Sūtra २.४.२०
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ६३ (संज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्)
Read the adhikaraṇa →Citations (2)
परमात्मसन्दर्भः (Paramatma-sandarbha)
तस्मात् स्वतन्त्र ईश्वर एव सर्व-स्रष्टा, न तु जीवः स्वाज्ञानेन स्व-शक्त्यैवेत्य् आयातम् । तद् उक्तं श्री-बादरायणेनापि बहुत्र, संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे.सू. २.४.२०] इत्य्-आदिषु ।
अथ मुख्ये सत्यत्वे युक्तिं दर्शयति—यत्र इति । ब्रह्मत्वात् सर्वत्र स्थिते वासुदेवे भगवति यस्मिन् स्थितस् त्रयाणां गुणानां भूतेन्द्रिय-देवतात्मको यस्यैवेशितुः सर्गोऽप्य् अयम् अमृषा शुक्त्य्-आदौ रजतादिकम् इवारोपितो न भवति, किन्तु यतो वा इमानि जायन्ते [तै.उ. ३.१.१] इति श्रुति-प्रसिद्धे ब्रह्मणि यत्र सर्वदा स्थितत्वात् संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे.सू. २.४.२०] इति यद् एक-कर्तृकत्वाच् च सत्य एव ।