Sūtra ३.२.११
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् १५ (उभय-लिङ्गाधिकरणम्)
Read the adhikaraṇa →Citations (3)
भागवतसन्दर्भः (Bhagavat-sandarbha)
तद्-वादे दोष एव प्रत्यावर्तत इति किं बहुना, न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र हि [वे.सू. ३.२.११] इत्य् अधिकरणे सर्वेषाम् एव वाक्यानां स-विशेष-परत्वम् एव दर्शितम् अस्ति । तथा हि तद्-अर्थः—सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः [छा.उ. ३.१४.३] इत्य्-एवम्-आदिकं परस्य ब्रह्मणः स-विशेषत्व-चिह्नम् । अस्थूलम् अनण्व्-अह्रसम् अदीर्घं [बृ.आ.उ. ३.८.८] इत्य्-एवम्-आदिकं निर्विशेषत्व-चिह्नम् । तद् एतद् उभयं चिह्नं परमस्य न सम्भवति, विरोधात् ।
तथैव वाक्य-शेषः— स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् आत्म-रतिर् आत्म-क्रीड आत्म-मिथुन आत्मानन्दः, स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति । अथ येऽन्यथातो विदुर् अन्य-राजानस् ते क्षय्य-लोका भवन्ति तेषां सर्वेषु लोकेष्व् अकाम-चारो भवति [छा.उ. ७.२५.२] इति । तस्माद् अत्रापि स-विशेषम् एव प्रतिपाद्यते । एवम् अन्यत्राप्य् उन्नेयम् । तस्मात् साध्व् एव व्याख्यम्—न स्थानतोऽपि [वे.सू. ३.२.११] इति । न च स-विशेषं ब्रह्म निर्विशेष-ब्रह्मणो भिन्नम् इति वक्तव्यं प्रतिशाखम् एकम् एव ब्रह्म सर्वत्र गीयत इति ।
जात-कौतुको मुनिर् मुहुर् दृष्ट्वा विस्मितोऽभूत् । काय-व्यूहस् तावत् तादृशेष्व् अपि बहुष्व् एव सम्भवति, तं विनापि मध्यमाकारेऽपि तस्मिन् सर्व-व्यापकत्व अपूर्वम् इति तस्यापि विस्मयं हेतुर् नान्यथेति स्पष्टम् एव यथोक्तं ज्ञेयम् । अनेन सर्वतः पाणि-पादं तत् [गीता १३.१४] इति तादृश्यां श्री-मूर्त्याम् एव व्याख्यातं भवति । अत एव, न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र हि [वे.सू. ३.२.११] इति सूत्रं तत्त्व-वादिभिर् एवं योजितम्—