Sūtra २.१.१५
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ९ (आरम्भणाधिकरणम्)
Read the adhikaraṇa →Citations (3)
परमात्मसन्दर्भः (Paramatma-sandarbha)
इत्थम् एव—भावे चोपलब्धेः [वे.सू. २.१.१५] इति सूत्रान्तरं च व्याख्येयम् । अस्य सूत्रस्य कारण-भाव एव कार्य-भावोपलब्धिर् इति विवर्त-वादिनां व्याख्याने तु मृत्तिकाभाव एव घटोपलब्धिवच् छुक्ति-भाव एव रजतोपलब्धेर् आवश्यकत्वं चिन्त्यम् । वणिग्-वीथ्य्-आदौ तद्-अभावेऽपि रजत-दर्शनात् ।
ननु कारणं विना कार्यं निरूपयितुं न शक्यम्, तन्तून् विना पटो नाम वस्त्व् इव ? सत्यम् । तथाप्य् आतान-वितान-वैशिष्ट्यस्योपलभ्यमानत्वात्, उपलब्धे च वैशिष्ट्ये स्वाविर्भूतेन तेनैव केवलेभ्यः स्वेभ्यो विलक्षणाः पटतयाविर्भवन्तीति कारणात् कार्यस्यानन्यत्वम् । न च कारणावस्था-मात्रम् इति प्रत्यक्षीक्रियत एव । इत्थं प्रत्यक्षम् एवानन्यत्वस्योपलभ्यमानत्वात् । भावे चोपलब्धेः [वे.सू. २.१.१५] इत्य् अत्र “भावाच् चोपलब्धेः” इति केचित् पठन्ति । उपलम्भनस्य विद्यमानत्वाद् इत्य् अर्थः । तस्मात् कार्यस्यापि सत्यत्वम्, न तु मिथ्यात्वम् । यत् तु मिथ्यात्वं, तद् अप्य् आत्म-परमात्मनोर् अध्यस्तत्वम् एव । लोकेऽपि शुक्ताव् अध्यस्तत्वम् एव रजतस्य मिथ्यात्वम् उच्यते, स्वतः सत्यत्वात्, ख-पुष्पादेर् अनध्यास्यत्वाच् च ।
यद् उक्तं तदीय-भाष्ये तद्-अनन्यत्वम् [वे.सू. २.१.१५] इत्य्-आदि-सूत्रे—सर्व-ज्ञेश्वरस्यात्म-भूते इवाविद्या-कल्पिते नाम-रूपे तत्त्वातत्त्वाभ्याम् अनिर्वचनीये संसार-प्रपञ्च-बीज-भूते सर्वज्ञेश्वरस्य माया-शक्तिः प्रकृतिर् इति श्रुति-स्मृत्योर् अभिलप्येते इति, किन्त्व् अत्र विद्याविद्ये मम तनू [भा.पु. ११.११.३, §५४] इत्य्-आदि-श्री-भगवद्-वाक्येन तु विरुद्धम् इति । अतो माया-वादतया चायं वादः ख्यायते ।