Sūtra १.१.१

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १ (ब्रह्म-जिज्ञासाधिकरणम्)

Read the adhikaraṇa →

Citations (11)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. १.१.१ श्री-भाष्ये, ८८ अनुच्छेदे]

> यदि निर्विशेष-ज्ञान-रूप-ब्रह्माधिष्ठान-भ्रम-प्रतिपादन-परं शास्त्रं, तर्हि निर्गुणस्य इत्य् आदि चोद्यम्, शक्तयः इत्य् आदि-परिहारश् च न घटते । तथा हि सति निर्गुणस्य ब्रह्मणः पारमार्थिकः सर्गः, अपि तु भ्रम-कल्पित इति चोद्य-परिहारौ स्याताम् । उत्पत्त्य्-आदि-कार्यं सत्त्वादि-गुण-युक्तापरिपूर्णं कर्म-वश्येषु दृष्टम् इति तत्-तद्-भाव-रहितस्य कथं सम्भवतीति चोद्यम् । दृष्ट-सकल-विसजातीयस्य ब्रह्मणो यथोदित-स्वभावस्यैव जलादि-विजातीयस्याग्न्य्-आदेर् औष्ण्यादि-शक्ति-योगवत् सर्व-शक्ति-योगो न विरुध्यत इति परिहारः ॥ [वे.सू. १.१.१ श्री-भाष्ये, ८८ अनुच्छेदे] इति ॥

अनुच्छेदः १०[वे.सू. १.१.१ श्री-भाष्ये, १०२ अनुच्छेदे]

> विवादाध्यासित्रम् अज्ञानं न ज्ञान-मात्र-ब्रह्माश्रयम् । अज्ञानत्वाच् छुक्तिकाद्य्-अज्ञानवत्, ज्ञात्र्-आश्रयं हि तत् इति ॥ ब्रह्म नाज्ञानाश्रयः, ज्ञातृत्व-विरहाद् घटादिवत् [वे.सू. १.१.१ श्री-भाष्ये, १०२ अनुच्छेदे] ॥

अनुच्छेदः ७९[वे.सू.रा.भा. १.१.१]

> सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता [तै.उ. २.१.२] इति ब्रह्म-वेदन-फलम् अवगमयद् वाक्यं परस्य विपश्चितो ब्रह्मणो गुणानन्त्यं ब्रवीति, विपश्चिता ब्रह्मणा सह सर्वान् कामान् अश्नुते । काम्यन्त इति कामाः कल्याण-गुणाः । पर-ब्रह्मणा सह तद्-गुणान् सर्वान् अश्नुते इत्य् अर्थः । दहर-विद्यायां, तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् [छा.उ. ८.१.१] इतिवद् गुण-प्राधान्यं वक्तुं सह-शब्दः ॥ [वे.सू.रा.भा. १.१.१] इति ।

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः २२[वे.सू. १.१.१, श्री-भाष्य, अनु. ५७]

किं च, उपलब्धिर् ह्य् अनुभूतिः । अनुभूतित्वं च नाम वर्तमान-दशायां स्व-सत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं वा भवेत्, स्व-सत्तयैव स्व-विषय-साधनत्वं वा भवेत् [वे.सू. १.१.१, श्री-भाष्य, अनु. ५७] । तत्रोभयथैव तन्-मात्र-वादि-मतेऽपि शक्तिमत्त्वापातः । तथा—विषय-प्रकाशनतयैवोपलब्धेर् एव हि संविदः स्वयं-प्रकाशता साधिता । संविदो विषय-प्रकाशनता-स्वभाव-विरहे सति स्वयं-प्रकाशत्वासिद्धेर् अनुभवान्तराननुभवान्तराननुभाव्यत्वाच् च तुच्छतैव स्यात् ।

अनुच्छेदः २२[वे.सू. १.१.१, अनु ७५]

