Sūtra २.१.१७

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ९ (आरम्भणाधिकरणम्)

Read the adhikaraṇa →

Citations (4)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः ४१[वे.सू. २.१.१७]

तर्हि किं मम विकारित्वं ? नेत्य् आह—मायातो मायया त्वदीयाचिन्त्य-शक्ति-विशेषेण विकारादि-रहितस्यैव, श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.१७] इत्य्-आदौ परिणाम-स्वीकारात् । मुहुर् उद्भव-तिरोभवत्वाद् एव स्वप्नाभं तत्-तुल्यं, न त्व् अज्ञान-मात्र-कल्पितत्वाद् अपि, वैधर्म्याच् च न स्वप्नादिवत् [वे.सू. २.२.२९] इति न्यायेन । तथा, अविद्या-वृत्तिक-माया-कार्यत्वाच् च अस्त-धिषणं, जीव-परमात्म-ज्ञान-लोप-कर्तृ । उभयस्माद् अपि हेतोः पुरु-दुःख-दुःखं, तदीय-सुखाभासस्यापि वस्तुनो दुःख-रूपत्वात् । विना त्वत्-सत्तया असत्-स्वरूपं, शश-विषाण-तुल्यं । तद् एवं-भूतम् अपि सद् इवानश्वरम् इवाभाति मुग्धानाम् इति शेषः । उपलक्षणं चैतद् व्यवहार-ज्ञान-मय-महद्-आद्य्-आत्मकत्वात् ज्ञानोद्बोधकम् इव स्वर्गाद्य्-आत्मकत्वात् सुखम् इव च ।

कृष्णसन्दर्भः (Krishna-sandarbha)

अनुच्छेदः ८२[वे.सू. २.१.१७]

अत एव असद्-व्यपदेशान् नेति चेन्, न, धर्मान्तरेण वाक्य-शेषाद् [वे.सू. २.१.१७] इति न्यायाद् उपसंहारस्यैवोपक्रमार्थस्य च सर्व-शास्त्रार्थत्वात् । तत्रोक्तं विश्व-रूपम् अभि तद्-अधीनाम् एव । तच् च युक्तम्, तेनैव दर्शितत्वात् । तत्र च—

अनुच्छेदः १४५[वे.सू. २.१.१७]

अत्र एकदा गृह-दासीषु [भा.पु. १०.९.१] इत्य्-आदिकम्, नेमं विरिञ्चः [भा.पु. १०.९.२०] इत्य्-आदि पद्य-द्वयान्तम् इदम् उत्तर-वाक्यं, द्रोणो वसूनां प्रवरः [भा.पु. १०.८.४८] इत्य्-आदिकस्य पूर्व-वाक्यस्य बाधकत्वेनैवोक्तं, पूर्व-विरोध-धर्मान्तर-प्रतिपादनाद् अयुक्तत्वाच् च पूर्वस्य असद्-व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषात् [वे.सू. २.१.१७] इतिवत् । तत्र च यथैवासच्-छब्दस्य गत्य्-अन्तरं चिन्त्यते, तथात्रापि । तच् च पूर्वम् एव दर्शितं पूर्वोत्तराध्याय-द्वये बादरायणे विवक्षितम् इदम् आरभ्य प्रकरणेन ।

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः १[वे.सू. २.१.१७]

तद् द्वैविध्यम् एव चोपसंहृतम्—पुरुषः प्रकृति-स्थो हि [गीता १३.२१] इत्य्-आदिना । तस्माद् उपक्रमार्थस्य उपसंहाराधीनत्वाद् एष एवार्थः समञ्जसः । यथोक्तं ब्रह्म-सूत्र-कृद्भिः—असद्-व्यपदेशान् नेति चेन्, न, धर्मान्तरेण वाक्य-शेषात् [वे.सू. २.१.१७] इति ।