Sūtra १.२.८
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् १२ (पादः २, सर्वत्र-प्रसिद्ध्यधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
किं च, जीव एव स्वाज्ञानेन स्वात्मा जगत् कल्पयतीति तेषां सिद्धान्तः । जगत्-कल्पनान्यथानुपपत्त्या च सत्य-सङ्कल्पत्वादयो गुणाः स्वीकृताः । ततो जीव एव ते गुणा उपपद्यन्ते । नान्यस्मिंस् तत्-कल्पितैः । न वा निर्गुणे ब्रह्मणीति सूत्र-द्वयम् इदम् असङ्गतं स्यात् । सम्भोग-प्राप्तिर् इति चेन्, न, वैशेष्यात् [वे.सू. १.२.८] इत्य् अत्रापि पूर्ववत् । किं च, सम्भोग-शब्दस्य सहभोग एवार्थः । संवादादिवन् नान्यः । ततश् च सहार्थत्वेन जीवेश्वरयोर् भेदम् अङ्गीकृत्यैव सूत्रितम् । न त्व् ऐक्यम् । अत एव वैशेष्यात् इति प्रस्तुतयोर् जीव-परयोर् एव वैशेष्यम् अङ्गीकृतम् । न त्व् एकस्यैवात्मनोऽवस्था-भेदेन । एवं, गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् [वे.सू. १.२.१२] इत्य् अनेन, तत् सृष्ट्वा तद् एवानुप्राविशत् [तै.उ. २.६.२] इत्य् अत्र । अनेन जीवेनात्मनानुप्रविश्येत्य् अत्र परमात्मन एवोपाधि-प्रविष्टस्य सतः शरीरत्वम् इति व्याख्या प्रत्याख्याता । उभय-रूपत्वेनैव प्रवेशाङ्गीकारात् । श्रुतिश् च—