Sūtra २.३.४५
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ५० (मत्स्याद्य्-अधिकरणम्)
Read the adhikaraṇa →Citations (1)
कृष्णसन्दर्भः (Krishna-sandarbha)
अनुच्छेदः २८[वे.सू. २.३.४५]
इत्य्-आदौ वासुदेवस्य सङ्कर्षणाद् अपि परत्वं श्रूयते । यत् तु तेषां तथा व्याख्यानम् अत्र कृष्णस् त्व् इत्य् अनर्थकं स्यात् । भगवान् स्वयम् इत्य् अनेनैवाभिप्रेत-सिद्धेः । किं च, तैः स्वयम् एव प्रकाशादिवन् नैवं परः [वे.सू. २.३.४५] इति सूत्रे स्फुटम् अंशांशि-भेदो दर्शितः—अंशत्वेऽपि न मत्स्यादि-रूपी पर एवं-विधो जीव-सदृशः । यथा तेजोऽंशस्यैव सूर्यस्य खद्योतस्य च नैक-प्रकारता इत्य् आदिना । तस्मात् स्थिते भेदे साध्व् एव व्याख्यातं कृष्णस् तु भगवान् स्वयम् इति ।