Sūtra १.४.१५
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ३४ (कारणत्वाधिकरणम्)
Read the adhikaraṇa →Citations (1)
भागवतसन्दर्भः (Bhagavat-sandarbha)
अनुच्छेदः ४७[वे.सू. १.४.१५]
नन्व् एकत्र तेषां जन्मादीनां भावाभावयोर् विरोध इत्य् आशङ्क्य तद्-अविरोधे हेतुम् आह—स्व-मायया इति । अन्यथानुपपत्ति-प्रमिता दुस्तर्क्या स्वरूप-शक्तिर् एव तत्र हेतुः । अत एव स्वरूप-भूतत्वेन तेभ्यः प्राकृतेभ्यो विलक्षणत्वात् तान्य् अपि न विद्यन्त इति च वक्तुं न शक्यत इति भावः । यथा शङ्कर-शारीरके समाकर्षाद् [वे.सू. १.४.१५] इत्य् अत्र नाम-रूप-व्याकृत-वस्तु-विषयः स्वच्छन्दः प्रायेण प्रसिद्ध इति तद्-व्यकरणाभावापेक्षया प्राग्-उत्पत्तेः सद् एव ब्रह्म श्रुताव् असद् इत्य् उच्यते इत्य् उक्तम्, तथैव ज्ञेयम् ।