Sūtra १.२.११

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १४ (गुहाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः १[वे.सू. १.२.११]

"क्षेत्रज्ञं चापि मां विद्धि" इत्य् अत्र मां स्वयं भगवन्तम् एव सर्वेष्व् अपि समष्टि-व्यष्टि-रूपेषु क्षेत्रेषु, न तु पूर्व-क्षेत्रज्ञवत् निज-निज-क्षेत्र एव, "क्षेत्रज्ञं च विद्धि" इति । तद् उक्तम्—विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति । यत्र गत्य्-अन्तरं नास्ति, तत्रैव लक्षणा-मय-कष्टम् आश्रीयेत । तथापि तेन सामानाधिकरण्यं यदि विवक्षितं स्यात्, तर्हि "क्षेत्रज्ञं चापि मां विद्धि" इत्य् एतावद् एव "तं च मां विद्धि" इत्य् एतावद् एव वा प्रोच्येत, न तु "सर्व-क्षेत्रेषु भारत" इत्य् अधिकम् अपि । किन्तु क्षेत्रज्ञ एता मनसो विभूतीर् [भा.पु. ५.११.१२] इत्य्-आदिवत् क्षेत्रज्ञ-द्वयम् अपि वक्तव्यम् एव स्यात् । तथा च ब्रह्म-सूत्रं—गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् [वे.सू. १.२.११] इति ।