Sūtra २.१.११

Cited in the sources as वे.सू. / ब्र.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ६ (असदित्य्-अधिकरणम्)

Read the adhikaraṇa →

Citations (3)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ५८[वे.सू. २.१.११]

किं च, भेद-मात्रस्य स्वाज्ञान-कल्पितत्वेन शास्त्रस्यापि तथात्वे सति स्वप्न-जन्य-प्रलापादिवत् तस्माद् यथार्थ-ज्ञानोत्पत्तेर् असम्भावनया न तत्र कश्चित् प्रवर्तते, ततः स्वप्न-प्रलाप-विश्वासात् स्वोत्प्रेक्षित-तर्क-विश्वास एव वरम् इति वेदोच्छेद-प्रसङ्गः—तर्काप्रतिष्ठानात्, अनिर्मोक्ष-प्रसङ्गः [वे.सू. २.१.११] चेत्य् अलम् अतिविस्तरेण ।

अपरे तु, तर्काप्रतिष्ठानात् [वे.सू. २.१.११] इति न्यायेन भेदेऽप्य् अभेदेऽपि निर्मर्याद-दोष-सन्तति-दर्शनेन भिन्नतया चिन्तयितुम् अशक्यत्वाद् अभेदं साधयन्तस् तद्वद् अभिन्नतयापि चिन्तयितुम् अशक्यत्वाद् भेदम् अपि साधयन्तोऽचिन्त्य-भेदाभेद-वादं स्वीकुर्वन्ति ।

तत्त्वसन्दर्भः (Tattva-sandarbha)

अनुच्छेदः ११[ब्र.सू. २.१.११, शा.भा.]

अद्वैत-शारीरकेऽपि—"न च शक्यन्ते अतीतानागत-वर्तमानास् तार्किका एकस्मिन् देशे काले च समाहर्तुं येन तदीयं मतं सम्यग्-ज्ञानम् इति प्रतिपद्येमहि । वेदस्य च नित्यत्वे विज्ञानोत्पत्ति-हेतुत्वे च सति व्यवस्थित-विषयार्थत्वोपपत्तेः । तज्-जनितस्य ज्ञानस्य च सम्यक्त्वम् अतीतान् आगत-वर्तमानैः सर्वैर् अपि तार्किकैर् उपह्नोतुम् अशक्यम्" [ब्र.सू. २.१.११, शा.भा.] इति ।