Sūtra ३.२.२२
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् १८ (उपमाधिकरणम्)
Read the adhikaraṇa →Citations (1)
भागवतसन्दर्भः (Bhagavat-sandarbha)
अनुच्छेदः २९[वे.सू. ३.२.२२]
एवम् आह सूत्रकारः—प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः [वे.सू. ३.२.२२] इति । अत्र रूप-मात्र-निषेधे श्रुत्य्-अभिप्रेते सति महारजनादि-सदृश-रूपम् अलोक-प्रसिद्धं स्वयम् उपदिश्य पुनर् निषेध-कारिण्यास् तस्या उन्मत्त-प्रलपिता स्यात् सूत्रकारस्य च एतावत्त्वम् इति सङ्ख्यात्मक-भाव-प्रयोगोऽसमीक्ष्य कारितायै भवेत् । एतद्-रूपं च—निषेधतीत्य् एव सूचयितुं कथञ्चिद् उक्तं स्याद् इति ।