Sūtra १.३.७

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १९ (पादः ३, ध्रुवाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३७[वे.सू. १.३.७]

ननु पैङ्गी-रहस्य-ब्राह्मणे—तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति [मु.उ. ३.१.१] इति सत्त्वम्, अनश्नन्न् अन्योऽभिचकशीति इति च, अनश्नन् योऽभिपश्यति ज्ञस् ताव् एतौ सत्त्व-क्षेत्रज्ञौ इति । ताभ्यां शब्दाभ्याम् अन्तः-करण-जीवाव् एव व्याख्यातौ । अत एव तत्रैव तद् एतत् सत्त्वं येन स्वप्नं पश्यत्य् अथ योऽयं शारीर उपद्रष्टा, स क्षेत्रज्ञस् ताव् एतौ सत्त्व-क्षेत्रज्ञौ इत्य् उक्तं ? मैवम् । तत्रापि सत्त्व-शब्देन जीव एव, क्षेत्रज्ञ-शब्देन परमात्मैव चेति व्याख्या सङ्गता । स्वाद्व् अत्तीति चेतन्त्वोक्ति-पीडापत्तेः । कर्म-फलानशनस्य क्षेत्रज्ञेष्व् असम्भवात् । सत्त्वादि-शब्दाभ्यां जीवाद्योः प्रसिद्धेश् च । जीवस्य च सत्त्व-शब्दाभिधेयत्वे कारणम् । तद् एतत् सत्त्वम् इत्य् आदि-सत्त्वम् आधिष्ठानत्वात्, सोऽपि सत्त्वम् उच्यत इत्य् अर्थः । तथा पृथिव्य्-आदि-लक्षण-शरीरान्तर्यामित्वात् परमात्मनि शारीर उच्यत इति । योऽयं शारीरः [बृ.आ.उ. ३.९.१०] इत्य् उक्तम् । परमात्मनि ह्य् एवोपद्रष्टृ-शब्द-प्रसिद्धेः, उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः [गीता १३.२२] इत्य् आदौ । व्याख्यान्तरे—स्थित्य्-अदनाभ्यां च [वे.सू. १.३.७] इति सूत्रं च जीव-परमात्म-गतम्—द्वा सुपर्णा [मु.उ. ३.१.१] इत्य्-आद्य्-उक्त-स्थित्यादि-द्वय-विवेचनं विरुध्यते । वक्ष्यति चोत्तर-ग्रन्थे— प्रकाशादिवन् नैवं परः [वे.सू. २.३.४६] इत्य्-अनन्तरं, स्मरन्ति च [वे.सू. २.३.४७] इत्य् अत्र, तयोर् अन्यः पिप्पलम् इत्य् अनयैव श्रुत्या जीवस्य कर्म-फल-प्रतिपादनं शङ्कर-शारीरकेऽपीति । तस्माद् अनेन जीवेनात्मनानुप्रविश्येति, सहार्थे एव तृतीया । आत्म-शब्द-प्रयोगश् च शारीरस्याप्य् आत्मत्व-प्रसिद्धेः । क्षरात्मानाव् ईशते देव एकः [श्वे.उ. १.१०] इत्य् आदौ । तत्रापि भेद-विवक्षयैवानेनेत्य् उक्तम् । अथवा अत्रात्म-शब्देनात्मांश एव वाच्यः ।