Sūtra १.३.१९
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् २३ (दहराधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
अनुच्छेदः ३७[वे.सू. १.३.१९]
ततस् तस्यैव भावोऽपहत-पाप्मत्वादि-रूपः स्वभावो यस्येति बहु-व्रीहो तद्-भाव-भावं ब्रह्म-स्वभावकत्वम् इत्य् अर्थः । ततस् तेन स्वभावेनैव परमात्मना सहाभेदी तुल्यो भवतीति विवक्षितम् । यतस् तत्-स्वभाव-विरोधी देव-मनुष्यत्वादि-लक्षणो भेदस् तस्याज्ञान-कृत एवेति । अत एव आविर्भूत-स्वरूपस् तु [वे.सू. १.३.१९] इत्य् अत्रापि—एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [बृ.आ.उ. ८.१२.३] इति दर्शितम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति [मु.उ. ३.१.३] इत्य् आदि च श्रुत्य्-अन्तरम् । पुनश् च श्री-विष्णु-पुराणे—