Sūtra १.३.२८
Cited in the sources as ब्र.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् २५ (देवताधिकरणम्)
Read the adhikaraṇa →Citations (2)
तत्त्वसन्दर्भः (Tattva-sandarbha)
तद् एवं सर्वस्मिन्न् अपि वेदात्मके शब्दे स्वार्थं प्रति प्रामाण्यम् उपलब्धे, स कथम् अर्थं प्रसूत ? इति विव्रियते—तत्र वर्णानाम् आशु विनाशित्वान् नार्थं जनयितुं शक्तिः सम्भवति । ततश् च पूर्व-पूर्वाक्षर-जन्य-संस्कारवद् अन्त्याक्षरस्यैवार्थ-प्रत्यायकत्वं मन्यन्ते । ते च संस्काराः कार्य-मात्र-प्रत्यायिताः, अप्रत्यक्षत्वात् । संस्कार-कार्यस्य स्मरणस्य क्रम-वर्तित्वात् समुदाय-प्रत्ययाभावान् नान्त्य-वर्णस्याप्य् अर्थ-प्रत्यायकत्वम् इत्य् अभिप्रेत्यापरे तु स्फोटम् एव तत्-प्रत्यायकम् आहुः—"स च वर्णानाम् अनेकत्वेनैक-प्रत्ययानुपपत्तेर् एकैक-वर्ण-प्रत्ययाहित-संस्कार-बीजेऽन्त्य-वर्ण-प्रत्यय-जनित-परिपाके प्रत्ययिन्य् एक-प्रत्यय-विषयतया झटिति प्रत्यवभासते ।" [ब्र.सू. १.३.२८, शा.भा.]
अत एव स्फोट-रूपत्वाद् वेदस्य नित्यत्वं "तस्य प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्" [ब्र.सू. १.३.२८, शा.भा.] । वेदान्तिनस् तु, "वर्णा एव तु शब्द इति भगवान् उपवर्ष" [जैमिनी-कृतायां द्वादश-लक्षण्यां १.५.५., शबर-कृत-भाष्ये] इत्य् एतं न्यायम् अनुसृत्य "द्विर्-गो"-शब्दोऽयम् उच्चारितः । न तु द्वौ गो-शब्दाव् इत्य् एकतैव सर्वैः प्रत्यभिज्ञायमानत्वाद् वर्णात्मकानाम् एव शब्दानां नित्यत्वम् अङ्गीकृत्य ते च वर्णाः पिपीलिका-पङ्क्तिवत् क्रमाद्य्-अनुगृहीतार्थ-विशेष-सम्बद्धाः सन्तः स्व-व्यवहारेऽप्य् एकैक-वर्ण-ग्रहणानन्तरं समस्त-वर्ण-प्रत्यय-दर्शिन्यां बुद्धौ तादृशम् एव प्रत्यवभासमानास् तं तम् अर्थम् अव्यभिचारेण प्रत्यायिष्यन्तीत्य् अतो वर्ण-वादिनां लघायसी कल्पना स्यात् । स्फोट-वादिनां तु दृष्ट-हानिर् अदृष्ट-कल्पना च । तथा वर्णाश् चेमे क्रमेण गृह्यमानाः स्फोटं व्यञ्जयन्ति । स स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्याद् इति मन्यन्ते ।