Sūtra २.१.२७

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १२ (शब्द-मूलाधिकरणम्)

Read the adhikaraṇa →

Citations (9)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. २.१.२७]

एवं ब्रह्म-सूत्रे च—श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इति । अतः शक्तेः स्वाभाविकाचिन्त्यत्वे सति तस्य शक्तित्वम् अप्य् अज्ञान-कल्पितम् इति नाङ्गीकुर्वन्ति । यत्रासम्भव-सम्भावयित्री दुस्तर्का स्वाभाविकी शक्तिर् नास्ति, तत्रैव तद्-अङ्गीकारोपपत्तेः, गौरवापत्तेश् च ।

अनुच्छेदः १५[वे.सू. २.१.२७]

स्पष्टम् । उक्तं चाचिन्त्यत्वं श्रुतेस् तु शब्द-मूलत्वाद् [वे.सू. २.१.२७] इत्य् आदौ । आत्मनि चैवं विचित्राश् च हि [वे.सू. २.१.२८] इत्य्-आदौ च ॥

अनुच्छेदः ४८[वे.सू. २.१.२७]

अत एव विकरणत्वान् नेति चेत् तद् उक्तम् [वे.सू. २.१.३२] इत्य् अत्र सूत्रकारोऽपि । तद् उक्तम् इत्य् अनेन श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इत्य्-उक्त-रीत्यैव श्रुत्य्-एक-गम्यं तर्कातीतं तस्य विकरणत्वं सकरणत्वं च साधितवान् । श्रुतिश् च—न तस्य कार्यं करणं च विद्यते [श्वे.उ. ६.८] इत्य्-आद्या ।

अनुच्छेदः ९८[वे.सू. २.१.२७]

तर्हि कथं तद्-विकारि त्वम् अपि न ? इत्य् आहुः—अविकृतात्, श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इति न्यायेनाचिन्त्य-शक्त्या तथाप्य् अविकृतम् एव यत्, तस्माद् इत्य् अर्थः । यद्यप्य् अत्रापि स-शक्तिकम् एव बृहद् उपपद्यते, तथाप्य् आविष्कृत-भगवत्त्वेनानुपादानात् ब्रह्मैवोपपादितं भवति, सर्वथा शक्ति-परित्यागे तद्-उपपादानासामर्थ्यात् तुच्छत्वापाताच् च । तस्माद् अत्र ब्रह्मैवोदाहृतम् । अत एव मृन्-मात्र-दृष्टान्तेन कर्तृत्वादिकम् अपि तत्र नोपस्थापितम् ।

कृष्णसन्दर्भः (Krishna-sandarbha)

अनुच्छेदः १०६[वे.सू. २.१.२७]

एवं-विधत्वं च तस्याचिन्त्य-शक्ति-स्वीकारेण सम्भावितम् एव । स्वीकृतं चाचिन्त्य-शक्तित्वम् श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इत्य्-आदौ । तद् एवम् उभयाभेदाभिप्रायेणैव श्री-हरि-वंशेऽपि गोलोकम् उद्दिश्य स हि सर्व-गतो महान् [ह.वं. २.१९.३०] इत्य् उक्तम् । भेदे तु ब्रह्म-संहितायाम् अपि गोलोक एव निवसत्य् अखिलात्म-भूतः [ब्र.सं. ५.४८] इत्य् एव-कारोऽत्र स्वकीय-न् इत्य-विहार-प्रतिपादक-वाराहादि-वचनैर् विरुध्येत । अविरोधस् तूभयेषाम् ऐक्येनैव भवतीति तं न्याय-सिद्धम् एवार्थं ब्रह्म-संहिता तु गृह्णाति । अत एव श्री-हरि-वंशेऽपि शक्रेण—

अनुच्छेदः १५५[वे.सू. २.१.२७]

अत्रैतद् उक्तं भवति—न चान्तर् न बहिर् यस्य [भा.पु. १०.९.१३] इत्य्-आदि दामोदर-लीला-प्रघट्टक-दृष्ट्या मृद्-भक्षण-लीलादौ श्री-व्रजेश्वर्य्-आदीनां तथानुभूत्या च श्री-विग्रहस्य मध्यमत्व एव विभुत्वं दृश्यते । तच् च परस्पर-विरोधि-धर्म-द्वयम् एकत्राचिन्त्य-विभुत्व-शक्तिमति तस्मिन् नासम्भवं, श्रुतेस् तु शब्द-मूलत्वाद् [वे.सू. २.१.२७] इत्य् एतन् न्यायेन इत्य् एवं भगवत्-सन्दर्भे [§२९] प्रघट्टकेन विवृतम् अस्ति ।

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः १३[वे.सू. २.१.२७]

न च दधि-दृष्टान्तेन विकारित्वम् आयातम् । तस्य श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इति न्यायेन मुहुः परिहृतत्वात् । यथोक्तम्—यत उदयास्त-मयौ विकृतेर् मृद् इवाविकृतात् [भा.पु. १०.८७.१५] इति ।

अनुच्छेदः ५८[वे.सू. २.१.२७]

तत्र द्वैतान्यथानुपपत्त्यापि ब्रह्मण्य् अज्ञानादिकं कल्पयितुं न शक्यते, असम्भवाद् एव । ब्रह्मण्य् अचिन्त्य-शक्ति-सद्-भावस्य युक्ति-लब्धत्वात् श्रुतत्वाच् च द्वैतान्यथानुपपत्तिश् च दूरे गता । ततश् चाचिन्त्य-शक्तिर् एव द्वैतोपपत्तीकारणं पर्यवसीयते । तस्मान् निर्विकारादि-स्वभावेन सतोऽपि परमात्मनोऽचिन्त्य-शक्त्या विश्वाकारत्वादिना परिणामादिकं भवति, चिन्तामण्य्-अयस्कान्तादीनां सर्वार्थ-प्रसव-लोह-चालवादिवत् । तद् एतद् अङ्गीकृतं श्री-बादरायणेन—श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इति ।

अनुच्छेदः ५८[वे.सू. २.१.२७]

तद् एवं न विवर्तावकाश इति परिणाम एव शिष्यते । तस्य च लक्षणं—“तत्त्वतोऽन्यथा-भावः परिणामः” इति । उपसंहार-दर्शनान् नेति चेन्, न, क्षीरवद् धि [वे.सू. २.१.२४] इति, देवादिवद् अपि लोके [वे.सू. २.१.२५] इत्य् आदिषु सूत्रेषु तन्-मत-व्याख्यानेऽपि स एव हि दृश्यते । पुनश् च तद्-अनन्तरम् एव—कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-व्याकोपो वा [वे.सू. २.१.२६] इत्य् अनेन स्थूणावत् तम् एव परिणामं चालयित्वा, श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.२७] इत्य् अनेन स्थापयति भगवान् इति च दृश्यते ।