Sūtra २.३.१७
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ४४ (ज्ञाधिकरणम्)
Read the adhikaraṇa →Citations (2)
परमात्मसन्दर्भः (Paramatma-sandarbha)
तस्माद् अणुर् एव जीवः । तथा ज्ञातृत्वेत्य् अतः पूर्व-युक्त्या ज्ञातृत्वादयस् तस्यैव धर्मा इत्य् अर्थः । तत्र नित्यत्वं चात्मनो नात्मा श्रुतेः [वे.सू. २.३.१७] इति व्यपदेशेन ज्ञानाश्रयत्वं च स्वाभाविकम् एवेति । श्रुतयश् च—विज्ञातारम् अरे केन विजानीयात् [बृ.आ.उ. २.४.१४], न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते [बृ.आ.उ. ४.३.३०], जानात्य् एवायं पुरुषः [रामानुज, वे.सू. १.१.१, अनु ६६], न पश्यो मृत्युं पश्यति, न रोगं नोत दुःखतां [छा.उ. ७.२६.२], स उत्तमः पुरुषः, नोपजनं स्मरतीदं शरीरं [छा.उ. ८.१२.३], एवम् एवास्य परिद्रष्टुर् इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास् तं गच्छन्ति [प्र.उ. ६.५] इत्य् आद्याः ।
ननु भिन्नत्वे सति, यावद् विकारं तु विभागो लोकवत् [वे.सू. २.३.७] इति न्यायेन विकारत्व-प्राप्तिः स्याद् आत्मनः ? न, वैधर्म्यान्तरात् । तच् च वैधर्म्यं प्रमाणानपेक्ष-सिद्धत्वम् । आत्मा हि प्रमाणादि-विकार-व्यवहाराश्रयत्वात् प्राग् एव तद्-व्यवहारात् सिध्यति । अतो विभाग-युक्ति-लब्ध-न्यायस्य नात्रावतारः । नित्यत्व-श्रुतिश् चास्माकम् अत्रास्ति । यथा वैकुण्ठादि-वस्तूनाम् अपि सैव नित्यत्वं शास्तीति । नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः [वे.सू. २.३.१७] इति न्यायान्तरं च तं न्यायम् अपसारयति ।