Sūtra १.३.२

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १९ (पादः ३, ध्रुवाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३७[वे.सू. १.३.२]

इत्य् अत्र भेद एवाभिप्रेतः । यत आत्म-भावम् आत्मन्य् अस्तित्व-संयोगं नयति, ब्रह्म-ध्यायिनं प्रतीति शक्त्येति चाभिधीयते । इत्य् एवम् एवाकर्ष-दृष्टान्तो घटते, न त्व् ऐक्येन । तद् एवं भेद-वाक्येषु सत्सु स-युक्ति-वाक्याविरुद्धेषु भेद-वादेषु ब्रह्म-वादः । ब्रह्मविद् ब्रह्मैव भवति [मु.उ. ३.२.९] इत्य् अत्रापि ब्रह्म-तादात्म्यम् एव बोधयति—स्वाभाव्यापत्तिर् उपपत्तेर् इतिवत् । तत्रापि हि जीवानाम् आकाशत्वादि-प्राप्ति-शब्दा अनुपपत्तेर् आकाशादि-धर्मं तद्-अत्यन्ताश्लेषयोर् आपत्तिम् एव बोधयन्ति, मुक्तोपसृप्य-व्यपदेशात् [वे.सू. १.३.२] इत्य् अपि मुक्तानाम् एव सताम् उपसृप्यं ब्रह्म यदि स्यात् तदैवाक्लेशेन सङ्गच्छते—मुक्तानां परमा गतिः इत्य् आदि-वाक्यं च तथैव । अत एव तैत्तिरीयोपनिषदि च भेदे एव मुक्ताव् आम्नायते—रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै.उ. २.७] इति ।