Sūtra २.१.३१

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १४ (विकरणत्वाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ५८[वे.सू. २.१.३१]

नन्व् इत्थं केनचिद् रूपेण परिणमेत्, केनचिद् अवतिष्ठेतेति-रूप-भेद-कल्पनात् सावयवम् एव प्रसज्येत ? तत्राप्य् आह—भवत्व् अपीदं नाम, यतः इति । श्रुतेस् तु शब्द-मूलत्वात् इति निरवयवत्व-सावयवत्वयोर् विरुद्धयोर् अपि धर्मयोः श्रूयमाणत्वात् तथैवम् अप्य् अचिन्त्यः स्वभावस् तस्मिन् वर्तत एवेति । यथा—निष्कलं निष्क्रियं शान्तं [श्वे.उ. ६.१९] इत्य् आदि च । इत्थम् एव चाग्रे—विकरणत्वान् नेति चेत् तद् उक्तं [वे.सू. २.१.३१] इत्य् अत्र सूत्र-कारः । तद् उक्तम् इत्य् अनेन, न तस्य कार्यं करणं च विद्यते [श्वे.उ. ६.८] इत्य्-आदि-प्रमाणकं करण-राहित्यं स्वाभाविक-ज्ञानादिकं च व्यक्तवान् । एवम् एव पैङ्गी-श्रुतिर् अप्य् उदाहृता—योऽसौ विरुद्धोऽविरुद्धः इत्य् आदिका । पुराणं च—यस्मिन् ब्रह्मणि सर्व-शक्ति-निलये मानानि नो मानिनां [वि.पु. ६.८.५७। इति ।