Sūtra २.३.१९
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ४५ (उत्क्रान्ति-गत्य्-अधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
अनुच्छेदः ३३[वे.सू. २.३.१९]
अणुः इति । अतः स्वयं निरवयव एव जीव इति । तच् चाणुत्वम् उत्क्रान्ति-गत्य्-आगतीनां [वे.सू. २.३.१९] श्रवणात् तावत् प्रतीयते । स यदास्माच् छरीराद् उत्क्रामति, सहैव तैः सर्वैर् उत्क्रामति [तै.उ. ३.४] इति, ये वैके चास्माल् लोकात् प्रयन्ति, चन्द्रमसम् एव ते सर्वे गच्छन्ति [कौषी.उ. १.२] इति, तस्माल् लोकात् पुनर् ऐत्य् अस्मै लोकाय कर्मणे [बृ.आ.उ. ४.४.६] इति च श्रुतेः ।