Sūtra २.१.३३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १६ (लीला-कैवल्याधिकरणम्)

Read the adhikaraṇa →

Citations (2)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः ४७[वे.सू. २.१.३३]

तथा कर्मणो वैलक्षण्यं स्वरूपानन्द-विलास-मात्रत्वम् । तद् यथा, लोकवत् तु लीला-कैवल्यम् [वे.सू. २.१.३३] इति । व्याख्यातं च तत्त्व-वादिभिः, यथा—लोके मत्तस्य सुखोद्रेकाद् एव नृत्यादि-लीला, न तु प्रयोजनापेक्षया, एवम् एवेश्वरस्य इति । नारायण-संहितायां च—

कृष्णसन्दर्भः (Krishna-sandarbha)

अनुच्छेदः १७६[वे.सू. २.१.३३]

तत्र प्रकटाप्रकट-लीला-गतयोर् नाम-रूपयोर् अभेदे दृष्टान्तः—यथा समाधौ मुनयः इति । समाधिर् अत्र शुद्ध-जीवस्येति गम्यम् । तयोर् लीलयोर् भेदावेदने दृष्टान्तः—यथाब्धि-तोये नद्य इति ।यथा नद्यः पृथिवी-गताम् अब्धि-तोय-गतां च स्व-स्थितिं भेदेन न विन्दन्ति, किन्तूभयस्याम् अपि स्थितौ समुद्र-तोयानुगताव् एव प्रविशन्ति, तथा मद्-अनुषङ्गे सति प्रकटाम् अप्रकटां च लीला-स्थितिं ताश् च भेदेन न विदुः, किन्तु मय्य् एवाविविशुर् इत्य् अर्थः । दृष्टान्तस् त्व् अयम् लीला-भेदावेदनांश एव, न तु सर्वावेदनांशे, लोकवत् तु लीला-कैवल्यम् [वे.सू. २.१.३३] इतिवत् ॥