Sūtra २.४.१७
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ६२ (इन्द्रियाधिकरणम्)
Read the adhikaraṇa →Citations (2)
भागवतसन्दर्भः (Bhagavat-sandarbha)
किन्तु कृष्णादीनां चतुर्णां नाम्नां उपलक्सणत्वम् एव ज्ञेयम् । नारायणादि-नाम्नाम् अपि साङ्केत्यादौ तथा प्रभाव-श्रवणात् । वर्णा एव तु शब्दा इति भगवान् उपवर्षः [जै.सू. १.५.५ शवर-भाष्ये] इत्य् अनेन, तस्य च नित्यत्वाद् [वे.सू. २.४.१७] इत्य् अनेन च न्यायेन वर्णतयैव नित्यत्वम् अस्य वेद-सार-वर्णात्मक-नाम्नः सिध्यति । तथैव गोपाल-तापनी-श्रुतौ नाम-मयाष्टदशाक्षर-प्रसङ्गे ब्रह्म-वाक्यम्—तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयन्न् [गो.ता.उ. १.२६] इति ।
कृष्णसन्दर्भः (Krishna-sandarbha)
अत्र "तुष्यतु दुर्जनः" इति न्यायेन श्री-व्रज-वासिनां प्राकृत-देहित्व-मतेऽपि तेषां करणैर् देवता-कर्तृक-भोगो न युज्येत, तस्य च न् इत्यत्वात् [वे.सू. २.४.१७] इत्य् अत्र श्री-शङ्कराचार्येण च करण-पक्षस्यैव हि देवता न भोक्तृ-पक्षस्य इत्य् आत्मन एव भोक्तृत्व-निर्धारणात् ॥१३९॥