Sūtra ३.१.१

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १ (पादः १, तद्-अनन्तर-प्रतिपत्त्य्-अधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३३[वे.सू. ३.१.१]

एवम् एव च सूत्रम् उपोद्बलयति—तद्-अन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्यां [वे.सू. ३.१.१] इति । प्राणस् तु तद्-रथ-स्थानीयः । यथोक्तं श्रुत्या—कस्मिन् नु अहम् उत्क्रान्त उत्क्रान्तो भविष्यामि ? कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति [प्र.उ. ६.३] इति । अतः स्वयं तत्र स्थित एव तृण-जलौकावच् चलति, न तु पक्ष्य्-आदिवद् अङ्गं विक्षिपन्न् एव । अतः लेलायतीव [बृ.आ.उ. ४.३.७] इति श्रुताव् इव शब्द-प्रयोगः । तथापि तस्यैव तत्राग्रणीत्वं रथिवत् । तच् चोक्तं श्रुत्या—तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति । सर्वे प्राणा अनूत्क्रामन्ति [बृ.आ.उ. ४.४.२] इति ।