Sūtra २.१.२२
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ११ (अधिकाधिकरणम्)
Read the adhikaraṇa →Citations (2)
परमात्मसन्दर्भः (Paramatma-sandarbha)
तथा यदि जीवाज्ञानेनैव भेदोत्पत्तिः स्यात्, तदा इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः [वे.सू. २.१.२१] इति जीव-कर्तृक-सृष्टौ दोषारोपोऽपि न घटते । तत्र अधिकं तु भेद-निर्देशात् [वे.सू. २.१.२२] इति भेद-सिद्धान्त-सूत्रम् अप्य् अपार्थम् एव स्यात् । संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे.सू. २.४.२१] इत्य् एष न्यायस् तु जीव-कर्तृकत्वं निषिध्येश्वरत्वं स्थापयति । तथा तन्-मत एव—जगद्-वाचित्वात् [वे.सू. १.४.१७] इत्य्-आदयश् च । एष सर्वेश्वरः… एष सेतुर् विधरण एषां लोकानाम् असंभेदाय [बृ.आ.उ. ४.४.२२] इत्य् आदौ, ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति [गीता १८.६१] इत्य् आदिषु तु जीवाज्ञान-प्रवर्तकत्वेन प्रसिद्धो यज्ञेश्वरस् तस्य जीवाज्ञान-कल्पितत्वम् अयुक्तम् एव ।
तद् एवं तटस्थ-लक्षणेन परं निर्धार्य, तद् एव लक्षणं ब्रह्म-सूत्रे शास्त्र-योनित्वात्, तत् तु समन्वयात् [वे.सू. १.१.३-४] इत्य् एतत्-सूत्र-द्वयेन स्थापितम् अस्ति । तत्र पूर्व-सूत्रस्यार्थः—कुतो ब्रह्मणो जगज्-जन्मादि-हेतुत्वं ? तत्राह—शास्त्रं योनिर् ज्ञान-कारणं यस्य तत्त्वात्, यतो वा इमानि भूतानि [तै.उ. ३.१.१] इत्य्-आदि-शास्त्र-प्रमाणकत्वाद् इति । नात्र दर्शनान्तरवत् तर्क-प्रमाणकत्वम्, तर्काप्रतिष्ठानात् [वे.सू. २.१.२२] अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाणाविषयत्वाद् ब्रह्मणश् चेति भावः । वैनाशिकास् त्व् अविरोधाध्याये तर्केणैव निराकरिष्यन्ते ।