Sūtra २.२.२९
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् २४ (अभावाधिकरणम्)
Read the adhikaraṇa →Citations (4)
भागवतसन्दर्भः (Bhagavat-sandarbha)
तर्हि किं मम विकारित्वं ? नेत्य् आह—मायातो मायया त्वदीयाचिन्त्य-शक्ति-विशेषेण विकारादि-रहितस्यैव, श्रुतेस् तु शब्द-मूलत्वात् [वे.सू. २.१.१७] इत्य्-आदौ परिणाम-स्वीकारात् । मुहुर् उद्भव-तिरोभवत्वाद् एव स्वप्नाभं तत्-तुल्यं, न त्व् अज्ञान-मात्र-कल्पितत्वाद् अपि, वैधर्म्याच् च न स्वप्नादिवत् [वे.सू. २.२.२९] इति न्यायेन । तथा, अविद्या-वृत्तिक-माया-कार्यत्वाच् च अस्त-धिषणं, जीव-परमात्म-ज्ञान-लोप-कर्तृ । उभयस्माद् अपि हेतोः पुरु-दुःख-दुःखं, तदीय-सुखाभासस्यापि वस्तुनो दुःख-रूपत्वात् । विना त्वत्-सत्तया असत्-स्वरूपं, शश-विषाण-तुल्यं । तद् एवं-भूतम् अपि सद् इवानश्वरम् इवाभाति मुग्धानाम् इति शेषः । उपलक्षणं चैतद् व्यवहार-ज्ञान-मय-महद्-आद्य्-आत्मकत्वात् ज्ञानोद्बोधकम् इव स्वर्गाद्य्-आत्मकत्वात् सुखम् इव च ।
परमात्मसन्दर्भः (Paramatma-sandarbha)
अथैक-जीव-वादे तु तन्-मत-गुरूणाम्—“त्वम् एव स एको जीवः । परे तु जीवेश्वर-रूपा विकल्पास् तत्-कल्पिताः स्थाणु-पुरुष-कल्पाः” इति । सर्वं प्रत्य् एवं वदतां वञ्चन-कारित्वम् एव लक्ष्यते । स्वस्य चेतनाभिमान-सत्तोपलब्धेर् अन्योऽपि तथा-विधो भवेद् इति सम्भव-प्रमाण-सिद्धश् च जीवान्तरम् । तथान्यत्रापि प्राणिनि स्ववत् तत्-तद्-धर्मोपलब्धेर् अनुमान-सिद्धं च । बाण-कन्यादाव् अनिरुद्धादिवत् स्व-प्रदृष्टानाम् अपि काल्पनिकत्व-व्यभिचारात् तद्-दृष्टानां सर्वेषाम् एवाकाल्पिकत्वेन स्थापयिष्यमाणत्वात्, वैधर्म्याच् च न स्वप्नादिवत् [वे.सू. २.२.२९] इति न्यायाच् च दृष्टान्त-वैकल्यं च, तथा सहस्रधा पृथक् पृथक् सुख-दुःखाभिमानि-जीवानन्त्य-प्रतिपादक-श्रुति-पुराणागम-स्मृति-प्रभृति-शास्त्र-सहस्र-कदर्थना च ।
युक्ता च परमात्मन एव स्वप्न-सृष्टिः । जाग्रत्-स्वप्नादि-भेदस्याखिलस्यैव प्रपञ्चस्य जन्मादि-कर्तृत्वेनौत्सर्गिक-सिद्धेः । येषां वा मते स्व-सङ्कल्प-मात्र-मूर्तयः स्वप्न-पदार्थास् तन्-मताभ्युपगम-वादेनापि सूत्र-कृता—वैधर्म्याच् च न स्वप्नादिवत् [वे.सू. २.२.२९] इत्य् अनेन जाग्रत्-पदार्था न तद्-दृष्टान्त-साध्यान्यथा-भावा इति व्याख्यातम् । एवं, नैकस्मिन्न् असम्भवात् [वे.सू. २.२.३३] इत्य् अनेन जगतोऽपि युगपत् सत्त्वासत्त्वाभ्याम् अनिर्वचनीयत्वं च निषिद्धम् ।
तच् च भगवद्-अचिन्त्यैश्वर्य-ज्ञानार्थं मिथ्यात्वाभिधानं तु नश्वरत्वाभिधानवत् विश्वस्य परमात्म-बहिर्मुखत्वापादकत्वाद् धेयता-ज्ञान-मात्रार्थं, न तु वस्त्व् एव तन् न भवतीति जीवेश-स्वरूपैक्य-ज्ञान-मात्रार्थं, वैधर्म्याच् च न स्वप्नादिवत् [वे.सू. २.२.२९] इति न्यायेन । तथा च नारदीये—