Sūtra २.१.३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् २ (योग-प्रत्युक्त्याधिकरणम्)

Read the adhikaraṇa →

Citations (1)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः ९८[वे.सू. २.१.३-धृत-भाल्लवेय-श्रुतिः]

तद् एतद् आत्मना चरतोऽनुचरेन् निगमः इति व्याख्यातम् । अतः श्रुतेस् तच्-चारित्वं सिद्धम् । साक्षाच्-चारित्वं च निस्त्रैगुण्यानां स्वत एव, अन्येषां तु तद्-एक-वाक्यतया ज्ञेयम् । माया-निरसनार्थम् एव तत्-तद्-गुणानुवादः क्रियते । पश्चाद् अखण्डम् एव तां निरस्य साक्षाद्-भगवत्-स्वरूप-गुणादिकं निर्दिश्यत इति तद् एक-वाक्यता-द्योतनया स एष एव सिद्धान्तोऽस्मिन्न् उपक्रम-वाक्ये समुद्दिष्टः । तथोपसंहारे च—श्रुतयस् त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः [भा.पु. १०.८७.४१] इति । श्रुतयश् च मध्व-भाष्य-प्रमाणिताः—न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं वेदयति [वे.सू. २.१.३-धृत-भाल्लवेय-श्रुतिः] इत्य्-आद्याः, औपनिषदः पुरुषः [बृ.आ.उ. ३.९.२६] इत्य्-आद्याश् च ॥