एवं, “सुखम् अहम् अस्वाप्सम्” इति सुषुप्त्य्-अनन्तरं परामर्शात् तत्राप्य् अहम्-अर्थता, सुखिता ज्ञातृता च गम्यते । तदानीं तमो-गुणाभिभवान् न स्फुटोऽवबोधः । “एतावन्तं कालं नाहम् अज्ञासिषं” इति तु पराग्-विषयकः प्रतिषेधः । अज्ञान-साक्षिणोऽहम् अर्थस्यानुवृत्तेः । “माम् अहं न ज्ञातवान्” इति परामर्शे च तदानीम् एकोऽहम् अंशः स्वाज्ञान-विषयत्वेन प्रतीयते । अन्यस् तु तत्-साक्षित्वेन । ततः पूर्वं परामर्श-कोटि-प्रविष्टं महत्-तत्त्व-जं देहोऽहम् इत्य् उपाध्यभिमानिनम् अहम् अंशं सुषुप्तौ निलीनं तदानीम् अनुभव-सिद्धस् ततः परोऽहम् अंशः शुद्धात्मा न ज्ञातवान् इत्य् एवं तत्र विवेकः । जाग्रद्-आद्य्-अवस्थयोर् अहम् अर्थस् तद्-युगलस्याविवेकश् च परस्पर-तादात्म्यापत्त्य्-अपेक्षया । ततः पराग्-रूपस्यैवाहङ्कारस्य क्षेत्रान्तः-पातः । अस्यैवाहङ्कारस्याभूत् तद्-भावेष्व् अर्थेषु च्वि-प्रत्ययम् उत्पाद्य व्युत्पत्तिर् द्रष्टव्या [वे.सू. १.१.१, अनु ७५] ।

अनुच्छेदः २२[वे.सू. १.१.१, अनु ७४]

किं च, स च प्रत्यग्-आत्मा मुक्ताव् अप्य् अहम् इत्य् एव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते, स स सर्वोऽहम् इत्य् एव प्रकाशते, यथा तथावभासमानत्वेनोभय-वादि-सम्मतः संसार्य्-आत्मा । यः पुनर् अहम् इति न चकास्ति, नासौ स्वस्मै प्रकाशते, यथा घटादिः । [वे.सू. १.१.१, अनु ७४]

अनुच्छेदः ३७[वे.सू. १.१.१ श्रीभाष्ये १११-तम-अनुच्छेदः]

श्री-रामानुजीयास् त्व् एवम् आचक्षते—तत् त्वम् अस्य् आदि-वाक्येषु सामानाधिकरण्यं न निर्विशेष-वस्त्व्-ऐक्य-परम्, तत्-त्वं-पदयोः स-विशेष-ब्रह्माभिधायित्वात् । सामानाधिकरण्यस्य प्रकार-द्वय-परित्यागे प्रवृत्ति-निमित्त-भेदासम्भवेन सामानाधिकरण्यम् एव त्यक्तं स्यात् । द्वयोः पदयोर् लक्षणा च । सोऽयं देवदत्तः इत्य् अत्रापि न लक्षणा । भूतं वर्तमान-काल-सम्बन्धतयैक्य-प्रतीत्य्-अविरोधात् । देश-भेद-विरोधश् च काल-भेदेन परिहृतः । तद् ऐक्षत बहु स्यां [तै.उ. ६.२.३] इत्य् उपक्रम-विरोधश् च । एक-विज्ञानेन सर्व-विज्ञान-परिज्ञानं च न घटते । ज्ञान-स्वरूपस्य निरस्त-निखिल-दोषस्य सर्वज्ञस्य समस्त-कल्याण-गुणात्मकस्याज्ञान-तत्-कार्यानन्तापुरुषार्थाश्रयत्वं च सम्भवति । बाधार्थत्वे च सामानाधिकरण्यस्य तत्-त्वं-पदयोर् अधिष्ठान-लक्षणा निवृत्ति-लक्षणा चेति लक्षणादयस् त एव दोषाः । [वे.सू. १.१.१ श्रीभाष्ये १११-तम-अनुच्छेदः]

अनुच्छेदः ३७[वे.सू. १.१.१ श्री-भाष्ये ११२-११३-तम-अनुच्छेदः]

