Sūtra २.३.२९

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ४६ (पृथग्-उपदेशाधिकरणम्)

Read the adhikaraṇa →

Citations (2)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३३[वे.सू. २.३.२९-शङ्कर-धृतः]

ननु चेतना-गुण-व्याप्ति-सिद्धान्ते गुणस्य गुणि-देशत्वाद् गुणिनम् अनाश्रितस्य गुणत्वम् एव हीयते । नागुणस्य तद्-अतिरिक्त-व्यापिताया दुकूलादौ दर्शितत्वात् । अतिरिच्य स्थितस्यापि गुणस्य तम् आश्रित्यैवावस्थिति-प्रतिपत्तेः । अत एव गन्धस्यापि न स्वाश्रयत्व-व्यभिचारः । तत एव तत्-प्रवाहात् । अत एवोक्तं श्री-कृष्ण-द्वैपायनेन [वे.सू. २.३.२९-शङ्कर-धृतः]—

अनुच्छेदः ३३[वे.सू. २.३.२९]

तद् एवं तद्-गुण-सारत्वात् तु तद्-व्यपदेशः प्राज्ञवत् [वे.सू. २.३.२९] इत्य् अपि व्याख्यातम् । अपरम् इदम् एव व्याचष्टे—स-चेतना-लक्षणो यो गुणो महौषध्य्-आदिवद् अचिन्त्य-प्रभावः, स एव सारो व्यभिचार-रहितो यत्र, तथाभूतत्वात् सर्व-शरीर-व्यापितादि-निर्देशः सम्भवति । यथैव प्राज्ञस्य श्रुताव् अचिन्त्य-शक्तित्वं दृश्यते, तथैवास्यानुरूपस्याद् इत्य् अस्मिन् व्याख्याने महच्-छब्दस्योत्कृष्टता-मात्रं वाच्यं स्वयं ऊह्यम् । हरि-चन्दन-दृष्टान्तेन तादृग् अर्थो न सूत्रे तस्मिन्न् अभिव्यक्त इति पुनः सूत्रं चेदम् इत्य् अपि ज्ञेयम् ।