Sūtra १.२.३२

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १८ (वैश्वानराधिकरणम्)

Read the adhikaraṇa →

Citations (1)

भागवतसन्दर्भः (Bhagavat-sandarbha)

न हि घटादाव् आकाशं सामस्त्येन प्रतिबिम्बत्वम् आपद्येतेति । तस्माद् अचिन्त्यैव शक्तिर् योगमायाख्या तत्राभ्युपगमनीया । एवम् एवैकैर् ब्रह्म-सूत्रेषु वैश्वानराख्यस्य प्रादेश-मात्रत्वेन श्रुतस्य परम-पुरुषस्य विचारे सिद्धान्तितम् । सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति [वे.सू. १.२.३२], यथा सम्पत्तिर् अचिन्त्यैश्वर्यं श्रुतिश् च तथा दर्शयति—यस् त्व् एतम् एवं प्रादेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते [छा.उ. ५.१८.१] इति । मितत्वेन सर्वतो विगतमानत्वेन च दर्शनात् । तत्रैव, प्रादेश-मात्रे तस्या ह वा एतसात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्व-रूपः [छा.उ. ५.१८.२] इत्य्-आदिना त्रैलोक्य-समावेशनाच् चेति ।