Sūtra २.१.१३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ८ (भोक्त्र्-आपत्त्य्-अधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ५८[वे.सू. २.१.१३]

अत्र विकारादि-शब्दस्य साक्षाद् एवावस्थितत्वाद् विवर्ते तात्पर्य-व्याख्यानं कष्टम् एवेत्य् अप्य् अनुसन्धेयम् । तद् एव सूक्ष्म-चिद्-अचिद्-वस्तु-रूप-शुद्ध-जीवाव्यक्त-शक्तेर् एव तस्य कारणत्वाद् इत्य् एतद् अयुक्तम् । यतः, सद् एव सोम्येदम् अग्र आसीत् [छा.उ. ६.२.१] इत्य् अत्रापीदमां (इदम् इति पदात्) तत्-तच्-छक्तिमत्त्वं स्पष्टम् । प्राग् अप्य् अस्तित्वेन निर्दिष्टं कारणत्वं साधयितुम् । अतो भगवद्-उपादानत्वेऽपि सङ्घातस्योपादानत्वेन चिद्-अचितोर् भगवदश् च स्वभावासङ्करः, यथा लोके शुक्लत्वादि-तन्तु-सङ्घातोपादानत्वेऽपि चित्र-पटस्य तत्-तन्तु-प्रदेश एव शौक्लादि-सम्बन्ध इति कार्यावस्थायाम् अपि न वर्ण-सङ्करः, तथा चिद्-अचिद्-भगवत्-सङ्घातोपादानत्वेन कार्यावस्थायाम् अपि भोक्तृत्व-भोग्यत्व-नियन्तृत्व-नियम्यत्वाद्य्-असङ्करः । अतः, सर्वं खल्व् इदं ब्रह्म, तज्-जलात् [छा.उ. ३.१४.१] इत्य् आदिकम् अविरुद्धम् । तद् एतद् एवोक्तं सूत्र-कारेण—भोक्त्र्-आपत्तेर् अविभागश् चेत् स्याल् लोकवत् [वे.सू. २.१.१३] इति ।