Sūtra १.१.१२

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ६ (आनन्दमयाधिकरणम्)

Read the adhikaraṇa →

Citations (6)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. १.१.१२]

अग्रेऽपि सयुक्तिक-विचारणं स्वयम् एव भवता तत्ता-शब्देन परामृष्टायाः सुखतायाः स्फोरकम् अनिर्देश्यम् अव्यवहार्यं वस्त्व् एकम् इत्य् उक्त्वा तत्-तच्-छब्द-प्रवर्तनात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [बृ.आ.उ. ४.३.३२] इत्य् आदिषु श्रुतिष्व् अपि तत्रैव मुख्य-वृत्त्य्-आनन्द-शब्द-प्रवृत्ति-दर्शनात् । अदृष्टम् अव्यवहार्यम् अव्यपदेश्यं सुखम् इत्य् आदिष्व् अपि तथा-भूतत्वेऽपि सुख-शब्द-प्रयोगात् । आनन्द-मयोऽभ्यासात् [वे.सू. १.१.१२] इत्य् आदि-न्याय-प्रसिद्धाच् च ।

अनुच्छेदः १०[वे.सू. १.१.१२]

एवं सूत्र-कारम् अत एव तस्यानन्दैक-रूपतया प्रकाशेऽप्य् उदय-भेदा आनन्द-मयोऽभ्यासाद् इति दृश्यते, यथा हि आनन्द-मयोऽभ्यासात् [वे.सू. १.१.१२] इत्य् आदि-प्रकरणम् । तैत्तिरीयके—अन्न-मयं प्राण-मयं मनो-मयं विज्ञान-मयं च शिरः-पक्षादि-रूपकेणानुक्रम्याम्नायते । तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्योऽन्तरान्ता आनन्द-मयः—तस्य प्रियम् एव, शिरो मोदो दक्षिणः पक्ष, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ॥ इति ।

अनुच्छेदः १०[वे.सू. १.१.१२]

तत्र संशयः—किम् इदम् आनन्द-मय-शब्देन परम् एव ब्रह्मोच्यते ? किं वान्न-मयादिवद् ब्रह्मणोऽर्थान्तरम् इति ? तत्र ब्रह्म पुच्छं प्रतिष्ठेति, ब्रह्म-शब्द-योग-बलेन पुच्छ-शब्द-व्यपदिष्टस्यैव ब्रह्मत्वे लब्ध इत्य् उच्यते—आनन्द-मयोऽभ्यासात् [वे.सू. १.१.१२] ब्रह्म-शब्दोऽत्राधिकार-लब्धः । स चानन्द-मय इति प्रथमान्त-पाठात् प्रथमान्त एव अनुस्मर्यते । आकाशस् तल्-लिङ्गात् [वे.सू. १.१.२३] इत्य् आदिवत् ।

अनुच्छेदः १०[वे.सू. १.१.१२]

तथा जन्माद्य् अस्य [वे.सू. १.१.२] इत्य्-आदेः, श्रुतत्वाच् च [वे.सू. १.१.१२] इत्य्-अन्तस्य ग्रन्थस्य तात्पर्यं तथैवं व्याख्यम् ।

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ७१[वे.सू. १.१.१२]

सर्वेऽत्र वाद-ग्रन्था एव निर्दिष्टाः, न तु मन्त्र-ग्रन्था इति नामाक्षरम् एव साक्षान् निर्दिष्टम् इति च नान्यथा मननीयम्, आनन्द-मयोऽभ्यासात् [वे.सू. १.१.१२] इत्य्-आदिषु वेदान्त-सूत्र-कार-मतं तत्र दूष्यत इति । अतो यत् क्वचित् तत्-तत्-प्रशंसा वा स्यात्, तद् अपि नितान्त-नास्तिक-वादं निर्जित्यांशेनाप्य् आस्तिक्य-वादः ख्यापित इत्य् अपेक्षया ज्ञेयम् ।

अनुच्छेदः १०५[वे.सू. १.१.१२]

अन्येषां च वाक्यानां समन्वयस् तत्रैव वक्ष्यते—आनन्द-मयोऽभ्यासात् [वे.सू. १.१.१२] इत्य्-आदिना । स चैवं परमानन्द-रूपत्वेनैव समन्वितो भवतीति तद्-उपलब्ध्यैव परम-पुरुषार्थत्व-सिद्धेर् न प्रयोजन-शून्यत्वम् अपि ।