Sūtra १.२.२१
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् १७ (अदृश्यत्वाधिकरणम्)
Read the adhikaraṇa →Citations (1)
भागवतसन्दर्भः (Bhagavat-sandarbha)
अनुच्छेदः १०[वे.सू. १.२.२१ माध्व-भाष्य-धृतम्]
तस्माद् भग-विशिष्टस्यैव भगवतो ब्रह्मवत् पर-विद्या-मात्र-व्यङ्गत्वेन स्व-प्रकाशत्वं स्पष्टम् एव । अत्र श्रुत्य्-अन्तरं च श्री-माध्व-भाष्य-प्रमाणितम् अथ द्वे वाव वेदितव्ये—परा अपरा च । तत्र ये वेदाद्या यान्य् अङ्गानि यानु उपाङ्गानि सापरा । अथ परा—यया स हरिर् वेदितव्यो योऽसाव् अदृश्यो निर्गुणः परः परमात्म [वे.सू. १.२.२१ माध्व-भाष्य-धृतम्] इति । कोटरव्य-श्रुताव् अपि तेषां गुणानां पर-विद्या-मात्र-व्यङ्ग्यत्वं व्यञ्जितम्—अदृश्यम् अव्यवहार्यम् अव्यपदेश्यं सुखं ज्ञानम् ओजो बलम् इति, ब्रह्मणस् तस्माद् ब्रह्मेत्य् आचक्षते [वे.सू. ३.२.३३ माध्व-भाष्य-धृतम्] इति । अन्यत्र च—