Sūtra १.४.१
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ३१ (पादः ४, आनुमानिकाधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
अनुच्छेदः ५५[वे.सू. १.४.१]
इदम् एव प्रधानम् अनादेर् जगतः सूक्ष्मावस्था-रूपम् अव्याकृताव्यक्ताद्य्-अभिधं वेदान्तिभिर् अपि परमेश्वराधीनतया मन्यते, तद्-अधीनत्वाद् अर्थवद् [वे.सू. १.४.३] इत्य्-आदि-न्यायेषु । निषिध्यते तु साङ्ख्यवत् स्वतन्त्रतया आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च [वे.सू. १.४.१] इत्य्-आदि-न्यायेषु श्वेताश्वतरोपनिषदि प्रधान-शब्दश् च श्रूयते, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः संसार-बन्ध-स्थिति-मोक्ष-हेतुः [श्वे.उ. ६.१६] इत्य्-आदौ ।