Sūtra २.१.१६

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ९ (आरम्भणाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ५८[वे.सू. २.१.१६]

तद् एवं कारणस्यैव धर्म-विशेषः कार्यत्वं, न तु पृथक् वदन्ति । तस्य कारण-नैरपेक्ष्येणानवस्थानाद् इति पुनर् दर्शयति—अपागाद् अग्नेर् अग्नित्वं वाचारम्भणं विकारो नाम-धेयं त्रीणि रूपाणीत्य् एव सत्यं [छा.उ. ६.४.१] इति । अत्र रूप-त्रयं सूक्ष्म-रूप-तेजोवन् न लक्षणाव्यक्तत्वात् स्वतन्त्रम् अग्नेर् अग्नित्वं न निरूपणीयम् अस्तीत्य् अर्थः । न त्व् असत्यम् एवेति वक्तव्यम्, सत्-कार्यता-सम्प्रतिपत्तेः । सर्व-कारणस्य परमात्मनः सर्वदैव व्यतिरेकासम्भवात् । तस्मात् तस्मिन् विश्वस्य स्थूलतया सूक्ष्मतया वा नित्यं भगवद्-रूपत्वम् अस्त्य् एव । तथा च श्रुतिः—यद् भूतं च भवच् च भविष्यच् च [बृ.आ.उ. ३.८.३] इति । तथा—सत्त्वाच् चावरस्य [वे.सू. २.१.१६] इत्य् अनन्यत्व-न्यायस्योपसूत्रं च । अतो यदा कारणम् अस्ति, तदा कार्यम् अप्य् अस्ति ।