Sūtra १.१.३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ३ (शास्त्रयोनित्वाधिकरणम्)

Read the adhikaraṇa →

Citations (4)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः २९[वे.सू. १.१.३]

अत्रोदाहरिष्यन्ते च श्रुति-स्मृतयः—उदाहृता च, यत्र नान्यत् पश्यति इत्य्-आदि तद् इत्थम् अन्य-प्राकृत-रूप-सादृश्येन कुतर्क-विशेषश् च परिहृतः, वैलक्षण्यात्, कालात्ययापदिष्टत्वात्, शास्त्र-योनित्वात् [वे.सू. १.१.३] इत्य् न्यायेन शब्दैक-प्रामाण्यात् ।

अनुच्छेदः ९८[वे.सू. १.१.३]

तथा च सति यथा डित्थ-वाचि कस्मिंश्चिद् अद्वितीये द्रव्ये तच्-छब्दस्य मुख्या वृत्तिः प्रवर्तते । यथा च “सिंहो देवदत्तः” इत्य् अत्र गौण्या वृत्त्या शौर्य-गुण-युक्ते देवदत्ते सिंह-शब्दः प्रवर्तते । यथा च “गङ्गायां घोषः” इत्य् अत्र-लक्षणया वृत्त्या गङ्गा-शब्दस् तस्मिन्न् इत्य् असम्बन्धे तटे प्रवर्तते । तथा तत्-तद्-भावास्पदे ब्रह्मणि तया तया वृत्त्या श्रुतयः कथं प्रवर्तेरन् ? श्रुतीनां च शास्त्र-योनित्वात् [वे.सू. १.१.३] इति-न्यायेन तत्-प्रतिपादकतायाम् अनन्यानां तत्र प्रवृत्तिर् अवश्यं वक्तव्या । स्वतः-प्रमाणानां च तासां मुख्या प्रवृत्तिस् तु विशेषतो वक्तव्या । तस्मात् तस्मिंस् ताः साक्षाद्-रूपतया मुख्यया वृत्त्या केन प्रकारेण चरन्ति । तं प्रकारं विशेषतः कृपयापि स्वयम् उपदिशेति । अन्यथा पदार्थत्वायोगाद् अपदार्थस्य च वाक्यार्थत्वायोगान् न श्रुति-गोचरत्वं ब्रह्मणः स्याद् इति स्थिते कुतस्तरां तद् उपरिचर-स्फूर्तेर् भगवतस् तद्-गोचरत्वं, तत् कथम् एवं स्व-भक्तयोः [भा.पु. १०.८६.५९] इत्य्-आदौ स्वतां स्वतः-प्रमाण-भूतानां वेदानां मार्गं भगवत्-परत्वम् आदिश्येत्य् उक्तम् इति ।अ

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः १०५[वे.सू. १.१.३-४]

तद् एवं तटस्थ-लक्षणेन परं निर्धार्य, तद् एव लक्षणं ब्रह्म-सूत्रे शास्त्र-योनित्वात्, तत् तु समन्वयात् [वे.सू. १.१.३-४] इत्य् एतत्-सूत्र-द्वयेन स्थापितम् अस्ति । तत्र पूर्व-सूत्रस्यार्थः—कुतो ब्रह्मणो जगज्-जन्मादि-हेतुत्वं ? तत्राह—शास्त्रं योनिर् ज्ञान-कारणं यस्य तत्त्वात्, यतो वा इमानि भूतानि [तै.उ. ३.१.१] इत्य्-आदि-शास्त्र-प्रमाणकत्वाद् इति । नात्र दर्शनान्तरवत् तर्क-प्रमाणकत्वम्, तर्काप्रतिष्ठानात् [वे.सू. २.१.२२] अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाणाविषयत्वाद् ब्रह्मणश् चेति भावः । वैनाशिकास् त्व् अविरोधाध्याये तर्केणैव निराकरिष्यन्ते ।

अनुच्छेदः १०५[वे.सू. १.१.३]

अथ शास्त्र-योनित्वात् [वे.सू. १.१.३] इत्य् अस्यार्थान्तरं व्याचष्टे—तेन इति । तच् चार्थान्तरं यथा—कथं तस्य जगज्-जन्मादि-कर्तृत्वं ? कथं वा नान्य-तन्त्रोक्तस्य प्रधानस्य न चान्यस्य? इति तत्राह—शास्त्रस्य वेद-लक्षणस्य योनिः कारणं, तद्-रूपत्वात् । एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यदृग्-वेदो यजुर्-वेदः सामवेदोऽथ वाङ्गिरस इतिहास-पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् उपसूत्राणि व्याख्यानानि [बृ.आ.उ. २.४.१०] इति श्रुतेः । शास्त्रं हि सर्व-प्रमाणागोचर-विविधानन्त-ज्ञान-मयं, तस्य च कारणं ब्रह्मैव श्रूयत इति ।