Sūtra १.३.१
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् १९ (पादः ३, ध्रुवाधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
अनुच्छेदः ३३[वे.सू. १.३.१]
किं च, स्वयं तेनैव च यस्मिन् द्यौः पृथिवी चान्तरिक्षं [मु.उ. २.२.५] इत्य् आदि-श्रुतौ, द्यु-भ्व्-आद्य्-आयतन- [वे.सू. १.३.१] न्यायेन ब्रह्मैवाङ्गीकुर्वता तद्-आयतनत्वाभावान् न जीवस् तत् प्रतिपाद्य इति, प्राणभृच् च [वे.सू. १.३.४] इत्य् अत्र सूत्रे स्वीकृतम्—न चोपाधि-परिच्छिन्नस्याविभोः प्राण-भृतो द्यु-भ्व्-आद्य्-आयतनत्वम् अपि सम्यक् सम्भवति इति स्वयं लिखितं च । अन्यथा, तत्-सिद्धान्तो हीयते । असन्ततेश् चाव्यतिकरः [वे.सू. २.३.४८] इत्य् अत्रापि लिखितम्—उपाध्य्-असन्तानाच् च नास्ति जीव-सन्तानः इति । तस्माद् उभय-वादि-मतेऽप्य् अविभुर् जीव इति ।