Sūtra २.४.७
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ५५ (प्राणाणुत्वाधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
अत्राद्वैत-वादिनाम् अपि परिच्छेदो वा प्रतिबिम्बो वाभासो वा जीवः स्यात्—त्रिधाप्य् अविभुर् इत्य् एवायाति । तत्र च बुद्धि-लक्षण-तद्-उपाधेः सूक्ष्मत्वाङ्गीकारात् सूक्ष्मत्वम् अपि सूची-रन्धाकाशवत्, बालुका-कण-प्रतिफलित-सूर्य-तेजोवत्, तद्-आभासवच् च । यत्र यत्रैवोपाधयश् चलन्ति, तत्र तत्रैव परिच्छिन्नत्वेनैवोदयन्ते तानीतीत्थम् एव स्वयं तदावार्येणेन्द्रियाणां विभुत्व-वादो दूषितः । सर्व-गतानाम् अपि वृत्ति-लाभः शरीर-देशे स्याद् इति चेत्, न, वृत्ति-मात्रस्य करणत्वोपपत्तेः । यद् एव हि उपलब्धि-साधनम्—वृत्तिः अन्यद् वा—तस्यैव नः करणत्वम्, संज्ञा-मात्रे विवादः इति करणानां व्यापित्व-कल्पना निरर्थिका [वे.सू. २.४.७ शङ्कर] इत्य् अनेन ।