Sūtra १.१.४

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ४ (समन्वयाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः १०५[वे.सू. १.१.४]

अथ तत् तु समन्वयाद् [वे.सू. १.१.४] इत्य् अस्यार्थान्तरं, यथा शास्त्र-योनित्वे हेतुश् च दृश्यते इत्य् आह—तत् त्व् इति । समन्वयोऽत्र सम्यक् सर्वतो-मुखोऽन्वयो व्युत्पत्तिर् वेदार्थ-परिज्ञातं यस्मात् तु शास्त्र-निदानत्वं निश्चीयत इति । जीवे सम्यग् ज्ञानम् एव नास्ति, प्रधानं त्व् अचेतनम् एवेति भावः, स वेत्ति विश्वं न हि तस्य वेत्ता [श्वे.उ. ३.१९] इति श्रुतेः । तद् एतद् अस्य तदीय-सम्यग्-ज्ञानं व्यतिरेक-मुखेन बोधयितुं जीवानां सर्वेषाम् अपि तदीय-सम्यग्-ज्ञानाभावम् आह—मुह्यन्ति इति । सूरयः शेषादयोऽपि यद् यत्र शब्द-ब्रह्मणि मुह्यन्ति । तद् एतद् विवृतं स्वयं भगवता—