Sūtra ३.२.३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ९ (पादः २, सन्ध्य्-अधिकरणम्)

Read the adhikaraṇa →

Citations (4)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ५८[वे.सू. ३.२.३]

तद् एवं जाग्रत्-सृष्टिर् यथेश्वर-कृतत्वेन न जीवाज्ञान-मात्र-कल्पिता, तद्वत् स्वप्न-सृष्टीर् अपि भवेद् इतीश्वर-वादिनाम् अनुमानम् । सन्ध्ये सृष्टिर् आह हि [वे.सू. ३.२.१], निर्मातारं चैके पुत्रादयश् च [वे.सू. ३.२.२] इति न्यायाभ्यां जागरवत् पारमेश्वर-सृष्टित्वात् । तत्र देश-काल-निमित्तादीनां क्वचिद् असम्भवेऽपि, माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे.सू. ३.२.३] इति न्यायेन दुर्घट-घटनाकर-माया-नाम-परमात्म-शक्ति-विलासत्वात् । सूचकश् च हि श्रुतेर् आचक्षते च तद्-विदः [वे.सू. ३.२.४] इति न्यायेन भावि-सत्यार्थ-सूचकत्वे क्वचिद् ओषधि-मन्त्रादि-प्राप्ति-दर्शनेन सूचक-सत्यत्वे च सिद्धे सत्यता-प्रत्ययनात् । पुरुषं कृष्ण-दन्तं पश्यति, स चैनं हन्ति इति साक्षात् स्व-प्रदृष्ट-कर्तृक-हनन-श्रवणाच् च । पराभिध्यानात् तु तिरोहितं, ततो ह्य् अस्य बन्ध-विपर्ययौ [वे.सू. ३.२.५] इति न्यायेन तत्र जीवस्यासामर्थ्यात्, अत एव कर्तृक-श्रुतेर् भाक्तत्वात् स्वप्न-सृष्टिर् अपि जागरवत् पारमेश्वरी सत्या चेति च तेषां श्रौत-मतम् ।

अनुच्छेदः ५८[वे.सू. ३.२.३]

सूत्रकारोऽपि माया-मात्रं तु कार्त्स्न्येन [वे.सू. ३.२.३] इत्य् आदिना जीवस्य कार्त्स्न्येनानाभिव्यक्त-स्वरूपत्वाद् ईश्वरस्यैव सत्य-सङ्कल्प-शक्ति-विलास-मात्रम् इदं स्वाप्निक-वस्तु-जातम् इति व्याचष्टे—तस्मिंल् लोकाः [क.उ. २.२.८] इत्य् आदि-श्रुतेः । अपवरकादिषु [अन्तर्-गृह-गर्भ-गृहादिषु] शयानस्य स्वप्न-दृशः स्व-देहेनैव देशान्तर-गमन-राज्याभिषेकशिर-च्छेदादयश् च पुण्य-पाप-फल-भूताः शयान-देह-स्वरूप-संस्थानं देहान्तर-सृष्ट्योपपद्यन्त इति ।

अनुच्छेदः ५८[वे.सू. ३.२.३]

स्वप्ने च, माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे.सू. ३.२.३] इति न्यायेन जाग्रद्-दृष्ट-वस्त्व्-आकारायां मनो-वृत्तौ परमात्म-माया तद्-वस्त्व्-अभेदम् आरोपयतीति पूर्ववत् । तस्माद् वस्तुतस् तु न क्वचिद् अपि मिथ्यात्वम् । ततः शुद्ध आत्मनि परमात्मनि वा तादृश-तद्-आरोप एव मिथ्या, न तु विश्वं मिथ्येति । ततो जगतः परमात्म-जातत्वेन साक्षात्-तद्-आत्मत्वाभावाद् बहिरङ्ग-शक्तिमयत्वेन च वैकुण्ठादिवत् साक्षात्-तद्-आत्मीयत्वाभावाद् अबुधानाम् एव तत्र शुद्धे तत्-तद्-बुद्धिः ।

अनुच्छेदः ९१[वे.सू. ३.२.३]

यद् यस्याः । मायया हेतोर् अर्थेन विना अपि । यद्यपि तस्य त्रिकालम् एव सोऽर्थो नास्ति, तथाप्य् आत्म-विपर्यय आत्म-विस्मृति-पूर्वक-पराभिमानेनाहम् एव तद्-धर्मीत्य् एवं-रूपः सोऽर्थः स्यात् । उपद्रष्टुर् जीवस्य । तृतीयार्थे षष्ठी । स्वप्नावस्थायां जीवेन स्व-शिरश्-छेदनादिकोऽतीवासम्भवोऽर्थः प्रतीयते । न हि तस्य शिरश् छिन्नं, न तु वा स्व-शिरश् छेदं कोऽपि पश्येत् । किन्तु भगवन्-मायैवान्यत्र-सिद्धं तद्-रूपम् अर्थं तस्मिन्न् आरोपयतीति, माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे.सू. ३.२.३] इति न्यायेन ॥