Sūtra २.३.३१

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ४८ (कर्त्र्-अधिकरणम्)

Read the adhikaraṇa →

Citations (3)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३३[वे.सू. २.३.३१]

किं च, तेषां जीव-गुणानां वह्नेर् औष्ण्यादिवद् अनाद्य्-अनन्त-कालावस्थाप्यात्म-समान-कालम् एव व्याप्य भवन-शीलत्वान् न कदाचिद् व्यभिचाराशङ्का । तथा च दर्शयति श्रुतिः—न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते [बृ.आ.उ. ४.३.३०] इत्य् आद्या । मोक्षे तु तेषाम् अभिव्यक्तिर् जायते, यौवने पुं-स्त्री-भाव-विशेषवत् । तद् उक्तं पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्ति-योगात् [वे.सू. २.३.३१] इत्य् अत्र शङ्कर-शारीरकेऽपि—तत् पुनर् ईश्वर-समान-धर्मत्वं तिरोहितं सत् परमेश्वरम् अभिध्यायतस् तिमिर-तिरस्कृतेव दृक्-शक्तिः औषध-वीर्याद् ईश्वर-प्रसादात् आविर्भवति । श्रुतिश् च—

अनुच्छेदः ३३[वे.सू. २.३.३१]

तस्माच् चैतन्य-रूपस्य जीवस्यैव कर्तृत्वं धर्मः । एतद् एव—कर्ता शास्त्रार्थवत्त्वात् [वे.सू. २.३.३१] इत्य् आरभ्य समाध्य्-अभावात् [वे.सू. २.३.३७] इत्य् एतत्-पर्यन्तं सूत्र-कारेणैव योजितम् । श्रुतिश् च—विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च [तै.उ. २.५.१] इति । न चेदं बुद्ध्य्-अर्थम्—एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः [प्र.उ. ४.९] इति श्रुत्य्-अन्तरम् । यो विज्ञाने तिष्ठन् [बृ.आ.उ. ३.७.२२] इत्य् अन्तर्यामि-श्रुतौ तस्य विज्ञानतयातिप्रसिद्धेश् च । अत एव—तद् एषां प्राणानां विज्ञानेन विज्ञानम् आदाय [बृ.आ.उ. २.१.१७] इत्य् अत्र, प्राणान् गृहीत्वा [बृ.आ.उ. २.१.१८] इत्य् अत्र च प्राण-ग्रहण-विज्ञानाद् आनयोः कर्तृत्वं तस्य लौहाकर्षक-मणिवत् केवलस्यैव गम्यते । अन्य-ग्रहणादौ प्राणादि-करणम्, प्राणादि-ग्रहणादौ तु नान्यद् अस्तीति ।

अनुच्छेदः ३४[वे.सू. २.३.३१]

तद् एतच् छुद्धस्यैव कर्तृत्वं धर्मत्वं योजयितुं पुनः, यथा च तक्षोभयथा [वे.सू. २.३.३८] इति सूत्रयित्वा स च जीवः करण-योगेन स्व-शक्त्या च कर्ता भवतीत्य् अङ्गीकृतम् । तक्षा यथा तक्षणे वास्यादि-करणेन वास्यादि-धारणे तु स्व-शक्तैव कर्ता स्याद् इत्य् उभयथैव कर्ता भवति, तद्वद् इति सूत्रार्थः । कर्ता शास्त्रार्थवत्त्वात् [वे.सू. २.३.३१] इत्य् अतः कर्तेत्य् अनुवर्तमानत्वात् । तत्र जडात्मक-शरीरेन्द्रियाद्य्-आवेशेन तैर् एव करणैर् यत् कर्तृत्वं, तच्-छुद्धाव् एव पुरुषात् प्रवर्तमानम् अपि प्रकृति-वृत्ति-प्राचूर्यात् तत्-तत्-प्रधानत्वेन तत्-करणकत्वम् एवेत्य् उच्यते इत्य् आह—यत् त्व् इति । यत् तु प्राण-ग्रहणादि-पूर्वोत्क्रान्त्यादि, तत्र स्व-कारणतैव स्फुटा । यथोदाहृतम्—प्राणो हि जीवम् उपधावति तत्र तत्र [भा.पु. ११.३.३९] इति, एतत् साम गायन्न् आस्ते [तै.उ. ३.१०.५] इति । जक्षन् क्रीडन् रममाण [छा.उ. ८.१२.३] इत्य् आदौ मुक्तानाम् अपि विहार-लक्षण-कर्तृत्व-श्रवणात् । न च कर्तृत्व-मात्रस्य दुःखावहत्वम् एवेति वाच्यम् । किन्तु प्रकृति-सम्बन्धिन एव कर्तृत्वस्य ।