Sūtra १.१.५

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ५ (ईक्षत्यधिकरणम्)

Read the adhikaraṇa →

Citations (5)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. १.१.५]

> अत एव निर्विशेष-चिन्-मात्र-ब्रह्म-वादोऽपि सूत्र-कारेणाभिः श्रुतिभिर् निरस्तो वेदितव्यः । पारमार्थिक-मुख्येक्षणादि-गुण-योगि-जिज्ञास्यं ब्रह्मेति, गौणश् चेन् नात्म-शब्दात् [वे.सू. १.१.६] इत्य् आदौ स्थापनात् निर्विशेष-वादे हि साक्षित्वम् अप्य् अपारमार्थिकम् । वेदान्त-वेद्यं ब्रह्म च जिज्ञास्यतया प्रतिज्ञातम् । तच् च चेतनम् इति, ईक्षतेर् नाशब्दं [वे.सू. १.१.५] इत्य् आदिभिः सूत्रैः प्रतिपाद्यते । चेतनत्वं नाम चैतन्य-गुण-योगः । अत ईक्षण-गुण-विरहिणः, प्रधान-तुल्यत्वम् एव ॥ [श्री-भाष्यं १.१.२] इति ।

अनुच्छेदः २९[वे.सू. १.१.५]

अत्र तेजः-स्वभावानां सूर्यादीनां, तत्र भान-प्रतिषेधात् पूर्ववत् ज्योती-रूपत्वम् एवोपपद्यते । सूर्योऽवभासमाने चन्द्र-तारकादि न भासत इतिवत् । एवं समान-स्वभाव एवानुकार-दर्शनाच् च तद्-रूपत्वम् एव—गच्छन्तम् अनुगच्छन्तीतिवत् । यत् तु वह्निं दहन्तम् अनुदहति सुतप्तं लोहम् इत्य् अत्र वायुं वहन्तं तम् अनुवहति रज इत्य् अत्र चान्यथात्वं, तत्रापि दहन-वहन-क्रिययोस् तत्रैव मुख्यत्वम् इति । ब्रह्मण्य् अपि तादृश-ज्योतिष्ट्वस्य तथात्वम् । एवं तद्-भासा सर्वस्य भासमानत्वेऽपि तद्-रूपत्वं सिद्ध्यति । अत एवानुमानम् इति सिद्धम् । सूर्यम् अनुभान्ति रश्मय इतिवत्, न तु दीपो दीपान्तरम् अनुभातीतिवद् विरुद्धम् । अतस् तस्य प्रसिद्धार्थ-ज्योती-रूपत्वे सर्व-परत्वे च श्रुति-शब्देष्व् एव सति किं-नामान्यथा-गति-क्रियया, श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. १.१.५] इतिवत् । तथा हि—भा-रूपः सत्य-सङ्कल्पः इति ।

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३७[वे.सू. १.१.५]

किं च, ईश्वरावस्थायाम् एतद् अज्ञानं न विद्यते । तैर् एव—ईक्षतेर् नाशब्दं [वे.सू. १.१.५] इत्य् अत्र ज्ञान-प्रतिबन्धवान् जीवः, ईश्वरस् त्व् अप्रतिबन्ध-स्वरूप-भूत-ज्ञानः [शङ्कर] इति सिद्धान्तितम् । यः सर्वज्ञः इत्य् आदि-श्रुतिश् च । अत एवाज्ञान-कल्पितोपाधौ प्रतिबिम्बो जीव आभासो वेत्य् अपि पूर्ववत् । किं च, तेषां (केवलाद्वैत-वादिनां मत-त्रय-विवेचनम् इदम्)—तत्र (१) प्रथम-मते—तावद् अविद्या नाम जीवाश्रया, जीवस्य नानात्वान् नाना । ततश् चाविद्या-तदात्व-सम्बन्ध-जीव-तद्-विभागानाम् अनादित्वात् तद्-अज्ञान-विषयी-भूतं ब्रह्म शुक्ति-रजतवज् जगद्-रूपेण विवर्तते ।

अनुच्छेदः १०५[वे.सू. १.१.५]

अथ ईक्षतेर् नाशब्दम् [वे.सू. १.१.५] इति व्याचष्टे—अभिज्ञ इति । अत्र सूत्रार्थः—इदम् आम्नायते छान्दोग्ये—सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं ब्रह्म [छा.उ. ६.२.१] इति, तद् ऐक्षत बहु स्यां प्रजायय इति... तत्-तेजोऽसृजत [छा.उ. ६.२.३] इत्य्-आदि । अत्र परोक्तं प्रधानम् अपि जगत्-कारणत्वेनायाति । तच् च नेत्य् आह—ईक्षतेर् इति । यस्मिन् शब्द एव प्रमाणं न भवति तद् अशब्दम्, आनुमानिकं प्रधानम् इत्य् अर्थः । न तद् इह प्रतिपाद्यम् ।

अनुच्छेदः १०५[वे.सू. १.१.५]

अथ ईक्षतेर् नाशब्दम् [वे.सू. १.१.५] इत्य् अस्यार्थान्तरम्—अभिज्ञ इत्य् अत्रैव व्यञ्जितम् अस्ति । अत्र सूत्रार्थः—नन्व् अशब्दम् अस्पर्शम् अरूपम् अव्ययम् [क.उ. १.३.१५] इत्य्-आदि-श्रुतेः । कथं तस्य शब्द-योनित्वं ? तत्र हि प्रकृत-ब्रह्म शब्द-हीनं न भवति । कुतः ? ईक्षतेः । तद् ऐक्षत बहु स्यां प्रज्यायेय [छा.उ. ६.२.३] इत्य् अत्र बहु स्याम् इति शब्दात्मकेक्ष-धातोः श्रवणात् । तद् एतद् आह, अभिज्ञः । बहु स्याम् इत्य् आदि-शब्दात्मक-विचार-विदग्धः । स च शब्दादि-शक्ति-समुदायस् तस्य न प्राकृतः प्रकृति-क्षोभात्, पूर्वत्रापि सद्-भावात् । ततः स्वरूप-भूत एवेत्य् आह—स्वराट् इति ।