Sūtra २.१.२५

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ११ (अधिकाधिकरणम्)

Read the adhikaraṇa →

Citations (2)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ५८[वे.सू. २.१.२५]

तद् एवं न विवर्तावकाश इति परिणाम एव शिष्यते । तस्य च लक्षणं—“तत्त्वतोऽन्यथा-भावः परिणामः” इति । उपसंहार-दर्शनान् नेति चेन्, न, क्षीरवद् धि [वे.सू. २.१.२४] इति, देवादिवद् अपि लोके [वे.सू. २.१.२५] इत्य् आदिषु सूत्रेषु तन्-मत-व्याख्यानेऽपि स एव हि दृश्यते । पुनश् च तद्-अनन्तरम् एव—कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-व्याकोपो वा [वे.सू. २.१.२६] इत्य् अनेन स्थूणावत् तम् एव परिणामं चालयित्वा, श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इत्य् अनेन स्थापयति भगवान् इति च दृश्यते ।

अनुच्छेदः ५८[वे.सू. २.१.२५]

तस्मान् निरवयवत्वेऽपि न कृत्स्न-प्रसक्तिः । यथैव हि ब्रह्मणो जगद्-उत्पत्तिः श्रूयते । तथा विकार-व्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते । अजायमानो बहुधा विजायते इत्य् आदौ दृश्यते च । मन्त्रार्थ-वादेतिहास-पुराणेषु देवादिभ्योऽप्य् अविकृतेभ्य एवैश्वर्य-योग-विशेषाद् बहूनि नाना-संस्थानानि शरीराणि प्रासादादीनि रथादीनि च जायन्त इति, न चान्यद् उपादानानि तानि मन्तव्यानि । दृष्टं सन्निहितं परित्यज्यादृष्टासन्निहित-कल्पना-गौरवापत्तेः । अत एवोक्तं—देवादिवद् अपि लोके [वे.सू. २.१.२५] इति । तत्र शरीरम् एव ह्य् अचेतनं देवादीनां शरीरादि-विभूत्य्-आदेर् उपादानम् इति शङ्कर-शारीरक-भाष्ये लिखितम् । अत एव तानि मायिकानीति च न सन्तव्यानि । तैः स्वस्यैव विहाराय क्रियमाणत्वाच् च । मायिनां हि स्व-माया-रचितानि मिथ्यैव स्फुरन्तीति तस्मै तत्-सृष्टिर् अयुक्ता स्यात् । शङ्कर-शारीरकेऽपि आत्मनि चैवम् इत्य् अत्र सूत्रे देवादिषु मायाव्य्-आदिष्व् इति मायाव्य्-आदिभ्यो देवादयः पृथक् पठिताः, तस्माद् देवादिवद् अचिन्त्य-शक्त्या विकार-रहितस्यैव परिणामः । प्रसिद्धिश् च लोक-शास्त्रयोः—चिन्तामणिः स्वयम् अविकृत एव नाना-द्रव्याणि प्रसूत इति ।