Sūtra ३.२.५

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् १० (स्वप्नाधिकरणम्)

Read the adhikaraṇa →

Citations (4)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः २२[वे.सू. ३.२.५]

आत्मन इति चेत्, कोऽयम् आत्मा ? ननु संविद् एवेत्य् उक्तम् इति चेत्, संवित्-सिद्ध्योर् भेदावगमात् सा संवित् तदीया शक्तिर् एवेत्य् अवसीयते, न तु स्वरूपम् इति । तद् एवम् आयाता ज्ञान-मात्र-स्वरूपेऽपि स्वभाव-सिद्धा ज्ञातृत्व-नित्यत्वादि-धर्मवत्ता । पराभिध्यानात् [वे.सू. ३.२.५] इत्य् एतत् सूत्रं शङ्कर-मतेऽपि तस्य शक्तिमत्त्वं साधयति । तत् पुनर् ईश्वर-समान-धर्मत्वादिकम् अग्रे लेख्यम् ।

अनुच्छेदः २६[वे.सू. ३.२.५]

महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या ज्ञानादि-रूपया वञ्चितः त्याजितः सन् नेच्छन् तद्-इच्छयैवेत्य् अर्थः । अनुकरोति तद्-धर्मात्मन्य् अध्यस्यति । अत्र जीवस्य शक्तिमत्तायां, पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ [वे.सू. ३.२.५] इत्य् एतत् सूत्रम् अप्य् अनुसन्धेयम् ॥

अनुच्छेदः ३७[वे.सू. ३.२.५]

एवं विशेषण-भेद-व्यपदेशाभ्यां च नेतरौ [वे.सू. १.२.२२] इत्य् आदिषु, जगद्-वाचित्वात् [वे.सू. १.४.१७] इत्य् आदिषु, पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ [वे.सू. ३.२.५] इत्य् आदिषु च ज्ञेयम् । शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे.सू. १.४.१७] इत्य् अत्र त्व् एवं व्याख्येयम् । प्राणो वा ह्य् अहम् अस्मि पुरुषः इत्य् आदिकं यत् स्वस्य परमेश्वरत्वम् इवोपदिष्टम् इन्द्रेण, तत् तु, तत् त्वम् असि [छा.उ. ६.८.७] इत्य्-आद्य्-अभेद-प्रतिपादक-शास्त्र-दृष्ट्या सम्भवति, चिद्-आकार-साम्येनैक्यात्, क्वचिद् अधिष्ठानाधिष्ठात्रोर् एक-शब्द-प्रत्ययाभ्यां वा शरीर-शरीरिणोर् वा, यथैव वामदेव उवाच—अहं मनुर् अभवं सूर्यश् च [बृ.आ.उ. १.४.१०] इत्य् आदि ।

अनुच्छेदः ५८[वे.सू. ३.२.५]

तद् एवं जाग्रत्-सृष्टिर् यथेश्वर-कृतत्वेन न जीवाज्ञान-मात्र-कल्पिता, तद्वत् स्वप्न-सृष्टीर् अपि भवेद् इतीश्वर-वादिनाम् अनुमानम् । सन्ध्ये सृष्टिर् आह हि [वे.सू. ३.२.१], निर्मातारं चैके पुत्रादयश् च [वे.सू. ३.२.२] इति न्यायाभ्यां जागरवत् पारमेश्वर-सृष्टित्वात् । तत्र देश-काल-निमित्तादीनां क्वचिद् असम्भवेऽपि, माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [वे.सू. ३.२.३] इति न्यायेन दुर्घट-घटनाकर-माया-नाम-परमात्म-शक्ति-विलासत्वात् । सूचकश् च हि श्रुतेर् आचक्षते च तद्-विदः [वे.सू. ३.२.४] इति न्यायेन भावि-सत्यार्थ-सूचकत्वे क्वचिद् ओषधि-मन्त्रादि-प्राप्ति-दर्शनेन सूचक-सत्यत्वे च सिद्धे सत्यता-प्रत्ययनात् । पुरुषं कृष्ण-दन्तं पश्यति, स चैनं हन्ति इति साक्षात् स्व-प्रदृष्ट-कर्तृक-हनन-श्रवणाच् च । पराभिध्यानात् तु तिरोहितं, ततो ह्य् अस्य बन्ध-विपर्ययौ [वे.सू. ३.२.५] इति न्यायेन तत्र जीवस्यासामर्थ्यात्, अत एव कर्तृक-श्रुतेर् भाक्तत्वात् स्वप्न-सृष्टिर् अपि जागरवत् पारमेश्वरी सत्या चेति च तेषां श्रौत-मतम् ।