Sūtra १.४.२३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ३७ (प्रकृत्य्-अधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ६०[वे.सू. १.४.२३]

तद् एवं सूक्ष्म-चिद्-अचिद्-वस्तु रूप-शुद्ध-जीवाव्यक्त-शक्तेः परमात्मनः स्थूल-चेतनाचेतन-वस्तु-रूपाण्य् आध्यात्मिक-जीवादि-पृथिव्य्-अन्तानि जायन्त इत्य् उक्तम् । ततः केवलस्य परमात्मनो निमित्तत्वं शक्ति-विशिष्टस्योपादानत्वम् इत्य् उभय-रूपताम् एव मन्यन्ते । प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुरोधात् [वे.सू. १.४.२३] इत्य्-आदौ । तद् एवं तस्य सदा शुद्धत्वम् एव । तत्र शक्तेः शक्तिमद्-अव्यतिरेकाद् अननयत्वम् उक्तम् । तथा सत्-कार्य-वादाङ्गीकारे स्वान्तः स्थित-स्वधर्म-विशेषाभिव्यक्ति-लब्ध-विकाशेन कारणस्यैवांशेन कार्यत्वम् इत्य् एवं वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् [छा.उ. ६.१.४] इत्य्-आदि-श्रुति-सिद्धं कार्यस्य कारणाद् अन्यत्वं, कारणस्य तु कार्याद् अन्यत्वम् इत्य् आयाति ।