वाक्य-प्रामण्याय, तस्य स्वतः प्रमाणत्वात् । तानि च यथा-दृष्टम् एवोदाहरणीयानि मूल-ग्रन्थान् विलोक्योत्थापितानीत्य् अर्थः । कानिचिद् वाक्यानि तु मद्-अदृष्टाकराण्य् अस्मद्-आचार्य-श्री-मध्वमुनि-दृष्टाकराण्य् एव क्वचिन् मया ध्रियन्त इत्य् आह क्वचिद् इति । मद्-व्याख्यानं क्वचिद् अर्थ-विशेषे प्रामाण्याय श्री-मध्वाचार्य-चरणानां भागवत-तात्पर्यादिभ्यो ग्रन्थेभ्यः सङ्गृहीतानि श्रुति-पुराणादि-वचनानि ध्रियन्त इत्य् अनुषङ्गः । अत्रास्य ग्रन्थ-कर्तुः सत्यवादित्वं ध्वनितम् । कौमार-ब्रह्मचर्यवान् नैष्ठिको यः सत्य-तपोनिधिः स्वप्नेऽप्य् अनृतं नोचे चेति प्रसिद्धम् । तेषां कीदृशानाम् इत्य् आह तत्त्वेति ।

"सर्वं वस्तु सत्यम्" इति वादस् तत्त्व-वादस्
तद्-उपदेष्टॄणाम् इत्य् अर्थः ।
अनाधुनिकानाम् अतिप्राचीनानाम्।
केनचिच् छाङ्करेण सह विवादे
मध्वस्य मतं व्यासः स्वीचक्रे ।
शङ्करस्य तु तत्याजेत्यैतिह्यम् अस्ति ।

प्रचारितेति भक्तानां विप्राणाम् एव मोक्षः ।
देवा भक्तेषु मुख्याः ।
विरिञ्चस्यैव सायुज्यम् ।
लक्ष्म्या जीवकोटित्वम्

इत्य् एवं मत-विशेषः ।
दक्षिणादिदेशेति तेन गौडेऽपि माधवेन्द्रादयस् तद्-उपशिष्याः कतिचिद् बभूवुर् इत्य् अर्थः । शास्त्रान्तराणीति तेन स्वस्य दृष्ट-सर्वाकरता व्यज्यते दिग्-विजयित्वं चेत्य् उपोद्घातो व्याख्यातः ॥२८॥

॥ इति प्रमाण-प्रकरणम् ॥