Sūtra १.१.२
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् २ (जन्माद्यधिकरणम्)
Read the adhikaraṇa →Citations (2)
भागवतसन्दर्भः (Bhagavat-sandarbha)
तथा जन्माद्य् अस्य [वे.सू. १.१.२] इत्य्-आदेः, श्रुतत्वाच् च [वे.सू. १.१.१२] इत्य्-अन्तस्य ग्रन्थस्य तात्पर्यं तथैवं व्याख्यम् ।
परमात्मसन्दर्भः (Paramatma-sandarbha)
किं च, यदि सर्वम् एव द्वैत-जातं जीवाज्ञान-कल्पितं स्यात्, जीव-स्वरूपं च न ब्रह्मणोऽन्यत्, ततो वस्तुतः सर्वज्ञाद्य्-अभिमानी कश्चिद् ईश्वरो नामान्यो नास्ति, किन्तु स्थाणौ पुरुषवत् स्व-स्वरूप एवेश्वरः कल्प्यते । स्वाप्निक-राजवद् वा, तर्हि स्थाणु-पुरुषादिवद् ईश्वराभिमानिनस् तदानीम् अप्य् अभावात् तदा तस्य जीवागोचरत्वेन पुरुषाज्ञान-कल्प्यमानत्वस्याप्य् अदर्शनाद् अनुमान-सिद्धत्वात् सम्प्रतिपत्तेः शास्त्रैक-गम्यत्वाभ्युपगमाच् च, यानि जन्माद्य् अस्य यतः [वे.सू. १.१.२] इत्य्-आदीनि सूत्राणि, यानि च तद्-विषय-वाक्यानि, तानि प्रलाप-रूपान्य् एव स्युः । तत्र तत्र सर्वज्ञत्व-सर्व-शक्तिमत्त्वे विना जीव-प्रधानयोर् विचित्र-स्रष्टृत्वादिकं न सम्भवतीति दर्शिता युक्तयश् चोपहस्येरन् ।