Sūtra २.१.१४
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ९ (आरम्भणाधिकरणम्)
Read the adhikaraṇa →Citations (2)
परमात्मसन्दर्भः (Paramatma-sandarbha)
तद् एवं भेद-ज्ञानेनैव मुक्तिः श्रूयते—भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत् [श्वे.उ. १.१२] इति, पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [श्वे.उ. १.६] इति, जुष्टं यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः [मु.उ. ३.१.२] इत्य्-आदिषु मुक्ताव् अपि भेद एवोपलभ्यते । यथा व्याख्यातं, तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे.सू. २.१.१४] इत्य् अत्र माध्व-भाष्ये—
तस्माद् वस्तुनः कारणत्वावस्था कार्यत्वावस्था च सत्यैव । तत्र चावस्था-युगलात्मकम् अपि वस्त्व् एवेति कारणानन्यत्वं कार्यस्य । तद् एतद् अप्य् उक्तं सूत्र-कारेण—तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे.सू. २.१.१४] इति । अत्र च तद्-अनन्यत्वम् इत्य् एवोक्तम्, न तु तन्-मात्र-सत्यत्वम् इति कार्यस्यासत्यत्वं न तन्-मतम् ॥