Sūtra १.१.३०
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ११ (इन्द्र-प्राणाधिकरणम्)
Read the adhikaraṇa →Citations (1)
कृष्णसन्दर्भः (Krishna-sandarbha)
इत्य्-आदिना स्वरूप-शक्ति-व्यूह-रुक्मिणी-राधा-देवकी-सीतानां मायांश-रूपेण स्वेन सहाभेद-कथनं, तत् खलु यथा देवेन्द्रः प्रतर्दनं प्रति प्राणोऽस्मि प्रज्ञात्मा [कौषीतकी-ब्राह्मण ३.२] इत्य्-आदिकम् । यथा वा, वामदेवश् चाहं मनुर् अभवं सूर्यश् च [बृ.आ.उ. १.४.१०] इत्य्-आदिकं परमात्मना सहाभेदं मत्वावादीति । न वक्तुर् उपदेशाद् इति [वे.सू. १.१.२९] वेदान्त-सूत्रेषु, शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे.सू. १.१.३०] इत्य् अनेन विचारितम् तद्वद् इहापीति गम्यते । शास्त्रं खलु चतुर्धा परावरयोर् अभेदं दर्शयति यथा—तत् त्वम् असि इति परमात्म-जीवयोश् चित्-साम्येन, यथा सर्वं समाप्नोषि ततोऽसि सर्वः [गीता ११.४०] इत्य् अधिष्ठानाधिष्ठात्रोर् अभेदोपचारेण । यथा वा, रामोऽहम् इत्य् आदिकम् अहङ्ग्रहोपासनेनेति । यत्रापि यथा-स्वं मन्तव्यम् । विशेषतः श्री-राधायाः स्वयं लक्ष्मीत्वम् ।