एतद् एव हि गव्-आदि-शब्दानां व्यक्ति-पर्यन्तत्वे हेतुः । एतत्-स्वभाव-विरहाद् एव दण्ड-कुण्डलादीनां विशेषणत्वे, दण्डी कुण्डली इति मत्व्-अर्थीय-प्रत्ययः । [वे.सू. १.१.१ श्री-भाष्ये ११२-११३-तम-अनुच्छेदः] इति ॥

अनुच्छेदः ३७[वे.सू. १.१.१ श्रीभाष्ये १११-तम-अनुच्छेदः]

चिद्-अचिद्-वस्तु-शरीरत्वं च ब्रह्मणो—यस्य पृथिवी शरीरं, यस्यात्मा शरीरं [बृ.आ.उ. ३.७.३-४] इत्य् आदिषु श्रुति-शतेषु प्रसिद्धम् । सत्य् अपि तच्-छरीरत्वे विद्या-शक्तिमयत्वात् परमात्मनस् तद्-धर्म-स्पृष्टत्वं तु न स्यात् । तद् एवं तत् त्वम् असि [छा.उ. ६.८.७] इत्य् अत्र, जीव-शरीरक-जगत्-कारण-ब्रह्म-परत्वे मुख्य-वृत्तं पद-द्वयम् । प्रकार-द्वय-विशिष्टैक-वस्तु-प्रतिपादनेन सामानाधिकरण्यं च सिद्धं [वे.सू. १.१.१ श्रीभाष्ये १११-तम-अनुच्छेदः] तत्-तद्-विशेषण-विशिष्टतयैव सामानाधिकरण्यं च [ज्योतिष्टोम-यज्ञ-मन्त्र-वर्णे] अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोपं क्रीणाति इत्य् आदौ अङ्गीकृतम् । लोके च नीलम् उत्पलम् आनय इत्य् आदौ दृश्यते । तद् एवं च—निरस्त-निखिल-दोषस्य समस्त-कल्याण-गुणात्मकस्य ब्रह्मणो जीवान्त्र्यामित्वम् अप्य् ऐश्वर्यम् अपरं प्रतिपादितं भवति । उपक्रमानुकूलता च । एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपत्तिश् च । सूक्ष्म-चिद्-अचिद्-वस्तु-शरीर्रस्यैव ब्रह्मणः स्थूल-चिद्-अचिद्-वस्तु-शरीर्रत्वेन कार्यत्वात् ।

अनुच्छेदः ५८[वे.सू. १.१.१ शङ्कर-भाष्य]

अत्रान्ये मन्यन्ते—न तावद्-रूपान्तरापत्तिः । स्वतस् तद्-अभावात् । किन्तु तद् एवेदम् इति स्मरणम् एव । तद् उक्तं—कोऽयम् अध्यासो नाम ? उच्यते—स्मृति-रूपः परत्र पूर्व-दृष्टावभासः [वे.सू. १.१.१ शङ्कर-भाष्य] इति । ततः स्मर्यमाणस्य दृश्यमानाभिन्नत्वेन जगतो ब्रह्मोपादानत्वं तद्-अनन्यत्वं वा घटमानं स्यात् । किम् अन्यद् वा ? ब्रह्मण्य् अज्ञानं न सम्भवतीति पूर्वम् एवोक्तम् । तथा च सति ततः पृथग् द्वैतं केन कल्प्यते ? यदि च जीवत्वादि-कल्पना निमित्तम् अज्ञानं ब्रह्माश्रयं स्यात् तदा देवदत्तवद् अज्ञान-तत्-कार्य-दुःखादिभिर् ब्रह्मैव पीड्येतैवेति नापहत-पाप्मत्वं तस्य स्यात् ।

अनुच्छेदः १०५[वे.सू. १.१.१]

तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्म-सूत्राणाम् इति गारुडोक्तेर् अस्य महा-पुराणस्य ब्रह्म-सूत्राकृत्रिम-भाष्यात्मकत्वात् प्रथमं तद् उपादायैवावतारः । तत्र पूर्वम्, अथातो ब्रह्म जिज्ञासा [वे.सू. १.१.१] इति व्याचष्टे—तेजो-वारि-मृदाम् इत्य्-आद्य्-अर्धेन । योजनायां प्राथमिकत्वाद् अस्य पूर्वत्वम् ।